OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 15, 2019

इन्टोर् प्रथमक्रिकेट् टेस्ट् - भारतं शक्तम्।
 -के वि रजीष्
  इन्टोर्> बङ्ग्लादेशं प्रति टेस्ट्क्रिकेट् परम्परायाः प्रथमक्रिकेट् टेस्ट् मध्ये भारतस्य शुभारम्भः।  नाणकविक्षेपणं जित्‍वा प्रथमकन्दुकताडनं स्वीकृतं बङ्ग्लादेशदलं १५० धावनाङ्काभ्यन्तरे भारतसंघः निष्कासयत्। भारताय मुहम्मद् षमिः, इशान्त् शर्मा, उमेष् यादवः, अश्विनः च उज्वलप्रकटनम्‌ अकुर्वन्। षमिः३, अन्ये यथाक्रमं २ च क्रीडकान् निष्कासयन्। प्रतिक्रीडनवेलायां भारतदलं रोहित् शर्मणः (६) नष्टेन ८६ धावनाङ्कान् समपादयत्। भारताय अधुना मयङ्क् अगर्वाल् (३७) चेतेश्वर् पूजारः (४३) च क्रीडयन्तौ वर्तेते।

Thursday, November 14, 2019

शबरिगिर्यां युवतीप्रवेशविषये सर्वोच्च-न्यायालयस्य  निर्णयः सप्ताङ्गपीठस्य पुरतः प्रेषितः। 
  नवदिल्ली> शबरिगिरिदेवालये युवतीप्रवेशविषये सर्वोच्च-न्यायालयस्य  पूर्वनिर्णयः सप्ताङ्गपीठस्य पुरतः प्रेषितः। न्यायालयस्य निर्णये पुनरालोकनम्  आवश्यकं वा इति विषये एव निर्णयः सप्तड्गपीठेन करिष्यति। मुख्यन्यायाधीशस्य आध्यक्ष्ये विद्यमानेन पञ्चाङ्कपीठेन एव याचिकाः विशालपीठं प्रति प्रेषिताः।
जे.एन्.यू.प्रशासनेन छात्रावासशुल्के वृद्धे: निर्णय: प्रत्यावर्तित: 
-पुरुषोत्तमशर्मा
    नवदेहली>दिल्लीस्थेन जवाहरलालनेहरूविश्‍वविद्यालयेन छात्रावासशुल्‍कविषये कृता वृद्धि: आंशिकरूपेण प्रत्यावर्तनस्य निर्णयो विहित:। मानवसंसाधनविकासमन्त्रालये पदासीनेन सचिवे आर.सुब्रमण्‍यमेन ट्वीट सन्देशे लिखितं यत् परिषदा आर्थिकरूपेण असहायवर्गाणां विद्यार्थिभ्य: आर्थिकसाहाय्यप्रदानस्य योजनापि प्रस्‍तावितास्ति।
भारतीयवैज्ञानिकाय ब्रिक्स् पुरस्कारः।
  रियो डे जनीरो> भारतीयस्य वैज्ञानिकगवेषकस्य रविप्रकाशस्य कृते २५००० डोलर्मूल्यपरिमितः 'ब्रिक्स् यङ्‌ इन्नवेटर्' पुरस्कारः। प्रथमतया एव एकेन भारतीयेन पुरस्कारोऽयं प्राप्तः वर्तते। रविप्रकाशेन ग्रामीणक्षीरकर्षकेभ्यः क्षीरशीतीकरणकेन्द्रं तद्‌देशीयतया आविष्कृतं वर्तते। अस्मै प्रवर्तनाय एव ब्रिक्स् पुरस्कारः लब्धः। रविप्रकाशेन ऐकार् नाषणल् रिसर्च् डयरी इन्स्टिट्यूषन् बङ्गलुरुतः गवेषणबिरुदं सम्पादितं वर्तते। ब्रसील् देशे ब्रिक्स् उन्नतयोगसम्बन्धतया आयोज्यमाने युववैज्ञानिकानां मेलने रविप्रकाशः भारतस्य प्रतिनिधिः भवति। बीहार् स्वदेशी भवति रविः।
भारतबाङ्ग्लादेशयोः क्रिकेटनिकषस्पर्धा 
-पुरुषोत्तमशर्मा 
   भारतबाङ्ग्लादेशयोः मध्ये क्रिकेटनिकषशृङ्खला अद्यारप्स्यते। क्रीडाद्वयस्य प्रथमा स्पर्धा अद्यारभते। इन्दौरनगरस्थे होलकर-क्रीडाङ्गणे प्रात: सार्धनववादनात् क्रीडारम्भो भविष्यति। भारतीयदलस्य नेतृत्वं विराटकोहली विधास्यति।
वायुप्रदूषणम् - केन्द्रसर्वकारं विमर्श्य उच्चतरन्यायालयः।
   नवदहली> दहलीमध्ये प्रतिदिनं वर्धमानं वायुप्रदूषणं प्रति केन्द्रसर्वकारस्योपरि उच्चतरन्यायालयस्य रूक्षविमर्शः। राजधान्यां तथा उत्तरभारतस्य केषुचित् प्रदेशेषु च वायुप्रदूषणं नियन्त्रणातीतं जातमासीत्। विषयेऽस्मिन् केन्द्रसर्वकारेण आवश्यकी श्रद्धा नैव दत्ता इति न्यायालयेन निरीक्षितम्। अन्तरिक्षमलिनीकरणं प्रतिरोद्धुं हैड्रजनधिष्ठितां इन्धनसाङ्केतिकविद्याम् उपयोक्तुं शक्यते वा इति केन्द्रसर्वकारं न्यायालयेन अन्विष्टम्। अन्तरिक्षमलिनीकरणं परिहर्तुं जापानस्थसाङ्केतिकविद्या स्वीक्रियते इति केन्द्रसर्वकारेण प्रतिवचनं दत्तम्। विषयेऽस्मिन् डिसम्बर् तृतीयदिनाङ्‌काभ्यन्तरे सर्वकारः अवलोकनं समर्पयिष्यति। विषयेऽस्मिन् जापानस्थेन विश्वविद्यालयेन गवेषणं कृतं वर्तते, गवेषणेऽस्मिन् हैड्रजनधिष्ठितां साङ्केतिकविद्यां सम्बन्ध्य निर्देशः वर्तते इति च केन्द्रसर्वकाराय नियमोपदेशप्रमुखः तुषार् मेहतः न्यायालयं न्यवेदयत्।

