OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 23, 2019

वातावरण-व्यत्यय-दुर्घटनां विरुद्ध्य १६ वयस्कायाः संग्रामः। १३९ राष्ट्राणि भागं स्वीकृतानि।
ग्रीट्टा तन्बर्गः
     न्युयोर्क्> वातावरण-व्यत्यय-दुर्घटना तथा आगोलतापनं च विरुद्ध्य १६ वयस्कायाः नेतृत्वे संग्रामः। परिस्थितिसंरक्षणमुद्दिश्य आयोजितेषु बृहत्तमेषु प्रथमः संग्रामः भवति एषः इति अनुमीयते। १३९ राष्ट्राणि भागभाक्भूते संग्रामे छात्राः एव अधिकतया सन्ति।
     वातावरणप्रतिसन्धौ दूयमानाय लोकाय प्रतीक्षां वितरति षोडशवयस्कायाः ग्रीट्टा तुन्बर्गस्य मनशक्तिः। स्वीडनस्य छात्रा भवति एषा। वातावरणाय परिस्थितये च राष्ट्रान्तरतले प्रक्रमाः स्वीकर्तव्याः, तदपि शीघ्रात् शीघ्रतरम् इति तुनबर्गः वाञ्छति। अस्य मासस्य २३ दिनाङ्के आयोजिते ऐक्य-राष्ट्रसभायाः वातावरण शिखरमेलने भागं स्वीकर्तुं न्यूयोर्कनगरं प्राप्‌ता सा अत्रत्याः संग्रामस्य च नेतृत्वम् अलङ्करिष्यति।
आह्लादश्रृङ्गमारुह्य 'हौडि मोदी'
चित्रे- अमेरिक्कराष्ट्रस्य हूस्टण् देशे हौडि मोदी सङ्‌गमे नरेन्द्रमोदी ट्रम्पः च
   हूस्टण्> विश्वस्य बृहत्तमस्य जनतन्त्रराष्ट्रस्य हृदयमेलनमासीत् हौडिमोदी महामेला। हूस्टण् नगरे रविवासरे सम्पन्ने मेलने भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह यु एस् राष्ट्रपतिः डोणाल्ड् ट्रंपः अपि सभायाम् सन्निनिहितः आसीत्। ४० निमेषपर्यन्तं सः वेदिकायाम् उपस्थितः आसीत्। कार्यक्रमे भागं स्वीकर्तुमेव आसीत् तस्य हूस्टण् सन्दर्शनम्।
    ५०००० संख्यामितः भारतवंशजाः अमेरिकस्य नागरिकाः स्वात्मनेतारं द्रष्टुं एन् आर् जि पादकन्दुकक्रीडाक्षेत्रं प्राप्तवन्तः आसन्। फ्रान्सिस् 'मार्पाप्प' इत्यस्य अनन्तरम् उज्वलं स्वागतं लभ्यमानः  अन्यतमः वैदेशिकः राष्ट्रनेता भवति नरेन्द्रमोदी इति अमेरिक्कस्य वार्तापत्रिकाः आवेदयन्ति। 'एकः स्वप्नः प्रकाशपूरितः श्वः' इति सन्देशम् उद्वहन् आयोजिते कार्यक्रमे ट्रम्पः सक्षात् समागतः इति उभयोः राष्ट्रयोः राजनैतिक व्यावसायिक बन्धः अधिकतया शक्तं भविष्यति इत्यस्य सूचना  इति राजनैतिकनिरीक्षकाः अभिप्रेन्ति॥

