OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 5, 2019

दूरवाणिसम्बन्धे प्रकाशने आशङ्कां प्रकाशयन् सर्वोच्चन्यायालयः।
     नवदहली> राष्ट्रे अधुना स्वकीयत्वसंरक्षणमित्‍येतत् असाध्यं वा इति आशङ्कां प्रकाशयति  सर्वोच्चन्यायालयः। छत्तीस्गड् सर्वकारेण ऐ पि एस् उद्योगिनः मुकेष् गुप्तस्य दूरवाणिरेखाः प्रकाशिता इति विषये समर्पितायाः  याचिकायाः परिगणनावेलायां न्यायाधिपः अरुण् मिश्रः एव आशङ्कां प्राकटयत्। स्वकीयत्‍वं पौरस्य मौलिकः अधिकारः भवति इति न्यायालयेन निरीक्षितम्। जनातान्त्रिकराष्ट्रे सर्वकारः पौरस्य स्वकीयविषयेषु अकारणतया व्यवहरति इत्‍येतत् आशङ्कां जनयति इति न्यायाधिपेन अभिप्रेतम्।

Monday, November 4, 2019

चन्द्रयानम् -२ ओर्बिट्टर् चन्द्रबाह्यमण्डले आर्गोण् ४० प्रत्यभिज्ञातम्।
     चन्द्रं प्रदक्षणं कृतवत् भारतस्य चन्द्रयानं द्वे इत्यस्य ओर्बिट्टर् चन्द्रबाह्यमण्डले आर्गोण् ४० इति मूलकं प्रत्यभिज्ञातम्। ओर्बिट्टर्  मध्ये संस्थापितेन अन्तरिक्षसंरचना-व्यवच्छेदयन्त्रेण आसीत् प्रत्यभिज्ञानम्। चन्द्रोपरितलात् १०० किलोमीट्टर् दूरे आसीत् अनुसन्धानम्। उत्कृष्ट-वातकत्वेन सुज्ञातः आर्गोणस्य 'ऐसोटोप्' भवति  आर्गोण् ४० [40Ar]। चन्द्रस्य बाह्यमण्डलस्य प्रधानांशः भवति ऐ. एस्. आर्.ओ.  संस्थया उच्यते। पोट्टास्यं ४० इत्यस्य रेडियो आक्टीव् विच्छेदनेन आर्गोण् ४० जायते इति ऐ एस् आर् ओ संस्थया उक्तम्I  चन्द्रं परितः विद्यमानः लघुतमः वातकस्तरः  चन्द्रबाह्यमण्डलः इति कथ्यते वैज्ञानिकैः। 
केरलेषु विद्यालयेषु कलाशालासु च विद्यालयीय- राजनैतिक-दलस्य प्रवर्तनानि सजीवं कर्तुं सर्वकारेण आलोच्यते। प्रक्रमान् विरुद्ध्य इ श्रीधरः।
     तिरुवनन्तपुरम्> विद्यालयेषु कलाशालासु च विद्यालयीय- राजनैतिक-दलस्य प्रवर्तनानि सजीवं कर्तुम् उद्दिश्य केरल राज्यस्य वामपक्षीय-सर्वकारेण आलोच्यते। प्रक्रमान् विरुद्ध्य न्यायालये याचिकां समर्पयिष्यायामि  इति दिल्ली मेट्रोरेल् संस्थायाः  मुख्योपदेष्टा इ श्रीधरः अवदत्। विद्यालय-कलाशालातलयोः राजनैतिकदलानां प्रवर्तनाय अनुज्ञादानाय सूष्म-व्यवस्थापत्राय विगतमन्त्रिसभामेलने अङ्गीकारः प्रदत्तः आसीत्।  शिक्षामण्डलेषु ईदृशरीत्या राजनैतिकदलानां प्रवर्तनाय क्रियमाणं  नियमनिर्माणं   विरुद्ध्य मम अध्यक्षतया विद्यमानया एफ् आर् एन् वि इति सङ्घटनया  सर्वोच्चन्यायालये सार्वजनीनतात्पर्य-याचिका समर्पयिष्यते इति श्रीधरेणोक्तम्। ट्रिवान्ट्रं मानेज्मेन्ट् असोसियेषन् द्वारा आयोजिते संवादे भाषमाणः आसीत् एषः।

