OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 4, 2019

सविशेषसुरक्षासंघस्य सेवनं प्रधानमन्त्रिणे एव। 
     नवदहली > शक्ते प्रतिषेधे सत्यपि सविशेषसुरक्षासंघसम्बन्धं नियमपत्रं राज्यसभया अपि अङ्गीकृतम्। पूर्वं नियमपत्रस्योपरि केन्द्रसर्वकारेण लोकसभायाः अङ्गीकारः प्राप्तः आसीत्। १९८८ तमवर्षस्य सविशेषसुरक्षासंघनियमस्य परिवर्तनमेव सर्वकारेण कृतं वर्तते। नूतननियमानुसारं सविशेषसुरक्षासंघस्य सेवनं प्रधानमन्त्रिणे एव लभ्यते।

Tuesday, December 3, 2019

शिवाङ्गी भारतीयनौसेनायाः प्रथमा विमानचालका। 

 कोच्ची > बीहारस्वदेशीया शिवाङ्गी नामिका चतुर्विंशतिवयस्का भारतीयनाविकसेनायाः प्रथमा वनिताचालकरूपेण [सब् लफ्टनन्ट्] कोच्ची नाविककार्यालये दायित्वं स्वीकृतवती। 
  जय्पुरस्थे 'माल्विया  नेषणल् इन्स्ट्ट्यूट् आफ् टेक्नोलजी' संस्थायां एम् टेक् छात्रत्वे २०१८ तमे वर्षे आसीत् शीवाङ्ग्याः नाविकसेनाप्रवेशः। विमानचालने औत्सुक्यमासीत् हेतुः। विद्यालयाधिकारिरूपेण [Principal] कार्यं कुर्वतः हरिभूषणसिंहस्य प्रियङ्कायाः पुत्री भवति शिवाङ्गी। 
विक्रं लान्टर् इत्यस्य अवशिष्टाः दृष्टाः इति 'नास'

   वाषिङ्टण्> चन्द्रानुसन्धानाय निर्मितस्य चन्द्रयानं २ इत्यस्य मृदुलावतरणाय निर्दिष्टः विक्रं लान्टर् इति भागः नासया दृष्ट:। मृदुलावारणकाले आशयविनिमय-विनाशनेन विनष्टस्य विक्रममृदुलावतार्यस्य स्थितिमधिकृत्य इतःपर्यन्तम् अज्ञातम् असीत्I सेप्तम्बर् ७ दिनाङ्‌के अवतरणवेलायाम् आसीत् आशयविनिमयाेपाधेः नाशः जातः। अवतारकस्य भग्नावशिष्टान् तथा अवतारकस्य पतनेन चन्द्रोपरितले जातस्य मृत्व्यत्ययः च विशेषाध्ययनं कृत्वा आसीत्  नास संस्थया चित्रं बहिः प्रकाशितम्। नास संस्थायाः एल्. आर्. ओर्बिट्टर छायाग्राह्या चित्रं गृहीतम्। विक्रमस्य पतनात्‌ पूर्वं ततः च जायमानस्य प्रतलस्य व्यत्ययान् अध्ययनं कृत्वा वैज्ञानिकेन षण्मुख-षण्मुखेन स्वाभिमतं प्रकाशितम्।
' बालण् द्योर् ' पुरस्कारः लयणल् मेसये लब्धः। 
    पारिस्> पादकन्दुकक्रीडकेभ्यः दीयमानः प्रमुखपुरस्कारः 'बालण् द्योर्' अस्मिन् वर्षे अर्जन्टीननायकाय लयणल् मेसये लब्धः। अनेन 'बालण् द्योर्' पुरस्कारजेतृषु मेसिः अग्रे आगतः भवति। अस्य वर्षस्य पुरस्कारसहितं मेसिना षड्वारं पुरस्कारोऽयं प्राप्तः भवति। अस्मिन् वर्षे 'फिफ दि बेस्ट्' पुरस्कारः मेसिना प्राप्तः आसीत्। फ्रान्स् फुट्बोल् इति नामिका प्रमुखा फ्रेन्च् मासिका भवति पुरस्कारदाता। अमेरिकस्य मेगान् रेपिनो वनिताक्रीडकत्वेन चिता भवति। डेन्मार्कस्य माटिस् डि लिट् युवक्रीडकपुरस्कारं प्रापयत्। उत्तमलक्ष्यपालकस्य पुरस्कारः ब्रसीलस्य अलिसण् बेकरेण प्राप्तः च।