Sunday, September 22, 2019

चीनम् आदर्शरूपेण स्वीकृत्य नागरिकाणां मुखं प्रत्यभिज्ञातुं भारतं सज्जायते।
आदर्शचित्रम्।
    नवदिल्ली> स्वस्य नागरिकाणां मुखं प्रत्यभिज्ञातुं चीनम् आदर्शरूपेण स्वीकृत्य भारतं सज्जयते इत्यस्ति नूतनम् आवेदनम्। समागते मासे मुखप्रत्यभिज्ञान-संविधानस्य निर्माणाय प्रक्रिया समारप्स्यते इति अन्ताराष्ट्र वार्ता माध्यमः 'ब्लूम् बर्गः' आवेदयति। आराष्ट्रं संस्थाप्यमानां निरीक्षण छायाग्राह्याम् इमाः नूतनतान्त्रिकविद्यायाः उपयोगाय सन्दर्भः स्यात् इत्यस्ति अवेदनस्य सूचना।
   पारपत्र-विवरणानि, कुकर्मिणः, अप्रत्यक्षजनाः, अज्ञातानां मृतशरीराणां विवरणानि च इत्येते नूतन विद्यया सह संबद्धाः स्युःयुः। एवं चेत् राष्ट्रस्य  सम्पूर्णजनाः सर्वकारस्य निरीक्षण-दृष्टिपदे भविष्यति इति गुण-दोषयुतो भवति। अङ्‌गबलेन अतिन्यूनं भवति आरक्षक-नागरिकयोः अनुपातः। ७८४ जनानां कृते एकः आरक्षकः इत्यस्ति अधुनातन गणनानुपातः। विश्वस्य निम्नतमो अनुपातः भवति अयम्I 'डाट्टा' संरक्षणनियमः सक्षमः नास्ति भारते इति कारणेन आशङ्गाजनकं च भविष्यति नूतनप्रक्रमः॥

Saturday, September 21, 2019

 राष्ट्रिय संस्कृतसम्मेलनं समारब्धम्
    नवदिल्ली> त्रिदिवसीयं राष्ट्रियं संस्कृत-सम्मेलनम् अद्य (सेप्टेम्बर-मासस्य 21-दिनाङ्कात्) नवदिल्ल्याम् आरब्धम्। अत्र उद्घाटनसत्रे बीज-वक्तव्यं व्याहरन् सुख्यातः संस्कृतविद्वान् डॉ.गौतमभाई-पटेलः 'संस्कृतभाषायाः भाषिक-वैविध्यम्' इति सम्मेलनविषयमवलम्ब्य विस्तरेण व्याख्यापितवान्। सम्मेलनमिदं दिल्ल्याः संस्कृत-अकादम्या आयोजितम् । 

