OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 28, 2019

३७० अनुच्छेदनिष्कासनम् - परिदेवनानि न्यायाधिपस्य रमणस्य पीठं परिगणयिष्यति ।
       नवदहली > जम्मू काश्मीराय प्रत्येकाधिकारं दीयमानस्य सप्तत्यधिक त्रिशतम् (३७० ) अनुच्छेदस्य निष्कासनं प्रतिरुद्ध्य समर्पितानि परिदेवनानि  रमणस्य न्यायाधीशस्थाने  परिगणयिष्यति । ओक्टोबर् ५ मध्ये एतदुपरि वादः आरभ्यते। एतत्‍सम्बन्ध्य उच्चतरन्यायालयेन केन्द्रसर्वकारं प्रति ज्ञापकशासनं प्रतिरोधप्रतिज्ञासमर्पणाय प्रेषितमासीत्I तथापि, सर्वकारेण काश्मीरे प्रातःकालीनं नियन्त्रणादिकं प्रतिनिवृत्तम्।
लान्स् क्लूस्नर् अफ्गानिस्थानक्रिकेट् दलस्य परिशीलकः।
 अफ्गानिस्थान् > दक्षिणाफ्रिकादलस्य भूतपूर्वक्रीडकः  लान्स् क्लूस्नर् अफ्गानिस्थानक्रिकेट् दलस्य प्रशिक्षकत्वेन नियुक्तः। अफ्गानिस्थानदलस्य परिशीलकस्थानं प्रति लब्धेभ्यः पञ्चाशत् आवेदनेभ्यः एव क्लूस्नरस्य नियमनमभवत्। नवम्बर् मासे जायमाना वेस्ट् इन्टीस् परम्परा क्लूस्नरस्य प्रथमदाैत्यं भवति।
कृषिविषयोऽपि पाठ्यप्रणाल्याम् अन्तर्भविष्यति- केरलस्य शिक्षामन्त्री।
   तिरुवनन्तपुरम्> कृषिः अस्माकं संस्कृतेः सूचिका भवतीति आशयं निर्धार्य पाठ्यपद्धत्यां पाठान् सज्जीकरिष्यतीति केरलस्य शिक्षासचिवः सि.रवीन्द्रनाथः। कार्षिकमण्डलं प्रति युवकानाम् आकर्षणाय केरलस्य सामान्यशिक्षाविभागेन  क्रियमाणस्य "पाठं ओन्न् पाटत्तेक्क्" (प्रथमः पाठः केदारं प्रति) इति कार्यक्रमस्य राज्यस्तरीयोद्घाटनसभायां प्रभाषयन् आसीत् सचिवः। पठनमिव कृषिरपि मानवजीवनस्य भागः करणीयः इति सचिवेन अभिप्रेतम्। कार्षिकवृत्तिं प्रति ज्ञानं एकैकस्यापि छात्रस्य आवश्यकम् इति सः अवदत्। उद्‌घाटनकार्यक्रमे कार्षिकसचिवः वि.एस्. सुनिल्कुमारः अध्यक्षः आसीत्। कार्यक्रमेऽस्मिन् कार्षिकविभागः  संयुक्ततसहकारी भवति।
पाला उपनिर्वाचनं - माणि सि काप्पन् विजयीभूतः। 
माणि सि काप्पन्। 
पाला [केरलं] > पाला विधानसभामण्डले सम्पन्ने उपनिर्वाचने वामपक्षदलाय [एल् डि एफ्] चरित्रविजयः। एन् सि पि दलस्य स्थानाशी माणि सी काप्पनः २९४३ मतदानानां भूरिपक्षे विजयीभूतः। यु डि एफ् संघस्य  ५४ संवत्सराणां अनुस्यूतविजयस्य बन्धनमेव काप्पनस्य विजयेन वामपक्षदलेन प्राप्तम्। 
  केरलकोण्ग्रस् एम् विभागस्य स्थापकनेतुः के एम् माणिनः आजीवनान्तमण्डलमासीत् कोट्टयं जनपदस्थं  पाला। माणिनः मृत्युः तत्र उपनिर्वाचनाय हेतुरभूत्।

