OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 6, 2019

प्रथमक्रिकेट् टेस्ट् - भारतस्य उज्वलविजयः।
    विशाखपट्टणम्> दक्षिणाफ्रिक्कं प्रति प्रथमक्रिकेट् टेस्ट् स्पर्धायां भारतस्य २०३ धावनाङ्कानां विजयः। स्पर्धायाः पञ्चमदिने अद्य भोजनवेलायाः पूर्वं ८ क्रीडकान् निष्कास्य भारतं जयप्रतीक्षां वर्धयति स्म। भोजनात्परं विलम्बं विनैव द्वाै क्रीडकावपि निष्कास्य भारतं विजयतीरं प्रापयत्। ३९५ धावनाङ्कानां लक्ष्यं पुरस्कृत्य क्रीडनमारब्धस्य दक्षिणाफ्रिक्कदलस्य सर्वे क्रीडकाः १९१ इत्यङ्के निष्कासितवन्तः। भारतस्य कृते मुहम्मद् षमी ५, जडेजः ४ च क्रीडकान् समपादयताम्।
जम्मू-काश्मीरस्थनियन्त्रणेषु आशङ्कां विज्ञाप्य यु.एस् अध्यक्षस्थानाशी।
    वाषिङ्टण्> सविशेषानुच्छेदनिष्कासनात् परमपि अनुवर्तमानेषु नियन्त्रणेषु आशङ्कां विज्ञाप्य  टेमोक्राटिक् दलस्य अध्यक्षस्थानार्थी एलिसबेत् वारन्। जम्मू-काश्मीरस्थानां मानवानां नीतिलङ्घनादिषु, आशयविनिमयोपाधिषु च अनुवर्तमानं नियन्त्रणम्‌ आशङ्कां जनयतीति सा ट्विटर्माध्यमद्वारा असूचयत्।
व्यक्तिसम्बन्धरेखासंरक्षणनियमाय केन्द्रसर्वकारः।
    नवदहली > व्यक्त्यधिष्ठितानाम् अतिप्रधानरेखानां संरक्षणाय नियमनिर्माणम् अचिरादेव करिष्यतीति केन्द्रनियममन्त्री रविशङ्करप्रसादः। एताः व्यक्तिसम्बन्धरेखाः राष्ट्रे एव संरक्षणीयाः इति कल्प्यमाननिर्देशः नियमपत्रिकायाम् अन्तर्भविष्यतीत्यपि तेन सूचितम्। एतत्संबन्ध्य न्यायाधिपश्रीकृष्णसमितेः अवलोकनं केन्द्रसर्वकारस्य पुरतः समर्पितं वर्तते।
इराखे आभ्यन्तरसङ्घर्षः - नवत्यधिकाः हताः। 
बाग्दाद् >  वृत्त्यभावं भ्रष्टाचारं च प्रतिषिध्य इराखराष्ट्रे सङ्घर्षः सञ्जातः। कुजवासरे आरब्धे सर्वकारविरुद्धप्रक्षोभे इतःपर्यन्तं हतानां संख्या ९३ अभवत्। राजधानीभूते बाग्दाद् नगरे तथा दक्षिणप्रविश्यासु च अनुवर्तमानेषु आन्दोलनेषु चतुस्सहस्राधिकाः जनाः व्रणिताः अभवन्। 
  राष्ट्रे प्रयुक्ता निरोधाज्ञा ह्यः निराकृता। प्रक्षोभकानां न्याययुक्ताः प्रार्थनाः सर्वाः परिगणयितुं सन्नद्ध इति प्रधानमन्त्री आदेल् अब्देल् मह्दी उक्तवान्। किन्तु मह्दीसर्वकारस्य स्थानत्याग एव प्रक्षोभकानामादेशः। 
वृत्त्यभावः सामान्यसेवानामपर्याप्तता च इराखे प्रतिषेधकारणं भवति। २०१८ संवत्सरस्य आवेदनमनुसृत्य युवकानां कर्माभावः १७% भवति! भोज्यवस्तूनां दौर्लभ्यमनुभवति!
