OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 4, 2019

मेट्रो नूतनं यानमार्गपसारणम् उद्घाटितम्। 
   कोच्ची> केरलस्य अभिमानपरियोजनायाः मेट्रो रेल् यानयोजनायाः नूतनं यानमार्ग-प्रसारणं मुख्यमन्त्रिणा पिणरायि विजयेन समुद्घाटितम्। एऱणाकुलं महाराजास् निस्थानादारभ्य 'तैक्कूटं' पर्यन्तं ५. ६कि मी दूरपरिमितं भवति नूतनं सोपानम्। कटवन्त्र स्थाने सम्पन्ने कार्यक्रमे केन्द्रमन्त्री हरदीपसिंहपुरी अध्यक्षः अभवत्। मेट्रोमान् इतिविख्यातः ई. श्रीधरः , केरलस्य गतागतमन्त्री ए के शशीन्द्रः इत्यादयः प्रमुखाः कार्यक्रमे भागभाजः अभवन्।
कश्मीरे आर्थिकनिक्षेपाय जापानादीनि राष्ट्राणि। १५००० कोटि रूप्यकाणां परियोजनाः अङ्गीकृताः।
     नवदिल्ली> कश्मीरः प्रगत्यभिमुखं याति। १५००० कोटि रूप्यकाणां परियोजनाःI ४४ उद्योगसंस्थाः कश्मीरे व्यवसायिक संस्थायाः समारम्भाय सज्जो भूत्वा केन्द्रसर्वकारम् उपगताः। एतेषु ३३ संस्थायाः निवेदनानि सर्वकारेण अङ्गीकृतानि।
  ऐ टि & टेक्नोलजि, इन्फ्रास्ट्रच्चर्, रिन्यूवल् एनर्जि, मानुफाक्चरिङ्, होस्पिट्टालिट्टि, डिफन्स्, डूरिसम्, स्किल् - एड्‌यूकेषन् इति मण्डलेषु १५००० कोटि रूप्यकाणां परियोजना भवति। नवंबर् मासतः नूतनयोजनाः समारप्स्यन्ते इत्यस्ति आवेदनम्। एतत् अतिरिच्य रिलयन्स् आदयः अन्ताराष्ट्र-संस्थाः, जापानराष्ट्रं अन्यानि कानिचन  राष्ट्राणि च काश्मीरे आर्थिकनिक्षेपाय समागतेषु सन्ति।

Tuesday, September 3, 2019

बलदेवानन्द सागरः 'वाचस्पति' पुरस्कारेण सम्मानितः
  चित्रकूटम्> संस्कृतवार्ताप्रसारकत्वेन सुख्यातः डा बलदेवानन्द सागरः वाचस्पति पुरस्कारेण सम्मानितः  रामकथागायकस्य मोरारीबापू-चरणस्य करकमलाभ्याम् अद्य (ऋषिपञ्चमी, ऑगस्ट'२०१९) वाचस्पति-सम्माननम् अवाप्तम्। 'मम सारस्वत-साधनायाः दायित्वमितः परम् एधितम्' इति सम्मानं स्वीकृत्य सागर महोदयेन उक्तम्। संस्कृृत वार्ताप्रसारण मण्डले तथा संंस्कृतभाषाायाः प्रचारणक्षेत्रे च अनेन कृतं योगदानं पुरस्कृत्य भवति अयं पुरस्कारः। चित्रकूटस्थे कैलाासगुरुकुले आयोजितायाम् उपवेशने आसीत्‌ समम्माननम्।
पाकिस्थानानुकूलतया वक्तुम् कुलभूषणस्योपरि सम्मर्दः।
    इस्लामबाद्> पाकिस्थाने कारागृहे बन्धितस्य भारतनागरिकस्य कुलभूषण यादवस्योपरि शक्तः सम्मर्दः अस्ति इति भारतस्य विदेशकार्यमन्त्रालयः वदति। पाकिस्थानानुकूलतया वक्तव्यम् इत्यस्ति सम्मर्दः। स्वयं चारः इत्यङ्गीकृत्य  प्रज्ञापनां दातुम् पाकिस्थानेन कुलभूणः प्रेरितः इति विदेशकार्य-वक्ता रवीषकुमारः अवदत्। कुलभूषणजातवाय नयतन्त्र-साहाय्यं प्रदास्यानन्तरमासीत् भारतस्य इयम् उक्तिः।
    चारवृत्तिमारोप्य पाकिस्थानीयेन सैनिकन्यायालयेन कुलभूषणाय मृत्युदण्डः आदिष्टः आसीत्। किन्तु दैवदिष्ट्या दण्डं विरुद्ध्य अन्ताराष्ट्र नीति-न्यायालयात् भारतानुकूलतया आदेश-प्राप्तिः आसीत्। न्यायालया-देशानुसारं यादवाय नयतन्त्रसाहाय्यं प्रदातुं पाकिस्थानः निर्बद्धः अभवत्।  अनेन कारणोन आसीत् यादवेन सह मेलने भारताय अनुज्ञा प्रदानम्।