Friday, September 20, 2019

संस्कृताध्ययन-ससंरक्षणाय सर्वकारः प्रोत्साहनं दद्यात्।- प्रमीला शशिधरन्।
-राजकृष्णः श्रीकृष्णपुरम्
    पालक्काट्> सार्वजनीन-शिक्षासंरक्षण-यज्ञमिव संस्कृत-शिक्षारक्षायै  प्राधान्यं सर्वकारैः न दीयते। प्रथमकक्ष्यातः सर्वप्रथमं पाठनं समारब्धे राज्ये तेषां छात्राणां गणनानुसारं विद्यालयेषु पर्याप्तसंख्यकान् शिक्षकान् नियोजयेयुः इति पालक्काट् नगरसभाघ्यक्षा प्रमीला शशिधरन् स्वीय उद्घाटनभाषणे आदत्। केरलसर्वकारस्य सार्वजनीन-शिक्षाविभागस्य नेतृत्वे पालक्काट् वटक्कन्तरा कृष्णकृपा सभामण्डपे राज्यस्तरीय-संस्कृतदिनाचरणे उद्घाटयन्ती भाषमाणा आसीत् सा।
     छात्रेषु सच्छीलं संवर्धयितुं संस्कृतभाषाध्ययनं प्रेरयति। उपनिषदादयः संस्कृतभाषायामेव रचिताः। वरिष्ठाः भक्तिमार्गं यदा प्रविशन्ति तदा भक्तिग्रन्थानध्येतुं संस्कृताध्ययनसन्नद्धाः प्रभवन्ति। अतः संस्कृतशिक्षा-विकासाय सर्वकारैः इतोप्यधिकं प्रोत्साहनं देयमिति सा न्यगादीत्।  नगरसभा-सदस्या श्रीमती सुमति सुरेष् अध्यक्षपदमलञ्चकार। राज्य-पाठ्यपद्धतिसमिति-सदस्यः  प्रो. वि. माधवन् पिल्ला महोदयः  संस्कृतदिनसन्देशं दत्तवान्। पण्डितरत्नं डो. पी.के. माधवन् महोदयः  मुख्यप्रभाषणमकरोत्।
     अभिनयतिलकं कूटियाट्टकलाकारः पी.के.जी. नम्ब्यार्, पद्मश्री पि आर् कृष्णकुमार् , पि.एन्. नटराजः, डो. एन्.एं इन्दिरा प्रभृतयः संस्कृतपण्डिताः, कुमारि पार्वति वि जे,  हरिप्रसादः च समारोहे समादृताः। अध्यापकेभ्यः आयोजितायां साहित्य-रचनाप्रतियोगितायां विजेतृभ्यः पुरस्कारान् अदात्। श्री आर् एस्  षिबूमहोदयः, श्रीमती सुनीति महाभागा महेष्, जयप्रकाशः, पि दिवाकरः च स्वाशयान् प्राकटयत् । अपराह्ने संस्कृत-ह्रस्वचित्रप्रदर्शनं, संगीतशिल्पम्, कलाकार्यक्रमाः उपस्थापिताः ।
आर्थिकवर्धनाय  सर्वकारीयवित्तकोशः चतुश्शतजनपदेषु ऋणमेलाम् आयोक्ष्यति- भारतस्य वित्तमन्त्रिणी 
-सन्दीपकोठारिः
   नवदेहली> आर्थिकव्यवस्थायाः वर्धनार्थं  वित्तमंत्रिण्या  निमर्लासीतारमणमहाभागया नवप्रकल्पाः प्रकल्पिताः प्रोक्तं च यत् सर्वकारीयवित्तकोशः अग्रिममासे चतुश्शतजनपदेषु ऋणमेलाम् आयोक्ष्यतीति। व्यवस्थेयं नोन् बैंकिंङ् फैनान्स् कम्पनी इत्येतस्मै अथ च रिटेल् ग्राहकेभ्यो भविष्यति। एषु च गृहक्रेतारः कृषका अपि सम्मिलिष्यन्ति। ३ अक्टूबरतः ७ अक्टूबरपर्यन्तं आदिमचरणे द्विशतजनपदानि अपि च ११ अक्टूबरतः अवशिष्टद्विशतजनपदानि संपृक्ताः भविष्यन्ति। वित्तमंत्रिण्या प्रोक्तं यत् उत्सवकाले अधिकाधिक- ऋणवितरणनिश्चयार्थं कार्यमिदं समनुष्ठितम्। वित्तकोशाः बोधिताः यत् सूक्षलघुमध्यमोद्योगबद्ध- ऋणं ३१ मार्च २०२० पर्यन्तं एन् पी ए इति न समुद्घोषितं स्यादिति।
    अप्रैल्- जून् त्रैमासिके 'जीडीपी ग्रोथ्' इति न्यूनीभूत्वा षड्वर्षस्य निम्नस्तरे ५ प्रतिशतमागतम्। सर्वकारः ग्रोथ् इति अभिवृद्ध्युपायान् विकरोति। अस्मै च चतुर्वारं घोषणा संजाता। वित्तमंत्रिण्या गतशनिवासरे रिएल् एस्टेट् इति अथ च एक्सपोर्टसेक्टर् इत्यस्मै मुक्तिसम्बद्धनिर्णयाः कल्पिताः। ३० तम दिनाङ्के आगस्त मासे दशवित्तकोशानां लयनं  विहितम्। एतत्पूर्वं २३ दिंनाके वैदेशिकनिवेशकेषु 'सर्चार्ज् वृद्धिप्रतिग्रहणस्य सममेव आटोसेक्टर्  इति मुक्तप्रकल्पानायै संसूचना प्रदत्ता आसीत्।

