OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 29, 2019

वार्तामुक्तकानि। 
वि जे टि मण्डपः इतःपरम् अय्यङ्कालिवर्यस्य नाम्नि। 
महात्मा अय्यङ्कालिः
अनन्तपुरी > नगरे विद्यमानः प्रशस्तः वि जे टी मण्डपः [Victoria  Jubilee Town Hall] परं केरलस्य सामाजिकपरिष्कर्तुः 'महात्मा अय्यङ्कालि'-वर्यस्य समादरणाय पुनर्कृतनामधेयः भविष्यति। महात्मनः १५७ तमस्य जन्मदिनोत्ससवस्य उद्घाटनं कुर्वता केरलमुख्यमन्त्रिणा पिणरायि विजयेन प्रख्यपितमेवम्।


माणि सि काप्पन् पाला मण्डले वामदलस्थानाशी।
अनन्तपुरी > केरले उपनिर्वाचनप्रख्यापिते पाला विधानसभामण्डले वामदलस्य स्थानाशिरूपेण एन् सि पि दलनेता माणि सि काप्पः निश्चितः। भूतपूर्वधनमन्त्रिणः तथा केरल कोण्ग्रस् [एम्] दलस्य वरिष्ठनेतुः केएम् माणिनः देहवियोगादेव अत्र उपनिर्वाचनं  सम्पद्यमानं भवति।

 कोच्ची मेट्रो नूतनपथसञ्चरणाय सज्जमस्ति 
कोच्ची >  कोच्ची मेट्रो रेल् परियोजनायाः नूतनपथसञ्चरणाय [एरणाकुलं महाराजास् निस्थानादारभ्य तैक्कूटं पर्यन्तं] सुरक्षापरिशोधना श्वः आरभ्यते। सेप्टम्बर् प्रथमवारे उद्घाटनाय सज्जमिति के एम् आर् एल् अधिकृतैः निगदितम्। पञ्च निस्थानैः ५.६५ कि मी परिमितं दूरमावहति नूतनी पथसरिणी।
आतङ्कवादः, अतिक्रम्य प्रवेशः; राष्ट्रसुरक्षां शक्तीकर्तुम् जम्मु काश्मीरे आधारपत्रं व्यावहारिकं करिष्यति।
   नवदिल्ली> राष्ट्रसुरक्षानुबन्धतया जम्मुकाश्मीरे व्यावहारिकतले अपि आधारपत्रम् उपयोक्तुं केन्द्रसर्वकारेण निश्चितम्।  आधारपत्र-पञ्जीकरणं यदा पुर्णं भविष्यति तदा अविहित मार्गेण आगतान् तथा भीकरप्रवर्तकान् च सम्पूर्णतया निवारयितुम् शक्‌यते इति सर्वकारेण सूच्यते। अधारपञ्जीकरणेन जनेभ्यः सर्वकारस्य क्षेमयोजनायाः गुणफलानि यथाकालं लप्स्यन्ते। ७८% आधारपञ्जीकरणम् अधुना सम्पन्नम् अस्ति।