केरले 'पि वि सि फ्लक्स्' फलकानि निरुद्धानि।
    अनन्तपुरी > स्वास्थ्य पारिस्थितिक दोषाणां कारणभूतानि पि वि सि (Poly Vinail  Chloride) फ्लक्स् फलकानि केरले निरुद्धानि। सर्वकारीय निजीयकार्यक्रमाः, धार्मिकाचाराः, चलच्चित्र-निर्वाचनादीनां प्रचारणं, इत्यादीनाम् उद्घोषणाय फ्लक्स् इत्यस्य उपयोगः मुद्रणं  च निरुद्धम्। तत्स्थाने तान्तव-कागद-'पोलि एत्लिन्' इत्यादि पुनश्चंक्रमणक्षमाणां वस्तूनामुपयोगः कार्यः। विरुद्धप्रवर्तकानां द्रव्यदण्डः विहितः।

Monday, September 2, 2019

चन्द्रयानम् २,  'लान्टर' इत्यस्य अद्य विशेषबन्धच्छेदःI
     बंङ्गलूरु > भारतस्य अनुसन्धान-पेटकं चन्द्रयानम्-२ चन्दस्य समीपं प्रदक्षिणं करोति। रविवासरे सायं ६:२१ वादने विशेषयन्त्रम् उपयुज्य पथः क्रमीकृतः। चन्द्रपथ प्राप्त्यनन्तरं  पेटकस्य पञ्चमं पथसन्तरणं भवति इदम्। अनन्तर दौत्यः चन्द्रोपरितलप्राप्त्यर्थम् रोवरस्य अवतारणाय अवतारणयन्त्रस्य पेटकबन्धच्छेदः एव। सोमवासरे मध्याह्ने१२:३५ - १:४५ वादनस्य मध्ये 'लान्टर'स्य बन्धच्छेदः भविष्यति। शनिवासरे  उषसि १:३०- २:३० वादने चन्द्रस्य गर्तप्रदेशे मृदुलावतरणविद्यया लान्टरं अवतारयिष्यति।

