OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 6, 2019

पेल् हार्बर् सैनिककेन्द्रे गोलिकाप्रहरः। भारतव्योमसेनाधिपः च अन्तर्बन्धितः।
    हवायि> अमेरिक्कस्य विश्व प्रसिद्धं पेल् हार्बर् सैनिककेन्द्रं प्रति गोलिकाप्रहरः अभवत्। द्वौ हतौ, बहवः व्रणिताः इति प्रादेशिक-वार्तामाध्यमैः आवेद्यते।  केषाञ्चन जनानां स्थितिः गुरुतरा वर्तते। प्रादेशिक समयः मध्याह्ने २: ३० वादने आसीत् घटना। गोलिकाप्रहरानन्तरम् अक्रमी स्वयं गोलिकाप्रहरं स्वीकृत्य मृतवान्I घटनानन्तरं सुरक्षिदलाः प्रदेशं परिवृताः। भारतस्य व्योमसेनाध्यक्षः आर् के एस् बह दुरियः अन्ये सेनाङ्गाः च तत्र आसन्। ते सुरक्षिताः इति च व्योमसेनाधिकारिणः न्यवेदयन्I अमेरिक्कस्य नाविक-व्योम संयुक्त निलयः भवति पोल् हार्बर् हिक्कम्I
भारतवेस्ट्इन्टीस्दलयोः प्रथम टि२० क्रिकेट् स्पर्धा अद्य।
   क्रिकेट्/ हैदराबाद् > वेस्ट्इन्टीस्दलस्य भारतपर्यटने प्रथम टि२० क्रिकेट् स्पर्धा अद्य हैदराबाद् मध्ये प्रचलिष्यति। सायं सप्तवादने भवति स्पर्धा। परम्परायां तिस्रः स्पर्धाः वर्तन्ते। २०२० तमस्य वर्षस्य टि२० विश्वचषकसपर्यां प्रति सज्जीकरणतया द्वे अपि दले अस्याः परम्परायाः कृते प्राधान्यं दीयेते। कीरोण् पोल्लार्डस्य नेतृत्वे आगतस्य वेस्ट्इन्टीस्दलस्य उपरि भारतदलस्य औन्नत्‍यं वर्तते।

Thursday, December 5, 2019

पि.चिदम्बरः विमोचितः। 
नवदिल्ली > ऐ एन् एक्स् मीडिया व्यवहारे गृहीतः भूतपूर्वः वित्तमन्त्री तथा कोण्ग्रस् दलनेता पि. चिदम्बरं कारागृहात् उपाधिभिः मोचितः। सर्वोच्चन्यायालयेन चिदम्बरेण समर्पिता प्रातिभाव्ययाचिका न्या. आर् भानुमत्याः आध्यक्षे विद्यमानेन नीतिपीठेन अङगाी्कृता।
भारतं मलेरियरोगमुक्तम् - लोकारोग्यसंस्था।

    नवदहली > भारते मलेरियरोगेण मृत्युं प्राप्तवतां संख्या प्रतिवर्षं न्यूनतां प्राप्नोति इति लोकारोग्यसंस्थायाः अवलोकनम्। २०१८ तमे वर्षे मलेरियरोगेण मृतवतां संख्या दशसहस्रात् न्यूनं भवति। एतत्तु प्रगतवर्षापेक्षया ४१% न्यूनं भवति इति लोकारोग्यसंस्थायाः अवलोकनं सूचयति। केन्द्रसर्वकारस्य रोगप्रतिरोधप्रर्वतनानि मलेरियबाधां प्रतिरोद्धुं सहायकानि अभवन् इति अवलोकनं सूचयति। राष्ट्रे मलेरियबाधितेभ्यः चिकित्सादिकं निशुल्कं भवति। अपि च प्राथमिकारोग्यकेन्द्रेभ्यः रोगप्रतिरोधविषये बोधप्रवर्तनान्यपि आयोजयन्त्यः भवन्ति।
ऐ सि सि टेस्ट् क्रीडकपट्टिका - भारतीयेभ्यः औन्नत्यम्।
    दुबाय् > दुबाय् मध्ये प्रवृत्ते योगे प्रकाशितायां पट्टिकायां भारतक्रीडकाः प्रथमदशस्सु स्थानं समपादयन्। कन्‍दुकताडकानां पट्टिकायां भारतस्य विराट् कोह्ली प्रथमः वर्तते। स्टीव् स्मित्, केन् विल्यंसः, चेतेश्वर् पूजारः च यथाक्रमं द्वितीय-तृतीय-चतुर्थस्थानेषु वर्तन्ते। कन्दुकक्षेपकाणां पट्टिकायां ओस्ट्रेलियस्य पाट् कम्मिन्स् प्रथमः भवति। कगीसो रबाड, जेसण् होल्डर्, नील् वाग्नर् च यथाक्रमं द्वितीय-तृतीय-चतुर्थस्थानेषु वर्तते। भारतस्य जस्प्रीत् बुम्रः, मुहम्मद् षमिः,आर्.अश्विन् च यथाक्रमं पञ्चमनवमदशमस्थानेषु भवन्ति।