Wednesday, August 28, 2019

काश्मीरस्य समस्या भारतस्य आभ्यन्तरविषयः, पाकिस्थानः वा अन्यराष्ट्राणि वा विषयेऽस्मिन्  हस्तक्षेपं न कुर्यात्- राहुल गान्धी।
    नवदिल्ली> जम्मुकाश्मीर-विषये पाकिस्थानं विरुद्ध्य स्वाभिमतं प्रकाश्य कोण्ग्रस् दलनेता राहुल गान्धी। केन्द्रसर्वकारं प्रति  मतभिन्नता अस्ति चेदपि काश्मीरस्य समस्या भारतस्य आभ्यन्तरविषयः  इति केन्द्रसर्वकारस्य मतं मया अङ्गीक्रियते। विषयेऽस्मिन् पाकिस्थानः वा अन्यराष्ट्राणि वा   हस्तक्षेपं न कुर्यात् इति राहुलेन  टिट्वर् द्वारा स्वस्य अभिमतं प्रकाशितवान्। विश्वे जायमानानाम् आतङ्कवाद-भीकराक्रमणानां साह्यकारः इति प्रथितस्य पाकिस्थानस्य साह्येन प्रेरणया च भवति काश्मीरस्य आक्रमणानि इति च तेन टिट्वर् मध्ये आलेखितम्। 
     भारतेन  हस्तक्षेपः कृतः  इति उक्त्वा पाकिस्थानेन यू एन्‌ मध्ये समर्पिते सूचनापत्रे राहुलस्य नामापि परामृष्टम् आसीत्। तदनन्तरं  भवति राहुलस्य ईदृशं स्वाभिमत-प्रकाशनम् इति श्रद्धेयः अंशः भवति।
व्योममार्गं पूर्णतया पिधास्यतीति पाकिस्थानस्य भीषा। 
इस्लामबादः > भारतं प्रति पाकिस्थानाधीनं व्योममार्गं पूर्णतया पिधातुम् उद्दिश्यते इति पाकिस्थानः। अफ्गानिस्थानेन सह व्यापाराय पाग्भूमेः उपयोगनिरोधः अपि पाक्मन्त्रिमण्डलेन चिन्तित इति तत्रत्यः शास्त्रसाङ्केतिकमन्त्री फवाद चौधरी ट्विटर द्वारा स्पष्टीकृतवान्। 
 बाल कोट् व्योमाक्रमणानन्तरं फेब्रुवरि मासे पाकिस्थानेन पूर्णतया पिहितः व्योममार्गः जूलाईमासे उद्घाटितः आसीत्। यू एस्, यूरोप्यन् राष्ट्राणि अभिव्याप्य उपपञ्चाशत् एयरिन्डिया विमानानि प्रतिदिनम् अनेन मार्गेण सेवां कुर्वन्ति।

Tuesday, August 27, 2019

भारतसर्वकाराय रिसर्व बैंकस्य १.७६ लक्षं कोटि रूप्यकाणि।
मुम्बई >  'रिसर्व् बैंक् ओफ् इन्डिया' इत्यनेन केन्द्रसर्वकाराय स्वस्य आरक्षितद्रव्यात् १. ७६०५१ लक्षं कोटि रूप्यकाणि दातुं निर्णयः कृतः। द्रव्यदानस्य गुणदोषानधिकृत्य परिचिन्तितुं नियुक्तस्य भूतपूर्वस्य आर् बि ऐ राज्यपालस्य आध्यक्षे वर्तमानायाः उन्नताधिकारसमित्याः आदेशमनुसृत्य एवायं निर्णयः।
एकवारं प्रयोगार्हम् आकरदमुक्तभारताभियानम् आमिरखानेन समुचितं प्रतिपादितं प्रोक्तं च यदिदमस्माकमुत्तरदायित्वम्
- पुरुषोत्तमशर्मा, नव दिल्ली
 
   बॉलीवुड् डेस्क> स्वतन्त्रतादिवसे रक्तदुर्गस्य प्राकारवेदिकात: कृतनिजभाषणे प्रधानमन्त्री नरेन्द्रमोदी सकृत्प्रयुक्ताकरदमुक्तराष्ट्राय जनान् प्रति आह्वानं कृतवान् आसीत्। अमुना ऑक्टूबरमासस्य द्वितीयायां महात्मगान्धिन: जन्मजयन्त्यवसरे अभियानं समारब्धुं जनानाम् आह्वानं कृतवान् आसीत्। अधुना अस्मिन् प्रकरणे प्रसिद्धाभिनेत्रा आमिरखानेन प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति स्वाभिप्रायानुकूल्यं ट्विट्टर इति समाजिकसञ्चारतन्त्रे कृतम्। यद्धि सततं प्रसरति।

आमिरेण व्यलेखि- इदमस्माकमुत्तरदायित्वम्।
   आमिरखानेन स्वीये ट्वीटसन्देशे लिखितम्, "माननीयप्रधानमन्त्रिण: नरेन्द्रमोदिन: एकवारं प्रयोगार्हम् आकरदनिर्मितवस्तूनां निराकरणस्य प्रयासा: अस्माभि: दृढतया अनुकूलनीया:। इदमस्माकमुत्तरदायित्वमस्ति यद्वयं सकृत्मुक्ताकरदस्य प्रयोगं निराकुर्म:" अवधेयमस्ति यत् अमुं सन्देशमधिकृत्य जना: कश्मीरविषये आमिरखानम् आपीडयन्ति।
एकवारं प्रयोगार्हम् आकरदमुक्तभारताभियानम् आमिरखानेन समुचितं प्रतिपादितं प्रोक्तं च यदिदमस्माकमुत्तरदायित्वम्।