Wednesday, November 13, 2019

मुख्यन्यायाधीशस्य कार्यालयः अपि सूचनाधिकारनियमस्य अधीने भवति- निर्णयस्य साधुत्वं परिकल्प्य सर्वोच्चन्यायालयः।
 नवदिल्ली> सर्वोच्च-न्यायालयस्य मुख्यन्यायाधीशस्य कार्यालयः अपि सूचनाधिकारनियमस्य अधीने भवति इति सर्वोच्च-न्यायालयः। मुख्यन्यायाधीशस्य रञ्जनगोगोय् वर्यस्य आध्यक्ष्ये विद्यमानस्य पञ्चाङ्ग-शासन-संविधान-पीठस्य विधिनिर्णयः भवत्ययम्। जनहितं संरक्षितुं सुतार्यता आवश्यकी इति न्यायालयेन दृष्टम्।
विषयेस्मिन्  दिल्ली उच्च न्यायालयस्य २०१० तम संवत्सरस्य निर्णयस्य साधुत्वं  सर्वोच्चन्यायालयेन कल्पितम् आसीत्।
वनाग्निदुरन्ते ओस्ट्रेलिया; अतितापः अनिलः च अग्निशमने बाधा।
     सिड्नि> अतिगुरुतरं अग्निसङ्क्रमणं प्रतिरोद्धुम् अशक्ताः भूत्वा ओस्ट्रेलिय राष्ट्रस्य अग्निशमनसेना। अन्तरिक्षतापमानस्य वर्धनं शुष्कः वातावरणं शक्तः वातः च अग्निशमन प्रवर्तनानि दुष्करं कृत्वा भाययन्ति। न्यू सौत् वेयिल्स् इत्यत्र मङ्गलवासरे तापमानं  ३७ डिग्रि अभवत्। प्रतिहोरायां ६५ किलोमीट्टर्  आसीत् वातस्य वेगःI  न्यू सौत् वेयिल्स्, कीन्स् लान्ट् प्रदेशयोः सर्वकारेण द्रुतप्रक्रमः प्रख्यापितः आसीत्l त्रयः जनाः मृताः शतं व्रणिताः  सहस्रशाः गृहं परित्यक्त्वा पलायिताः च। द्वयोः राज्ययोः सप्ताहाभ्यन्तरे १२० प्रदेशेषु अग्निः ज्वलिता। एतेषु ५० स्थानेषु इतःपर्यन्तम् अग्निः नियन्त्रणाधीतं वर्तते। सिड्णि नगरप्रान्तेषु अपि जाग्रतानिर्देशः प्रख्यापितः अस्ति। १० लक्षं हेक्टर् मितं भूप्रदेशः २०० गृहाणि च भग्नाः।
महाराष्ट्रे राष्ट्रपतिशासनम्।
    नवदहली> निर्वाचनफलप्रकाशनात्परं नवदशदिनानन्तरमपि शासनविषये अनिश्चितत्वं वर्तमाने महाराष्ट्रे राज्यपालः राष्ट्रपतिशासनाय न्यवेदयत्। राज्यपालस्य भगत् सिंह् कोषियारेः निवेदनं राष्ट्रपतिना अङ्गीकृतं च। शासनसंहितामनुसृत्य महाराष्ट्रे सर्वकारशासनम् अधुना दुष्करमिति राज्यपालः राष्ट्रपतिं न्यवेदयत्। अपि च कुत्सितमार्गेण राष्ट्रियदलानि शासनाय प्रयतन्ते इत्यपि राज्यपालनिवेदने सूचितं वर्तते। भा ज पा, शिवसेना, एन् सि पि इत्यादीनि दलानि सर्वकाररूपीकरणाय राज्यपालेन आमन्त्रितान्यासन्। किन्तु कैरपि परस्परं विश्वासमार्जयितुं न शक्तम्। एतदेव राष्ट्रपतिशासनाय कारणमभवत्। अधुना षट्मासात्मककालपर्यन्तमेव राष्ट्रपतिशासनं स्वीकृतं वर्तते।

