OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 9, 2019

चन्द्रयानं ३ - २०२०नवंबर् मासे विक्षिप्यते।  

   बंगलूरु> तृतीयस्य चन्द्रयानस्य विक्षेपणाय ऐ एस् आर् ओ सज्जायते। २०२० नवंबर्  मासे  विक्षेपणं भविष्यति इति ऐ एस् आर् ओ संस्थया आवेदितम्।  विक्षेपणप्रयोगाय ७५ कोटि रूप्यकाणि अधिकतया दातव्यम्  इति भारतसर्वकारः  ऐ एस्‌ आर् ओ संस्थया अभ्यर्थितः। आहत्य ६६६ कोटि रूप्यकाणां व्ययः भविष्यति।
      चन्द्रयानं २ उपयुज्य चन्द्रस्य  दक्षिणध्रुवे अवतीर्य परीक्षणानि कर्तुमेव ऐ एस् आर् ओ संस्थया उद्दिष्टम् आसीत्। किन्तु मुदुलावतरणवेलायाम् अवतारकेन सह विद्यमानः आशयविनिमय-सम्बन्धः क्षणात् पूर्वं विनष्टम् आसीत्I

Sunday, December 8, 2019

न्यायालयव्यवहारः सामान्यजनेभ्यः अप्राप्यः भवति - भारतराष्ट्रपतिः।
 जोधपुरः> न्यायालय-व्यवहराः  अधिकधनव्ययोपेतानि सामान्यजनेभ्यः अप्राप्यः च भवन्ति इति भारतस्य राष्ट्रपतिना रामनाथकोविन्देन अवोचत्। राजस्थानस्य उच्चन्यायालयस्य नूतनपत्तनस्य उद्घाटनं निरूह्य भाषमाणः आसीत् सः। ''नीतिन्यायसञ्चालनं इति अधिकव्ययोपेतं भवति। विविधकारेन उच्च-न्यायालये सर्वोच्च-न्यायालये च सामान्य-जनेभ्यः अप्राप्यः च भवतिI दरिद्राय याचिकया अत्र  समागन्तुं शक्नोति वा? एषः प्रश्नः प्रसक्तः प्रधानतमः च भवति। कारणं तु अस्माकं शासन-संविधानस्य आमुखे व्यक्तीकृतः नीतिः सर्वेषां तुल्या इति तत्त्वम् अस्माभिः अङ्गीकृतम्'' राष्ट्रपतिः अब्रवीत्। सामान्यजनेभ्यः निशुल्कं नियमसेवाप्रापणम् अनिवार्यमिति महात्मा गान्धिनः वाचमपि उदृत्य भाषमाणः आसीत्‌ सः॥
   
नीतिनिर्वहणं प्रतीकाररूपेण न - सर्वोच्चन्यायाधिपः। 
न्याय.  एस् ए बोब् डे 

जोधपुरम्> प्रतीकारकर्मरूपेण नीतिनिर्वहणं न शक्यते इति भारतस्य सर्वोच्चनीतिपीठस्य मुख्यन्यायाधिपः एस् ए बोब् डे अवोचत्।  जोधपुरे राजस्थानराज्यस्य उच्चन्यायालयस्य नूतनं भवनसमुच्चयम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। प्रतीकाराधिष्ठिता नीतिः स्वाभाविकधर्मगुणादिरहिता स्यादिति सः अभिप्रैतवान्। नीतिः इत्येतत् तत्क्षणलभ्या नास्तीति तेन सूचितम्। 

  तेलुङ्काने पशुचिकित्सकां युवतीं   बलात्कारानन्तरं अग्निसात्कृतवन्तः अपराधिनः आरक्षकैः सह प्रतिद्वन्द्वे निहताः इति वृत्तान्तं परामर्शयन् आसीत्तस्य मतप्रकाशनम्।

