OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 2, 2019

आत्मघातिनः आक्रमणम् - सीमायां सुरक्षा शाक्तीकृता।
श्रीनगर् > दशातङ्गवादिनां संघमेकः स्वावात्मनशकाक्रमणाय उद्युक्तः इति सूचनायाः आधारे जम्मूकाश्मीस्य पञ्चाबस्य च सीमाप्रदेशेषु सुरक्षानिरीक्षणं शक्तं कर्तुं अधिकारिभिः निर्देशः दत्तः वर्तते। पाक् आतङ्गवादसंघः जैषे मुहम्मद् आक्रमणाय उद्युक्तः भवतीति केन्द्ररहस्यान्वेषण विभागं प्रति सूचना लब्धा। तेन च अमृत्सर्, पठान्कोट्, श्रीनगर्, अवन्तिपुर्, हिन्टन् इत्यादिषु व्योमसेनास्थानेषु सुरक्षाक्रमीकरणं शक्तं कृतम्।
भारत-दक्षिणाफ्रिक्क दलयोः प्रथमटेस्ट्क्रीडायां भारतं सुशक्तस्थाने।
      विशाखपट्टणम् > भारत-दक्षिणाफ्रिक्क दलयोः प्रथमटेस्ट्क्रीडायां भोजनायावसिते सन्दर्भे भारतं सुशक्तस्थाने वर्तते। क्रीडकनष्टं विना भारतं ९१ धावनाङ्कान् प्रापयत्। भारताय रोहित् शर्म ५२, मयङ्क् अगर्वाल् ३९ च धावनाङ्कान् प्राप्य क्रीडतःवर्तेते।
भारत-दक्षिणाफ्रिक्क क्रिकट् स्पर्धां प्रति भारतस्य संघः प्रख्यापितः।
   मुम्बै > भारत-दक्षिणाफ्रिक्कदलयोः मध्ये जायमानपरम्परायाः कृते भारतसंघः प्रख्यापितः। संघात् रिषभ् पन्त् निष्कासितः। पन्तस्य स्थाने वृद्विमान्साहः अवरोधितः। समीपकालक्रीडासु पन्तस्य प्र दुर्बलमासीत्, एतत् निष्कासनाय कारणमभवत्। परम्परायां भारतसंघः विराट् कोह्लिना नीयते।

Tuesday, October 1, 2019

राष्ट्रे सम्पूर्णतया राष्ट्रियपौरत्वपट्टिकां सज्जीकरिष्यति - अमित् षा
   कोल्कत्ता> राष्ट्रे सम्पूर्णतया राष्ट्रियपौरत्वपट्टिकां सज्जीकरिष्यति इति केन्द्र आभ्यन्तरमन्त्रिणा अमित् षा महोदयेन सूचितम्। राष्ट्रे कुत्रापि अनधिकृतवासः नैवाङ्गीक्रियते।  विषयेऽस्मिन् तात्पर्यान्तरस्य स्थानमेव नास्ति। अतः सर्वाणि राष्ट्रिय राजनैतिकदलानि नयमिमम् अङ्गीकुर्वन्तु इत्यपि सः अभ्यर्थयत्। कोल्कत्तायां भा.ज. दलस्य मेलने भाषयन्नासीत् सः।

Monday, September 30, 2019

भारतस्य सम्पद्व्यवस्था अतिशीघ्रं पुरोगच्छन्ती भवति - सौदी स्थानपतिः।

 नवदहली > भारतस्य सम्पद्व्यवस्था अतिशीघ्रं पुरोगच्छन्ती भवति इति सौदी स्थानपतिना डा. सौद्बिन् मुहम्मद् अल्सादिना  अभिप्रेतम्। भारते १०० बिल्यण् डोलर् धनस्य निक्षेपः सौदि अरेब्यायाः परिगणनायां वर्तते इति सः अवदत्। भारतस्य ऊर्जसम्बन्‍धानां लक्ष्याणां निर्वहणं सौहृदराष्ट्रमित्यर्थे सौदि अरेब्यायाः दायित्वं भवतीति स्थानपतिना अभिप्रेतम्।

Sunday, September 29, 2019

पञ्चदिनात्मकसन्दर्शनाय करसेनाधिपः मालिद्वीपं प्रति।
    नवदेहली> उभयपक्षप्रतिरोधबान्धवस्य दृढीकरणाय करसेनाधिपः बिपिन् रावत् मालिद्वीपं प्रस्थितवान्‌। सः मालिद्वीपस्य अध्यक्षेन इब्राहिं मुहम्मद् सोलिना सह चर्चां करिष्यति।मालिद्वीपस्य प्रतिरोध-विदेशकार्यसचिवाभ्यां साकमपि मेलनं भविष्यति। युद्धोपकरणानां सैनिकवाहनानां च परस्परदानं चर्चायाः मुख्यविषयः भवति।
अण्टर्-१८ साफ् कप् फुट्बोल्-चरित्रं विरच्य भारतम्।
   काठ्मण्टु > अण्टर्-१८ साफ् कप् फुट्बोल् मध्ये बङ्गलादेशदलं पराजित्य भारतं किरीटं प्रापयत्। क्रीडायां भारतम् एकमुपरि लक्ष्यद्वयेन बङ्गलादेशदलं पराजयत्। अण्टर्-१८ साफ् कप् फुट्बोल् मध्ये भारतस्य प्रथमकिरीटं भवति इदम्।

