OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 25, 2019

ईडन् मध्ये विजयं प्राप्य भारतसंघः।
       ईडन् गार्डन्स् > भारतसंघस्य प्रथमपिङ्क्बाल् स्पर्धायां बङ्गलादेशदलं ऐकन इन्निङ्सेन ४६ धावनाङ्कैः च विजयं प्राप्य भारतसंघः विश्वटेस्ट् क्रिकेट् चक्रे प्रथमस्थाने विराजते। बङ्गलादेशदलं प्रति  द्वितीयस्पर्धायामपि विजयं प्राप्य टेस्ट्परम्परायामपि भारतं विजेता (२-०) अभवत्। अस्यां क्रीडायामपि कन्दुकक्षेपकानां प्रकटनमेव सहायकमभवत्। भारताय द्वितीये इन्निङ्स् मध्ये उमेष् यादवः ५ इषान्त् शर्मा ४ च क्रीडकान् निष्कासयताम्। स्पर्धायाम् आहत्य इषान्त् शर्मा ९ उमेष् यादवः ८ च क्रीडकान् निष्कासयताम्। टेस्ट्परम्परायाः क्रीडकत्वेन इषान्त् शर्मा चितः वर्तते। शतकं प्राप्तस्य नायकस्य कोह्लेः प्रकटनमपि श्रद्धेयमासीत्। टेस्ट् परम्परासु भारतसंघेन अनुस्यूततया प्राप्तः पञ्चमः विजयः भवति अयम्।

Sunday, November 24, 2019

माहाराष्ट्रे सर्वकारः आयोजितः।  शिवसेना, एन् सि पि, कोण्ग्रस् दलानि सर्वोच्चन्यायालयं प्रतिI 
    नवदिल्ली> महाराष्ट्रस्य  सर्वकार रूपीकरणं विरुद्ध्य शिवसेना, एन् सि पि, कोण्ग्रस् दलानि सर्वोच्चन्यायालयं गमिष्यन्तिI झटित्येव नियसभाम् आयोज्य  विश्वासमतदानं करणीयमिति संयुक्तयाचिकया न्यायालयं प्रति प्रार्थिष्यन्ते।  याचिका झटित्येव आवेक्षणीया इत्यस्ति तेषाम् अर्थना। महाराष्ट्रस्य राज्यपालस्य त्वरितप्रक्रमान् विरुद्ध्य अस्ति याचिका। भूरिपक्षालम्बः अस्ति वा इति अदृष्वा एवफट्नाविसं शपथग्रहणाय अवसरः दत्तः इति भवति विपक्षीयानां विमर्शः। न्यायवादी कपिल सिबलः मनु अभिषेक् सिङ्वि च कोण्ग्रस् दलस्य कृते न्यायपीठस्य पुरतः उपस्थितौ भविष्यतः॥

Saturday, November 23, 2019

ग्रहीतान् भारत-नागरिकान् चीनस्य साहाय्येन आतङ्कवादिनां पट्टिकायां योजयितुं पाकिस्थानेन प्रयतते।

   नवदिल्ली> भारत-नागरिकान् विश्वराष्ट्राणां पुरतः आतङ्कवादिनां पट्टिकायां योजयितुं पाकिस्थानेन प्रयतते। चीनस्य साहाय्येन भवति अयं यत्नः।  जेय्ष इ मुहम्मदस्य अध्यक्षं मसूद् असरम् आगोलतलेषु भीकरत्वेन ख्यापनीयम् इति भारतेन यु एन् मध्ये उक्तम्I अस्य प्रतिवचनत्वेन भवति अयं प्रक्रमः। फ्रान्स् यू एस्‌ राष्ट्राभ्यां भारतस्य आवश्यम् अङ्गीकृतं च।
   सम्प्रति पाकिस्थानेन गृहीताः भारत-नागरिकाः बलूचिस्थाने पेषवारे च आक्रमणानि कृतानि इति उक्त्वा यू एन् मध्ये  याचिका दत्ता अस्ति। अफ्गानिस्थाने विद्यमानायाः उद्योगसंस्थायाः परियोजनायां कर्मकाररूपेण समागतान् भारतनागरिकान् गृहीत्वा ईदृशरीत्या भीकरत्वम् अरोपणाय यत्नः करोति ।  
    सम्प्रति पाकिस्थानेन अफ्गानिस्थानतः गृहीतानां कृते दूतावासस्य साहाय्याय सन्दर्भः करणीयः इति भारतेन अभ्यर्थितम्।