काश्मीरस्य समस्यापरिहाराय माध्यस्थं न आवश्यकम् - मोदी, स्वाभिमतं परिवर्त्य ट्रम्पः।

  बियारिट्स्> भारतपाकिस्थानयोः मध्ये उभयपक्षसंबन्धिसमस्या एव इति  भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। अमेरिकस्य राष्ट्रपतिना डोणाल्ड् ट्रम्पेन सह मिलित्वा सम्पन्नायां सन्दर्शनवेलायाम् आसीत् मोदिना स्वस्य अभिमतम्  एवं प्रकाशितम्। फ्रान्सस्य बियारिट्स् नगरे आयोजिते G7 शिखरसम्मेलने आसीत् उभयोः चर्चा।   उभयराष्ट्रयोः चर्चया समस्यापरिहाराय प्रयत्नं करणीयम् इति ट्रम्पेन स्वस्य अभिमतम्  अपि प्रकाशितम्। १९४७तः पूर्वं भारतं पाकिस्थानः च एकं राष्ट्रम् आसीत्। मम विश्वासः अस्ति यत्  आवयोः समस्याः मिलित्वा संभाष्यते चेत् परिहर्तुं शक्यते इति। एवं नरेन्द्रमोदी स्वस्य अभिमतः अपि ट्रम्पस्य पुरतः प्रकशितवान्।

Monday, August 26, 2019

जम्मु-काश्मीरस्य सचिवालयात् राज्यध्वजस्य निर्मार्जनं कृत्वा भारतस्य त्रिवर्णध्वजः आरोपितः
    श्रीनगरम्> अनुच्छेदः ३७० इत्यस्य निष्कासनानन्तरं जम्मुनगरस्थ सचिवालयात् राज्यध्वजः अपि निष्कासितः। स्थानेऽस्मिन् भारतराष्ट्रस्य त्रिवर्णध्वजः आरोपितः। सर्वकारस्य विविध-विभागेभ्यः पूर्वस्मिन् दिनेषु राज्यध्वजः निष्कासितः आसीत्। जमुकाश्मीरस्य शासनकेन्द्रः  नागरिक-सचिवालयः ( Civil Secretariat) श्रीनगरे एव वर्तते।
चतुर्षु विधानसभामण्डलेषु उपनिर्वाचनम् उद्घुष्टम्।
चतुर्णां राज्यस्थानां चतुर्षु मण्डलेषु निर्वाचनं सेप्तं. २३।  फलप्रख्यापनं २७ तमे दिनाङ्के!
 नवदिल्ली > राष्ट्रे विविधेषु चतुर्षु विधानसभामण्डलेषु उपनिर्वाचनम् उद्घुष्टम्। केरलस्य पाला, छत्तीसगढ़स्थे दन्तेवाडः, त्रिपुरस्थे बधारघट्टः, उत्तरप्रदेशस्य हामिरपुरम् इत्येतेषु मण्डलेषु सेप्टम्बर् मासस्य २३ तमे दिनाङ्के उपनिर्वाचनं  भविष्यति।सर्वत्र व्यवहारव्यवस्था उपस्थिता। किन्तु केरले विद्यमानेषु पञ्चसु मण्डलेषु उपनिर्वाचनं न प्रख्यापितम्!

