संस्कृतकवि: युवराजभट्टराईवर्य: साहित्य-अकादेमी युवापुरस्कारेण सभाजित:
असमः> भारतसर्वकारस्य भाषासंस्कृतिमन्त्रालयस्य अंगभूतसंस्थया साहित्यअकादमीति संस्थया चतुर्विंशती राजमानितभाषाणां कृते ऐषमो वार्षिकयुवापुरस्कार: वितरित:। सविशेषमिदमस्ति यत् एतेषु पुरस्कारेषु कविताविधाया: प्राबल्यम् अवर्तत. अकादमीद्वारा प्रतिवर्षम् प्रदीयमानेSस्मिन् युवापुरस्कारे ऐषमो वर्षे युवापुरस्कारार्थं प्रचितासु कृतिषु कविताया: एकादश पुस्तकानि, कथाया: षट पुस्तकानि, पञ्च उपन्यास-ग्रन्था:, एकं साहित्यिकालोचना-कृति-पुस्तकं समावेशितानि वर्तन्ते।
'साहित्य-अकादमी 2019 तम-वर्षीय-युवा-पुरस्कारार्थं सर्वासां भाषाणां भाषाकोविदां प्रतिनिधि-सदस्यानां प्रचयन-समितिद्वारा अनुशंसितेभ्यः युवलेखकेभ्य: विद्वद्भ्यश्च भारतसर्वकारस्य उक्तसंस्थया पुरस्कारा: वितरिता:।
एतदन्तर्गतं श्रीयुवराजभट्टराईवर्यस्य भक्तिपरं वाग्विलासिनीति काव्यं संस्कृतभाषाया: युवापुरस्कारार्थं साहित्य-अकादम्या प्रचितमासत्। एतादृश-प्रतिष्ठित-पुरस्कार-प्राप्त-कर्ता असौ युवराजभट्टराई संस्कृतस्य युवलेखक:, कवि:, वार्ताप्रसारक:, सम्पा