Friday, November 22, 2019

श्वासकोशः स्प्रोञ्चः इव, ३० संवसराणि यावत्  धूमपानं कृतवतः श्वासकोशस्य चित्रं प्रसार्य भिषग्वराः। 

  बैजिङ्> श्वासकोशः स्प्रोञ्चः इव इति विज्ञप्तिवाक्यात् विमुखेभ्यः कृते ३० संवसराणि यावत्  धूमपानं कृतवतः श्वासकोशस्य चित्रं  भिषग्वरै प्रसारितम्।  धूम्रपाने अनुरक्तस्य मृतस्य कस्यचन मनुष्यस्य श्वासकोशस्य चित्राणि एव इदम्। चीनराष्ट्रस्य जियाङ्सुदेशस्थ वूसि पीपिल् आतुरालयस्य भिषग्वराः एव  एतस्य चित्रं प्रसारितवन्तः। मरणानन्तरं स्वस्य शरीरावयवाः दानंकर्तुं सम्मतिपत्रं दत्वा ५२ तमे वयसि मृत्युपदं प्राप्तवान् सः। शल्यद्वारा बहिरानीताः अवयवाः उपयोग-क्षमताहीनाः असीत्‌ इति भिषग्वराः वदन्ति। साधारणतया एकस्य श्वासकोशस्य PINK वर्णः भवति। किन्तु अस्य श्वासकोशः श्यामवर्ण (charcoal) युक्तः आसीत्। अत एव चित्राणि जन-सञ्चारमाध्यमेन प्रसारिताणि। चित्रं दृष्ट्वा वा मनसः परिवर्तनं भवतु इति ते चिन्तितवन्तः।

Thursday, November 21, 2019

केरलराज्यस्तरीय-वरिष्ठनागरिकाणां क्रीडास्पर्धा २३ दिनाङ्के। 
   कोच्ची> ६० वयः उपरिष्टात् वरिष्ठानां नागरिकाणां कायिकस्पर्धा नवंबर् मासस्य त्रयोविंशति दिनाङ्के  प्रचालयिष्यति। महाराजास् कलाशालायाः क्रीडाङ्कणे भवति इयं स्पर्धा। स्पर्धार्थिनः अस्मिन् दिने प्रातः ७.३० वादने वयःप्रकाश्यमानेन प्रमाणेन सह आगन्तव्याः इति आयोजकाः वदन्ति।
   जिल्ला नियमसेवा आयोगः, एज् फ्रण्ट्लि एरणाकुलम्, केरल स्टेट्‌ स्पोर्स् कौण्सिल् , इन्ट्यन् मेडिक्कल् असोसिएषन्, केरल सर्वकारीय स्वस्थ्यविभागः अन्ये सेवादलानि च संयुक्ततया प्रचालयन्ति अमुं कार्यक्रमम्।
    स्वस्थे शरीरे एव स्वस्थं मनः स्थास्यति। अतः जीवने उभयस्यापि प्राधान्यं विद्यते। तदर्थं क्रियमाणः प्रयत्नः भवति अयं कार्यक्रमः इति आयोजकाः वदन्ति। 9074241011, 9496712249 इति भवतः आयोजकानां दूरभाषा सङ्ख्ये।