Sunday, August 25, 2019

विश्वबाड्मिण्टन् स्पर्धायाम् इतिहासं विरचय्य पि वि सिन्धु।
   बासल्> स्विट्ज़रलैण्ड् देशस्य बासलनगरे समायोजितायां विश्वबाड्मिण्टण् स्पर्धायां भारतस्य बाड्मिण्टण् क्रीडक्या पी.वी.सिन्धुना  सुवर्णपदकम् अवाप्तम्। निर्णायकस्पर्धायां जापानदेशस्य नोज़ोमी ओकुहारा  एकविंशतिः सप्त, एकविंशति: सप्त इत्यङ्कान्तरालेन तया पराजिता। गतदिने उपान्त्यचक्रीयस्पर्धायां सिन्धुना चीनदेशस्य 'चेन यू फेई'  एकविंशितिः सप्त, एकविंशतिः चतुर्दश इत्यङ्कान्तरालेन पराजितासीत्। अनया स्पर्धया विश्वबाट्मिण्टण् स्पर्धायां सुवर्ण-पतकमवाप्ता प्रथमा भारतीया इति ख्यातिः अपि पि वि सिन्धुना स्वायत्तीकृता अस्ति। विश्व-क्रीडाक्षेत्रे पञ्चपतकानि स्वीकृत्य विजिता प्रथमा भारतीय-क्रीडकी  भवति एषा।
यू ए ई राष्ट्रे भारतस्य 'रूपे' पत्रविनियोगः।
    अबुदाबी >  भारतस्य स्वकीयं रूपे पत्रं गल्फ् राष्ट्रेषु प्राबल्यं क्रियमाणस्य उद्घाटनं गतदिने अबुदाबीनगरे सम्पन्नम्। दिनद्वयस्य औद्योगिककार्यक्रमार्थं यू ए ईं प्राप्तः भारतस्य प्रधानमन्त्री नरेद्रमोदी रूपेपत्रविनियोगस्य प्रख्यापनं निरवहत्। स्वकीयं रूपेपत्रमुपयुज्य मधुरफलाहारं क्रीत्वा पत्रस्य प्रथमोपयोमपि तेन निरूढितम्। 
    सिंहपुरं ( Singapore) भूट्टान राष्ट्रयोरनन्तरं रूपेपत्रमुपयुज्यमाणं तृतीयं राष्ट्रं भवति यू ए ई। तत्रत्याः २१ प्रमुखाभिः व्यापारसंस्थाभिः रूपेपत्रम् उपयोक्ष्यते।  अद्य बह्रिन् देशे अपि अस्य पत्रस्य विनिमयोद्घाटनं भविष्यति।

Saturday, August 24, 2019

प्राक्तनकेन्द्रमन्त्री अरुण् जैट्लि दिवङ्गतः। 
  नवदिली> भा ज दलस्य वरिष्टनेता प्राक्तनधनकार्यमन्त्री अरुण् जैट्ली (६६) दिवङ्गतः। नवदिल्लीस्थे एयिम्स् आतुरालये अद्य मध्याह्ने १२.०७ वादने आसीत् निधनत्वम्। सप्ताहात्पूर्वतः श्वसनयन्त्रस्य साहाय्येन तस्य जीवप्रक्रिया अनुवर्तिता आसीत्। आगस्ट् मासस्य नवमदिनाङ्के अनुभूतेन श्वासक्लेशेन सः आतुरालयं प्रावेशयत् । राट्रपतिः रामनाथकोविन्दः विविध राजनैतिकदलनेतारः च गतदिनेषु महोदयं सन्दर्शितवन्तः आसन्। महोदयस्य अन्त्ययष्टिः रविवासरे निगंबोधघट् श्मशाने भविष्यति।
नवदिल्ल्यां राष्ट्रियसंस्कृतसंस्थानम् मानितविश्वविद्यालयस्य षष्ठदीक्षान्तसमारोहः  सम्पन्नः।
१२६१८ छात्रै: उपाधय: प्राप्ताः।

-पुरुषोत्तमशर्मा
   नवदिल्ली> राष्ट्रियसंस्कृतसंस्थानस्य षष्ठदीक्षान्तसमारोह: नवदिल्ल्यां सिर्फोर्ट प्रेक्षागृहे समायोजित:। दीक्षान्तसमारोहस्य अध्यक्षतां संस्थानस्य कुलाधिपति: मानवसंसाधन-विकासमन्त्री च डॉ. रमेशपोखरियालनिशङ्क: निरवहत्। मुख्यातिथित्वेन भारतस्य प्राक्तन मुख्यन्यायाधीश: रमेशचन्द्रलाहोटी उपस्थित: आसीत्।
    दीक्षान्तसमारोहे संस्थानस्य पारेसहस्रं छात्रेभ्यो उपाधयोपायनीकृता:। प्राक्शास्त्री प्रारभ्य विद्यावारिधिं यावत् सार्धद्वादशसहस्राधिकछात्रै: विविधोपाधय: सम्प्राप्ता:। त्रयोत्तरैकशतं स्वर्णपदकानि अपि सर्वोत्कृष्टछात्रेभ्य: प्रदत्तानि। 
    अत्रावसरे मानवसंसाधन-विकासमन्त्री डॉ. निशङ्क: प्रावोचत् यत् संस्कृतं जनेभ्य: साम्प्रतिकेस्मिन् परिवेशे आधुनिकविधायां प्राचीनज्ञानराशिं  साहाय्यरूपेण उपस्थापयति। संस्कृतशास्त्राणि अनादिकालात् जनोपकारकाणि अवर्तन्त।
वित्तकोशेभ्यः ७०,००० कोटि; समस्या-परिहाराय आर्थिक-परिष्करणेन सह धनमन्त्रालयः।
(धनमन्त्रिणी निर्मलासीताराम-महाभागया सह धनकार्य सहमन्त्री अनुराग्‌ ठाकुरः, आर्थिक-सचिवः राजीव कुमारः च समीपे) (छायाग्रहणम् - पि जि  उण्णिकृष्णः)