Saturday, December 7, 2019

आर्थिकाभिवृद्धिः केवलं ५% इति रिसर्वबाङ्केन अङ्गीकृतम्। 
मुम्बई >  अस्मिन् संवत्सरे भारतस्य आर्थिकाभिवृद्धिः प्रतिशतं पञ्चमात्रं स्यादिति  भारतीय रिसर्वबाङ्केन [आर् बि ऐ] अङ्गीकृतम्। पूर्वं ६.१% वृद्धिः इत्यासीत् रिसर्वबाङ्कस्य अनुमानम्! राष्ट्रेण अभिमुखीक्रियमाणम् आर्थिकमान्द्यमधिकृत्य अन्ताराष्ट्रिय वित्तसंस्थाभिः, मूल्यनिर्णयनियोक्तृभिश्च [Ratting agency] कृतानां मूल्यनिर्णयानां स्पष्टीकरणमभवत्।
राहुलगान्धिनः प्रभाषणस्य विवर्तनेन तारायते सफा। 
राहुलगान्धिनः प्रभाषणं विवर्तनं कुर्वन्ती सफा फेबिन्। 
मलप्पुरं > केवलैकेन निमेषेन 
  करुवारक्कुण्ट् सर्वकारीय उच्चतरविद्यालये सफा फेबिन्  नामिका 'प्लस् द्वे' विद्यार्थिनी तारपदं प्राप्तवती। स्वविद्यालये शास्त्रपरीक्षणशालायाः उद्घाटनाय आगतः कोण्ग्रस् दलनेता तथा वयनाट् मण्डलस्य सदस्यः राहुलगान्धी स्वकीयाङ्गलप्रभाषणं कैरल्यां विवर्तयितुं छात्रेषु यः को$पि सन्नद्धः वेति सदस्यान् छात्रान् अपृच्छत्। कालविलम्बं विनैव दृढतरपदविन्यासैः दृढमनसा च सफा वेदिकां प्राप्ता। राहुलगान्धिनः प्रभाषणाय तया दत्ता   ग्राम्यसुन्दरमलयालपरिभाषा सदस्यैः करघोषेण स्वीकृता। प्रभाषणान्ते सन्तुष्टः राहुलः मधुरं प्रदाय सफायै अभिनन्दनमपि कृतवान्।
भारते स्त्रीविरुद्धदोषिणान् दण्डयतुं १००० अतिवेग-न्यायालयाः संस्थाप्यन्ते।
   नवदिल्ली> स्त्रीविरुद्धतया जायमानेषु अतिक्रमेषु तथा गुरुतरदोषेषु च नियमप्रक्रमाः विलम्बते इति कारणेन, नूतन-प्रख्यापनाय उद्युक्तो भवति नरेन्द्रमोदीसर्वकारः। आराष्ट्रं सहस्रम् (१०००) अतिवेग-न्यायालयानां संस्थापनाय सज्जतां करोति। स्रीविरुद्धातिक्रमेषु त्वरितवेगेन निर्णयः तथा दण्डः च भविष्यतः।  राष्ट्रे स्त्रीविरुद्घ अतिक्रमेषु नियमप्रक्रमाः  विलम्बते इति  जनानाम् अभिमतानि परिगणय्य भवन्ति नूतननिश्चयः।

Friday, December 6, 2019

डोणाल्ड ट्रम्पं दोषारोपणविचिन्तन विधेयं कर्तुं यू एस् प्रतिनिधिसभायाः प्रवक्न्त्रा अनुज्ञा प्रदत्ता। 
   वाषिङ्टण्> अमेरिक्कस्य राष्ट्रपतिं डोणाल्ड् ट्रम्पं दोषारोपण-विचिन्तन-विधेयं कर्तुं प्रक्रमान् सज्जीकर्तुं   यू एस् प्रतिनिधिसभायाः नियमायोगाय  अनुज्ञा   प्रदत्ता अस्ति। वार्तामिमां प्रवक्ता नान्सि पेलोसिना  उक्तम्। वस्तुतयः निस्तर्काः भवन्ति। स्वस्य वैयक्तिक-लाभाय राजनैतिक-लाभाय वा तेन अधिकारः दुर्विनियोगः कृतः इति नान्सि पेलोसि पत्रकारान् प्रति अवदत्। विंशत्युत्तर द्विसहस्र तमे (२०२०) सम्भव्यमाने राष्ट्रपतिनिर्वाचने ट्रम्पस्य प्रतियोगी भविष्यति पूर्वोपराष्ट्रपतिः  जोबैडः । अतः  तं तस्य पुत्रं च विरुद्ध्य प्रक्रमान् स्वीकर्तुंम् उक्रेन् सर्वकारस्योपरि ट्रम्पः सम्मर्दः अकरोत्। अनेन कारणोन भवति एनं विरुद्ध्य प्रक्रमः स्वीक्रियते इति नान्सि पेलोसिना  उक्तम्।