Saturday, September 28, 2019

आतङ्कवादिनां कृते निवृत्तिवेतनं दीयमानं एकंं राष्ट्रं भवति पाकिस्थानः - इम्रान खानस्य वक्त्रं वक्रीकृत्य भारतम्।
  न्यूयोर्क् > पाकिस्थानस्य प्रधानमन्त्रिणा इम्रानखानेन यू एन् सार्वजनिक सभायां कृतस्य प्रभाषणस्य भारतं शक्तया भाषया प्रत्युत्तरमदात्। इम्रानस्य वाक् कस्यचित् राष्ट्रतन्त्रज्ञाय न युज्यते, युद्धमुख-प्रेषणमेव अस्य फलम् इति भारत विदेशकार्यसचिवा विधिषा मेय्त्रा यू एन्‌ सभायाम् अवदत् ।
 यु एन् समित्याः तीव्रवादपट्टिकायाम् अन्तर्गताः १३० आतङ्कवादिभ्यः २५ आतङ्क सङ्घटनायै च अभयप्रदाता भवति पाकिस्थानः । आतङ्कवादिने  निवृतवेदनं प्रदास्यमानः राष्ट्रः भवति पाकिस्थानः इति सा यु एन् सभायाम् अवदत्‌।



३७० अनुच्छेदनिष्कासनम् - परिदेवनानि न्यायाधिपस्य रमणस्य पीठं परिगणयिष्यति ।
       नवदहली > जम्मू काश्मीराय प्रत्येकाधिकारं दीयमानस्य सप्तत्यधिक त्रिशतम् (३७० ) अनुच्छेदस्य निष्कासनं प्रतिरुद्ध्य समर्पितानि परिदेवनानि  रमणस्य न्यायाधीशस्थाने  परिगणयिष्यति । ओक्टोबर् ५ मध्ये एतदुपरि वादः आरभ्यते। एतत्‍सम्बन्ध्य उच्चतरन्यायालयेन केन्द्रसर्वकारं प्रति ज्ञापकशासनं प्रतिरोधप्रतिज्ञासमर्पणाय प्रेषितमासीत्I तथापि, सर्वकारेण काश्मीरे प्रातःकालीनं नियन्त्रणादिकं प्रतिनिवृत्तम्।
लान्स् क्लूस्नर् अफ्गानिस्थानक्रिकेट् दलस्य परिशीलकः।
 अफ्गानिस्थान् > दक्षिणाफ्रिकादलस्य भूतपूर्वक्रीडकः  लान्स् क्लूस्नर् अफ्गानिस्थानक्रिकेट् दलस्य प्रशिक्षकत्वेन नियुक्तः। अफ्गानिस्थानदलस्य परिशीलकस्थानं प्रति लब्धेभ्यः पञ्चाशत् आवेदनेभ्यः एव क्लूस्नरस्य नियमनमभवत्। नवम्बर् मासे जायमाना वेस्ट् इन्टीस् परम्परा क्लूस्नरस्य प्रथमदाैत्यं भवति।
कृषिविषयोऽपि पाठ्यप्रणाल्याम् अन्तर्भविष्यति- केरलस्य शिक्षामन्त्री।
   तिरुवनन्तपुरम्> कृषिः अस्माकं संस्कृतेः सूचिका भवतीति आशयं निर्धार्य पाठ्यपद्धत्यां पाठान् सज्जीकरिष्यतीति केरलस्य शिक्षासचिवः सि.रवीन्द्रनाथः। कार्षिकमण्डलं प्रति युवकानाम् आकर्षणाय केरलस्य सामान्यशिक्षाविभागेन  क्रियमाणस्य "पाठं ओन्न् पाटत्तेक्क्" (प्रथमः पाठः केदारं प्रति) इति कार्यक्रमस्य राज्यस्तरीयोद्घाटनसभायां प्रभाषयन् आसीत् सचिवः। पठनमिव कृषिरपि मानवजीवनस्य भागः करणीयः इति सचिवेन अभिप्रेतम्। कार्षिकवृत्तिं प्रति ज्ञानं एकैकस्यापि छात्रस्य आवश्यकम् इति सः अवदत्। उद्‌घाटनकार्यक्रमे कार्षिकसचिवः वि.एस्. सुनिल्कुमारः अध्यक्षः आसीत्। कार्यक्रमेऽस्मिन् कार्षिकविभागः  संयुक्ततसहकारी भवति।
पाला उपनिर्वाचनं - माणि सि काप्पन् विजयीभूतः। 
माणि सि काप्पन्। 
पाला [केरलं] > पाला विधानसभामण्डले सम्पन्ने उपनिर्वाचने वामपक्षदलाय [एल् डि एफ्] चरित्रविजयः। एन् सि पि दलस्य स्थानाशी माणि सी काप्पनः २९४३ मतदानानां भूरिपक्षे विजयीभूतः। यु डि एफ् संघस्य  ५४ संवत्सराणां अनुस्यूतविजयस्य बन्धनमेव काप्पनस्य विजयेन वामपक्षदलेन प्राप्तम्। 
  केरलकोण्ग्रस् एम् विभागस्य स्थापकनेतुः के एम् माणिनः आजीवनान्तमण्डलमासीत् कोट्टयं जनपदस्थं  पाला। माणिनः मृत्युः तत्र उपनिर्वाचनाय हेतुरभूत्।