Monday, December 2, 2019

भारतं विना आर् सि इ पि व्यवस्था पूर्णा न भवति - जापान्।
     नवदहली> भारतं विना मण्डलीयसमग्रार्थिक सहयोगव्यवस्था अपूर्णा एव इति जापान्। भारतं विना व्यवस्थायाः अस्याः प्रयोजनं पूर्णतया न भविष्यतीति जापानस्य व्यापारवाणिज्यविभागस्य उपमन्त्री हिडकि मकिहारः अवदत्। गतमासे बाङ्कोङ्क् मध्ये प्रवृत्ते आर् सि इ पि उन्नतमेलने व्यवस्थायां भारतेन हस्ताक्षरं न कृतमासीत्। परं भारतं विनापि व्यवस्थां सम्बन्ध्य अग्रे गन्तुं जापान् सहितैः १५ राष्ट्रैः निश्चितमासीत्। जापानस्य प्रधानमन्त्रिणा षिन्सो आबेन अग्रिमसप्ताहे भारतं सन्दर्श्यते। व्यवस्थायां हस्ताक्षरं कृतानि अन्यानि राष्ट्राणि उत्पन्नानां विदेशेषु विक्रयणे औन्नत्‍यं सम्पादितानि भवन्ति। अतः व्यवस्थामनुसृत्य भारते विपणिः लब्धा चेदेव तेभ्यः प्रयोजनं वर्तते। एतदेव व्यवस्थां सम्बन्ध्य जापानस्य पूर्वाभिप्रायस्य परिवर्तनं प्रति कारणं भवेत्।
संस्कृत-चलनचित्रं मधुरस्मितम् - शाला प्रेक्षकैः सम्पूर्णा।
संस्कृतप्रेमिभ्यः उत्सवः
   कोच्ची> संस्कृतलोकेषु प्रप्रथमतया भवति बालकानां चलनचित्रम्। चित्रं द्रष्टुं जनाः आगमिष्यन्ति वा इति सन्देहः आसीत्। किन्तु तन् सन्देहान् दूरीकृत्य भवति नूतनस्य आवेदनस्य आगमनम्। केरले निर्मितं चलनचित्रं केरलसर्वकारस्य चलनचित्रालये एव प्रदर्शयन्ति। तिरुवनन्तपुरं, एरणाकुलं, तृश्शूर्, पालक्काट् जनपदानां सर्वकारीय चलनचित्रशालायामासीत् प्रदर्शनम्।  प्रतिदिनं मध्याह्नोपकाले ११ वादने  प्रदर्शनं प्रचलति। विद्यालय छात्राः अध्यापकैः सह समागत्य चित्रान् दृष्ट्वा सन्तोषेण गच्छन्तः सन्ति। सामान्यजनाः अपि सकुटुम्बं समागच्छन्ति च इति चलच्चित्रकाराणां मोदायभवति इति निर्देशकेन सुरेष् गायत्री महोदयेन उक्तम्। इदानी जनसमुदायेषु विद्यामानेषु छात्रसंबन्ध-समस्यामधिकृत्य विरचिता भवति कथा। ईदृशः कथातन्तुः चलनचित्रेषु इतःपर्यन्तं न स्वीकृतः आसीत्। औचित्यपुर्णतया  नूतनायाः  संस्कृतकथायाः रचना संस्कृताध्यापिकया बिजिला किषोर् वर्यया कृता भवति। मधुरमनोहरगानैः अलङ्कृतं भवति इदं चलनचित्रम्। बालिका बालकाः भवन्ति प्रधानकथापात्राणिl अभिनय चारुतया  ते तेभ्यः दायित्वं कृतवन्तः सन्ति।
आमसोण् वनानि विनाशं प्राप्नुवन्ति। 