Wednesday, November 20, 2019

शनिग्रहस्य उपग्रहस्य टैटानस्य ग्रहवैज्ञानिक रेखाचित्रम् सज्जम् अभवत्। लोहसान्निध्यम्  अदृष्टम्।
   वाषिङ्टण्> शनिग्रहस्य उपग्रहस्य टैटानस्य ग्रहवैज्ञानिक-प्रतल-रेखाचित्रम् सज्जम् इति अमेरिकस्य अरिसोण विश्वविद्यालयेन उच्यते। शनिग्रहस्य चन्द्रः इति आहूतवतः टैटानस्य प्रतलेषु विविधाकारेषु पर्वताः उपपर्वताः, तटाकाः, समतलाः च द्रष्टुं शक्यते। बाह्याकाशानुसन्धाने नूतनमिदं ज्ञानम् अरिसोण, पासडोणा परीक्षणशाला नासा च मिलित्वा पत्रमाध्यमकाराणां पुरतः प्रकाशितवन्तः।
विविधलोहानां सान्निध्यम्  अस्ति  ग्रहे भूमिं विहाय द्रावकाणां सान्निध्यं टैटाने एव भवति। अपग्रहस्य विविधभागेषु विविधोष्णाः विविधगुरुत्वबलानि च वर्तन्ते इति वैज्ञानिकानां मतम्। 
उत्तरकोरियेन कृतम् अणुपरीक्षणं हिरोषिमा विस्फोटतः १७ गुणितं शक्तम् - ऐ एस् अर् ओ।

  नवदिल्ली> उत्तरकोरियेन कृतम् आणवपरीक्षणं हिरोषिमा विस्फोटतः १७ गुणितं शक्तम् इति ऐ एस् आर् ओ इति संस्थया कृतानुसन्धाने प्रत्यभिज्ञातम्। जियोसफिकल् इन्टर् नाषणल् इति पत्रिकायाम् अध्ययन फलं प्रकाशितम्।
   २४५ तः २७१ टण् मितं विस्फोटकवस्तूनि परीक्षणाय उपयुक्तातानि। द्वितीये लोकमहायुद्धे १९४५ तमे  हिरोषिमा विस्फोटघटनायां  १५ टण् विस्फोटकम् उपयुक्तम् आसीत्।  विस्फोटनस्य तीव्रतामापनाय उपग्रह-चित्राणि विवरणानि च अध्ययनाय उपयुक्तानि।

Tuesday, November 19, 2019

भारत-नेपालयोः सीमनि भूकम्पः। 
    नवदिल्ली> भारत-नेपाल-राष्ट्रयोः सीमनि लघु भूकम्पः अभवत्। स्पन्दमापिन्यां ५.३ इति  चलनम् अङ्‌कितम्।   नव दिल्लां तथा उत्तरप्रदेशे उत्तरघण्डे च (अद्य मङ्गलवासरे) सायं भूकम्पनम् अनुभूतम्। मनुष्याणां जीवनाशः वा  वस्तुनां  नाशः वा न आवेदितः। भारत-नेपालयोः सीमनि विद्यमानः वनप्रदेशः भवति भूकम्पस्य प्रभव केन्द्रम्I २०१५ तमे नेपाले भूकम्पेन ९००० जनाः मृत्युमुपगताः आसन्|