Friday, September 27, 2019

पाकिस्थानेन आतङ्गवादः निर्वापनीयः- यु.एस्
 युणैटड् नेषन्स् > भीकरतां सम्बन्ध्य पाकिस्थानं प्रति सूचनां दत्वा अमेरिक्कदेशः। आतङ्गवादं प्रति पाकिस्थानेन सत्यसन्धतया प्रतिप्रवर्तनं स्वीकरणीयमिति अमेरिक्कदेशस्य प्रधाननयतन्त्रज्ञेन अभिप्रेतम्। एवं कृते सत्येव भारतपाकिस्थानयोः मध्ये जातानां समस्यानां परिहारः साध्यते। तदर्थं सीमाप्रदेशमुल्लङ्घ्य क्रियमाणानाम् आतङ्गवादप्रवर्तनानां निष्कासनाय पाकिस्थानेन प्रयत्नः करणीयः इति सः अवदत्। यु.एन्. सामान्यसभायां यु.एस्.आक्टिङ् कार्यदर्शा आलीस् वेल्स् अपि कार्यमिदम् असूचयत्।
जम्मूकाश्मीरे कलामस्य नाम्नि गवेषणकेन्द्रम् 
 
    नवदहली > प्रतिरोधमण्डले भारतं शक्तं कर्तुं गवेषणकेन्द्रम् सज्जीकरोति। भूतपूर्वराष्ट्रपतेः ए पि जे अब्दुल्कलामं प्रति आदरसूचकत्वेन गवेषणकेन्द्रस्य नामकरणं "कलां सेन्टर् फोर् सयन्स् आन्ट् टेक्नोलजि" इति कर्तुं निर्णयः जातः। राष्ट्रस्य सैनिकशक्तये आवश्यकानि अत्याधुनिकायुधानि निर्मातुं  प्रतिरोधसाङ्केतिकविद्यायाः विकसनं  लक्ष्यीकृत्य गवेषणायैव केन्द्रं संस्थाप्यते। डिफन्स् रिसर्च् आन्ट् डवलप्मेन्ट् ओर्गनैसेषनस्य नेतृत्‍वं आयोजनायै निश्चितम् वर्तते। गवेषणकेन्द्रस्थापनाय धारणापत्रे जम्मू केन्द्रविश्वविद्यालयेन सह डि आर् डि ओ हस्ताक्षरम् अकरोत्। दहल्यां सञ्जाते मेलने केन्द्रप्रतिरोधसचिवेन राजनाथसिंहेन एव धारणापत्रे हस्ताक्षरं कृतम्।

Wednesday, September 25, 2019

जलोपप्लवः, वृष्टिजलेन पूणे निमज्जितम्, २८,००० जनाः अन्यत्र प्रेषिताः।
      मुम्बै> अतिवृष्टिपातेन महाराष्ट्रस्य पूणे प्रदेशे द्वादश (१२) जनाः मारिताः। मुम्बै बंगलूरु राष्ट्रिय-मार्गसमीपे खेदशिवपुर ग्रामे  सुप्ताः पञ्चजनाः जलेन सह गताः आरक्षकाधिकारिणा सन्दीप् पट्टील् इत्यभिधानकेन उक्तम्।। पुरन्दरमण्डलात् द्वौ अदृश्यौ अभवताम्। २८००० जनाः सुरक्षितस्थानं प्रति प्रेषिताश्च।