पाकिस्थानस्य उन्नतोद्योगस्थं संगृह्य एन्‌ . ऐ. ए।
     नवदिल्ली> कश्मीरेषु अशान्तिवर्धापने आतङ्किनः सहायताकरणे च पाकिस्थानस्य उन्नतोद्योगस्थस्य हस्तक्षेपः अस्ति इति  एन्‌ . ऐ. ए संस्थया उच्यते। जम्मुकाश्मीरस्य लिबरेषन् फ्रण्ट् अध्यक्षः यासिन् मालिकेन सह चत्वारः संप्रदायवादिनः विरुद्ध्य दिल्ली उच्च न्यायालये समर्पित अनुबन्ध अपराधारोपपत्रे एव पाकिस्थानस्य उच्चायोगाध्यक्षस्य नाम अपि अपराधित्वेन सूचितम्। काश्मीरस्य संप्रदायवादिभ्यः  आर्थिक साहाय्यकरणे अपि पाकिस्थानस्य उच्चायोगाध्यक्षस्य हस्तस्पर्शः अस्ति। तत् धनं पाकिस्थानस्य आतङ्कवादिनां पार्श्वं समुपगच्छति। तत् उपयुज्य भारतविरुद्ध प्रवर्तनेषु आतङ्कवादिनः उपयुज्यन्ते इति ३००० पुट सम्पन्ने अपराधारोपपत्रे लिखितम् अस्ति।
राष्ट्राय वीरमृत्युं प्राप्तवतां सैनिकानां परिवारेभ्यः दीयमानं परिहारधनं वर्धितम्।
    नवदहली > राष्ट्राय वीरमृत्युं प्राप्तवतां सैनिकानां परिवारेभ्यः दीयमानं परिहारधनं मोदिसर्वकारेण अधुनातनसंख्यायाः चतुर्गुणकरूपेण वर्धितम्। द्विलक्षात् अष्टलक्षं प्रति वर्धनं जातम्। एतत्संबन्ध्य आज्ञापत्रे प्रतिरोधमन्त्रिणा राजनाथसिंहेन हस्ताक्षरं कृतम्। राष्ट्रस्य सैनिकैः दीर्घकालादारभ्य कार्यमिदम् उन्नीयमानमासीत्। सैनिकेभ्यः दीयमानं परिवारजीवितवेतनं, रक्षाभोगसंख्या इत्यदि साहाय्यादिकम् अतिरिच्य एव नूतनपरिष्कारः।
भारत-दक्षिणाफ्रिक्कदलयोः प्रथमटेस्ट्क्रिकेट्-दक्षिणाफ्रिक्कदलाय बृहत्लक्ष्यम्।
      विशाखपट्टणम् > दक्षिणाफ्रिक्कदलस्य पुरतः ३९५ धावनाङ्कानां बृहत् लक्ष्यम् संस्थाप्य भारतम्। प्रतिक्रीडनवेलायां दक्षिणाफ्रिक्कदलं ११/१ इत्यङ्के चतुर्थदिनं समापयत्। भारताय रोहित् शर्म(१२७) पुनरपि शतकं समपादयत्। चेतेश्वर् पूजारः ८१ धावनाङ्कान् समपादयत्। नायकः कोह्ली ३१*, रहानः २७* च भवतः। पञ्चमदिने ९ क्रीडकानां निष्कासनं भारतस्य प्रमुखं कर्तव्यं भवति।
भारतीयान् कन्दुकक्षेपकान् परीक्ष्य महाराजः फिलान्टर् च, अन्ते पराजितौ च।