     नवदिल्ली> आगोलस्तरे आर्थिक-मन्दता व्याप्ते सति भारतस्य  अर्थिकमण्डलस्य पुष्टीकरणम् उद्दिश्य धनमन्त्रालयस्य नवीनपदक्षेपः। संपूर्णलोकः आर्थिकक्लेशेन दूयमानः भवति। इतरापेक्षया भारतस्य आर्थिकस्थितिः स्वल्पोन्नता तृप्तिदायिका च भवति इति वार्तामेलने मन्त्रिण्या निर्मालासीतारामेन उक्तम्I अर्थिक-स्थितेः प्रगतिम् उद्दिश्य बहुविध-परियोजनाः तया वार्तामेलने प्रख्यापिताः।  आर्थिकपुनरुज्जीवन-प्रक्रियया सह राष्ट्रं पुरोगच्छति। पण्यकर-सेवन-मूल्यक्रमाः ललितं करिष्यन्ति। करस्य प्रत्यर्पणं (Tax return) सुतार्यं करिष्यति। नूतनव्यावसायिकसंरम्भे सार्वकारीयाः प्रतिबन्धाः तथा दुष्टोद्योगवृन्दैः समुन्नीतनियमग्रन्थयः अन्ये च प्रत्यूहाः बहवः समागच्छेयुः। तादृशकालविलंबो  वा क्लेशो वा प्रथमप्रयत्नवतां न स्यात्। आयकर-विभागस्य प्रवर्तनानि केन्द्रीकृतरीया विना विलम्बं करिष्यति इत्यपि निर्मालासीतारामेन उक्तम्।

Friday, August 23, 2019

ग्वालियरनगरस्य अनौपचारिकसंस्कृतकेन्द्रेषु शोभायात्रया सह व्यवहारोपयोगिनां वस्तुनां विज्ञानस्य च संस्कृत-प्रदर्शनी जाता

-दीपक वात्स्यः
    ग्वालियर्> मध्यप्रदेशस्य ग्वालियरस्थे कमलाराजे-कन्या-महाविद्यालये २१.०८.१९ दिनाङ्के बुधवासरे प्रात: संस्कृतस्य प्रचारप्रसाराय जनजागरणाय च संस्कृतविभागस्य संस्कृतभारत्या: अनौपचारिक-संस्कृतशिक्षणस्य च  संयुक्तसौजन्येन महाविद्यालये तिलककरणम्, संस्कृत- शोभायात्रा, संस्कृतवस्तुप्रदर्शनी, संस्कृतविज्ञानप्रदर्शनी, संस्कृतपुस्तकविपणि: इत्यादीनि विभिन्नानि कार्याणि सम्पन्नानि। सर्वप्रथमं महाविद्यालयस्य  छात्रा: दिवङ्गतात्मने भूतपूर्व-सी.एम.बाबूलालगौडवर्याय मौनश्रद्धाञ्जलिं समर्पितवत्य:। अनन्तरं तिलककरणेन सह संस्कृतगीतानि  गायन्त्य: बालिका: संस्कृतशोभायात्रायां सोत्साहेन प्रतिभागं कृतवत्य:। शोभायात्रा विभिन्नविभागेभ्यो भूत्वा सर्वेभ्य आमन्त्रणं दत्त्वा प्रदर्शनीस्थलं प्राप्तवती। तत्र अन्यविभागीयै:  प्राध्यापकै: छात्राभिस्सह डा.कृष्णा-जैनवर्या(संस्कृतविभागाध्यक्षा) , डा.उर्मिलासिंहतोमर: , डा.कविता -अग्रवाल:, डा.महेन्द्र-शर्मा (NFSE TEACHER) , अलकेशत्रिपाठी (संस्कृतभारती), डा.कल्पनाशर्मा, डा.आशारावत:, डा.राजूराठौर:, अनौपचारिकसंस्कृतशिक्षक: कृष्णकान्त: पञ्चारिया(बीकानेरी),उर्मिला वर्मा  इत्यादय: प्रदर्शन्या: अवलोकनं कृतवन्त:। सर्वे संस्कृतकार्यं वचसा