Sunday, November 3, 2019

चन्द्रयानम् २ दौत्यं न अवसितम्। भविष्यत्काले अन्यतमं मृदुलावतरणं भविष्यति इति के शिवमहोदयः।
      नवदिल्ली> चन्द्रयानम् २ दौत्यं न अवसितम् इति ऐ एस्‌ . आर् ओ अध्यक्षेण  के शिवमहोदयेन उक्तम्l भविष्यत्काले अन्यतमं मृदुलावतरणं भविष्यति इति तेनोक्तम् दिल्लीस्थस्य  ऐ ऐ टि इत्यस्य सुवर्ण-संवत्सर-समारोहानुबन्धतया भाषमाणः आसीत् सः। चन्द्रोपरितले मुदुलावतरणं कर्तुं अशक्तः चेदपि उपरितलस्य त्रिशतम् (३००) मीट्टर् समीपं यावत् विक्रं लान्टर्  विना स्खालित्यं प्रवर्तितम् आसीत्। दोषान् परिहृत्य भविष्यत्दौत्ये वयं विजयिनः भविष्यामः इत्यपि तेनोक्तम्। 
सौदिराष्ट्रे शैक्षिकमण्डले समग्रपरिवर्तनम्, वैदेशिकविश्वविद्यालयेभ्यः अनुमतिः।
   रियाद्> शैक्षिकमण्डले कार्यक्षमतावर्धनाय समग्रपरिवर्तनं कर्तुं सौदिराष्ट्रस्य निर्णयः। तदर्थं राष्ट्रे वैदेशिक -विश्वविद्यालयानाम् अङ्गीकृतशाखाः समारब्धुं परिष्कृते शैक्षिकनियमे अनुमतिः दत्ता वर्तते। सौदिराजस्य आध्यक्ष्ये सम्पन्ने मन्त्रिसभामेलने परिष्कृतस्य शैक्षिकनयस्य अङ्गीकारः जातः। नूतननियमानुसारं सौदिराष्ट्रे उन्नतशिक्षामण्डले प्रवर्तयितुं वैदेशिक-विश्वविद्यालयेभ्यः अवसरः लब्धः भवतीति शिक्षामन्त्री हमद् अल् शैख् अवदत्।

Saturday, November 2, 2019

मण्डलीय-समग्रार्थिक -सख्यरूपीकरण-मेलने (आर् सि इ पि) भागं कर्तुं नरेन्द्रमोदी बाङ्कोक् मध्ये।
     नवदहली> सोमवासरे  बाङ्कोक् मध्ये सम्पद्यमाने आर् सि इ पि रूपीकरणमेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अपि भागं करिष्यति। तदर्थं तेन अद्य गम्यते। व्यवस्थायाः अव्यक्ततां परिहार्य समग्रपरिशोधाय  १६ राष्ट्रेभ्यः वाणिज्यमन्त्रीणां मेलनमपि वर्तते। तदनन्तरं परियोजनां सम्बन्ध्य प्रख्यापनं भविष्यति। एतन्मेलनात्परं मोदी १६-तमे आसियान् उन्नतमेलने तथा ईस्ट् एष्यमेलने च भागं करिष्यति।
भीकरवादं प्रति एकीभूय प्रवर्तिष्यते, भारतजर्मन्योः मध्ये १७ व्यवस्थाः सम्पन्नाः।

  नवदहली> भीकरवादं प्रति भारतजर्मन्योः मध्ये उभयपक्ष-बहुमुखसहकरणं शक्तं करिष्यतीति जर्मनिदेशाधिकारी एय्ञ्चला मेर्कल्। दहल्यां भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना सह प्रवृत्ते संयुक्तमेलने एतत्सम्बन्ध्य विशदीकृतम्। द्वयोरपि राष्ट्रयोः मध्ये कृषिः, व्योमयानं, शिक्षा, शास्त्रसाङ्केतिकगवेषणं, आयुर्वेदः, योगः इत्यादिषु मण्डलेषु  अक्कादमिक-सहकरणं शक्तं करिष्यति। प्रतिरोध-मण्डलस्थ-विषयाः अपि चर्चायाम् आसन्। जर्मनिदेशस्य साङ्केतिकनैपुणी आर्थिकशक्तिः च नवभारत-निर्माणे उपकरिष्यतीति नरेन्द्रमोदिना अभिप्रेतम्।
सौदिराष्ट्रे शैक्षिकमण्डले समग्रपरिवर्तनम्, वैदेशिक-विश्वविद्यालयेभ्यः अनुमतिः।
    रियाद्> शैक्षिकमण्डले कार्यक्षमतावर्धनाय समग्रपरिवर्तनं कर्तुं सौदिराष्ट्रस्य निर्णयः। तदर्थं राष्ट्रे वैदेशिकविश्वविद्यालयानाम् अङ्गीकृतशाखाः आरम्भयितुं परिष्कृते शैक्षिकनियमे अनुमतिः दत्ता वर्तते। सौदिराजस्य अध्यक्षतायां सम्पन्ने मन्त्रिसभामेलने परिष्कृतस्य शैक्षिकनयस्य अङ्गीकारः जातः। नूतननियमानुसारं सौदिराष्ट्रे उन्नतशिक्षामण्डले प्रवर्तयितुं वैदेशिकविश्वविद्यालयेभ्यः अवसरः लब्धः भवतीति शिक्षामन्त्री हमद् अल् शैख् अवदत्।