Thursday, September 19, 2019

शत्रूणाम् उपग्रहाः नियन्त्रकं ग्रहीत्वा पातयेत्। नियन्त्रकग्राहकान् निमन्त्र्य अमेरिक्कस्य व्योमसेना।
Cartoon vector created by brgfx
www.freepik.com
    वाषिङ्टण्> बाह्याकाशे विद्यमानान् शत्रु राष्ट्राणां चारोपग्राहान् प्रतिरोद्धुम् अमेरिक्कः सज्जतां करोति। तदर्थं तन्त्रजालिक प्रतिरोधाय तन्त्रनियन्त्रकचोराः (cyber hacker) अमेरिकया निमन्त्रिताः। तैः अमेरिक्कस्य प्रतिरोध विभागेन आयोक्ष्यमाणे नियन्त्रकग्रहण स्पर्धायां विजयं प्राप्तव्यम्। भूमिं परिभ्रमन्तान् उपग्रहाणां नियन्त्रकं गृहीत्वा  तेषुविद्यमानान् छायाग्राहीन् भूमीतः चन्द्रं प्रति अभिमुखीकरणमेव कर्तव्यः तथा भूतलनिलयग्रहणाय च अनुज्ञा दास्यते। विजयीभ्यः २०२० तमे अयोक्ष्यमाणे डिफ्कोण् उपवेशने तेषां कौशलं प्रदर्शितव्यम्।
     शत्रुराष्ट्राणां  व्यामसेनायाः आसूत्रणानि निरीक्षितुम् एव चारोपग्रहाः उपयुज्यन्ते। अतः स्वस्यराष्ट्रस्य शत्रूणाम् उपग्रहाः  नियन्त्रकं ग्रहीत्वा पातयेत् इत्यस्ति अमेरिक्कस्य नूतना परियोजना।
विभिन्नक्षेत्रेषु संस्कृतदिनाचरणम्
इरिङ्ङालक्कुकुट शैक्षिकजनपदे न्या
यवादी वि आर् सुनिल कुमारः उद्‌‌घाटयति।




Wednesday, September 18, 2019

आराम्को आक्रमणस्य पश्चात् शिलातैलमूल्यम् अतिवर्धितम्।
आराम्को शिलातैलशोधकेन्द्रः।
    कोच्ची> सौदिअरेब्य राष्ट्रे आराम्को शिलातैलशोधकेन्द्रः तैलक्षेत्रं च हूतिभिः आक्रमिताः आसन् । ततः पश्चात् इदानीं शिलातैलमूल्यम् अतिवर्धितम्। सोमवासरे तैलमूल्ये प्रतिशतं दशाधिकम् इति वर्धनमभवत्। एष्यायाः विपणिषु वेस्ट् डेक्सास् इन्टर्मीडियट्ट् श्रेणीस्थ अशुद्धतैलस्य १०.६८% इति वर्धयित्वा बारल् मानस्य ६०.७१ डोलर् धनम् अभवत्।  ब्रेन्ट् श्रेण्यां तु तैलमूल्यम् ११.७% इति वर्धनं कृत्वा बारल् मानस्य ६७.३१ डोलर् धनम् इतित्यपि अभवत् च।
   शनिवासरे आसीत् हूतिनः ड्रोण् द्वारा आक्रमणम्। अक्रमणे महाग्निः सञ्जाता इत्यनेन उत्पादनं भागिकतया स्तगितम्।

Tuesday, September 17, 2019

केरलराज्यस्तरीय संस्कृतदिनाचरणम्  पालक्काट् जनपदे।
-राजकृष्णः श्रीकृष्णपुरम्
     संस्कृतपठन पाठन विकासाय केरलसर्वकारेण बह्यः योजनाः आविष्कृताः। भारते प्रप्रथमं प्रथमकक्ष्यातः आरभ्य संस्कृतम् अध्येतुं व्यवस्था अद्य केरलेष्वेव वर्तते। अधुना केरले सर्वकारेण द्वादशतमं संस्कृतदिनाचरणम् समुचितरूपेण आयोज्यते ।

     श्रावणपूर्णिमातिथौ एव संस्कृतदिनं आचरति । १९६९ तमे वर्षे यदा  एं.सी. चग्ला वर्यः केन्द्रीय-मानव-संसाधन-मन्त्रिपदव्याम् आसीनः तदा प्रभृत्येव संस्कृत-दिनाचरणस्य प्रारम्भः अभवत्। आकाशवाण्यां संस्कृतवार्ताप्रसारः संस्कृतदिनाचरणं च सममेव प्रारभत। वाजपेयी सर्वकारः २०००-०१ वर्षः संस्कृतवर्षत्वेन समाचरत्। तदा प्रभृति संसकृतदिनाचरणं संस्कृतसप्ताहाचरणरूपेण पर्यणमयत्।