पेल् हार्बर् सैनिककेन्द्रे गोलिकाप्रहरः। भारतव्योमसेनाधिपः च अन्तर्बन्धितः।
    हवायि> अमेरिक्कस्य विश्व प्रसिद्धं पेल् हार्बर् सैनिककेन्द्रं प्रति गोलिकाप्रहरः अभवत्। द्वौ हतौ, बहवः व्रणिताः इति प्रादेशिक-वार्तामाध्यमैः आवेद्यते।  केषाञ्चन जनानां स्थितिः गुरुतरा वर्तते। प्रादेशिक समयः मध्याह्ने २: ३० वादने आसीत् घटना। गोलिकाप्रहरानन्तरम् अक्रमी स्वयं गोलिकाप्रहरं स्वीकृत्य मृतवान्I घटनानन्तरं सुरक्षिदलाः प्रदेशं परिवृताः। भारतस्य व्योमसेनाध्यक्षः आर् के एस् बह दुरियः अन्ये सेनाङ्गाः च तत्र आसन्। ते सुरक्षिताः इति च व्योमसेनाधिकारिणः न्यवेदयन्I अमेरिक्कस्य नाविक-व्योम संयुक्त निलयः भवति पोल् हार्बर् हिक्कम्I
भारतवेस्ट्इन्टीस्दलयोः प्रथम टि२० क्रिकेट् स्पर्धा अद्य।
   क्रिकेट्/ हैदराबाद् > वेस्ट्इन्टीस्दलस्य भारतपर्यटने प्रथम टि२० क्रिकेट् स्पर्धा अद्य हैदराबाद् मध्ये प्रचलिष्यति। सायं सप्तवादने भवति स्पर्धा। परम्परायां तिस्रः स्पर्धाः वर्तन्ते। २०२० तमस्य वर्षस्य टि२० विश्वचषकसपर्यां प्रति सज्जीकरणतया द्वे अपि दले अस्याः परम्परायाः कृते प्राधान्यं दीयेते। कीरोण् पोल्लार्डस्य नेतृत्वे आगतस्य वेस्ट्इन्टीस्दलस्य उपरि भारतदलस्य औन्नत्‍यं वर्तते।

Thursday, December 5, 2019

पि.चिदम्बरः विमोचितः। 
नवदिल्ली > ऐ एन् एक्स् मीडिया व्यवहारे गृहीतः भूतपूर्वः वित्तमन्त्री तथा कोण्ग्रस् दलनेता पि. चिदम्बरं कारागृहात् उपाधिभिः मोचितः। सर्वोच्चन्यायालयेन चिदम्बरेण समर्पिता प्रातिभाव्ययाचिका न्या. आर् भानुमत्याः आध्यक्षे विद्यमानेन नीतिपीठेन अङगाी्कृता।
भारतं मलेरियरोगमुक्तम् - लोकारोग्यसंस्था।