    पूने > द्वितीयटेस्ट्क्रिकट् मध्ये दक्षिणाफ्रिक्कदलस्य अन्तिमक्रीडकानां शक्तः प्रतिरोधः। नवमे सख्ये महाराजः(७२) फिलान्टर् (४४*) च १०९ धावनाङ्कान्‌ प्राप्तवन्तौ। अन्ते, सख्यस्य भङ्गः अश्विनेन कृतः। दक्षिणाफ्रिक्कदलाय नायकः डुप्लेसिस् (६४) अर्धशतकं समपादयत्। भारताय अश्विनः४, उमेष् यादवः३ च क्रीडकान् निष्कासितवन्तौ। दक्षिणाफ्रिक्कदलेन २७५ धावनाङ्कान् सम्पाद्य बहिर्गतम्। भारतस्य अधुना ३२६ धावनाङ्कानां पुरोगितः वर्तते।

Saturday, October 5, 2019

राष्ट्रस्य प्रथमनिजीयं रेल्यानसेवनम् आरब्धम्‌।
     लख्नौ > राष्ट्रस्य निजीयं रेल्यानस्य तेजस् एक्स्प्रसस्य प्रथमयात्रा शुक्रवासरे सम्पन्ना। भारतस्य प्रथमं निजीयं अतिवेगरेल्यानं भवति तेजस्। उत्तरप्रदेशस्य मुख्यसचिवः योगी आदित्यनाथः प्रथमयात्राम् उदघाटयत्। वाणिज्याधारेण रेल्यानस्य यात्रा शनिवासरात् आरभ्यते। ऐ आर् सि टि सि विभागस्य आभिमुख्ये भवति तेजस्‌यानस्य सेवनम्। अन्यानि अतिवेगरेल्यानान्यपेक्षया तेजस् यानस्य वेगः अधिकः भवति। यानस्य विलम्बेन समयनष्टस्य कृते अधिकारिभिः परिहारधनम् अपि दीयते। अपि च यात्रिकेभ्यः २५ लक्षरुप्यकाणां नष्टदायित्ववादपरिरक्षा कल्पिता वर्तते।
जम्मूकाश्मीरम् - नेतृृणां मोचनम् विलम्बते।
     श्रीनगरम् >  ३७० अनुच्छेदस्य निष्कासनात् पूर्वं गृहबन्धनम् अनुभवतां नेतृणां मोचनम् अचिरात् न भविष्यति। नाषणल् कोण्फरन्स् दलनेता ओमर् अब्दुल्ला, पि डि पि दलस्य नेता मेहबूबा मुफ्ती इत्येतेषां प्रमुखानां नेतृणां मोचनमेव विलम्बते। जम्मूकाश्मीरे जायमानायाः प्रादेशिकनिर्वाचनप्रक्रियायाः पूर्वं नेतृणां मोचनम् आवश्यकमिति परिदेवनादिकम् उद्भूतमासीत्। किन्तु मोचनं सम्बन्ध्य सर्वकारेण कोऽपि निर्णयः नैव स्वीकृतः। नेतृणां गृहबन्धनेन जम्मूकाश्मीरे कलहादीनां नियन्त्रणं साधितं भवतीति राज्यपालस्य सत्यपाल् नायिकस्य अवलोकनं मोचनविलम्बस्य कारणं स्यात् इत्यपि सूचना वर्तते।
भारत-दक्षिणाफ्रिक्क प्रथमटेस्ट्क्रिकेट्- दक्षिणाफ्रिक्क ३८५/८
      विशाखपट्टणम्> प्रथमटेस्ट् क्रीडायां भारतं प्रति दक्षिणाफ्रिक्कदलेन तृतीयदिनं ३८५/८ इत्यङ्के समापितम्। दक्षिणाफ्रिक्कदलाय आरम्भकक्रीडकः डीन् एल्गार्(१६०), डि कोक्(१११) च शतकं समपादयताम्। भारताय अश्विनः ५ क्रीडकान् निष्कासयत्। भारतात् अग्रेसर्तुं दक्षिणाफ्रिक्कदलेन इतोऽपि ११८ धावनाङ्काः सम्पादनीयाः वर्तन्ते।

Friday, October 4, 2019