Tuesday, November 12, 2019

कच्चेगुड रेल् निस्थाने यानघट्टनेन यात्रिकाः क्षताः
     हैदराबाद्> कच्चेगुड रेल् निस्थाने यानघट्टनेन यात्रिकाः क्षताः । एम्. एम्. टि. एस्. कोङ्कु एक्‌स्प्रस् याने मिथः घट्टिम्। घटनेयं सोमवासरे प्रभाते आसीत्I ३० जनाः क्षताः। सूचना संविधानस्य क्षमतायाः न्यूनता भवति अपघातस्य  कारणम्। व्रणिताः आतुरालयं प्रविष्टाः ।

Monday, November 11, 2019

भारतनिर्वाचनायोगस्य पूर्वध्यक्षः टि एन् शेषः दिवङ्गतः। राष्ट्रस्य श्रद्धाञ्जलिःI
यावत् भारतवर्षस्यात्। तावदेवस्मरेत् जनाः॥
   चेन्नै> भारतस्य निर्वाचनमण्डलस्य अलीकगमनं निवार्य जनतन्त्रमार्गेण नेतुं प्रयत्नं कृतवान् आसीत् टि एन् शेषः। निर्वाचनायोगस्य शक्तिः अधिकारः च कियत् पर्यन्तम् अस्ति इति सः प्रदर्शितवान्l एषः राजनैतिक-दलीयेभ्यः तटस्थः चेदपि भारतस्य सामान्यजनानां मनसि रक्षकस्य स्थाने आसीत्। अत एव भारतस्य राष्ट्रपतिः अपि सः भूयात् इति सामान्य-जना: अपि चिन्तितवन्तः। राष्ट्रपतिः इति पदस्य शक्तिः क्षमता च तस्मै संस्थापयितुं शक्यते इति जनाः चिन्तितवन्तः आसन्।
   भारतस्य  राष्ट्रपतिः प्रधानमन्त्री प्रभृतयः प्रमुखाः तस्य महात्मनः निधने अनुशोचनं ज्ञापितवन्तः I
कर्तार्पुरमार्गः उद्‌घाटितः - इम्रान्खानं कृतज्ञतां वितीर्य नरेन्द्रमोदी।
  सुल्त्तान्पुर् > गुरुदास्पुरस्थदेराबाबनानाकतः कर्तार्पुरमार्गस्य संयोजितविरामस्थाण्वोः उद्‌घाटनं भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। विषयेऽस्मिन् भारतस्य तात्पर्यमपि अङ्गीकृतवन्तं पाक् प्रधानमन्त्रिणम् इम्रान्खानं मोदी कृतज्ञतां न्यवेदयत्। गुरुनानाकस्य ५५० तमजन्मवार्षिकवेलायाम् अस्यां कर्तार्पुरमार्गस्य उद्‌घाटनं साधितमित्येतत् महान्तं सन्तोषं ददाति इति उद्‌घाटनभाषणे मोदी अवदत्। गुरोः ५५०तमे जन्मदिने आदरसूचकतया ५५० रुप्यकस्य स्मारकनाणयं प्रसिद्धीकरिष्यतीति मोदिना सूचितम्।