Wednesday, December 4, 2019

काश्मीरे तुषारपर्वतभग्नेन चत्वारः सैनिकाः मृताः।
श्रीनगर् > काश्मीरे सीमनि नियन्त्रणरेखायाः समीपं ताङ्दार्, गुरेस् इत्यनयोः प्रदेशयो: तुषारपर्वतपतनेन चत्वारः सैनिकाः मृताः। अनेके अदृष्टाः च अभवन्। रक्षाप्रवर्तनानि अधुनापि अनुवर्तन्ते।
धूम्रपः न चेत् इयम् उद्योग संस्था  वेतनसहितानां षट्  दिनानां विरामाः अधिकतया दास्यति। 
      टोकियो> धूम्रपानशीलरहितानाम् उद्योगिनां कृते जपानस्य  पियाल इति उद्योगसंस्थया सवेदनं षट्दिनानाम् अधिकानि विरामदिनानि दास्यन्ते| टोकियो केन्द्रीकृत्य प्रवर्तमाना संस्था भवति 'पियाल इन् कोर्परेट्'I कर्मचारिणः इदानीं सन्तुष्टाःI  बहुलाट्टगृहस्य २९ तमे अट्टे भवति उद्योगसंस्था। धूम्रपानप्रियाः उद्योगिनः तदर्थ भूतले विद्यमानं धूम्रप्रकोष्टं गत्वा प्रत्यागमनाय पञ्चदशनिमेषाः आवश्यकाः। अनेन प्रवृत्तिसमयः नष्टः भविष्यति इति ज्ञात्वा एव एषः मार्गः स्वीकृतः इति। संस्थाधिपः टकावो असूकः अवदत्I इदानीं सामान्येन जापानस्य उद्योगसंस्थाः  कर्मकरान् धूम्रपानात् प्रत्यानेतुं यत्नं कुर्वन्तः सन्ति।
एकराष्ट्रम् एकं भक्ष्यधान्यवितरणपत्रम् - परियोजना जूण् मासात् आरभ्यते।
    नवदहली>  केन्द्रसर्वकारस्य,एकराष्ट्रम् एकं भक्ष्यधान्यवितरणपत्रम् इति सुप्रधानपरियोजना अग्रिमजूण्मासात् आरभ्यते इति भक्ष्यमन्त्री राम्विलास् पास्वान् अवदत्। अनया परियोजनया राष्ट्रे यस्मिन् कस्मिन्नपि प्रदेशे वा भवतु सर्वकारस्य भक्ष्यधान्यवितरणकेन्द्रेभ्यः भक्ष्यपदार्थान् क्रेतुं शक्यते। आधार् पत्रिकां भक्ष्यधान्यवितरणसहायकेन इ-पोस् यन्त्रेण सह सम्बन्ध्य परियोजनायाः अस्याः प्रवर्तनमारभ्यते इति मन्त्रिणा सूचितम्। तदर्थं राष्ट्रे सर्वेष्वपि भक्ष्यधान्यवितरणकेन्द्रेषु इ-पोस् द्वारा भक्ष्यधान्यवितरणं दृढीकरिष्यति इत्यपि मन्त्री असूचयत्।