Sunday, September 1, 2019

भारतस्य रूप्यकपत्रस्य २००० इत्यस्य निलीनप्रवेश: - प्रभवकेन्द्रं पाकिस्थानः। 
    नवदिल्ली> भारतस्य २००० इति रूप्यकपत्रस्य   व्याजपत्राणि पाकिस्थानीयेन भीकरदलेन निर्मितानि। सुरक्षानुबन्धतया कृतान्वेषणे विशेषान्वेणसंघेन पाकिस्थानस्य बन्धः प्रत्यभिज्ञातः। डि सि पि प्रमोद सिंह कुश्वन्तस्य नेतृत्वे विद्यमानेन अन्वेणसंघेन  पाकिस्थानीय चारसंघस्य ऐ एस् ऐ इत्यस्य प्रधानप्रतिनिधिः दिल्लीस्थ नेहृपालस् इत्यस्य समीपतः  गृहीतः। अज्ञावासिनः अधोलोकप्रवर्तकस्य महापातकिनः च दावूद् इब्राहिमस्य 'D' इति उद्योगसंस्थायाः प्रतिनिधिः भवति अस्लम् अन्सारिः। अस्य पार्श्वतः ५.०५ लक्षं रूप्यकाणां मूल्यभूतं २००० रूप्यकस्य व्याज रूप्यकपत्राणि बलेन गृहीतानि। भारतात् पलायितः दावूद् इब्राहिमः तस्य 'D' इति संस्था च भवतः व्याज रूप्‌यकपत्र-वितरणे ऐ एस् ऐ इत्यस्य प्रधानमध्यवर्तितिनौ।  'D' इत्यस्य केन्द्रकार्यालयः पाकिस्थाने कराची नगरे एव वर्तते।

Saturday, August 31, 2019

भीषायाः पुरतः न नमस्कारः; आमेरिक्कम् अपि भीतं कुर्वन् रष्यस्य युद्धसङ्केतं भारतं क्रीणाति।
    नवदिल्ली> पञ्चमश्रेणीयान् युद्धविमानानपि भग्नं कर्तुं क्षमता युक्तम्, अमेरिक्कस्य आधुनिकम् एफ् ३५ 'फैट्टर् जेट्‌' विमानानामपि भीषां कर्तुं योग्यं, शब्दात् अष्टगुणितवेगयुतं च भवति भारतेन क्रेतुं निश्चितः  रष्यस्य 'एस् ४०० त्रैम्फ्' इति अग्निबाणः। अमेरिक्कस्य भीषां विगणय्य भारतेन अग्निबाणस्य कृते धनं क्रमशः दातुम् आरब्धम्। 
     रष्येन सह अग्निबाण-सन्धिविषये भारतस्योपरि उपरोधप्रक्रमाः स्वीकरिष्ये इति अमेरिकेन पूर्वसूचना प्रदत्ता आसीत्। किन्तु भीषायाः पुरतः नमस्कृत्य स्थांतुम् न शक्यते, रष्येन सह अग्निबाण-सन्धिः अनुवर्तयितुम् एव निश्चितः इति भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना  उक्तम्। ५.४ बिल्यण् डोलर् धनस्य भवति सन्धिः।

Friday, August 30, 2019

जि-७ शिखरमेलने चीनं प्रति परिहासः; होङ्कोङ् घटनायं प्रतिषेधितान् समर्थनं कृत्वा विश्वराष्ट्राणि। 
    पारीस्> चीनं विरुद्ध्य लोकराष्ट्राणि विप्रतिपत्तिं प्राकाशयन्। जि-७ शिखर-सम्मेलने आसीत् होङ्कोङ् घटनायां प्रतिषेधितानाम् उपरि लोकराष्ट्रस्य  आलम्ब प्रख्यापनम्। किन्तु जि-७ शिखरसम्मेलनस्य निश्चयान् प्रति चीनेन विप्रतिपत्तिः प्रकाशिता।
      लक्षशान् होङ्कोङ् निवासिनः मार्गेषु अवतीर्य कृतः प्रतिषेधः चीनेन आरक्षकान् उपयुज्य उपयुज्य पराजेतुं प्रयत्नः कृतः। १९८४ तमे कृतां सन्धिम् उल्लङ्घ्य भवति चीनस्य प्रक्रमाः। मुनुष्यावकाश लङ्घनमेव  चीनेन कृतम् इति जि-७ मेलने असूचयत्॥