     अस्य वर्षस्य राज्यस्तरीयः संस्कृतदिनाघोषः २०१९ सेप्तम्बर् १९ दिनाङ्के पालक्काट् श्री. एं.पी. केशवप्पणिक्कर् नगरे (कृष्णकृपा सभागृहं, वटक्कन्तरा) आयोज्यते। केरल विधा

Monday, September 16, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्,
  कविकुलगुरु कालिदास-विश्वविद्यालयः
  नमांसि, सर्वासामपि भाषाणां भाषितार: (प्रयोक्तार:)भवन्ति विविधस्तरीया:।सुशिक्षिता: इव अशिक्षिता: अपि भवन्ति, पण्डिता: इव पामरा: अपि भवन्ति,सुज्ञा: इव अल्पज्ञा: अपि भवन्ति, महानगरवासिन: इव कुग्रामवासिन: अपि भवन्ति। अत: अयं 'भाषितप्रपञ्च:' सुविस्तृत:। सर्वेषामपि प्रयोगानुकूल्यं तु सरलमानकसंस्कृतात् एव भवेत्। ये सरलतामेव इच्छेयु: ते अपि स्वमत्यनुगुणं व्यवहरेयु: यत् तत् अपि कदाचित् काठिन्याय भवेत्। सरलमानकसंस्कृतं एतां समस्यां परिहर्तुम् अर्हति। मित्राणि, वयं समाजे सरलमानकसंस्कृतस्य प्रचाराय प्रयत्नरताः भवेम।
 जयतु  संस्कृतम् जयतु भारतम् ॥
वर्षः अक्रीडत् ; भारत - दक्षिणाफ्रिक्का २० - २०स्पर्धा परित्यक्ता। 
धर्मशालाक्रीडाङ्कणं समावृतं वर्तते।
   धर्मशाला [हिमाचल प्रदेशः] >  तीव्रवर्षाहेतुतः भारत-दक्षिणाफ्रिक्कयोर्मध्ये निश्चिता प्रथमा विंशति - विंशति प्रतियोगिता परित्यक्ता। अत्र 'हिमाचलप्रदेश क्रिक्कट् असोसियेषन्' क्रीडाङ्कणे आसीत् स्पर्धा निश्चिता। किन्तु प्रभाते एव आरब्धेन वर्षेण 'टोस्' अपि कर्तुं न शक्यते स्म। अतः स्पर्धां त्यक्तुं निश्चिता॥
सप्तापत्यानि विदेशेषु निवसन्ति, ९३ वयस्का माता एकाकी, आरक्षकाः श्रावणपर्वणि अन्नवस्त्रादिना सह तस्यै   सग्धिं अपरिवेषयन्। 

(त्रेस्याम्मया सह भाषमाणः आरक्षकप्रमुखाः अन्ये सहकारिणश्च।) 
     मङ्कोम्प्>केरळम्> समयः मध्याह्नः समुपगच्छति। तण्टुलं पचनाय संस्थाप्य ९३ वयस्का वृद्धमाता 'त्रेस्याम्म' विश्रमाय प्रकोष्टं प्रति मन्दम् चलति। अद्य श्रावणदिनं तथापि तस्यै विशेषता नास्ति। अपत्यानि सप्त सन्ति, सर्वे विदेशेषु दूरेषु च। बृहदाकारगृहे सा एकाकी एव। तस्याः मुखम् अधिकतया खिन्नम् अभवत्। 
   झटिति तदभवत्I अतिथयः समागताः एटत्वा देशस्थ आरक्षकप्रमुखः सेसिल् क्रिस्ट्यन् राजः तस्य सहकारिणश्च आसन् एते। अपत्यान् मनसिनिधाय विचिन्तयन्तः वृद्धमातुः पुरतः अन्यानि षट् अपत्यानि प्रत्यक्षीभूतानि।  आरक्षकेषु एकैकः तेषां गृहेषु निर्मितानि भोज्यानि स्थापितवन्तः। गार्गी नामिका स्वस्य हस्तेन नूतनवस्त्राणि तां धारितवती। अनन्तरं  ते   सग्धिं अपरिवेषयन्। केवलं तण्डुलोदनेन प्रतिदिनम् अन्नं भुक्तवती सा अरक्षकापत्यैः साकं मिष्टान्नं खादितवती। अनन्दन वा सन्तापेन वा सा रुरोद। 
   जनमैत्री आरक्षक-विभागस्य निरीक्षणे आसीत् कतिपयदिनानि यावत् वृद्धमातुः गृहम्। ते श्रावण सग्धिः तत्रैव भवतु इति निश्चितवन्तः। अनन्तरं तस्याः पुत्रान् आहूय्य मातुः शिश्रूषायै व्यवस्थां निरदिशत् च।