सप्तसु उच्चन्यायालयेषु नूतनाः मुख्यन्यायाधीशाः। 
नवदिल्ली > भारतस्य सप्तसु राज्येषु नूतनाः मुख्यन्यायाधीशाः नियुक्ताः। केरलं, हिमाचलप्रदेशः, पञ्चाब-हरियाना, राजस्थानं, सिक्किमः, आन्ध्रप्रदेशः, आस्सामः इत्येषु राज्यस्थेषु उच्चनीतिपीठेषु एव नूतनाः नियुक्ताः। 
  मदिराशि उच्चन्यायालयात् न्या. एस् मणिकुमारः केरलस्य मुख्यन्यायाधीशरूपेण नियुक्तः। अन्ये मुख्यन्यायाधीशाः - न्या. एल् . नारायणस्वामी - हिमाचलप्रदेशः, न्या. रविशङ्कर झा- पञ्चाब-हरियाना, न्या. इन्द्रजित् महन्तिः - राजस्थानं, न्या. अजय लाम्बा - आस्सामः, न्या. अरूप गोस्वामी - सिक्किमः, न्या . जे के महेश्वरी - आन्ध्रप्रदेशः।
भारत-दक्षिणाफ्रिक्कदलयोः प्रथमटेस्ट्- भारताय बृहदङ्काः।
    विशाखपट्टणम् > दक्षिणाफ्रिक्कदलं प्रति प्रथमटेस्ट्क्रीडायां भारतेन ५०२/७ इत्यङ्के  इन्निङ्स् विरमितम्। बृहदङ्कान् अनुगच्छन्तं दक्षिणाफ्रिक्कदलं द्वितीयदिनान्ते ३९/३ इत्यङ्के भवति। भारताय मयङ्क् अगर्वाल् द्विशतकं(२१५) प्रापयत्। रोहित् शर्म १७६ धावनाङ्कान् समपादयत्।
वन्दे भारत-एक्स्प्रेस् यात्रा समारब्धा। 
       नवदहली > दहलीतः जम्मूकाश्मीरस्य कत्रां प्रति सज्जीकृतस्य सेमि-है स्पीड्  वन्दे भारत्-एक्स्प्रेस् रेल्यानस्य यात्रां केन्द्राभ्यन्तरमन्त्री अमित् षा उदघाटयत्। विनोदसञ्चारमण्डलस्य विकसनं लक्ष्यीकृत्य नूतनतया आरब्धं भवति सेमि-है स्पीड् रेल्यानस्य सेवनम्। दशवर्षाभ्यन्तरे जम्मूकाश्मीरं भारतस्य बहुविकसितं राज्यं भविष्यतीति अमित् षा अवदत्। महात्मागान्धिनः स्वदेशी इत्याशयं पुरस्कृत्य नूतनरेल्यानस्य निर्माणं पूर्णतया भारते एव अभवत् इति सः असूचयत्। मेय्क् इन् इन्ट्या आयोजनायां निर्मितं भवति वन्दे भारत्-एक्स्प्रेस्। अनेन केवलं अष्टखण्डाभ्यन्तरे दहलीतः जम्मूकाश्मीरस्य कत्रां प्राप्तुं शक्यते।

Thursday, October 3, 2019

स्वच्छभारताभियानेन  गूगिलः प्रभावितः।