Thursday, August 29, 2019

त्रयः व्योममार्गाः पाकिस्थानेन पिहिताः। 
    इस्लामबाद् >  कराच्ची नगरस्य उपरि वर्तमानाः त्रयः अपि व्योममार्गाः चत्वारि दिनानि यावत्  पिहिताः। मार्गान्तरं निर्दिष्टमस्ति च। पिधानस्य कारणं न स्पष्टीकृतम्। कराच्ची नगरस्य उपरिष्टात् सञ्चरणीयानां सर्वेषां राष्ट्रान्तरविमानानां अयं पथव्यत्यासः बाधते। भारतेन उपयुज्यमानः व्योममार्गः पूर्णतया पिधास्यतीति पाकिस्थानेन गतदिने उक्तमासीत्।
वार्तामुक्तकानि। 
वि जे टि मण्डपः इतःपरम् अय्यङ्कालिवर्यस्य नाम्नि। 
महात्मा अय्यङ्कालिः
अनन्तपुरी > नगरे विद्यमानः प्रशस्तः वि जे टी मण्डपः [Victoria  Jubilee Town Hall] परं केरलस्य सामाजिकपरिष्कर्तुः 'महात्मा अय्यङ्कालि'-वर्यस्य समादरणाय पुनर्कृतनामधेयः भविष्यति। महात्मनः १५७ तमस्य जन्मदिनोत्ससवस्य उद्घाटनं कुर्वता केरलमुख्यमन्त्रिणा पिणरायि विजयेन प्रख्यपितमेवम्।


माणि सि काप्पन् पाला मण्डले वामदलस्थानाशी।
अनन्तपुरी > केरले उपनिर्वाचनप्रख्यापिते पाला विधानसभामण्डले वामदलस्य स्थानाशिरूपेण एन् सि पि दलनेता माणि सि काप्पः निश्चितः। भूतपूर्वधनमन्त्रिणः तथा केरल कोण्ग्रस् [एम्] दलस्य वरिष्ठनेतुः केएम् माणिनः देहवियोगादेव अत्र उपनिर्वाचनं  सम्पद्यमानं भवति।

 कोच्ची मेट्रो नूतनपथसञ्चरणाय सज्जमस्ति 
कोच्ची >  कोच्ची मेट्रो रेल् परियोजनायाः नूतनपथसञ्चरणाय [एरणाकुलं महाराजास् निस्थानादारभ्य तैक्कूटं पर्यन्तं] सुरक्षापरिशोधना श्वः आरभ्यते। सेप्टम्बर् प्रथमवारे उद्घाटनाय सज्जमिति के एम् आर् एल् अधिकृतैः निगदितम्। पञ्च निस्थानैः ५.६५ कि मी परिमितं दूरमावहति नूतनी पथसरिणी।
आतङ्कवादः, अतिक्रम्य प्रवेशः; राष्ट्रसुरक्षां शक्तीकर्तुम् जम्मु काश्मीरे आधारपत्रं व्यावहारिकं करिष्यति।
   नवदिल्ली> राष्ट्रसुरक्षानुबन्धतया जम्मुकाश्मीरे व्यावहारिकतले अपि आधारपत्रम् उपयोक्तुं केन्द्रसर्वकारेण निश्चितम्।  आधारपत्र-पञ्जीकरणं यदा पुर्णं भविष्यति तदा अविहित मार्गेण आगतान् तथा भीकरप्रवर्तकान् च सम्पूर्णतया निवारयितुम् शक्‌यते इति सर्वकारेण सूच्यते। अधारपञ्जीकरणेन जनेभ्यः सर्वकारस्य क्षेमयोजनायाः गुणफलानि यथाकालं लप्स्यन्ते। ७८% आधारपञ्जीकरणम् अधुना सम्पन्नम् अस्ति।