Friday, November 1, 2019

संस्कृताभियानम् 
प्रा.डॉ. विजयकुमार: मेनन्
   नमांसि, स्वीकृतस्य लक्ष्यस्य पूर्त्यर्थं,सातत्येन परिश्रमाय च ध्येयबद्धता अनिवार्या। सा बद्धता न व्यक्त्यै समर्पिता भवेत्, न च स्थानाय समर्पिता भवेत्, न वा कार्यविशेषाय समर्पिता। बद्धता ध्येयनिष्ठा, संस्कृतनिष्ठा च भवेत्। संस्कृतसेवायै  बद्धता, समाजसंस्कृतिधर्माणां संरक्षणाय संवर्धनाय च या बद्धता, सा समयसीमायुक्ता न। सा तु जीवनस्य प्रतिबद्धता। मित्राणि, वयं संस्कृतध्येयबद्धा: भवेम।

   संस्कृतम् एव परम् आराध्यं, संस्कृतमेव पठिष्यामि, संस्कृतमेव सेविष्ये च, संस्कृतेन एव पाठनं करोमि, संस्कृतकार्येण एव समाधानं, संस्कृताय जीवनं, संस्कृतादृते नान्यत्  किमपि इष्टतमं, संस्कृतसंबद्धं सर्वम् अपि मदीयं, मम अात्यन्तिकं प्रियं च, संस्कृते एव मम आत्यन्तिकी श्रद्धा। एवं प्रकारेण चिन्तनीयम्। मित्राणि, वयं संस्कृतसर्वस्वा: भवेम।

     स्वीयं जीवनं सार्थकं कर्तुम् अस्माभि: जीवने उदात्तं, लोकोपकारकं, महत्तरं च किञ्चन लक्ष्यं स्वीकरणीयम्। तस्मै लक्ष्याय, तस्मै जीवनध्येयाय च अस्माकं महत्तमा प्रतिबद्धता स्यात्, यथा कथ्यते- 'देहं वा पातयेयं, ध्येयं वा साधयेयम्' इति। संस्कृतप्राणा: वयं संस्कृतेन बद्धा: , संस्कृतकार्येण बद्धा: च। वयं संस्कृतकार्यार्थं बद्धकटय:। संस्कृतेन सम्भाषणाय बद्धवचना:। मित्राणि, वयम् एवं चिन्तयाम:
 जयतु संस्कृतं जयतु भारतम् ।

संस्कृत-जयघोषा:
जयतु संस्कृतम्  जयतु भारतम्।
श्रावणी पूर्णिमा संस्कृत दिवसः।
बिना संस्कृतं नैव संस्कृतिः।
संस्कृतभारतं समर्थ भारतम्।
भारतस्य भाषा संस्कृत भाषा।
समाजस्य हितम् संस्कृते निहितम्।
एकं लक्ष्यम् एका आशा -जनजनभाषा संस्कृतभाषा।
संस्कृतेन संभाषणं कुरु जीवनस्य परिवर्तनं कुरु।
मम देशो भारतम् मम भाषा संस्कृतम्।
१०संस्कृतिः संस्कृताश्रिता।
११संस्कृतम् संस्कृतेमूलम्।
१२भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा।
१३भारतस्य रक्षणाय बद्ध परिकरा वयम्।
१४पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा।
१५अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना।
१६ग्रामे ग्रामे संस्कृत भाषानगरे नगरे संस्कृत भाषा।
१७ग्रामे ग्रामे नगरे नगरे विलसतु संस्कृतवाणी।
१८विजयतां विजयतां संस्कृतं विजयताम्।
१९यदि कल्याणमिहन्ते संस्कृतम् अध्यताम्।