Sunday, November 10, 2019

बुल्बुल् चक्रवातः - अष्टौ जनाः मृताः।
     कोल्कत्ता > बुल्बुल् चक्रवातस्याघाते कोल्कत्तमध्ये अष्टौ जनाः मृताः। बङ्गाल् सागरे आविर्भूतः चक्रवातः १२० कि.मि वेगेन तीरं प्राप्य बङ्‌गालस्य बङ्ग्लादेशस्य च तीरे महते नाशाय कारणमभवत्। एवमेव ओडीशमध्ये अपि बुल्बुल् चक्रवातः बाधितः वर्तते। अधुना एतेभ्यः प्रदेशेभ्यः २५ लक्षाधिकाः जनाः दुरिताश्वासकेन्द्रेषु वर्तन्ते।
भीकराक्रमणः स्यात्, भारते पूर्वसूचना  प्रसारिता। 
    नवदिल्ली> अयोध्या-विधिनिर्णयस्य पृष्टभूमौ राष्ट्रे दशदिनाभ्यन्तरे भीकराक्रमणं कर्तुं जेइष् ए मुहम्मद् सज्जतां करोति इत्यस्ति नूतनम् आवेदनम्।  सैनिकीय-बैद्धिकदलं 'रो'  इन्टलिजन्स् आयोगः  इत्यादीनां विविधानां रहस्यान्वेषण-दलसंस्थानां पार्श्वतः आवेदनानि लब्धानि। रहस्यान्वेषणसंस्थाभ्यः पृथक्‌ रूपेण कृतान्वेषणे लब्धानि  इमानि आवेदनानि इति अतिगौरवम् आवहन्ति। आवेदनानि स्वीकृत्य भारतसर्वकारेण सुरक्षा निरीक्षणानि शक्तीकृतानिI
पलाण्डुमूल्यम्: लक्षं टण् पलाण्डुः समानेतुं केन्द्र-सर्वकारेण निर्णीतम्I

 नवदिल्ली> पलाण्डुमूल्यस्य वर्धनं रोद्धुं लक्षं टण् पलाण्डुः समानेतुं केन्द्रसर्वकारेण निश्चितम्। विक्रयणमूल्यं किलोमितस्य शतं रूप्यकाणि वर्धितम् इति कारणेन भवति समानयनम्। वार्तेयं  भक्ष्य-उपभोक्तृमन्त्रिणा रांविलास पास्वानेन ट्वीट् कृता।
    एस् एम् टि सि संस्थायै एव आनयनाय अनुज्ञा लब्धा। भारतराजधान्यां पलाण्डोः मूल्यम् शतमभवत्।  अन्यत्र प्रदेशेषु  मूल्यं ६०-८० इति क्रमेण भवतिI

Saturday, November 9, 2019

बुल्बुल् चक्रवातः कोल्कत्ततीरं प्रति।
  नवदहली > बुल्बुल् चक्रवातः शक्तिं प्राप्य कोल्कत्ततीरं प्रापयति इति सूचना। अतिवृष्ट्या सह प्रतिघण्डं १२० कि.मी. वेगेन वातः भविष्यतीति केन्द्रपर्यावरणनिरीक्षणकेन्द्रस्य निर्देशः वर्तते। पश्चिमबङ्गाल् सर्वकारः जनान् प्रति जाग्रतायै निर्देशम् अयच्छत्। कोल्कत्तव्योमयानकेन्द्रं रविवासरे षट्वादनपर्यन्तं न प्रवर्तते इति केन्द्राभ्यन्तरमन्त्रालयेन विज्ञापितं भवति।
संस्कृतभारत्याः प्रथम विश्वसम्मेलनं  समारब्धम्।  
   नवदिल्ली> संस्कृतं जनभाषां कर्तुम् अश्रान्तपरिश्रमं कुर्वता विश्वस्तरीय संघटना भवति संस्कृतभारती। अस्याः  प्रथम-विश्वसम्मेलनस्य उद्घाटनं केद्रीय चिकित्सा-स्वास्थ्य  तथा विज्ञान-प्रौद्योगिकी मंत्री डॉ हर्षवर्धनः अकरोत्। मेलने समागतानां संस्कृतप्रेमिणां  सङ्ख्यां दृष्ट्वा अत्भुतं तथा संतृप्तिः च अनुभवामि  इति हर्षवर्धन-महोदयेन उक्तम् I विश्वस्य विभिन्नेभ्यः २१ राष्ट्रेभ्यः ७१ प्रतिनिधयः अत्र समागताः सन्ति। भारतस्य  बहिः लक्षं जनाः संस्कृतं पठन्तः सन्ति। आभारतं १ कक्ष्यातः १२ कक्ष्या पर्यन्तं  त्रिकोटि छात्राः संस्कृतं पठन्ति इति गणनां कृत्वा तेन उक्तम्। विश्वमहा मेलनस्य उद्‌घाटनं कुर्वन् भाषमाणः आसीत् सः। 
संस्कृतलोके  सुज्ञातः लोकसभा सदस्यः प्रतापचन्द्र  षडङ्गी संस्कृतस्य महत्वं स्वात्मभाषणे सरलतया कृतं चI 
विवादभूमिः हैन्दवपरिपालनसमित्यै ; अयोध्याप्रकरणे सर्वोच्चन्यायालयस्य चरित्रविधिः। 
* इस्लामिकसमित्यै ५ एकर् परिमिता भूमिः विवादभूमेः बहिः दातव्या। 

 * विधिः ऐककण्ठ्येन!