OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 13, 2019

वनाग्निदुरन्ते ओस्ट्रेलिया; अतितापः अनिलः च अग्निशमने बाधा।
     सिड्नि> अतिगुरुतरं अग्निसङ्क्रमणं प्रतिरोद्धुम् अशक्ताः भूत्वा ओस्ट्रेलिय राष्ट्रस्य अग्निशमनसेना। अन्तरिक्षतापमानस्य वर्धनं शुष्कः वातावरणं शक्तः वातः च अग्निशमन प्रवर्तनानि दुष्करं कृत्वा भाययन्ति। न्यू सौत् वेयिल्स् इत्यत्र मङ्गलवासरे तापमानं  ३७ डिग्रि अभवत्। प्रतिहोरायां ६५ किलोमीट्टर्  आसीत् वातस्य वेगःI  न्यू सौत् वेयिल्स्, कीन्स् लान्ट् प्रदेशयोः सर्वकारेण द्रुतप्रक्रमः प्रख्यापितः आसीत्l त्रयः जनाः मृताः शतं व्रणिताः  सहस्रशाः गृहं परित्यक्त्वा पलायिताः च। द्वयोः राज्ययोः सप्ताहाभ्यन्तरे १२० प्रदेशेषु अग्निः ज्वलिता। एतेषु ५० स्थानेषु इतःपर्यन्तम् अग्निः नियन्त्रणाधीतं वर्तते। सिड्णि नगरप्रान्तेषु अपि जाग्रतानिर्देशः प्रख्यापितः अस्ति। १० लक्षं हेक्टर् मितं भूप्रदेशः २०० गृहाणि च भग्नाः।
महाराष्ट्रे राष्ट्रपतिशासनम्।
    नवदहली> निर्वाचनफलप्रकाशनात्परं नवदशदिनानन्तरमपि शासनविषये अनिश्चितत्वं वर्तमाने महाराष्ट्रे राज्यपालः राष्ट्रपतिशासनाय न्यवेदयत्। राज्यपालस्य भगत् सिंह् कोषियारेः निवेदनं राष्ट्रपतिना अङ्गीकृतं च। शासनसंहितामनुसृत्य महाराष्ट्रे सर्वकारशासनम् अधुना दुष्करमिति राज्यपालः राष्ट्रपतिं न्यवेदयत्। अपि च कुत्सितमार्गेण राष्ट्रियदलानि शासनाय प्रयतन्ते इत्यपि राज्यपालनिवेदने सूचितं वर्तते। भा ज पा, शिवसेना, एन् सि पि इत्यादीनि दलानि सर्वकाररूपीकरणाय राज्यपालेन आमन्त्रितान्यासन्। किन्तु कैरपि परस्परं विश्वासमार्जयितुं न शक्तम्। एतदेव राष्ट्रपतिशासनाय कारणमभवत्। अधुना षट्मासात्मककालपर्यन्तमेव राष्ट्रपतिशासनं स्वीकृतं वर्तते।

Tuesday, November 12, 2019

कच्चेगुड रेल् निस्थाने यानघट्टनेन यात्रिकाः क्षताः
     हैदराबाद्> कच्चेगुड रेल् निस्थाने यानघट्टनेन यात्रिकाः क्षताः । एम्. एम्. टि. एस्. कोङ्कु एक्‌स्प्रस् याने मिथः घट्टिम्। घटनेयं सोमवासरे प्रभाते आसीत्I ३० जनाः क्षताः। सूचना संविधानस्य क्षमतायाः न्यूनता भवति अपघातस्य  कारणम्। व्रणिताः आतुरालयं प्रविष्टाः ।