२०पठतु संस्कृतं वदतु संस्कृतम्।
 रेवतीभट्टस्थानम् नवंबर मासस्य  दशमाद्दिनाङ्कात्प्रभृति
महितसौम्योदारायाः सनातनमानवसंस्कृतेराधाराशिलेव वर्तते ऋषिसंस्थापिता वैदिकपरम्परा। केरलेष्वनादिकालादेव सम्प्रवृत्य विचरन्त्याः तस्याः परम्परायाः प्रमुखं राजनैतिकविधानमासीद् रेवतीभट्टस्थानम् (रेवति पट्टत्तानमिति भाषायाम्) इत्यादि सुविदितमेव। व्याकरणमीमांसावेदान्तेषु त्रिषु शास्त्रेषु उच्चस्तरीया एव विद्वांसः कार्यक्रमेऽस्मिन् पुरस्कृत्य सम्मानितवन्तः। पूर्वाचारैः तत्पुनरुत्थाप्य समायोजयति कोष़िक्कोटु नगरे अस्मिन् नवम्बर् मासस्य दशमाद्दिनाङ्कात्प्रभृति इति महत्प्रमोदाय सूचना प्राप्यते। डॉ. के एम् जातवेदन् नम्पूतिरि, श्रीमान् कोतमङ्गलं वासुदेवन् नम्पूतिरि इत्येतयोः पद-क्रम-रथा-जडापाठम् ऋग्वेदे, वेदत्रये मुऱजपं च भविष्यतः। वेदान्तमधिकृत्य डॉ. श्रीजित् डी जी, आचार्य आनन्दराज् जी इत्येतयोर्वाक्यार्थश्च विधीयते। डॉ. एम् लक्ष्मीकुमारी महोदयायै मनोरमत्तम्पुराट्टी पुरस्कारं समर्पयिष्यति। रेवतिपट्टत्तानसमित्या सम्पाद्यमानस्यास्य कार्यक्रमस्य रक्षाधिकारित्वं वहति कोष़िक्कोटु सामूतिरिराजा महामहिमश्री के सी उण्णियनुजन् राजा।
वियन्ना व्यवस्थायाः लङ्घनम् - पाकिस्थानं विरुद्ध्य अन्ताराष्ट्रन्यायालयः।

 वियन्न> कुल्भूषण् जादव् व्यवहारे पाकिस्थानेन वियन्ना व्यवस्था लङ्घिता इति अन्तारा-ष्ट्रन्यायालयस्य अवलोकनम्। अवलोकनमिदम् ऐक्यराष्ट्रसभां पुरतः अन्ताराष्ट्र-न्यायालयस्य अध्यक्षेण न्यायाधिपेन अब्दुल्खावि अहम्मद् यूसफेन समर्पितम्। भारत-पाकिस्थानयोः मध्ये वर्तमानानां समस्यानां न्यूनीकरणं लक्ष्यीकृत्यैव न्यायालयेन अवलोकनस्य प्रसिद्धीकरणं कृतं वर्तते। कुल्भूषण् जादवः निरपराधी भवतीति गतजूलैमासे अन्ताराष्ट्रन्यायालयेन प्रख्यापितमासीत्। एवमेव कुल्भूषणाय पाकिस्थानेन प्रख्यापितस्य वधात्मकदण्डनस्य असाधुत्वं कृत्वा पुनर्विचारोऽपि न्यायालयेन सूचितः आसीत्। तदर्थं तस्मै नयतन्त्रसाह्यं पाकिस्थानेन देयमित्यपि न्यायालयेन सूचितं च। किन्तु मासत्रयानन्तरमपि एतत्सम्बन्ध्य पाकिस्थानपक्षतः अनुकूलनिर्णयः कोऽपि नागतः इति न्यायालयेन अवलोकने सूचितम्। अन्ताराष्ट्र-न्यायालयस्य एतदवलोकनं विषयेऽस्मिन् भारताय गुणप्रदं भवति।