    नवदहली > भारते मलेरियरोगेण मृत्युं प्राप्तवतां संख्या प्रतिवर्षं न्यूनतां प्राप्नोति इति लोकारोग्यसंस्थायाः अवलोकनम्। २०१८ तमे वर्षे मलेरियरोगेण मृतवतां संख्या दशसहस्रात् न्यूनं भवति। एतत्तु प्रगतवर्षापेक्षया ४१% न्यूनं भवति इति लोकारोग्यसंस्थायाः अवलोकनं सूचयति। केन्द्रसर्वकारस्य रोगप्रतिरोधप्रर्वतनानि मलेरियबाधां प्रतिरोद्धुं सहायकानि अभवन् इति अवलोकनं सूचयति। राष्ट्रे मलेरियबाधितेभ्यः चिकित्सादिकं निशुल्कं भवति। अपि च प्राथमिकारोग्यकेन्द्रेभ्यः रोगप्रतिरोधविषये बोधप्रवर्तनान्यपि आयोजयन्त्यः भवन्ति।
ऐ सि सि टेस्ट् क्रीडकपट्टिका - भारतीयेभ्यः औन्नत्यम्।
    दुबाय् > दुबाय् मध्ये प्रवृत्ते योगे प्रकाशितायां पट्टिकायां भारतक्रीडकाः प्रथमदशस्सु स्थानं समपादयन्। कन्‍दुकताडकानां पट्टिकायां भारतस्य विराट् कोह्ली प्रथमः वर्तते। स्टीव् स्मित्, केन् विल्यंसः, चेतेश्वर् पूजारः च यथाक्रमं द्वितीय-तृतीय-चतुर्थस्थानेषु वर्तन्ते। कन्दुकक्षेपकाणां पट्टिकायां ओस्ट्रेलियस्य पाट् कम्मिन्स् प्रथमः भवति। कगीसो रबाड, जेसण् होल्डर्, नील् वाग्नर् च यथाक्रमं द्वितीय-तृतीय-चतुर्थस्थानेषु वर्तते। भारतस्य जस्प्रीत् बुम्रः, मुहम्मद् षमिः,आर्.अश्विन् च यथाक्रमं पञ्चमनवमदशमस्थानेषु भवन्ति।

Wednesday, December 4, 2019

काश्मीरे तुषारपर्वतभग्नेन चत्वारः सैनिकाः मृताः।
श्रीनगर् > काश्मीरे सीमनि नियन्त्रणरेखायाः समीपं ताङ्दार्, गुरेस् इत्यनयोः प्रदेशयो: तुषारपर्वतपतनेन चत्वारः सैनिकाः मृताः। अनेके अदृष्टाः च अभवन्। रक्षाप्रवर्तनानि अधुनापि अनुवर्तन्ते।
धूम्रपः न चेत् इयम् उद्योग संस्था  वेतनसहितानां षट्  दिनानां विरामाः अधिकतया दास्यति। 
      टोकियो> धूम्रपानशीलरहितानाम् उद्योगिनां कृते जपानस्य  पियाल इति उद्योगसंस्थया सवेदनं षट्दिनानाम् अधिकानि विरामदिनानि दास्यन्ते| टोकियो केन्द्रीकृत्य प्रवर्तमाना संस्था भवति 'पियाल इन् कोर्परेट्'I कर्मचारिणः इदानीं सन्तुष्टाःI  बहुलाट्टगृहस्य २९ तमे अट्टे भवति उद्योगसंस्था। धूम्रपानप्रियाः उद्योगिनः तदर्थ भूतले विद्यमानं धूम्रप्रकोष्टं गत्वा प्रत्यागमनाय पञ्चदशनिमेषाः आवश्यकाः। अनेन प्रवृत्तिसमयः नष्टः भविष्यति इति ज्ञात्वा एव एषः मार्गः स्वीकृतः इति। संस्थाधिपः टकावो असूकः अवदत्I इदानीं सामान्येन जापानस्य उद्योगसंस्थाः  कर्मकरान् धूम्रपानात् प्रत्यानेतुं यत्नं कुर्वन्तः सन्ति।
एकराष्ट्रम् एकं भक्ष्यधान्यवितरणपत्रम् - परियोजना जूण् मासात् आरभ्यते।
    नवदहली>  केन्द्रसर्वकारस्य,एकराष्ट्रम् एकं भक्ष्यधान्यवितरणपत्रम् इति सुप्रधानपरियोजना अग्रिमजूण्मासात् आरभ्यते इति भक्ष्यमन्त्री राम्विलास् पास्वान् अवदत्। अनया परियोजनया राष्ट्रे यस्मिन् कस्मिन्नपि प्रदेशे वा भवतु सर्वकारस्य भक्ष्यधान्यवितरणकेन्द्रेभ्यः भक्ष्यपदार्थान् क्रेतुं शक्यते। आधार् पत्रिकां भक्ष्यधान्यवितरणसहायकेन इ-पोस् यन्त्रेण सह सम्बन्ध्य परियोजनायाः अस्याः प्रवर्तनमारभ्यते इति मन्त्रिणा सूचितम्। तदर्थं राष्ट्रे सर्वेष्वपि भक्ष्यधान्यवितरणकेन्द्रेषु इ-पोस् द्वारा भक्ष्यधान्यवितरणं दृढीकरिष्यति इत्यपि मन्त्री असूचयत्।