Wednesday, August 28, 2019

काश्मीरस्य समस्या भारतस्य आभ्यन्तरविषयः, पाकिस्थानः वा अन्यराष्ट्राणि वा विषयेऽस्मिन्  हस्तक्षेपं न कुर्यात्- राहुल गान्धी।
    नवदिल्ली> जम्मुकाश्मीर-विषये पाकिस्थानं विरुद्ध्य स्वाभिमतं प्रकाश्य कोण्ग्रस् दलनेता राहुल गान्धी। केन्द्रसर्वकारं प्रति  मतभिन्नता अस्ति चेदपि काश्मीरस्य समस्या भारतस्य आभ्यन्तरविषयः  इति केन्द्रसर्वकारस्य मतं मया अङ्गीक्रियते। विषयेऽस्मिन् पाकिस्थानः वा अन्यराष्ट्राणि वा   हस्तक्षेपं न कुर्यात् इति राहुलेन  टिट्वर् द्वारा स्वस्य अभिमतं प्रकाशितवान्। विश्वे जायमानानाम् आतङ्कवाद-भीकराक्रमणानां साह्यकारः इति प्रथितस्य पाकिस्थानस्य साह्येन प्रेरणया च भवति काश्मीरस्य आक्रमणानि इति च तेन टिट्वर् मध्ये आलेखितम्। 
     भारतेन  हस्तक्षेपः कृतः  इति उक्त्वा पाकिस्थानेन यू एन्‌ मध्ये समर्पिते सूचनापत्रे राहुलस्य नामापि परामृष्टम् आसीत्। तदनन्तरं  भवति राहुलस्य ईदृशं स्वाभिमत-प्रकाशनम् इति श्रद्धेयः अंशः भवति।
व्योममार्गं पूर्णतया पिधास्यतीति पाकिस्थानस्य भीषा। 
इस्लामबादः > भारतं प्रति पाकिस्थानाधीनं व्योममार्गं पूर्णतया पिधातुम् उद्दिश्यते इति पाकिस्थानः। अफ्गानिस्थानेन सह व्यापाराय पाग्भूमेः उपयोगनिरोधः अपि पाक्मन्त्रिमण्डलेन चिन्तित इति तत्रत्यः शास्त्रसाङ्केतिकमन्त्री फवाद चौधरी ट्विटर द्वारा स्पष्टीकृतवान्। 
 बाल कोट् व्योमाक्रमणानन्तरं फेब्रुवरि मासे पाकिस्थानेन पूर्णतया पिहितः व्योममार्गः जूलाईमासे उद्घाटितः आसीत्। यू एस्, यूरोप्यन् राष्ट्राणि अभिव्याप्य उपपञ्चाशत् एयरिन्डिया विमानानि प्रतिदिनम् अनेन मार्गेण सेवां कुर्वन्ति।

Tuesday, August 27, 2019

भारतसर्वकाराय रिसर्व बैंकस्य १.७६ लक्षं कोटि रूप्यकाणि।
मुम्बई >  'रिसर्व् बैंक् ओफ् इन्डिया' इत्यनेन केन्द्रसर्वकाराय स्वस्य आरक्षितद्रव्यात् १. ७६०५१ लक्षं कोटि रूप्यकाणि दातुं निर्णयः कृतः। द्रव्यदानस्य गुणदोषानधिकृत्य परिचिन्तितुं नियुक्तस्य भूतपूर्वस्य आर् बि ऐ राज्यपालस्य आध्यक्षे वर्तमानायाः उन्नताधिकारसमित्याः आदेशमनुसृत्य एवायं निर्णयः।
एकवारं प्रयोगार्हम् आकरदमुक्तभारताभियानम् आमिरखानेन समुचितं प्रतिपादितं प्रोक्तं च यदिदमस्माकमुत्तरदायित्वम्
- पुरुषोत्तमशर्मा, नव दिल्ली
 