Monday, November 18, 2019

यूनाम् एशियामहाद्वीपीया मुष्टामुष्टिस्पर्धा 
-पुरुषोत्तमशर्मा
  नवदेहली> भारतेन यूनाम् एशियामहाद्वीपीय-मुष्टामुष्टिस्पर्धामालिकायां पञ्च स्वर्णपदकानि मिलित्वा द्वादशपदकानि आहत्य प्राप्तानि।। मङ्गोलियादेशे महिलावर्गे नाओरि‍म-चानू, विङ्का, सनामाचा-चानू, पूनम:, सुषमा च  स्वर्णपदकानि विजिवत्य:। पुरुषवर्गे सेलाय-सायेनेन अथ च अङ्कित-नरवालेन रजतपदके विजिते। अरुणधतिचौधरी, कोमलप्रीत-कौर:, जास्मिन:, सतेन्दर-सिंह: अमनश्च कांस्यपदक-विजेतारो वर्तन्ते।
संस्कृताभियानम्
नमांसि!
   संस्कृतप्रचाराय बहुविधाः कार्यक्रमाः क्रियन्ते। बह्व्यः संस्थाः कार्यं कुर्वन्ति च। विविधकक्ष्याः, सभाः, सङ्गोष्ठ्यः, सम्मेलनानि, पुस्तकप्रकाशनम्, पाण्डुलिपिग्रन्थसम्पादनम्, स्पर्धाः, प्रदर्शिन्यः, शोधकार्याणि इत्येतानि सर्वाणि उत्तमानि एव। अवश्यं करणीयानि एव। तैः संस्कृतस्य अधोगतिः अवरुद्धा भवेत्, वृद्धिः अपि भवति भागशः। यथास्थितिरक्षणं वा भवेत्। परन्तु यावत् विद्यालय-महाविद्यालय-विश्वविद्यालयेषु जायमानासु संस्कृतकक्ष्यासु संस्कृतभाषा न आगच्छेत् तावत् उपरितनानां सर्वेषां कार्याणां स्वल्पः परिमितः एव परिणामः भवेत्। मित्राणि, संस्कृतकक्ष्यासु संस्कृतम् आनेतुं प्रयत्नं कुर्मः।
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्,  कविकुलगुरु कालिदास-विश्वविद्यालयःI महाराष्ट्रम्।
समर्थनगरनिर्माणम् - उन्नावदेशे कृषकारक्षकयोः मिथःप्रहरः।
      लख्नौ> उत्तरप्रदेशस्य  उन्नावे आयोक्ष्यमाणायाः समर्थनगर-परियोजनायाः कृते स्वीकृतभूसंबन्ध तर्कः कृषकारक्षकयोः मिथःप्रहरस्य कारणम् अभवत्। कृषकाणां पार्श्वतः आरक्षकान् प्रति पाषाणक्षेपः अजायत। तदा आरक्षकाः दण्डप्रक्रमः  अकुर्वन्I नगर निर्माणाय आनीतानि उपकरणानि प्रतिषिद्धाः अग्निसात्  कृतानि। 'ट्रान्स् गङ्गा' इति परियोजनायाः प्रदेशे एव घटना अजायत्। भूनष्टस्य परिहारः इतःपर्यन्तं न लब्धः इति प्रतिषेधिनः वदन्ति। किन्तु परिहारधनं सर्वं दत्तमस्ति इति अधिकारिणः वदन्ति। समर्थनगरस्य निर्माणं रोद्धुं केचन प्रयत्नं कुर्वन्ति इत्यपि परियोजनायाः नेतृजनैः उक्तम्।

Sunday, November 17, 2019

गोतबाय राजपक्सः श्रीलङ्कस्य नूतनाध्यक्षत्वेन चितः।
        कोलम्बो > श्रीलङ्कदेशस्य निर्वाचने नूतनाध्यक्षत्वेन श्रीलङ्क एस् एल् पि पि दलस्य स्थानार्थी गोतबाय राजपक्सः चितः भवति। युणैटड् नाषणल् दलस्य सजित्प्रेमदासः आसीत् मुख्यः प्रतियोगी। श्रीलङ्कस्य भूतपूर्वाध्यक्षस्य महीन्द्रराजपक्सस्य सोदरः भवति गोतबाय राजपक्सः।  ५१.२% जनसम्मतिः राजपक्सेन प्राप्ता इति सूचना अस्ति। प्रतियोगिना सजित् प्रेमदासेन ४२% सम्मतिः प्राप्ता। महीन्द्रराजपक्सस्य शासनकाले आभ्यन्तरकार्यदर्शी आसीत् गोतबायराजपक्सः
होङ्कोङ् राज्ये चीनस्य सैनिकाः विन्यस्थाः। सैनिकप्रक्रमात् भीतिः।
चित्रम् AFP
      बीजिङ् > जनन्त्रम्  अभिवाञ्च्य जनानां समरप्रक्रमः प्रवर्तमानः हेङ्कोङ् राज्ये चीनेन सैनिकाः विन्यस्थाः। जनानां रोषाः शक्तीकृत्य मासानि अतीतानि चेदपि प्रथमतया एव सैनिकानां विन्यासः। सैनिकाः तु होङ्कोङ् मध्ये निर्मिते तत्कालीन-शिबिरे स्थित्वा क्रान्तिकारिभिः  निर्मिता मार्गप्रतिबन्धाः, शिलाखण्डादयाः वीथीमध्यात्  निष्कासिताः। सैनिकवस्त्रस्य स्थाने हरित युतकं श्यामोरुकं च धृत्वा आसीत् मार्गस्य स्वच्छताकरणम्। क्रान्तिजनान् प्रतिरोद्धुं सर्वकारस्य साहायार्थं न एवं प्रवर्तितम् इति सैनिकाः वदन्ति। चीनस्य नियमानुसारं प्रादेशिकसर्वकारस्य  निमन्त्रणं विना एवं प्रवर्तितुं न शक्यते। किन्तु विगते २२ संवत्सराभ्यन्तरे एवं निमन्त्रणम् एकवारमपि नासीत्। किन्तु होङ्कोङस्य सुरक्षासचिवः जोण् ली का चियु इत्याख्यः सैनिकानयनम् अधिकृत्य सूचितवान् आसीत्। सेवा प्रवर्तनाय आह्वानं विनापि आगन्तुं शक्यते सैनिकेभ्यः इत्यपि तेनोक्तम्।  