सविशेषसुरक्षासंघस्य सेवनं प्रधानमन्त्रिणे एव। 
     नवदहली > शक्ते प्रतिषेधे सत्यपि सविशेषसुरक्षासंघसम्बन्धं नियमपत्रं राज्यसभया अपि अङ्गीकृतम्। पूर्वं नियमपत्रस्योपरि केन्द्रसर्वकारेण लोकसभायाः अङ्गीकारः प्राप्तः आसीत्। १९८८ तमवर्षस्य सविशेषसुरक्षासंघनियमस्य परिवर्तनमेव सर्वकारेण कृतं वर्तते। नूतननियमानुसारं सविशेषसुरक्षासंघस्य सेवनं प्रधानमन्त्रिणे एव लभ्यते।

Tuesday, December 3, 2019

शिवाङ्गी भारतीयनौसेनायाः प्रथमा विमानचालका। 

 कोच्ची > बीहारस्वदेशीया शिवाङ्गी नामिका चतुर्विंशतिवयस्का भारतीयनाविकसेनायाः प्रथमा वनिताचालकरूपेण [सब् लफ्टनन्ट्] कोच्ची नाविककार्यालये दायित्वं स्वीकृतवती। 
  जय्पुरस्थे 'माल्विया  नेषणल् इन्स्ट्ट्यूट् आफ् टेक्नोलजी' संस्थायां एम् टेक् छात्रत्वे २०१८ तमे वर्षे आसीत् शीवाङ्ग्याः नाविकसेनाप्रवेशः। विमानचालने औत्सुक्यमासीत् हेतुः। विद्यालयाधिकारिरूपेण [Principal] कार्यं कुर्वतः हरिभूषणसिंहस्य प्रियङ्कायाः पुत्री भवति शिवाङ्गी। 
विक्रं लान्टर् इत्यस्य अवशिष्टाः दृष्टाः इति 'नास'

   वाषिङ्टण्> चन्द्रानुसन्धानाय निर्मितस्य चन्द्रयानं २ इत्यस्य मृदुलावतरणाय निर्दिष्टः विक्रं लान्टर् इति भागः नासया दृष्ट:। मृदुलावारणकाले आशयविनिमय-विनाशनेन विनष्टस्य विक्रममृदुलावतार्यस्य स्थितिमधिकृत्य इतःपर्यन्तम् अज्ञातम् असीत्I सेप्तम्बर् ७ दिनाङ्‌के अवतरणवेलायाम् आसीत् आशयविनिमयाेपाधेः नाशः जातः। अवतारकस्य भग्नावशिष्टान् तथा अवतारकस्य पतनेन चन्द्रोपरितले जातस्य मृत्व्यत्ययः च विशेषाध्ययनं कृत्वा आसीत्  नास संस्थया चित्रं बहिः प्रकाशितम्। नास संस्थायाः एल्. आर्. ओर्बिट्टर छायाग्राह्या चित्रं गृहीतम्। विक्रमस्य पतनात्‌ पूर्वं ततः च जायमानस्य प्रतलस्य व्यत्ययान् अध्ययनं कृत्वा वैज्ञानिकेन षण्मुख-षण्मुखेन स्वाभिमतं प्रकाशितम्।