Friday, September 27, 2019

पाकिस्थानेन आतङ्गवादः निर्वापनीयः- यु.एस्
 युणैटड् नेषन्स् > भीकरतां सम्बन्ध्य पाकिस्थानं प्रति सूचनां दत्वा अमेरिक्कदेशः। आतङ्गवादं प्रति पाकिस्थानेन सत्यसन्धतया प्रतिप्रवर्तनं स्वीकरणीयमिति अमेरिक्कदेशस्य प्रधाननयतन्त्रज्ञेन अभिप्रेतम्। एवं कृते सत्येव भारतपाकिस्थानयोः मध्ये जातानां समस्यानां परिहारः साध्यते। तदर्थं सीमाप्रदेशमुल्लङ्घ्य क्रियमाणानाम् आतङ्गवादप्रवर्तनानां निष्कासनाय पाकिस्थानेन प्रयत्नः करणीयः इति सः अवदत्। यु.एन्. सामान्यसभायां यु.एस्.आक्टिङ् कार्यदर्शा आलीस् वेल्स् अपि कार्यमिदम् असूचयत्।
जम्मूकाश्मीरे कलामस्य नाम्नि गवेषणकेन्द्रम् 
 
    नवदहली > प्रतिरोधमण्डले भारतं शक्तं कर्तुं गवेषणकेन्द्रम् सज्जीकरोति। भूतपूर्वराष्ट्रपतेः ए पि जे अब्दुल्कलामं प्रति आदरसूचकत्वेन गवेषणकेन्द्रस्य नामकरणं "कलां सेन्टर् फोर् सयन्स् आन्ट् टेक्नोलजि" इति कर्तुं निर्णयः जातः। राष्ट्रस्य सैनिकशक्तये आवश्यकानि अत्याधुनिकायुधानि निर्मातुं  प्रतिरोधसाङ्केतिकविद्यायाः विकसनं  लक्ष्यीकृत्य गवेषणायैव केन्द्रं संस्थाप्यते। डिफन्स् रिसर्च् आन्ट् डवलप्मेन्ट् ओर्गनैसेषनस्य नेतृत्‍वं आयोजनायै निश्चितम् वर्तते। गवेषणकेन्द्रस्थापनाय धारणापत्रे जम्मू केन्द्रविश्वविद्यालयेन सह डि आर् डि ओ हस्ताक्षरम् अकरोत्। दहल्यां सञ्जाते मेलने केन्द्रप्रतिरोधसचिवेन राजनाथसिंहेन एव धारणापत्रे हस्ताक्षरं कृतम्।

Wednesday, September 25, 2019

जलोपप्लवः, वृष्टिजलेन पूणे निमज्जितम्, २८,००० जनाः अन्यत्र प्रेषिताः।
      मुम्बै> अतिवृष्टिपातेन महाराष्ट्रस्य पूणे प्रदेशे द्वादश (१२) जनाः मारिताः। मुम्बै बंगलूरु राष्ट्रिय-मार्गसमीपे खेदशिवपुर ग्रामे  सुप्ताः पञ्चजनाः जलेन सह गताः आरक्षकाधिकारिणा सन्दीप् पट्टील् इत्यभिधानकेन उक्तम्।। पुरन्दरमण्डलात् द्वौ अदृश्यौ अभवताम्। २८००० जनाः सुरक्षितस्थानं प्रति प्रेषिताश्च।

    अर्णेश्वरमण्डले भित्तिं पतित्वा नववयस्कः मृतः। अन्ये चत्वारः अपि तेन सहमृताः। सिंहगढ् मार्गसमीपं जल प्रवाहेन नीतात् कार् यानात् मृतदेहः लब्धः। बारामत्याः निम्नप्रदेशात् १०००० जनाः सुरक्षितस्थानं प्रति प्रेषिताः। पूणे नगरस्य निम्नप्रदेशात् ५०० जनाः अपि सुरक्षितस्थानं प्रति प्रेषिताः सन्ति।
अबुदाबि राज्ये छात्राणम् अन्ताराष्ट्रं वैज्ञानिकं प्रदर्शनं समारब्धम्‌।
    विज्ञानं प्रायोगिकजीवने येन केनप्रकारेण प्रयोजकीभवेत् विश्वस्य सद्विकासाय कथम् उपयोक्तव्यम् इत्यादीन् विषयान् मनसि निधाय  छात्राणाम् अनुसन्धान प्रयत्ननि एव अन्ताराष्ट्रिय वैज्ञानिक प्रदर्शने अवतारयति। 
  भारतं तथा अन्ये ७० सङ्‌ख्याधिकानि राष्ट्राणि च अस्मिन् प्रदर्शने भागं स्वीकुर्वन्ति। आहत्य  २५०० संख्याकाः विज्ञानोत्सुकाः छात्राः भागं स्वीकुर्वन्ति। अस्मिन् ५०० छात्राः यू ए ई राष्ट्रतः भवन्ति। वातावरण व्यत्ययेन  जायमानायाः समस्यायाः पारं गन्तुम् उपकारका नूतना विद्या, क्षेत्रेषु कीटनाशिनीनां प्रयोगाय उदग्रयानकं (drone) गार्हिकाम् अग्निदुर्घटनां रोद्धुं निर्मितम् उपकरणम् इत्यादि शताधिकानि विज्ञान-दर्शनानि अस्यां प्रदर्शिन्यां प्रदर्शितानि सन्ति । गुरुवासरे प्रदर्शिनी समापयिष्यति।