Saturday, November 16, 2019

प्रथमक्रिकेट् टेस्ट् - भारतस्य विजयः एकेन इन्निङ्सेन १३० धावनाङ्‌कैश्च।
     इन्टोर्> बङ्ग्लादेशं एकेन इन्निङ्सेन १३० धावनाङ्‌कैश्च पराजित्य भारतदलं परम्परायां १-० इति आधिपत्यं प्रापयत्। प्रथमटेस्ट्क्रीडायाः तृतीये दिने एव भारतदलम् उत्तमं विजयं प्रापयत्। भारतदलेन स्वप्रथमम् इन्निङ्स् गतदिनस्य ४९३/६ इत्यङ्के पर्यवसितम्। भारताय ३४३ धावनाङ्कानाम् आधिपत्यं दत्‍वा द्वितीयेन्निङ्स् क्रीडनमारब्धस्य बङ्‌ग्लादेशदलस्य आरम्भः निराशापूर्णः आसीत्। भारतस्य कन्दुकक्षेपकान् प्रतिरोद्धुं बङ्‌ग्लादेशदले मुश्फिकुर् रहिम् (६४) एक एवासीत्। भारताय षमिः ४ क्रीडकान् निष्कासयत्। अश्विन् ३, उमेष् यादवः २ च क्रीडकान् प्रापयताम्। अनेन विजयेन विश्वटेस्ट्क्रिकेट् परम्परायां भारतदलं प्रथमस्थानं पर्यपालयत्।
राजनैतिकदलानि जनसमुदायानां मध्ये कलहं वितीर्य वर्धन्ते -न्यायाधिपः सि एन् रामचन्द्रन् नायर् 
     कालटी> भारतस्य छात्राः विश्वस्य  पुरतः प्रथम श्रेण्यां भवन्तु। तदर्थं नेतुं तान् युक्तान् कारयामः इति न्यायाधिपः सि एन् रामचन्द्रन् नायर् महोदयेन उक्तम्। राजनैतिक दलानि तेषां वर्धनाय विभिन्न जनसमूहयोः मध्ये जाति मत भेदं उक्त्वा आरक्षणाय  जातीयजनसमूहेषु आशायाः उद्दीपनं कृत्वा  मिथः द्वेषं ज्वाल्य वर्धन्ति। वयं तत् ज्ञात्वा जीवेमः इत्यपि न्यायाधिपेन  उक्तम्। श्रीनारायण स्टडीसर्किल् पेरुम्बावूर्  इत्यस्य  पञ्च वर्षीयोद्घाटनं निरूह्य भाषमाणः आसीत् सः।
     कार्यक्रमे गुरु मुनि नारायणप्रसादः गुरुदर्शनस्य कालातीत मूल्यम् इति विषये भाषणं कृतवान्। कला-साहित्य प्रतिभाभिः 'गुरु नित्यचैतन्ययति प्रतिभापुरस्कारः'  न्यायाधिपः पि मोहनदासवर्यः दत्तवान्I निवृत्तन्यायाधिपः  वी एन्  सत्यानन्दः कार्यक्रमे अध्यक्षः आसीत्।