Sunday, September 15, 2019

वैज्ञानिकलोकाय प्रतीक्षां वितीर्य के २-१८ बि इति ग्रहे जलसान्निद्ध्यं दृष्टम्।
    लण्टन्> भूमेः बहिः जीवस्पन्दः अस्ति वा इति अन्विष्यमाणाय वैज्ञानिकलोकाय प्रतीक्षा-निर्भरः आसीत्  ​नूतनं दर्शनम्। सौरयूथस्य बहिः  रक्तवर्णयुक्तं लघ्वाकारयुतं नक्षत्रं परितः​ भ्रममाणं के २-१८ बि इति ग्रहे भवति जलसान्निद्ध्यम्। मनुष्यवासयोग्यः अन्तरिक्षः बाष्परूपो जलांशः च अस्ति इति वैज्ञानिकैः दृष्टम्।  नेचर् अस्ट्रोणमि जेर्णल् मध्ये प्रकाशिते अध्ययने भवति नूतनं विवरणम्। लण्टन् विश्वविद्यालयस्य कलाशालायाः अनुसन्धान-विभागेन -एव अध्ययनं कृतम्। इदंप्रथमतया एव भवति सौरयूथस्य बहिः जलबाष्पदर्शनम्।
  भूतलात् ११० प्रकाशवर्षे दूरे भवति ग्रहस्य स्थानम्। भूभारात् अष्टगुणित भारयुतस्य अस्य ग्रहस्य आकरः भूमेः द्विगुणितः अस्ति।

Friday, September 13, 2019

वैज्ञानिकलोकाय प्रतीक्षां वितीर्य के २-१८ बि इति ग्रहे जलं सान्निद्ध्यं दृष्टम्।
     लण्टन्> भूमेः बहिः जीवस्पन्दः अस्ति वा इति अन्विष्यमाणाय वैज्ञानिकलोकाय प्रतीक्षा-निर्भरः आसीत्  ​नूतनं दर्शनम्। सौरयूथस्य बहिः  रक्तवर्णयुक्तं लघ्वाकारयुतं नक्षत्रं परितः​ भ्रममाणं के २-१८ बि इति ग्रहे भवति जलसान्निद्ध्यम्। मनुष्यवासयोग्यः अन्तरिक्षः बाष्परूपो जलांशः च अस्ति इति वैज्ञानिकैः दृष्टम्।  नेचर् अस्ट्रोणमि जेर्णल् मध्ये प्रकाशिते अध्ययने भवति नूतनं विवरणम्। लण्टन् विश्वविद्यालयस्य कलाशालायाः अनुसन्धान-विभागेन -एव अध्ययनं कृतम्। इदंप्रथमतया एव भवति सौरयूथस्य बहिः जलबाष्पदर्शनम्।
     भूतलात् ११० प्रकाशवर्षं दूरे भवति ग्रहस्य स्थानम्। भूभारात् अष्टगुणित भारयुतस्य अस्य ग्रहस्य आकरः भूमेः द्विगुणितः अस्ति। 