Tuesday, September 24, 2019

उत्तरभारते तथा पाकिस्थानीय भूभागेषु च भूकम्पः अभवत्। २३ जनाः निहताः। रिक्टर् मापिकायां ५.८ इति अङ्कितम्।
(पाकिस्थानस्य मिरपुरस्य टिट्वर् चित्रम्।)
   नवदिल्ली> उत्तरभारते तथा पाकिस्थानस्य भूभागेषु च भूकम्पः अभवत्। २३ जनाः निहताः। मृतानां संख्या अधिका स्यात्। अद्य  सायं ४ः४५ वादने आसीत् घटना। भूकम्पस्य शक्तिः रिक्टर् मापिकायां ५.८ इति   अङ्किता। भारते नवदिल्ली, चण्डीगड्, कश्मीरः, पाकिस्थाने इस्लामाबाद् तथा विविधमण्डलेषु च  भूकम्पः अभवन् इत्यस्ति प्रथमावेदनम्। 
   पाकिस्थानस्य मिरपुरे नाशव्याप्तिः अधिका इत्यस्ति आवेदने। पन्थानः लम्बरीत्या भग्नाः बहवः जनाः क्षताः च। भारते जनापायः वस्तुनाशः वा न आवेदितः। पाक् अधीनः काश्मीरः एव भूकम्पस्य प्रभवकेन्द्रम्  इति निजीयाः काचन संस्थायाः आवेदनम् अस्ति।
बालाकोटे जय्षे शिबिरं पुनरपि आरब्धम्। भारतं प्रति ५०० आतङ्कवादिनः। 
    चेन्नै> पाकिस्थानस्य बालाकोटे पुनरपि आतङ्कवादिभिः रणशिबिरं उद्घाटितम्। ५०० संख्याकाः भीकराः भारतं प्रवेष्टुं सज्जा भूत्वा तिष्ठन्ति इति आवेदनं स्थलसेनाधिपेन विपिनरावत्तेन अङ्गीकृतम्। सीमामुल्लंख्य आतङ्किभिः क्रियमाणस्य आक्रमणस्य प्रत्युत्तरमिव भारतेन पूर्वकृत-द्रुताक्रमणादपि शक्तं स्यात् नूतनम् इति विपिनरावात्तेन पाकिस्थानाय पूर्वसूचना प्रदत्ता। पाकिस्थानस्योपरि अधिकतया प्रक्रमान् स्वीकर्तुं भारतः सज्जः भवति। किं करिष्यति केन प्रकारेण करिष्यति इति पाकिस्थानेन ऊह्यते चेत् तेभ्यः वरम् इत्यपि बिपिनरावत्तः अवदत्। यू एन् सभायां काश्मीरस्य विषयमघिकृत्य प्रधानमन्त्री नरेन्द्रमोदी वक्तुकामः अासीत्। ततः पूर्वमेव भवति सेनाधिपस्य ईदृशोक्तिः॥