प्रथमक्रिकेट् टेस्ट् - भारतं सुशक्तम्।
- के वि रजीष्
    इन्डोर्> बङ्‌ग्लादेशं प्रति प्रथमक्रिकेट् टेस्ट् स्पर्धायां भारतं सुशक्तम्। द्वितीयदिने बङ्‌ग्लादेशस्य अङ्कानपेक्षया भारतदलं ३४३ धावनाङ्कैः अग्रे वर्तते। भारताय मयङ्क् अगर्वाल् (२४३) द्विशतकं प्रापयत्। चेतेश्वर् पूजारः (५४), उपनायकः रहाने (८६), जडेजः (६०*) च अगर्वालम्‌ उत्तमसहयोगम् अकुर्वन्। जडेजेन सह उमेष् यादवः (२५*) क्रीडन् वर्तते। तथापि नायकस्य कोह्लेः(०) निष्कासनं निराशामजनयत्।
विश्वस्य प्रप्रथमं शिशुकेन्द्रीकृतं संस्कृतचलनचित्रं मासेऽस्मिन् प्रदर्शयिष्यति।
   तिरुवनन्तपुरम्> केरळस्य  संस्कृताध्यापकानां नूतनपदक्षेपः भवति इदं सम्पूर्णं चलनचित्रम्। मधुरस्मितमिति नाम्ना अस्मिन् नवम्बर् मासे अन्तिमसप्ताहे प्रकाशं वितरिष्यति।

   चित्रस्य पृष्टभूमौ संस्कृताध्यापकाः छात्राः च प्रयत्नं कृतवन्तः सन्ति। चलनचित्रस्य सूत्रधारः सुरेष् गायत्री महोदयः भवतिI अस्य महोदयस्य प्रथमः प्रयत्नः भवति शिशुकेन्द्रीकृतं सम्पूर्णं चलनचित्रम् 'मधुरस्मितम्'। संस्कृताध्यापिकया बिजिला किषोर् कुमार् महाभागया विरचिता अस्ति कथा I चित्रस्य कृते एन् के रामचन्द्रन्, रमाबाई, मनोहरन् , लाली, गिरीष् कुमार् च निर्माणकार्यकर्तारः भवन्ति। संस्कृतप्रेमिणः चित्रं दृष्टुम् उत्सुकाः भूत्वा उद्घाटनदिनं प्रतिपाल्य तिष्टन्तः सन्ति।
                                       


Friday, November 15, 2019

राक्षसपादमुद्रा लब्धा,  हिमयुग-जीवजालान् अधिकृत्य अधिकं ज्ञानं लब्धुम् अवसरः जायते।

(GPR उपयुज्य चित्राणि गृह्यन्ते। चित्रम् कोर्णल् विश्वविद्यालयेन स्वीकृतम्।)
    मानवानाम् अन्येषां जीविवर्गाणां हिमयुगस्य (Ice Age) जीवनम् अधिकृत्य अधिक विवरणानि लब्धुम् अवसरः जायते। भौमान्तर्भागे हिमयुगस्य राक्षसमनुष्यस्य बृहदाकारा पादमुद्रा दृष्टा।  भौमान्तर्गत वस्तून प्रत्यभिज्ञातुं सहायकं 'ग्रौण्ट् पेनट्रेट्टिङ्  रडार्  (GPR) उपयुज्य यु एस् राष्ट्रस्थ कोर्णल् विश्वविद्यालयेन कृतानुसन्धाने एव हिमफलकानामधः पादमुद्रा अदृष्टा। सूष्म-जीवावशिष्ट-निक्षिप्ता भवति इयं पादमुद्रा भवति। अधुना गृहीतस्य मृतावशिष्टस्य 12,000 संवत्सराणां पुरातनत्वम् अस्ति इति अनुमीयते।  नूतनं प्रत्यभिज्ञानं भूमुखात् अप्रत्यक्षाणां जीविवर्गाणां शारीरिकं रूपं तेषां चलनं जीवकोशानां रूपसज्जता इत्यादि विषयान् अधिकृत्य नूतनं प्रत्यभिज्ञानं लभते  इति विश्वविद्यालयस्य वैज्ञानिकः थोमस् अर्बन् वदति।