  ब्रसीलिया> विश्वस्य श्वासकोश इति विख्यातानि ब्रसीलराष्ट्रस्थानि  आमसोण् वृष्टिवनानि विनाशं प्राप्नुवन्तीति  आवेदनम्। २०१८ ओगस्ट् मासादारभ्य २०१९ जूलाई पर्यन्तं एकेनैव संवत्सरेण दशसहस्राधिकं चतु.कि.मी.परिमितं वनं विविधप्रकारैः नाशं गतमिति ऐ एन् पि ई नामिकया ब्रसील् बहिराकाश गवेषणसंस्थया बहिर्नीते आवेदने स्पष्टीकृतम्। 
  द्वादशमासैः १०,१०० च.कि.मी प्रदेशस्य वृक्षाः पूर्णतया नाशिताः। गतदशसंवत्सराणां बृहत्तमं वननशीकरणमानमेतदिति सूच्यते। मासद्वयात् पूर्वं सञ्जाते बडवानले महान्तं प्रदेशं विनाशमभवत्।

Sunday, December 1, 2019

 ॥ हसामः - चिन्तयामः॥
वार्ता - पलाण्डुमूल्यम् वर्धितम्।
हासचित्रम्- षिबुकुमारः,तिरुवनन्तपुरम्


संस्कृताभियानम्।
-प्रा. डॉ. विजयकुमारः मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः

 नमांसि, येन भाषाशुद्धेः प्राधान्यम् अवगतं स्यात् तेन स्थिरः उत्साहः वोढव्यः, समयदाने आस्था प्रदर्शनीया वा। अन्यथा तु वाचि भाषाशुद्धेः प्राधान्यं दृश्येत, न तु कृतौ। अभाववैराग्य-श्मशानवैराग्यादयः चिरस्थायिनः यथा न भवन्ति तथैव भवति बुद्धिमात्रात् गृहीतं भाषाशुद्धिप्राधान्यम् अपि। 'अहं भाषाशुद्धिम् इच्छामि विशेषतः , किन्तु समयः एव न लभ्यते' इति वचनं सर्वत्र श्रूयते एव। अनास्थायाः अपरं मुखम् एतद्। मित्राणि, भाषाशुद्धिविषये कृतप्रयत्नस्य दर्शनात् , वर्गादिषु भागग्रहणात् , विदुषाम् उपदेशस्य श्रवणात् वा यः उत्साहः उद्बुद्धः भवेत्,  सः क्षणोत्साहः न स्यात्। 
 जयतु संस्कृतम् जयतु भारतम् ।
महाकवि'अक्कित्त'स्य ज्ञानपीठलब्धिः। 
 महाकविः अक्कित्तम्। 
नवदिल्ली > भारतस्य ५५तम ज्ञानपीठपुरस्काराय कैरल्याः 'इतिहासकविः' अक्कित्तम् अच्युतन् नम्पूतिरिः अर्ह अभवत्। ज्ञानपीठपुरस्कारं प्राप्यमाणः षष्ठः केरलीयसाहित्यकारो भवति अक्कित्तम्।  
  एकेनैवाश्रुकणेन सौरमण्डलं मृदुहासेन नित्यनिर्मलपौर्णमिं च क्रियमाणां मान्त्रिकतां केरलीयेभ्यः परिचिन्वमाणः 'इरुपतां नूट्टान्टिन्टे इतिहासम्' [विंशशतकस्य इतिहासः] अस्य रचनासु प्रसिद्धमस्ति। ५५ ग्रन्थाः तेन विरचिताः। तेषु ४५ संख्याकाः काव्यसमाहाराः । एतान् विना लधुकथाः, नाटकानि, लेखनानि, बालसाहित्यमित्यादयः अन्तर्भवन्ति।