Monday, November 11, 2019

भारतनिर्वाचनायोगस्य पूर्वध्यक्षः टि एन् शेषः दिवङ्गतः। राष्ट्रस्य श्रद्धाञ्जलिःI
यावत् भारतवर्षस्यात्। तावदेवस्मरेत् जनाः॥
   चेन्नै> भारतस्य निर्वाचनमण्डलस्य अलीकगमनं निवार्य जनतन्त्रमार्गेण नेतुं प्रयत्नं कृतवान् आसीत् टि एन् शेषः। निर्वाचनायोगस्य शक्तिः अधिकारः च कियत् पर्यन्तम् अस्ति इति सः प्रदर्शितवान्l एषः राजनैतिक-दलीयेभ्यः तटस्थः चेदपि भारतस्य सामान्यजनानां मनसि रक्षकस्य स्थाने आसीत्। अत एव भारतस्य राष्ट्रपतिः अपि सः भूयात् इति सामान्य-जना: अपि चिन्तितवन्तः। राष्ट्रपतिः इति पदस्य शक्तिः क्षमता च तस्मै संस्थापयितुं शक्यते इति जनाः चिन्तितवन्तः आसन्।
   भारतस्य  राष्ट्रपतिः प्रधानमन्त्री प्रभृतयः प्रमुखाः तस्य महात्मनः निधने अनुशोचनं ज्ञापितवन्तः I
कर्तार्पुरमार्गः उद्‌घाटितः - इम्रान्खानं कृतज्ञतां वितीर्य नरेन्द्रमोदी।
  सुल्त्तान्पुर् > गुरुदास्पुरस्थदेराबाबनानाकतः कर्तार्पुरमार्गस्य संयोजितविरामस्थाण्वोः उद्‌घाटनं भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। विषयेऽस्मिन् भारतस्य तात्पर्यमपि अङ्गीकृतवन्तं पाक् प्रधानमन्त्रिणम् इम्रान्खानं मोदी कृतज्ञतां न्यवेदयत्। गुरुनानाकस्य ५५० तमजन्मवार्षिकवेलायाम् अस्यां कर्तार्पुरमार्गस्य उद्‌घाटनं साधितमित्येतत् महान्तं सन्तोषं ददाति इति उद्‌घाटनभाषणे मोदी अवदत्। गुरोः ५५०तमे जन्मदिने आदरसूचकतया ५५० रुप्यकस्य स्मारकनाणयं प्रसिद्धीकरिष्यतीति मोदिना सूचितम्।

Sunday, November 10, 2019

बुल्बुल् चक्रवातः - अष्टौ जनाः मृताः।
     कोल्कत्ता > बुल्बुल् चक्रवातस्याघाते कोल्कत्तमध्ये अष्टौ जनाः मृताः। बङ्गाल् सागरे आविर्भूतः चक्रवातः १२० कि.मि वेगेन तीरं प्राप्य बङ्‌गालस्य बङ्ग्लादेशस्य च तीरे महते नाशाय कारणमभवत्। एवमेव ओडीशमध्ये अपि बुल्बुल् चक्रवातः बाधितः वर्तते। अधुना एतेभ्यः प्रदेशेभ्यः २५ लक्षाधिकाः जनाः दुरिताश्वासकेन्द्रेषु वर्तन्ते।
भीकराक्रमणः स्यात्, भारते पूर्वसूचना  प्रसारिता। 
    नवदिल्ली> अयोध्या-विधिनिर्णयस्य पृष्टभूमौ राष्ट्रे दशदिनाभ्यन्तरे भीकराक्रमणं कर्तुं जेइष् ए मुहम्मद् सज्जतां करोति इत्यस्ति नूतनम् आवेदनम्।  सैनिकीय-बैद्धिकदलं 'रो'  इन्टलिजन्स् आयोगः  इत्यादीनां विविधानां रहस्यान्वेषण-दलसंस्थानां पार्श्वतः आवेदनानि लब्धानि। रहस्यान्वेषणसंस्थाभ्यः पृथक्‌ रूपेण कृतान्वेषणे लब्धानि  इमानि आवेदनानि इति अतिगौरवम् आवहन्ति। आवेदनानि स्वीकृत्य भारतसर्वकारेण सुरक्षा निरीक्षणानि शक्तीकृतानिI
पलाण्डुमूल्यम्: लक्षं टण् पलाण्डुः समानेतुं केन्द्र-सर्वकारेण निर्णीतम्I