Monday, September 23, 2019

वातावरण-व्यत्यय-दुर्घटनां विरुद्ध्य १६ वयस्कायाः संग्रामः। १३९ राष्ट्राणि भागं स्वीकृतानि।
ग्रीट्टा तन्बर्गः
     न्युयोर्क्> वातावरण-व्यत्यय-दुर्घटना तथा आगोलतापनं च विरुद्ध्य १६ वयस्कायाः नेतृत्वे संग्रामः। परिस्थितिसंरक्षणमुद्दिश्य आयोजितेषु बृहत्तमेषु प्रथमः संग्रामः भवति एषः इति अनुमीयते। १३९ राष्ट्राणि भागभाक्भूते संग्रामे छात्राः एव अधिकतया सन्ति।
     वातावरणप्रतिसन्धौ दूयमानाय लोकाय प्रतीक्षां वितरति षोडशवयस्कायाः ग्रीट्टा तुन्बर्गस्य मनशक्तिः। स्वीडनस्य छात्रा भवति एषा। वातावरणाय परिस्थितये च राष्ट्रान्तरतले प्रक्रमाः स्वीकर्तव्याः, तदपि शीघ्रात् शीघ्रतरम् इति तुनबर्गः वाञ्छति। अस्य मासस्य २३ दिनाङ्के आयोजिते ऐक्य-राष्ट्रसभायाः वातावरण शिखरमेलने भागं स्वीकर्तुं न्यूयोर्कनगरं प्राप्‌ता सा अत्रत्याः संग्रामस्य च नेतृत्वम् अलङ्करिष्यति।
आह्लादश्रृङ्गमारुह्य 'हौडि मोदी'
चित्रे- अमेरिक्कराष्ट्रस्य हूस्टण् देशे हौडि मोदी सङ्‌गमे नरेन्द्रमोदी ट्रम्पः च
   हूस्टण्> विश्वस्य बृहत्तमस्य जनतन्त्रराष्ट्रस्य हृदयमेलनमासीत् हौडिमोदी महामेला। हूस्टण् नगरे रविवासरे सम्पन्ने मेलने भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह यु एस् राष्ट्रपतिः डोणाल्ड् ट्रंपः अपि सभायाम् सन्निनिहितः आसीत्। ४० निमेषपर्यन्तं सः वेदिकायाम् उपस्थितः आसीत्। कार्यक्रमे भागं स्वीकर्तुमेव आसीत् तस्य हूस्टण् सन्दर्शनम्।
    ५०००० संख्यामितः भारतवंशजाः अमेरिकस्य नागरिकाः स्वात्मनेतारं द्रष्टुं एन् आर् जि पादकन्दुकक्रीडाक्षेत्रं प्राप्तवन्तः आसन्। फ्रान्सिस् 'मार्पाप्प' इत्यस्य अनन्तरम् उज्वलं स्वागतं लभ्यमानः  अन्यतमः वैदेशिकः राष्ट्रनेता भवति नरेन्द्रमोदी इति अमेरिक्कस्य वार्तापत्रिकाः आवेदयन्ति। 'एकः स्वप्नः प्रकाशपूरितः श्वः' इति सन्देशम् उद्वहन् आयोजिते कार्यक्रमे ट्रम्पः सक्षात् समागतः इति उभयोः राष्ट्रयोः राजनैतिक व्यावसायिक बन्धः अधिकतया शक्तं भविष्यति इत्यस्य सूचना  इति राजनैतिकनिरीक्षकाः अभिप्रेन्ति॥

Sunday, September 22, 2019

चीनम् आदर्शरूपेण स्वीकृत्य नागरिकाणां मुखं प्रत्यभिज्ञातुं भारतं सज्जायते।
आदर्शचित्रम्।
    नवदिल्ली> स्वस्य नागरिकाणां मुखं प्रत्यभिज्ञातुं चीनम् आदर्शरूपेण स्वीकृत्य भारतं सज्जयते इत्यस्ति नूतनम् आवेदनम्। समागते मासे मुखप्रत्यभिज्ञान-संविधानस्य निर्माणाय प्रक्रिया समारप्स्यते इति अन्ताराष्ट्र वार्ता माध्यमः 'ब्लूम् बर्गः' आवेदयति। आराष्ट्रं संस्थाप्यमानां निरीक्षण छायाग्राह्याम् इमाः नूतनतान्त्रिकविद्यायाः उपयोगाय सन्दर्भः स्यात् इत्यस्ति अवेदनस्य सूचना।
   पारपत्र-विवरणानि, कुकर्मिणः, अप्रत्यक्षजनाः, अज्ञातानां मृतशरीराणां विवरणानि च इत्येते नूतन विद्यया सह संबद्धाः स्युःयुः। एवं चेत् राष्ट्रस्य  सम्पूर्णजनाः सर्वकारस्य निरीक्षण-दृष्टिपदे भविष्यति इति गुण-दोषयुतो भवति। अङ्‌गबलेन अतिन्यूनं भवति आरक्षक-नागरिकयोः अनुपातः। ७८४ जनानां कृते एकः आरक्षकः इत्यस्ति अधुनातन गणनानुपातः। विश्वस्य निम्नतमो अनुपातः भवति अयम्I 'डाट्टा' संरक्षणनियमः सक्षमः नास्ति भारते इति कारणेन आशङ्गाजनकं च भविष्यति नूतनप्रक्रमः॥