Thursday, October 31, 2019

आरबसागरे महान् चक्रवातः, 'महा'; केरले अतिजाग्रतानिर्देशः। 
अनन्तपुरी >  आरबसमुद्रे नूतनः महान् चक्रवातः जायमानः अस्तीति पर्यावरणविभागः। अनन्तपुरीतः २२० कि मी दूरे जातः न्यूनमर्दः अद्य अतितीव्रन्यूनमर्दः भूत्वा लक्षद्वीपं प्रविश्य मध्यपूर्वारबसमुद्रे चक्रवातरूपेण परिणमिष्यते। 
 ओमानराष्ट्रेण 'महा' इति कृतनामधेयस्य  अस्य चक्रवातस्य सञ्चारपथे केरलं नागच्छति तथापि तीरमण्डलेषु अतिशक्ताय वातप्रवाहाय साध्यता अस्ति। अतः मत्स्यबन्धनाय पूर्णनिरोधः प्रख्यापितः। मत्स्यबन्धनाय समुद्रं गताः धीवराः प्रत्यागमनाय आदिष्टाः। 
५ जनपदेषु अतितीव्रा वर्षा
  केरलेषु आगामिनिदिनेषु अतिशक्तायाः वर्षायाः साध्यता अस्ति। एरणाकुलं, तृशूर्, मलप्पुरं, कोष़िक्कोड्, इटुक्की जनपदेषु अतिजाग्रता [ओरञ्च्] उद्घुष्टा।
सर्दार् वल्लभाय् पट्टेलः राष्ट्रतत्परः - अमित् शाह्       
    नवदहली > भारतस्य प्रथमः उपप्रधानमन्त्री तथा आभ्यन्तरमन्त्री सर्दार् वल्लभाय् पट्टेलः राष्ट्रहिताय प्रामुख्यं दत्तवान् आसीत्। इति केन्द्राभ्यन्तरमन्त्री अमित् शाह्। पट्टेलस्य ११४ तमे जन्मदिने दहलीनगरे 'रण् फोर् यूणिट्टि ' इति कार्यक्रमस्य उद्घाटनं कृत्वा भाषमाणः आसीत् अमित् शाह्। पट्टेलस्य दृढनिश्चयः साहसिकता धीरता संयोजकनैपुणी च अस्मान् सर्वदा प्रचोदयन्ति इति सः अभिप्राययत्। जम्मूकाश्मीरः लडाक् च अद्य आरभ्य केन्द्रभरणप्रदेशौ भवतः इत्‍येतत् पट्टेलस्य अखण्डभारतम् इति स्वप्नसाक्षात्कारं प्रति एकं पादारोहणं भवतीति तेन अभिप्रेतम्। 'रण् फोर् यूणिट्टि ' इति कार्यक्रममधिकृत्य मोदिना गते 'मन् की बात्' कार्यक्रमे सूचितमासीत्। प्रथममोदिसर्वकारः सर्दार् पट्टेलस्य जन्मदिनं देशीयैकतादिनत्वेन आचरणाय निश्चयः स्वीकृतः आसीत्।
 ३७०तमः अनुच्छेदः भारतस्य आभ्यन्तरविषयः - यूरोपीयसमाजप्रतिनिधयः।
   श्रीनगरम्> भीकरतामुपरि स्वीक्रियमाणेषु व्यवहारेषु भारतेन सह वर्तिष्यति इति यूरोपीयसमाजप्रतिनिधयः। प्रतिनिधयः दिनद्वयस्य जम्मूकाश्मीरसन्दर्शनानन्तरं वार्तामेलनेने भाषमाणाः आसन्। भीकरता इत्येतत् विश्वे सर्वत्र वर्तमाना समस्या भवति, जम्मूकाश्मीरम् अपरमेकम् अफ्गानिस्थानं कर्तुं कस्मैरपि अवसरः न देयः इति ते असूचयन्। अनुच्छेदस्य निष्कासनात्परं जम्मूकाश्मीरस्य सामूहिकम् अन्तरीक्षम् अवगन्तुमेव वयं आगतवन्तः इति ते मेलने अवदन्। २७ प्रतिनिधयः सन्दर्शनसंघे आसन्।
श्रीलङ्कदलं प्रति विंशति२० क्रिकेट्परम्परायाम् ओस्ट्रेलियस्य विजयः।
   ब्रिस्बेन्> ओस्ट्रेलिय-श्रीलङ्‌कयोः विंशति२० क्रिकेट्परम्परा ओस्ट्रेलियदलेन प्राप्ता(२-०)। ह्यः प्रवृतायां द्वितीयक्रीडायां नवक्रीडकैः ओस्ट्रेलियदलं विजयं प्रापयत्। ओस्ट्रेलियदलाय वार्नर् (६०*) स्मित् ( ५३*) च अर्धशतकं प्रापयताम्। परम्परायाः क्रीडकत्‍वेन ओस्ट्रेलियदलस्य डाविड् वार्नर् चितः भवति। अङ्‌कः - श्रीलङ्कदलम् ११७/१०  ओस्ट्रेलियदलम् ११८/१