Thursday, August 22, 2019

गतागत-नियम-लङ्‌घनाय उग्रदण्डः। सेप्तम्बर् मासतः नियमः प्रबलः भविष्यति।
   नवदिल्ली> गतागत-नियमः परिष्कृतः। नियम-लङ्‌घनाय उग्रदण्डः विहितः। सेप्तंबर् मासस्य प्रथमदिनाङ्कात् नियमः प्रबलः भविष्यति। नूतननियमानुसारेण अत्याहित-रोगीयानानां मार्गविध्नकरणाय १०,००० रूप्यकाणि दण्डनशुल्कः दातव्यः। दोषः अनुवर्तते चेत्‌ यान-चालकस्य योग्यता नष्टा भविष्यति। १०० रूप्यकाणां स्थाने ५०० रूप्यकाणि इति शुल्कः वर्धितः। अनुज्ञापत्रं विना यानचालनाय ५००० रूप्यकाणां दण्डनं भाविष्यति। अभिरक्षा-पत्रस्य प्रतिः पार्श्वे नास्ति चेत् २००० रूप्यकाणि भवति दण्डनशुल्कः। अमितवेगेन यानचालनं कृतवत्भ्यः १०००तः २००० रूप्यकाणिपर्यन्तं भवति दण्डनशुल्कः।

Wednesday, August 21, 2019

चन्द्रयानं - २ चान्द्रपथं प्रविष्टम्। 
    बङ्गुलुरु >  भारतस्य द्वितीयं चान्द्रपर्यवेषणपेटकं - चन्द्रयानं २ नामकं - निर्णायकं पदमतीत्य चन्द्रस्य भ्रमणपथं प्राप्तम्। गतदिने प्रभाते ९.०२ वादने पेटकस्य द्रवीकृतयन्त्रं १७३८ निमेषान् प्रज्वाल्य एव दौत्यस्य विजयप्राप्तिः।
  चान्द्रपथे यानस्य दिशाक्रमीकरणं अद्य आरभ्यते। सेप्तम्बरमासस्य द्वितीये दिने पेटकस्य 'लान्डर्' नामकम् अवतरणयन्त्रं विच्छिद्यते। ततः लान्डरस्य सञ्चारपथे परिवर्तनं कृत्वा चन्द्रस्य ३५ कि मी दूरपरिमितं समीपं प्रापयित्वा अवतारणाय पेटकं सज्जीकरिष्यति। सेप्तं ७ दिनाङ्के अस्ति चन्द्रयानस्य चन्दंरोपरितलस्पर्शः।
आतङ्क-व्यवहारात् नाम निष्कासनाय द्विकोटि रूप्यकाणि अभ्यर्थितवन्तः त्रीन् एन्. ऐ. कर्मकरान्‌   विरुद्ध्य प्रक्रमाः।

     नवदिल्ली> व्यवसायिनः हस्त-शुल्करूपेण धनम् अभ्यर्थितवन्तः इति घटनायं त्रीरीन् एन्. ऐ. ए उद्योगे स्थितान विरुद्ध्य नियमप्रक्रमाः स्वीकृताः। आतङ्कवाद-प्रवर्तनाय आर्थिकसाहाय्यं कृतवान् आसीत् कश्चन वणिक्। तस्य नाम आतङ्गापराधिनां नामसूचिकायाम् आसीत्। तस्य नाम आतङ्गापराधिनां नामसूचिकायां आसीत्। अपराधिपट्टिकायाः पञ्चीकरणात्पूर्वं  पट्टिकातः नियमव्यवहारतः च तस्य नाम निष्कासयितुं उत्कोचरूपेण आर्थिकाभ्यर्थना कृता।  व्यवसायी तु अर्थनां विरुद्ध्य अभियोगपत्रं दत्तवान् च। विषयेऽस्मिन् डि. ऐ. जि श्रेणीस्थः अधिकारी अन्वेषणं कर्तुम् एन् ऐ  न्यायाधिकारिणा निश्चितम्।