Saturday, November 30, 2019

तमिळ् जनेभ्यः नीतिः करणीयः, श्रीलङ्कस्य राष्ट्रपतिं प्रति भारतस्य प्रधानमन्त्री।

   नवदिल्ली> श्रीलङ्कदेशस्य तमिळ् जनेभ्यः नीतिः करणीया। श्रीलङ्कस्य राष्ट्रपतिं गोतपाय राजपाक्से वर्यं प्रति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अभ्यर्थितवान्। भारतसन्दर्शनाय समागतः आसीत् राजपाक्से। आतङ्कवादान् निवारयितुं भारतेन साहाय्यं दास्यति इति मोदिना उक्तम्। एतदर्थं पञ्चलक्षं डोलर् धनं ऋणं दास्यति। अपि च आर्थिकोन्नतये ४० कोटि डोलर् धनमपि ऋणं दास्यति इत्यपि संयुक्तवार्तामेलने मोदिना प्रोक्तम्। 

Friday, November 29, 2019

वनिता न्यायाधिपा न्यायालये बन्धिता। आरक्षकाणां नियमप्रक्रमान् विरुद्ध्य न्यायवादिनः।
    केरलम्-तिरुवनन्तपुरम्> न्यायालयस्य प्रकोष्ठे वनिता न्यायाधिपा  बन्धिता।  घटनानुबन्ध्य आरक्षकैः *'आलम्बहित'-नियमप्रक्रमः स्वीकृतः आसीत्। घटनेयं विरुद्ध्य तिरुवनन्तपुरं जनपदेषु न्यायवादिनः अद्य शुक्रवासरे न्यायालयं परित्यजन्ति।

Thursday, November 28, 2019

विद्यालयेषु जलपानाय विशेषसमयः, छात्रेषु नर्जलीकरण-निवारणाय

  पनाजि> गोवप्रदेशस्य शैक्षिकविभागेन छात्राणां स्वास्थ्याय नूतना योजना समारब्धा। कक्ष्यायां द्वयोः अध्ययन-कालांशयोः मध्ये एव जलपानाय सन्दर्भः दीयते।  जलपानाय घण्डानादः  प्रतिदिनं द्विवारं  करणीयः। निमेषद्वययुतं  भवितव्यं जलपानस्य कालांशः। एतत् सम्बन्ध्य गोवस्य शैक्षिकाध्यक्षेण षैलेष् सिनाय् सिङ्डे वर्येण विद्यालयान् प्रति निर्देशः प्रेषितः। विद्यालयेषु छात्राः आवश्यकं जलं न पिबन्ति। अतः निर्जलीकरणेन स्वास्थ्यहानिः भविष्यति इत्यनेन अनुसन्धानेन भवति नूतननिर्णयः। शिशूनां विद्यालयतः उच्चतरविद्यालयं यावत् इयं परियोजना आयोक्ष्यते।
राज्यस्तरीयः विद्यालयकलोत्सवः अद्य आरभते।
एष्याभूखण्डस्य बृहत्तमा कौमारमेला।
काञ्ञड्ङाट् > केरलराज्यस्य ६०तमः विद्यालयीयकलोत्सवः कासर्गोड् जनपदस्थे काञ्ञङ्ङाट् प्रदेशे अद्य समारभते। अद्य आरभ्य डिसंम्बर् प्रथमदिनाङ्कपर्यन्तं २८ वेदिकासु प्रचाल्यमाने कलोत्सवे १४ जनपदेभ्यः  उपदशसहस्रं छात्रप्रतिभाः स्पर्धिष्यन्ते। 
  स्पर्धिष्यमानेभ्यः सर्वेभ्यः छात्रेभ्यः चषकान् वितरीतुं निर्णयः कृतः। जनपदस्तरीयासु प्रचलितासु स्पर्धासु प्रथमस्थानं प्राप्तवन्तः कलासाहित्यप्रतिभा एव राज्यस्तरीयस्पर्धायां भागं कुर्वन्ति।