 नवदिल्ली> पलाण्डुमूल्यस्य वर्धनं रोद्धुं लक्षं टण् पलाण्डुः समानेतुं केन्द्रसर्वकारेण निश्चितम्। विक्रयणमूल्यं किलोमितस्य शतं रूप्यकाणि वर्धितम् इति कारणेन भवति समानयनम्। वार्तेयं  भक्ष्य-उपभोक्तृमन्त्रिणा रांविलास पास्वानेन ट्वीट् कृता।
    एस् एम् टि सि संस्थायै एव आनयनाय अनुज्ञा लब्धा। भारतराजधान्यां पलाण्डोः मूल्यम् शतमभवत्।  अन्यत्र प्रदेशेषु  मूल्यं ६०-८० इति क्रमेण भवतिI

Saturday, November 9, 2019

बुल्बुल् चक्रवातः कोल्कत्ततीरं प्रति।
  नवदहली > बुल्बुल् चक्रवातः शक्तिं प्राप्य कोल्कत्ततीरं प्रापयति इति सूचना। अतिवृष्ट्या सह प्रतिघण्डं १२० कि.मी. वेगेन वातः भविष्यतीति केन्द्रपर्यावरणनिरीक्षणकेन्द्रस्य निर्देशः वर्तते। पश्चिमबङ्गाल् सर्वकारः जनान् प्रति जाग्रतायै निर्देशम् अयच्छत्। कोल्कत्तव्योमयानकेन्द्रं रविवासरे षट्वादनपर्यन्तं न प्रवर्तते इति केन्द्राभ्यन्तरमन्त्रालयेन विज्ञापितं भवति।
संस्कृतभारत्याः प्रथम विश्वसम्मेलनं  समारब्धम्।  
   नवदिल्ली> संस्कृतं जनभाषां कर्तुम् अश्रान्तपरिश्रमं कुर्वता विश्वस्तरीय संघटना भवति संस्कृतभारती। अस्याः  प्रथम-विश्वसम्मेलनस्य उद्घाटनं केद्रीय चिकित्सा-स्वास्थ्य  तथा विज्ञान-प्रौद्योगिकी मंत्री डॉ हर्षवर्धनः अकरोत्। मेलने समागतानां संस्कृतप्रेमिणां  सङ्ख्यां दृष्ट्वा अत्भुतं तथा संतृप्तिः च अनुभवामि  इति हर्षवर्धन-महोदयेन उक्तम् I विश्वस्य विभिन्नेभ्यः २१ राष्ट्रेभ्यः ७१ प्रतिनिधयः अत्र समागताः सन्ति। भारतस्य  बहिः लक्षं जनाः संस्कृतं पठन्तः सन्ति। आभारतं १ कक्ष्यातः १२ कक्ष्या पर्यन्तं  त्रिकोटि छात्राः संस्कृतं पठन्ति इति गणनां कृत्वा तेन उक्तम्। विश्वमहा मेलनस्य उद्‌घाटनं कुर्वन् भाषमाणः आसीत् सः। 
संस्कृतलोके  सुज्ञातः लोकसभा सदस्यः प्रतापचन्द्र  षडङ्गी संस्कृतस्य महत्वं स्वात्मभाषणे सरलतया कृतं चI 
विवादभूमिः हैन्दवपरिपालनसमित्यै ; अयोध्याप्रकरणे सर्वोच्चन्यायालयस्य चरित्रविधिः। 
* इस्लामिकसमित्यै ५ एकर् परिमिता भूमिः विवादभूमेः बहिः दातव्या। 