Saturday, September 21, 2019

 राष्ट्रिय संस्कृतसम्मेलनं समारब्धम्
    नवदिल्ली> त्रिदिवसीयं राष्ट्रियं संस्कृत-सम्मेलनम् अद्य (सेप्टेम्बर-मासस्य 21-दिनाङ्कात्) नवदिल्ल्याम् आरब्धम्। अत्र उद्घाटनसत्रे बीज-वक्तव्यं व्याहरन् सुख्यातः संस्कृतविद्वान् डॉ.गौतमभाई-पटेलः 'संस्कृतभाषायाः भाषिक-वैविध्यम्' इति सम्मेलनविषयमवलम्ब्य विस्तरेण व्याख्यापितवान्। सम्मेलनमिदं दिल्ल्याः संस्कृत-अकादम्या आयोजितम् । 

Friday, September 20, 2019

संस्कृताध्ययन-ससंरक्षणाय सर्वकारः प्रोत्साहनं दद्यात्।- प्रमीला शशिधरन्।
-राजकृष्णः श्रीकृष्णपुरम्
    पालक्काट्> सार्वजनीन-शिक्षासंरक्षण-यज्ञमिव संस्कृत-शिक्षारक्षायै  प्राधान्यं सर्वकारैः न दीयते। प्रथमकक्ष्यातः सर्वप्रथमं पाठनं समारब्धे राज्ये तेषां छात्राणां गणनानुसारं विद्यालयेषु पर्याप्तसंख्यकान् शिक्षकान् नियोजयेयुः इति पालक्काट् नगरसभाघ्यक्षा प्रमीला शशिधरन् स्वीय उद्घाटनभाषणे आदत्। केरलसर्वकारस्य सार्वजनीन-शिक्षाविभागस्य नेतृत्वे पालक्काट् वटक्कन्तरा कृष्णकृपा सभामण्डपे राज्यस्तरीय-संस्कृतदिनाचरणे उद्घाटयन्ती भाषमाणा आसीत् सा।
     छात्रेषु सच्छीलं संवर्धयितुं संस्कृतभाषाध्ययनं प्रेरयति। उपनिषदादयः संस्कृतभाषायामेव रचिताः। वरिष्ठाः भक्तिमार्गं यदा प्रविशन्ति तदा भक्तिग्रन्थानध्येतुं संस्कृताध्ययनसन्नद्धाः प्रभवन्ति। अतः संस्कृतशिक्षा-विकासाय सर्वकारैः इतोप्यधिकं प्रोत्साहनं देयमिति सा न्यगादीत्।  नगरसभा-सदस्या श्रीमती सुमति सुरेष् अध्यक्षपदमलञ्चकार। राज्य-पाठ्यपद्धतिसमिति-सदस्यः  प्रो. वि. माधवन् पिल्ला महोदयः  संस्कृतदिनसन्देशं दत्तवान्। पण्डितरत्नं डो. पी.के. माधवन् महोदयः  मुख्यप्रभाषणमकरोत्।
     अभिनयतिलकं कूटियाट्टकलाकारः पी.के.जी. नम्ब्यार्, पद्मश्री पि आर् कृष्णकुमार् , पि.एन्. नटराजः, डो. एन्.एं इन्दिरा प्रभृतयः संस्कृतपण्डिताः, कुमारि पार्वति वि जे,  हरिप्रसादः च समारोहे समादृताः। अध्यापकेभ्यः आयोजितायां साहित्य-रचनाप्रतियोगितायां विजेतृभ्यः पुरस्कारान् अदात्। श्री आर् एस्  षिबूमहोदयः, श्रीमती सुनीति महाभागा महेष्, जयप्रकाशः, पि दिवाकरः च स्वाशयान् प्राकटयत् । अपराह्ने संस्कृत-ह्रस्वचित्रप्रदर्शनं, संगीतशिल्पम्, कलाकार्यक्रमाः उपस्थापिताः ।
आर्थिकवर्धनाय  सर्वकारीयवित्तकोशः चतुश्शतजनपदेषु ऋणमेलाम् आयोक्ष्यति- भारतस्य वित्तमन्त्रिणी 
-सन्दीपकोठारिः
   नवदेहली> आर्थिकव्यवस्थायाः वर्धनार्थं  वित्तमंत्रिण्या  निमर्लासीतारमणमहाभागया नवप्रकल्पाः प्रकल्पिताः प्रोक्तं च यत् सर्वकारीयवित्तकोशः अग्रिममासे चतुश्शतजनपदेषु ऋणमेलाम् आयोक्ष्यतीति। व्यवस्थेयं नोन् बैंकिंङ् फैनान्स् कम्पनी इत्येतस्मै अथ च रिटेल् ग्राहकेभ्यो भविष्यति। एषु च गृहक्रेतारः कृषका अपि सम्मिलिष्यन्ति। ३ अक्टूबरतः ७ अक्टूबरपर्यन्तं आदिमचरणे द्विशतजनपदानि अपि च ११ अक्टूबरतः अवशिष्टद्विशतजनपदानि संपृक्ताः भविष्यन्ति। वित्तमंत्रिण्या प्रोक्तं यत् उत्सवकाले अधिकाधिक- ऋणवितरणनिश्चयार्थं कार्यमिदं समनुष्ठितम्। वित्तकोशाः बोधिताः यत् सूक्षलघुमध्यमोद्योगबद्ध- ऋणं ३१ मार्च २०२० पर्यन्तं एन् पी ए इति न समुद्घोषितं स्यादिति।
    अप्रैल्- जून् त्रैमासिके 'जीडीपी ग्रोथ्' इति न्यूनीभूत्वा षड्वर्षस्य निम्नस्तरे ५ प्रतिशतमागतम्। सर्वकारः ग्रोथ् इति अभिवृद्ध्युपायान् विकरोति। अस्मै च चतुर्वारं घोषणा संजाता। वित्तमंत्रिण्या गतशनिवासरे रिएल् एस्टेट् इति अथ च एक्सपोर्टसेक्टर् इत्यस्मै मुक्तिसम्बद्धनिर्णयाः कल्पिताः। ३० तम दिनाङ्के आगस्त मासे दशवित्तकोशानां लयनं  विहितम्। एतत्पूर्वं २३ दिंनाके वैदेशिकनिवेशकेषु 'सर्चार्ज् वृद्धिप्रतिग्रहणस्य सममेव आटोसेक्टर्  इति मुक्तप्रकल्पानायै संसूचना प्रदत्ता आसीत्।