Wednesday, October 30, 2019

भारत-सौदिराष्ट्रयोः मध्ये सुरक्षामण्डलस्थः सहयोगः दृढीक्रियते।
   रियाद्> भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः सौदिसन्दर्शनवेलायां सुप्रधानविषयेषु निर्णयः स्वीकरिष्यतीति सूचना। सौदि वार्तामाध्यमेन अरब् न्यूस् इत्यनेन एतत्सम्बन्ध्य वार्ता प्रकाशिता। चर्चासु राष्ट्रसुरक्षा, प्रतिरोधव्यावसायिकमण्डलं, ऊर्जमण्डलम् इत्यादिषु विषयेषु प्रामुख्यं दीयते। तदर्थं मोदी, सौदिराजेन सल्मानेन, अनन्तरकिरीटधारिणा मुहम्मद् बिन् सल्मानेन च सह चर्चां करिष्यति। भारतं सौदि अरेब्यः च समीपस्थानां राष्ट्राणां नासिकाप्रवेशैः सुरक्षासमस्याः अभिमुखीकुर्वती राष्ट्रे भवतः इति मोदिना अभिप्रेतम्। सुरक्षासहयोगाय द्वयोः राष्ट्रयोः प्रतिनिधीः अन्तर्भाव्य समितिः रूपीक्रियते। भारते अधुना वाणिज्याय वातावरणम् अनुकूलं भवतीति मेय्क् इन् इन्ड्या, डिजिटल् इन्ड्या, स्किल् इन्ड्या, स्वच्छ भारत् इत्यादीः परियोजनाः उद्दिश्य मोदिना अभिप्रेतम्।  अरबन्यूस् कृते दत्ते अभिमुखमेलने भाषमाणः आसीत् सः।
एस् ए बोब्डे भारतस्य उच्चतर-न्यायालयाध्यक्षः, शपथग्रहणं नवम्बर्  १८ तमे दिनाङ्के।
       नवदिल्ली> न्यायाधिपः शरद्‌ अरविन्द् बोब्डे भारतस्य उच्चतरन्यायालयस्य ४७ तमः अध्यक्षः भविष्यति। नियुक्तिपत्रे राष्ट्रपतिना रामनाथकोविन्दमहाभागेन हस्ताक्षरं कृतम्। नवम्बर् मासस्य १८ तमे दिनाङ्के सत्यप्रतिज्ञासमारोहः निश्चितः वर्तते। अधुनातनाध्यक्षः रञ्जन् गोगोय् नवम्बर् १७ तमे दिनाङ्के सेवानिवृत्तः भविष्यति। मध्यप्रदेशस्थात् उच्चन्यायालयात् २०१३ तमे वर्षे उच्चतरन्यायालयं प्रविष्टः भवति बोब्डे महोदयः। बोब्डेम् अध्यक्षत्वेन नियमितुम् अधुनातनाध्यक्षेण रञ्जन् गोगोय् महाशयेन राष्ट्रपतिं पत्रं प्रेषितमासीत्।
षकीब् अल् हसनाय अन्ताराष्ट्रक्रिकेट्समितेः निरोधनम्।
    दुबाय्> बङ्‌ग्लादेश् क्रिकेट्दलनायकः षकीब् अल् हसनः अन्ताराष्ट्रक्रिकेट्समित्या निरोधितः। निरोधनेन अनेन अग्रिमं वर्षद्वयकालं यावत् क्रिकेटस्य सर्वेभ्यः विभागेभ्यः सः निरोधितः वर्तते। क्रिकेट्मण्डले कुत्सितमार्गैः धनव्यवहारं कृत्वा क्रीडाफलेषु स्वाधीनं कुर्वन् संघः कतिपयदिनेभ्यः पूर्वं षकीब् अल् हसनेन सह चर्चां करोति स्म। किन्तु कार्यमिदं तेन अन्ताराष्ट्रक्रिकेट्समितिं प्रति न निवेदितम्। समितेः अन्वेषणे इदं स्पष्टमभवत्। एतत् तु निरोधनाय कारणमभवत्। निरोधने दुःखं वर्तते इति विषयेऽस्मिन् माध्यमप्रवर्तकानां प्रश्नान् प्रति सः प्रत्यवदत् च।