   नवदहली > महात्मागान्धिनः १५०तमे जन्मवार्षिकसन्दर्भे केन्द्रसर्वकारस्य स्वच्छभारताभियानेन  गूगिलः प्रभावितः। भारतस्य विविधेषु प्रदेशेषु वर्तमानान् सामूहिकशौचालयान् स्वीयान्तर्जालप्रयोगेषु अन्तर्भाव्य एव गूगिल् विभागः आदरं प्राकटयत्। भारतस्य २३०० नगरेभ्यः ५७००० सामूहिकशौचालयाः गूगिल् विभागेन स्वीयान्तर्जालपट्टिकासु सङ्कलिताः। उपयोक्तृभिः अधुना गूगिल् सेर्च्, गूगिल् असिस्टन्ट्, गूगिल् माप्स् द्वारा च सामूहिकशौचालयान्‌ सम्बन्ध्य ज्ञानार्जनं साध्यते। भारते अधुना प्रतिमासं सार्धद्विलक्षाधिकैः जनैः गूगिल् सेर्च् , गूगिल् माप्स् च सामूहिकशौचालयान् सम्बन्ध्य ज्ञातुं उपयुज्येते। २०१६तमे वर्षे एव अत्र स्वच्छभारताभियानं आरब्धम्।
षट् विदेशराष्ट्राणि महात्मा गान्धिनः विशेषचित्रमुद्रा प्रकाशिता। 
   वेस्ट्बाङ्क्> महात्मा गान्धिनः १५० तम जन्मसंवत्सरानुबन्धतया विविध विदेशराष्ट्रैः पत्रालय-चित्रमुद्राः प्रकाशिताः। तुर्कि, पालस्तीनः, उस्बेक्किस्थानः, लेबननः, मोरोक्को फ्रान्सः च भवन्ति पत्रालयीय चित्रमुद्रिकां प्रकाश्य महात्मागान्धिनं समादृतवन्तः राष्ट्राणि।
    'विशेषव्यक्तयः' इति विभागे संस्थाप्य आसीत् उस्बक्किस्थान-तुर्की राष्ट्रयोः चित्रमुद्रायाः प्रकाशनम्। पालस्तीनः तु पैतृकं मूल्यं च इति विभागे निवेश्य असीत्  गान्धिनम् प्रति  आदर-प्रकाशनम्। पलस्तीनस्य सूचना एवं प्रौद्योगिकी मन्त्री इषाख् सेदर् गान्धिनः चित्रमुद्रा प्रकाशितवान्।
प्रथमटेस्ट्क्रीडा-भारतं सुशक्तम्।
    विशाखपट्टणम् > भारत-दक्षिणाफ्रिक्कदलयोः टेस्ट्क्रिकेट् परम्परायाः प्रथमक्रीडायाः प्रथमदिने भारतं सुरक्षितस्थानं प्रापयत्। वर्षः प्रतिबन्धकत्वेन आगते प्रथमदिने भारतं  क्रीडकनष्टं विना २०२ धावनाङ्कान् प्रापयत्। भारताय रोहित् शर्म शतकं(११५) मयङ्क् अगर्वाल् अर्धशतकं(८४ ) च समपादयताम्। अद्य चायावेलानन्तरं वृष्टिवशात् क्रीडा पूर्णतया नष्टा जाता।
पक्षे गान्धिमहाभागस्य चित्रं विरच्य एयर् इन्ट्या।   

     नवदहली> महात्मागान्धिनः १५०-तमे जन्मदिने गान्धिनं प्रत्यादरं प्रकट्य एयर् इन्ट्या। विमानस्य पक्षे गान्धिमहाभागस्य चित्रं विरच्य एव एयर् इन्ट्याविभागः आदरं प्राकटयत्। जनान् प्रति राष्ट्रपितुः सन्देशस्मारणं एतस्य लक्ष्यं भवतीति एयर् इन्ट्या सि.एम्.टि. अश्विनि लोह्नि अवदत्। एयर् इन्ट्यायाः दहली-मुम्बै मार्गस्थे ए३२० विमाने एव गान्धिमहाभागस्य चित्रं व्यरचयत्। अचिरादेव एयर् इन्ट्यायाः अन्येषु विमानेष्वपि महात्मागान्धिनः चित्रं रचयिष्यति इत्यपि सः असूचयत्।