Wednesday, November 27, 2019

भारतस्य  कार्टोसाट् - ३, भ्रमणपथं प्रविष्टः।

  बङ्गलूरु> भौम निरीक्षणाय निर्मितः अत्याधुनिकः कर्टोसाट्-३ इति उपग्रहः अद्य भ्रमणपथं प्रविष्टः। अद्य प्रातः ९.२८ वादने श्रीहरिकोट्टा सतीष् धवान् बहिराकाशनिलयात्‌ आसीत् विक्षेपणम्। नवम्बर् मासस्य २५ दिनाङ्के विक्षेपणं निश्चितमासीत् । किन्तु काचन समस्यायाः परिहारम्  उद्‌दिश्य विक्षेपणदिनाङ्कः  परिवर्त्यनिश्चितः आसीत्। पि एस् एल् वि इत्यस्य ४९तमं विक्षेपणं भवति इदम्। अस्य उपग्रहस्य  १६२५ किलोग्रां भारः अस्ति। बाह्याकाशे अयं पञ्च वर्षाणि यावत् प्रवर्तिष्यते। ९७.५°/ ५०९ इति कर्णस्थाने भ्रमणपथे  अस्य स्थानं निर्णीतम्।
यूरोप् भूखण्डस्य चरिते बृहत्तमं चोरणम्, १बिल्यण् यूरो धनस्य आभरणानि नष्टानिI
    जर्मनराष्ट्र-नगरस्य ट्रेस् डिन्न् इत्यस्थ चरित्रालयतः चोरैः अमूल्याभरणानि अपहृतानि। द्वितीयं लोकमहायुद्‌धानन्तरम् दुरापन्नं बृहत्तमं चोरणम् इति जर्मन् देशस्य पत्रिकाः आवेदयन्ति। ट्रेस् डिन् इत्यत्र विद्यमाने ग्रीन् वोल्ड् राजप्रासादात् भवति चोरणम्। यूरोप् भूखण्डस्थ चरित्रप्राधान्ययुक्तवस्तुनः तत्र संरक्षिताः आसन्l  (प्रासादं अधुना म्यूसियं इति व्यवहरन्ति)। १८ तमशतकस्य वज्राभरणानि एव अपहृतानि। सोमवासरे उषसि एव घटना आपन्ना। चोरितानाम् आभरणानां मूल्यं 78,85,24,47,600 रूप्यकाणि एव। चोराणां दृश्यं छायाग्राह्या संग्रहीतम्।

Tuesday, November 26, 2019

महाराष्ट्रराज्ये श्वः विश्वास मतदानम्। भा ज दलाय ताडनम्।
   नवदिल्ली> महाराष्ट्रराज्ये मुख्यमन्त्रि फड्नाविसः बुधवासरे सायं ५ वादनतः पूर्वं भूरिबलम् अस्ति इति प्रत्यक्षप्रमणं करणीयम् इति सर्वोच्चन्यायालयेन आदिष्टम्I राज्यपालेन प्रदत्तं कालदैर्घ्यं न्यूनीकृत्य भवति न्यायालयस्य आदेशःI रहस्य मतदानं मास्तु सुतार्यतया एव निर्वाचनं करणीयम् इत्यपि न्यायालयेन आदिष्टम्। न्यायाधीशस्य एन् . वि रमणस्य आध्यक्ष्ये विद्यमानेन त्रयङ्गपीठेन एव अदेशः प्रदतः।
ऐ. एस्. भीकराः शरणागताः 
   काबूल्> पूर्व नङ्गहार-प्रवि श्यायां शरणागतेषु शतशेषु  इस्लामिकस्टेट् भीकरेषु दशभारतीयाः अपि अन्तर्भवति इति अफ्गानिस्थानस्य वार्ता पत्रिका अफ्गान् टैंस्  आवेद्यते। एते काबूलं प्रति नीताः इत्यस्ति इदानीन्तन विवरणम्।
    विगते सप्ताहे ऐ एस् भीकराः तेषां कुटुम्बाः च आहत्य उपसहस्रं जनाः च अफ्गानस्य सैनिकानां पुरतः शरणागताः आसन्। एतेषु भूरि पाकिस्थाननागरिकाः इत्यस्ति विवरणम्।
नवम्बर् मासस्य १२ दिनाङ्के ऐ एस् केन्द्रान् प्रति कृते सैनिकप्रक्रमे  ९३ सायुधभीकराः शरणागताः आसन् इति अफ्‌गानस्य सेनया स्पष्टीकृतम्।