    अर्णेश्वरमण्डले भित्तिं पतित्वा नववयस्कः मृतः। अन्ये चत्वारः अपि तेन सहमृताः। सिंहगढ् मार्गसमीपं जल प्रवाहेन नीतात् कार् यानात् मृतदेहः लब्धः। बारामत्याः निम्नप्रदेशात् १०००० जनाः सुरक्षितस्थानं प्रति प्रेषिताः। पूणे नगरस्य निम्नप्रदेशात् ५०० जनाः अपि सुरक्षितस्थानं प्रति प्रेषिताः सन्ति।
अबुदाबि राज्ये छात्राणम् अन्ताराष्ट्रं वैज्ञानिकं प्रदर्शनं समारब्धम्‌।
    विज्ञानं प्रायोगिकजीवने येन केनप्रकारेण प्रयोजकीभवेत् विश्वस्य सद्विकासाय कथम् उपयोक्तव्यम् इत्यादीन् विषयान् मनसि निधाय  छात्राणाम् अनुसन्धान प्रयत्ननि एव अन्ताराष्ट्रिय वैज्ञानिक प्रदर्शने अवतारयति। 
  भारतं तथा अन्ये ७० सङ्‌ख्याधिकानि राष्ट्राणि च अस्मिन् प्रदर्शने भागं स्वीकुर्वन्ति। आहत्य  २५०० संख्याकाः विज्ञानोत्सुकाः छात्राः भागं स्वीकुर्वन्ति। अस्मिन् ५०० छात्राः यू ए ई राष्ट्रतः भवन्ति। वातावरण व्यत्ययेन  जायमानायाः समस्यायाः पारं गन्तुम् उपकारका नूतना विद्या, क्षेत्रेषु कीटनाशिनीनां प्रयोगाय उदग्रयानकं (drone) गार्हिकाम् अग्निदुर्घटनां रोद्धुं निर्मितम् उपकरणम् इत्यादि शताधिकानि विज्ञान-दर्शनानि अस्यां प्रदर्शिन्यां प्रदर्शितानि सन्ति । गुरुवासरे प्रदर्शिनी समापयिष्यति।

Tuesday, September 24, 2019

उत्तरभारते तथा पाकिस्थानीय भूभागेषु च भूकम्पः अभवत्। २३ जनाः निहताः। रिक्टर् मापिकायां ५.८ इति अङ्कितम्।
(पाकिस्थानस्य मिरपुरस्य टिट्वर् चित्रम्।)
   नवदिल्ली> उत्तरभारते तथा पाकिस्थानस्य भूभागेषु च भूकम्पः अभवत्। २३ जनाः निहताः। मृतानां संख्या अधिका स्यात्। अद्य  सायं ४ः४५ वादने आसीत् घटना। भूकम्पस्य शक्तिः रिक्टर् मापिकायां ५.८ इति   अङ्किता। भारते नवदिल्ली, चण्डीगड्, कश्मीरः, पाकिस्थाने इस्लामाबाद् तथा विविधमण्डलेषु च  भूकम्पः अभवन् इत्यस्ति प्रथमावेदनम्। 
   पाकिस्थानस्य मिरपुरे नाशव्याप्तिः अधिका इत्यस्ति आवेदने। पन्थानः लम्बरीत्या भग्नाः बहवः जनाः क्षताः च। भारते जनापायः वस्तुनाशः वा न आवेदितः। पाक् अधीनः काश्मीरः एव भूकम्पस्य प्रभवकेन्द्रम्  इति निजीयाः काचन संस्थायाः आवेदनम् अस्ति।
बालाकोटे जय्षे शिबिरं पुनरपि आरब्धम्। भारतं प्रति ५०० आतङ्कवादिनः। 
    चेन्नै> पाकिस्थानस्य बालाकोटे पुनरपि आतङ्कवादिभिः रणशिबिरं उद्घाटितम्। ५०० संख्याकाः भीकराः भारतं प्रवेष्टुं सज्जा भूत्वा तिष्ठन्ति इति आवेदनं स्थलसेनाधिपेन विपिनरावत्तेन अङ्गीकृतम्। सीमामुल्लंख्य आतङ्किभिः क्रियमाणस्य आक्रमणस्य प्रत्युत्तरमिव भारतेन पूर्वकृत-द्रुताक्रमणादपि शक्तं स्यात् नूतनम् इति विपिनरावात्तेन पाकिस्थानाय पूर्वसूचना प्रदत्ता। पाकिस्थानस्योपरि अधिकतया प्रक्रमान् स्वीकर्तुं भारतः सज्जः भवति। किं करिष्यति केन प्रकारेण करिष्यति इति पाकिस्थानेन ऊह्यते चेत् तेभ्यः वरम् इत्यपि बिपिनरावत्तः अवदत्। यू एन् सभायां काश्मीरस्य विषयमघिकृत्य प्रधानमन्त्री नरेन्द्रमोदी वक्तुकामः अासीत्। ततः पूर्वमेव भवति सेनाधिपस्य ईदृशोक्तिः॥