Thursday, September 19, 2019

शत्रूणाम् उपग्रहाः नियन्त्रकं ग्रहीत्वा पातयेत्। नियन्त्रकग्राहकान् निमन्त्र्य अमेरिक्कस्य व्योमसेना।
Cartoon vector created by brgfx
www.freepik.com
    वाषिङ्टण्> बाह्याकाशे विद्यमानान् शत्रु राष्ट्राणां चारोपग्राहान् प्रतिरोद्धुम् अमेरिक्कः सज्जतां करोति। तदर्थं तन्त्रजालिक प्रतिरोधाय तन्त्रनियन्त्रकचोराः (cyber hacker) अमेरिकया निमन्त्रिताः। तैः अमेरिक्कस्य प्रतिरोध विभागेन आयोक्ष्यमाणे नियन्त्रकग्रहण स्पर्धायां विजयं प्राप्तव्यम्। भूमिं परिभ्रमन्तान् उपग्रहाणां नियन्त्रकं गृहीत्वा  तेषुविद्यमानान् छायाग्राहीन् भूमीतः चन्द्रं प्रति अभिमुखीकरणमेव कर्तव्यः तथा भूतलनिलयग्रहणाय च अनुज्ञा दास्यते। विजयीभ्यः २०२० तमे अयोक्ष्यमाणे डिफ्कोण् उपवेशने तेषां कौशलं प्रदर्शितव्यम्।
     शत्रुराष्ट्राणां  व्यामसेनायाः आसूत्रणानि निरीक्षितुम् एव चारोपग्रहाः उपयुज्यन्ते। अतः स्वस्यराष्ट्रस्य शत्रूणाम् उपग्रहाः  नियन्त्रकं ग्रहीत्वा पातयेत् इत्यस्ति अमेरिक्कस्य नूतना परियोजना।
विभिन्नक्षेत्रेषु संस्कृतदिनाचरणम्
इरिङ्ङालक्कुकुट शैक्षिकजनपदे न्या
यवादी वि आर् सुनिल कुमारः उद्‌‌घाटयति।