 * विधिः ऐककण्ठ्येन! 
अयोध्या राम-जन्मभूमि विषये भारतस्य सर्वोच्चन्यायालयस्य निर्णयः समागच्छति 
सर्वेन्यायाधिपाः ऐककण्ठ्येन निर्णयः ख्यापयिष्यन्ति।
  • भूमेः स्वामित्वविषये अधिकारं संबन्ध्य माहम्मदीय-षिया विभागस्य परिदेवनानि निष्कासितानि।
  • केचन निर्मितेः उपरि आसीत् बाबर् माहम्मदीयालयः निर्मितः इति पुरावस्तु विभागस्य अनुसन्धानं न्यायालयेन अङ्गीकृतम्।
  • अलहबाद् उच्चन्यायालयस्य प्राक्तननिर्णये त्रुटिरस्ति इति उच्चन्यायालयेन दृष्टम्।
  • २.७७८ एक्कर् तर्कभूमिः हैन्दवानां दातव्यम्।
  • माहम्मदीयानां कृते अयोध्यायां ५ एक्कर् भूमिः दातव्यम् इत्यपि आदिष्टम्।
  • केन्द्रसर्वकारेण रामदेवालय-निर्माणाय  दायित्वं स्वीकृत्य तदर्थं विशेषायोगं रूपीकत्य श्रीरामदेवालयस्य निर्माणदायित्वं तस्मै दातव्यम्I
जयपुरस्थ संस्कृत विद्यालये "व्याकरण सूत्र-अन्त्याक्षरी" प्रतियोगिता सम्पन्ना।

   जयपुरम्> राजगंगा चेरिटेबल-ट्रस्ट एवं राजकीय-महाराज-वरिष्ठोपाध्याय-संस्कृत-विद्यालय: जयपुरम् इत्यनयो: संयुक्ततत्वावधाने व्याकरण सूत्र-अन्त्याक्षरी प्रतियोगिताया: नवम्बरमासस्य सप्त दिनांके समायोजिता। अस्यां प्रतियोगितायां जयपुरमण्डलस्य छात्रा: आगतवन्त:। मुख्यनिर्णायकत्वेन प्रो. श्री मोहनलालशर्ममहोदया: श्री ईश्वरप्रसादशर्ममहोदया: तथा श्री राजारामशर्ममहोदया: आसन्। कार्यक्रमे मञ्चासीन: मुख्यातिथिरूपेण श्री नाथूलाल सुमनमहोदया:, सारस्वतातिथिरूपेण न्यासस्य संरक्षिका प्रो. राजेश्वरी-भट्टमहोदया:, विशिष्ठातिथिरूपेण प्रो. श्रीकृष्णशर्ममहोदया:, द्वितीयविशिष्ठातिथिरूपेण दिव्य-ज्योति-ट्रस्ट द्वारा संचालित मन्दिरस्य महंत श्री लक्ष्मणदासशर्ममहोदया:, संस्थाप्राचार्य: डॉ. गजानन्दशर्ममहोदया: च आसन्। 
    कार्यक्रमे समागतानाम् अतिथिनां संस्थाप्राचार्य: डॉ. गजानन्दशर्ममहोदया: तथा विद्यालयस्य अध्यापका: स्वागतं कृतवन्त:। प्रतियोगितायां जयपुरस्य त्रयोदशविद्यालयस्य छात्रा: समागताः। प्रतियोगितायां प्रथमं पुरस्कारं ३१०० रुप्यात्मकम्  राज. महा. वरि. उपा. सं. विद्यालय: जयपुरम् इत्यस्य बालिके (i) यशस्वी पारीक (ii) संजू पांचाल प्राप्तवत्यौ। द्वितीयं पुरस्कारं २१०० रुप्यात्मकम् राज. प्रवे. सं. विद्यालय: विमलपुरा फागी इत्यस्य बालिके (i) पूजा सैन (ii) सुमन सैन प्राप्तवत्यौ। तृतीयं पुरस्कारं ११००  रुप्यात्मकम् राज. वरि. उपा. सं. विद्यालय: कालच्या इत्यस्य छात्रौ (i) कमल कुमार सेपट (ii) प्रकाश सैनी प्राप्तवन्तौ। श्रीकृष्णशर्ममहोदय: उक्तवान् यत् आगामी वर्षे सम्पूर्ण अष्टाध्यायीशास्त्रं कंठस्थीकृत्वा प्रतियोगिता भवेत्। कार्यक्रमस्य अन्ते निर्णायकमण्डलस्य शॉल श्रीफलमाध्यमेन स्वागतं कृतम्। सर्वे जना: संस्कृतभाषाया: प्रचार-प्रसाराय संकल्पं कृतवन्त:।
वार्ताहर: - दीपक शास्त्री जयपुरम्