सविशेषसुरक्षासंघस्य सेवनं प्रधानमन्त्रिणे एव। 
     नवदहली > शक्ते प्रतिषेधे सत्यपि सविशेषसुरक्षासंघसम्बन्धं नियमपत्रं राज्यसभया अपि अङ्गीकृतम्। पूर्वं नियमपत्रस्योपरि केन्द्रसर्वकारेण लोकसभायाः अङ्गीकारः प्राप्तः आसीत्। १९८८ तमवर्षस्य सविशेषसुरक्षासंघनियमस्य परिवर्तनमेव सर्वकारेण कृतं वर्तते। नूतननियमानुसारं सविशेषसुरक्षासंघस्य सेवनं प्रधानमन्त्रिणे एव लभ्यते।

Tuesday, December 3, 2019

शिवाङ्गी भारतीयनौसेनायाः प्रथमा विमानचालका। 

 कोच्ची > बीहारस्वदेशीया शिवाङ्गी नामिका चतुर्विंशतिवयस्का भारतीयनाविकसेनायाः प्रथमा वनिताचालकरूपेण [सब् लफ्टनन्ट्] कोच्ची नाविककार्यालये दायित्वं स्वीकृतवती। 
  जय्पुरस्थे 'माल्विया  नेषणल् इन्स्ट्ट्यूट् आफ् टेक्नोलजी' संस्थायां एम् टेक् छात्रत्वे २०१८ तमे वर्षे आसीत् शीवाङ्ग्याः नाविकसेनाप्रवेशः। विमानचालने औत्सुक्यमासीत् हेतुः। विद्यालयाधिकारिरूपेण [Principal] कार्यं कुर्वतः हरिभूषणसिंहस्य प्रियङ्कायाः पुत्री भवति शिवाङ्गी। 
विक्रं लान्टर् इत्यस्य अवशिष्टाः दृष्टाः इति 'नास'

   वाषिङ्टण्> चन्द्रानुसन्धानाय निर्मितस्य चन्द्रयानं २ इत्यस्य मृदुलावतरणाय निर्दिष्टः विक्रं लान्टर् इति भागः नासया दृष्ट:। मृदुलावारणकाले आशयविनिमय-विनाशनेन विनष्टस्य विक्रममृदुलावतार्यस्य स्थितिमधिकृत्य इतःपर्यन्तम् अज्ञातम् असीत्I सेप्तम्बर् ७ दिनाङ्‌के अवतरणवेलायाम् आसीत् आशयविनिमयाेपाधेः नाशः जातः। अवतारकस्य भग्नावशिष्टान् तथा अवतारकस्य पतनेन चन्द्रोपरितले जातस्य मृत्व्यत्ययः च विशेषाध्ययनं कृत्वा आसीत्  नास संस्थया चित्रं बहिः प्रकाशितम्। नास संस्थायाः एल्. आर्. ओर्बिट्टर छायाग्राह्या चित्रं गृहीतम्। विक्रमस्य पतनात्‌ पूर्वं ततः च जायमानस्य प्रतलस्य व्यत्ययान् अध्ययनं कृत्वा वैज्ञानिकेन षण्मुख-षण्मुखेन स्वाभिमतं प्रकाशितम्।
' बालण् द्योर् ' पुरस्कारः लयणल् मेसये लब्धः। 
    पारिस्> पादकन्दुकक्रीडकेभ्यः दीयमानः प्रमुखपुरस्कारः 'बालण् द्योर्' अस्मिन् वर्षे अर्जन्टीननायकाय लयणल् मेसये लब्धः। अनेन 'बालण् द्योर्' पुरस्कारजेतृषु मेसिः अग्रे आगतः भवति। अस्य वर्षस्य पुरस्कारसहितं मेसिना षड्वारं पुरस्कारोऽयं प्राप्तः भवति। अस्मिन् वर्षे 'फिफ दि बेस्ट्' पुरस्कारः मेसिना प्राप्तः आसीत्। फ्रान्स् फुट्बोल् इति नामिका प्रमुखा फ्रेन्च् मासिका भवति पुरस्कारदाता। अमेरिकस्य मेगान् रेपिनो वनिताक्रीडकत्वेन चिता भवति। डेन्मार्कस्य माटिस् डि लिट् युवक्रीडकपुरस्कारं प्रापयत्। उत्तमलक्ष्यपालकस्य पुरस्कारः ब्रसीलस्य अलिसण् बेकरेण प्राप्तः च।