Thursday, September 12, 2019

काश्मीर् विषये व्यवहारः न भविष्यतीति ऐक्यराष्ट्रसभा ; पाकिस्थानस्य प्रत्याघातः। 
जनीवायां यू एन् सम्मेलने वक्ता स्टीफन् डुजरिक्
 जनीवा > यू एन् संस्थायाः मानवाधिकारसमित्यां पाकिस्थानस्य भारतविरुद्धप्रस्तावे तद्राष्ट्रं सभायामेव प्रत्याघातविधेयमभवत्। काश्मीर्विषये मानवाधिकारसमित्याः व्यवहारः अवश्य इति पाकिस्थानस्य निर्देशः समित्या निरस्तः।
 यू एन् मुख्यकार्यदर्शिनः वक्त्रा स्टीफन् डुजरिक् इत्यनेन स्पष्टीकृतं यत्  अस्मिन् विषये द्वयोः राष्ट्रयोः वादप्रतिवादान् सम्यगधिगम्य यू एन् संस्थायाः मुख्यकार्यदर्शी अन्टोणियो गुटरस् वर्यः राष्ट्रद्वयं प्रति चर्चां कृतवान्। काश्मीरविषये ऐक्यराष्ट्रसभायाः पूर्वस्यां पदस्थित्यां व्यत्ययः न जातः, समस्या उभयोः राष्ट्रयोः परस्परचर्चया परिहर्तव्या इत्येव यू एन् समित्याः मतमिति स्टीफन् वर्येण उक्तम्।।
'सुधर्मा' दिनपत्रिकायाः सुवर्ण-संवत्सरकार्यक्रमः श्वः भविष्यति।

 सरस्वतीपुरम् > मैसूरु > विश्वप्रसिद्धा सुधर्मा दिनपत्रिका पञ्चाशत् संवत्सराणि समुपगच्छति। सांस्कृतिकक्षेत्रे संस्कृतभाषाक्षेत्रे च पञ्चाशत् वर्षाणां पुण्यफलानि अवाप्य अनुस्यूतं संस्कृतवाङ्मय-प्रकाशनम् इति स्वधर्मपालने तिष्ठति एषा 'सुधर्मा'। इदानीं मोदानां कालः, सुधर्मा दिनपत्रिकायाः सुवर्ण-संवत्सरकार्यक्रमः श्वः सेप्तम्बर् १३ दिनाङ्के भविष्यति॥ 
    मङ्गलकाले सायं ४ वादने उडुपि पेजावरमठाधीशस्य श्री श्री विश्वेशतीर्थ श्रीपादानाम् अनुग्रहभाषणेन सुवर्ण-संवत्सरीय-कार्यक्रमस्य शुभारम्भः भविष्यति। श्री श्री विश्वप्रसन्नतीर्थपादाः पुस्तकस्य लोकार्पणं कृत्वा आशीर्वचनं प्रदास्यति। नव चत्वारिंशत् संवत्सरान् यावत् अनस्यूतप्रवाहानन्तरं पञ्चाशत् तमस्य संवत्सरस्य प्रथमसोपाने प्रविश्यताम् इति संस्कृतप्रेमिणः आशीर्वचसा सम्भृतः भवति फेस् बुक् वाड्साप्  आदयाः नूतनसञ्चारमाध्यमाः॥
पलास्तिकं विरुद्ध्य युद्धे कर्म कर्मकरैः साकं भारतप्रधानमन्त्री अपि भागं स्वीकृतवान्।
कर्मकरैः साकं नरेद्रमोदी  मालिन्यं पृथक्‌ करोति ।
   मथुर> पलास्तिक (Plastic) मालिन्यान् विरुद्ध्य युद्धे कर्मकरैः साकं भारतप्रधानमन्त्री अपि भागं स्वीकृतवान्। मालिन्याकारात् पलास्तिकं पृथक् क्रियमाणां स्त्रीणां साहाय्यं कुर्वन् नरेन्द्रमोदिनः चित्रम् आधुनिक-माध्यमद्वारा वितीर्य जनाः आघुष्यन्ते।
   राष्ट्रे एकवारमुपयुज्यमानः पलास्तिक-मालिन्यानां सम्पूर्ण-निर्मार्जनमुद्दिश्य आयोजिता 'स्वच्छता है सेवा' इति परियोजनायाः उद्घाटनाय समागतः आसीत् नरेन्द्रमोदी।  तदा मालिन्याकारतः पलास्तिकं पृथक् कुर्वन्तः स्त्रियः प्रधानमन्त्रिणा दृष्टा आसीत्। तदा तेषां समीपं गत्वा तैः साकं कर्मसु व्यापृतः आसीत् सः।