   बॉलीवुड् डेस्क> स्वतन्त्रतादिवसे रक्तदुर्गस्य प्राकारवेदिकात: कृतनिजभाषणे प्रधानमन्त्री नरेन्द्रमोदी सकृत्प्रयुक्ताकरदमुक्तराष्ट्राय जनान् प्रति आह्वानं कृतवान् आसीत्। अमुना ऑक्टूबरमासस्य द्वितीयायां महात्मगान्धिन: जन्मजयन्त्यवसरे अभियानं समारब्धुं जनानाम् आह्वानं कृतवान् आसीत्। अधुना अस्मिन् प्रकरणे प्रसिद्धाभिनेत्रा आमिरखानेन प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति स्वाभिप्रायानुकूल्यं ट्विट्टर इति समाजिकसञ्चारतन्त्रे कृतम्। यद्धि सततं प्रसरति।

आमिरेण व्यलेखि- इदमस्माकमुत्तरदायित्वम्।
   आमिरखानेन स्वीये ट्वीटसन्देशे लिखितम्, "माननीयप्रधानमन्त्रिण: नरेन्द्रमोदिन: एकवारं प्रयोगार्हम् आकरदनिर्मितवस्तूनां निराकरणस्य प्रयासा: अस्माभि: दृढतया अनुकूलनीया:। इदमस्माकमुत्तरदायित्वमस्ति यद्वयं सकृत्मुक्ताकरदस्य प्रयोगं निराकुर्म:" अवधेयमस्ति यत् अमुं सन्देशमधिकृत्य जना: कश्मीरविषये आमिरखानम् आपीडयन्ति।
एकवारं प्रयोगार्हम् आकरदमुक्तभारताभियानम् आमिरखानेन समुचितं प्रतिपादितं प्रोक्तं च यदिदमस्माकमुत्तरदायित्वम्।

काश्मीरस्य समस्यापरिहाराय माध्यस्थं न आवश्यकम् - मोदी, स्वाभिमतं परिवर्त्य ट्रम्पः।

  बियारिट्स्> भारतपाकिस्थानयोः मध्ये उभयपक्षसंबन्धिसमस्या एव इति  भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। अमेरिकस्य राष्ट्रपतिना डोणाल्ड् ट्रम्पेन सह मिलित्वा सम्पन्नायां सन्दर्शनवेलायाम् आसीत् मोदिना स्वस्य अभिमतम्  एवं प्रकाशितम्। फ्रान्सस्य बियारिट्स् नगरे आयोजिते G7 शिखरसम्मेलने आसीत् उभयोः चर्चा।   उभयराष्ट्रयोः चर्चया समस्यापरिहाराय प्रयत्नं करणीयम् इति ट्रम्पेन स्वस्य अभिमतम्  अपि प्रकाशितम्। १९४७तः पूर्वं भारतं पाकिस्थानः च एकं राष्ट्रम् आसीत्। मम विश्वासः अस्ति यत्  आवयोः समस्याः मिलित्वा संभाष्यते चेत् परिहर्तुं शक्यते इति। एवं नरेन्द्रमोदी स्वस्य अभिमतः अपि ट्रम्पस्य पुरतः प्रकशितवान्।

Monday, August 26, 2019

जम्मु-काश्मीरस्य सचिवालयात् राज्यध्वजस्य निर्मार्जनं कृत्वा भारतस्य त्रिवर्णध्वजः आरोपितः
    श्रीनगरम्> अनुच्छेदः ३७० इत्यस्य निष्कासनानन्तरं जम्मुनगरस्थ सचिवालयात् राज्यध्वजः अपि निष्कासितः। स्थानेऽस्मिन् भारतराष्ट्रस्य त्रिवर्णध्वजः आरोपितः। सर्वकारस्य विविध-विभागेभ्यः पूर्वस्मिन् दिनेषु राज्यध्वजः निष्कासितः आसीत्। जमुकाश्मीरस्य शासनकेन्द्रः  नागरिक-सचिवालयः ( Civil Secretariat) श्रीनगरे एव वर्तते।