Monday, December 2, 2019

भारतं विना आर् सि इ पि व्यवस्था पूर्णा न भवति - जापान्।
     नवदहली> भारतं विना मण्डलीयसमग्रार्थिक सहयोगव्यवस्था अपूर्णा एव इति जापान्। भारतं विना व्यवस्थायाः अस्याः प्रयोजनं पूर्णतया न भविष्यतीति जापानस्य व्यापारवाणिज्यविभागस्य उपमन्त्री हिडकि मकिहारः अवदत्। गतमासे बाङ्कोङ्क् मध्ये प्रवृत्ते आर् सि इ पि उन्नतमेलने व्यवस्थायां भारतेन हस्ताक्षरं न कृतमासीत्। परं भारतं विनापि व्यवस्थां सम्बन्ध्य अग्रे गन्तुं जापान् सहितैः १५ राष्ट्रैः निश्चितमासीत्। जापानस्य प्रधानमन्त्रिणा षिन्सो आबेन अग्रिमसप्ताहे भारतं सन्दर्श्यते। व्यवस्थायां हस्ताक्षरं कृतानि अन्यानि राष्ट्राणि उत्पन्नानां विदेशेषु विक्रयणे औन्नत्‍यं सम्पादितानि भवन्ति। अतः व्यवस्थामनुसृत्य भारते विपणिः लब्धा चेदेव तेभ्यः प्रयोजनं वर्तते। एतदेव व्यवस्थां सम्बन्ध्य जापानस्य पूर्वाभिप्रायस्य परिवर्तनं प्रति कारणं भवेत्।
संस्कृत-चलनचित्रं मधुरस्मितम् - शाला प्रेक्षकैः सम्पूर्णा।
संस्कृतप्रेमिभ्यः उत्सवः
   कोच्ची> संस्कृतलोकेषु प्रप्रथमतया भवति बालकानां चलनचित्रम्। चित्रं द्रष्टुं जनाः आगमिष्यन्ति वा इति सन्देहः आसीत्। किन्तु तन् सन्देहान् दूरीकृत्य भवति नूतनस्य आवेदनस्य आगमनम्। केरले निर्मितं चलनचित्रं केरलसर्वकारस्य चलनचित्रालये एव प्रदर्शयन्ति। तिरुवनन्तपुरं, एरणाकुलं, तृश्शूर्, पालक्काट् जनपदानां सर्वकारीय चलनचित्रशालायामासीत् प्रदर्शनम्।  प्रतिदिनं मध्याह्नोपकाले ११ वादने  प्रदर्शनं प्रचलति। विद्यालय छात्राः अध्यापकैः सह समागत्य चित्रान् दृष्ट्वा सन्तोषेण गच्छन्तः सन्ति। सामान्यजनाः अपि सकुटुम्बं समागच्छन्ति च इति चलच्चित्रकाराणां मोदायभवति इति निर्देशकेन सुरेष् गायत्री महोदयेन उक्तम्। इदानी जनसमुदायेषु विद्यामानेषु छात्रसंबन्ध-समस्यामधिकृत्य विरचिता भवति कथा। ईदृशः कथातन्तुः चलनचित्रेषु इतःपर्यन्तं न स्वीकृतः आसीत्। औचित्यपुर्णतया  नूतनायाः  संस्कृतकथायाः रचना संस्कृताध्यापिकया बिजिला किषोर् वर्यया कृता भवति। मधुरमनोहरगानैः अलङ्कृतं भवति इदं चलनचित्रम्। बालिका बालकाः भवन्ति प्रधानकथापात्राणिl अभिनय चारुतया  ते तेभ्यः दायित्वं कृतवन्तः सन्ति।
आमसोण् वनानि विनाशं प्राप्नुवन्ति। 