Friday, November 8, 2019

रामजन्मभूमि विषये भारतसर्वोच्चन्यायालयस्य निर्णयः - अयोध्यायां सुरक्षां निरीक्षणं च शक्तम् अकुरुताम्।
   लख्नौ> रामजन्मभूमि याचिकायां  भारतसर्वोच्चन्यायालयस्य निर्णयस्य आगमनवेलायाम् उत्तरप्रदेशे सर्वत्र  सुरक्षां निरीक्षणं च शक्तम् अकरोत्‌ I अयोध्ययां समीप प्रदेशेषु च अतीव सुरक्षा कारिता। प्रति दशपदेषु एकः आरक्षकः इति क्रमेण भवति सुरक्षा-विन्यासः। सि आर् पि एफ् विभागः च विन्यस्थाः। रक्त पीत हरित नील वर्णेषु मण्डलान् परिगणय्य भवति सुरक्षायाः आयोजनम्। ८०० विद्यालयाः सुरक्षासेनायाः शिबिराः अभवन्I चतुरधिकजनानां मेलनं दिसंबर् मासस्य  अन्तिम दिनपर्यन्तं निवारितम्I जन-सञ्चार-माध्यमानि निरीक्षितानि वर्तन्ते|

Thursday, November 7, 2019

भारते भवननिर्माण-मण्डले २५०० कोटि रूप्यकाणां सङ्ग्रहः।
  नवदिल्ली> भवननिर्माण-मण्डले २५०० कोटि रूप्यकाणां *विशेष-सङ्ग्रहः (special package) भारत-सर्वकारेण ख्यापितः। अपूर्णनिर्माणे वर्तितायाः आलय-परियोजनायाः  निर्माणपूर्णतायै भवति अयं विशेष-सङ्ग्रहःI राष्ट्रस्य १६०० आलय-योजनायै इयं सङ्ग्रहः अत्युपकारकः भविष्यति इति केन्द्र-धनमन्त्रिण्या निर्माला-सीतारामेन उक्तम्।

Tuesday, November 5, 2019

सत्यपाल् नायिक् गोवस्य राज्यपालः।
    पनजी > जम्मूकाश्मीरस्य पूर्वतनः राज्यपालः सत्यपाल् नायिक् गोवस्य राज्यपालत्वेन स्थानारुढः अभवत्। पनजी मध्ये राजभवने सम्पन्ने समारोहे मुम्बै उच्चन्यायालयस्य भूतपूर्वाध्यक्षः प्रदीप् नद्रजोग् प्रतिज्ञावचनम् उपादिशत्।
टेन्निस् लोके राफेल् नदाल् पुनरपि प्रथमः।
    माड्रिड् > मृत् मैतानस्य राजकुमारः इति विख्यातः राफेल् नदाल् ए टि पि स्थानपट्टिकायां प्रथमस्थानं प्रापयत्। पुरुषविभागे नोवाक् जोकोविच् द्वितीयस्थानं प्रति परिवर्तितः। २०१८ नवम्बर् मासात्परं नदालेन प्रथमस्थानं प्राप्तुं नैव शक्तम् आसीत्। इतःपूर्वं सप्तवारं तेन ए टि पि पट्टिकायां प्रथमस्थानं प्राप्तं वर्तते। तृतीयस्थाने स्विट्सर्लाण्टस्य रोजर् फेडरर् वर्तते।
ब्रसील्-अर्जन्टीनदलयोः सौहृदक्रीडा सौदिराष्ट्रे।
     रियाद् > ब्रसील्-अर्जन्टीनदलयोः सौहृदक्रीडा सौदिराष्ट्रे नवम्बर् मासस्य १५ तमे दिनाङ्के सौदिराष्ट्रे भविष्यति। सौदि अरेब्यस्थे रियाद् किङ् सौद् क्रीडाङ्कणे निश्चितायां क्रीडायाम् अर्जन्टीनस्य कृते लयणल् मेसि क्रीडिष्‍यति। अर्जन्टीनस्य क्रीडासंघे मेसि, अग्यूरो च चितौ वर्तेते। मासत्रयस्य निरोधनात्परमेव मेसि अर्जन्टीनस्य संघे चितः वर्तते।