  ब्रसीलिया> विश्वस्य श्वासकोश इति विख्यातानि ब्रसीलराष्ट्रस्थानि  आमसोण् वृष्टिवनानि विनाशं प्राप्नुवन्तीति  आवेदनम्। २०१८ ओगस्ट् मासादारभ्य २०१९ जूलाई पर्यन्तं एकेनैव संवत्सरेण दशसहस्राधिकं चतु.कि.मी.परिमितं वनं विविधप्रकारैः नाशं गतमिति ऐ एन् पि ई नामिकया ब्रसील् बहिराकाश गवेषणसंस्थया बहिर्नीते आवेदने स्पष्टीकृतम्। 
  द्वादशमासैः १०,१०० च.कि.मी प्रदेशस्य वृक्षाः पूर्णतया नाशिताः। गतदशसंवत्सराणां बृहत्तमं वननशीकरणमानमेतदिति सूच्यते। मासद्वयात् पूर्वं सञ्जाते बडवानले महान्तं प्रदेशं विनाशमभवत्।

Sunday, December 1, 2019

 ॥ हसामः - चिन्तयामः॥
वार्ता - पलाण्डुमूल्यम् वर्धितम्।
हासचित्रम्- षिबुकुमारः,तिरुवनन्तपुरम्


संस्कृताभियानम्।
-प्रा. डॉ. विजयकुमारः मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः

 नमांसि, येन भाषाशुद्धेः प्राधान्यम् अवगतं स्यात् तेन स्थिरः उत्साहः वोढव्यः, समयदाने आस्था प्रदर्शनीया वा। अन्यथा तु वाचि भाषाशुद्धेः प्राधान्यं दृश्येत, न तु कृतौ। अभाववैराग्य-श्मशानवैराग्यादयः चिरस्थायिनः यथा न भवन्ति तथैव भवति बुद्धिमात्रात् गृहीतं भाषाशुद्धिप्राधान्यम् अपि। 'अहं भाषाशुद्धिम् इच्छामि विशेषतः , किन्तु समयः एव न लभ्यते' इति वचनं सर्वत्र श्रूयते एव। अनास्थायाः अपरं मुखम् एतद्। मित्राणि, भाषाशुद्धिविषये कृतप्रयत्नस्य दर्शनात् , वर्गादिषु भागग्रहणात् , विदुषाम् उपदेशस्य श्रवणात् वा यः उत्साहः उद्बुद्धः भवेत्,  सः क्षणोत्साहः न स्यात्। 
 जयतु संस्कृतम् जयतु भारतम् ।
महाकवि'अक्कित्त'स्य ज्ञानपीठलब्धिः। 
 महाकविः अक्कित्तम्। 
नवदिल्ली > भारतस्य ५५तम ज्ञानपीठपुरस्काराय कैरल्याः 'इतिहासकविः' अक्कित्तम् अच्युतन् नम्पूतिरिः अर्ह अभवत्। ज्ञानपीठपुरस्कारं प्राप्यमाणः षष्ठः केरलीयसाहित्यकारो भवति अक्कित्तम्।  
  एकेनैवाश्रुकणेन सौरमण्डलं मृदुहासेन नित्यनिर्मलपौर्णमिं च क्रियमाणां मान्त्रिकतां केरलीयेभ्यः परिचिन्वमाणः 'इरुपतां नूट्टान्टिन्टे इतिहासम्' [विंशशतकस्य इतिहासः] अस्य रचनासु प्रसिद्धमस्ति। ५५ ग्रन्थाः तेन विरचिताः। तेषु ४५ संख्याकाः काव्यसमाहाराः । एतान् विना लधुकथाः, नाटकानि, लेखनानि, बालसाहित्यमित्यादयः अन्तर्भवन्ति।