OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 23, 2019

ग्वालियरनगरस्य अनौपचारिकसंस्कृतकेन्द्रेषु शोभायात्रया सह व्यवहारोपयोगिनां वस्तुनां विज्ञानस्य च संस्कृत-प्रदर्शनी जाता

-दीपक वात्स्यः
    ग्वालियर्> मध्यप्रदेशस्य ग्वालियरस्थे कमलाराजे-कन्या-महाविद्यालये २१.०८.१९ दिनाङ्के बुधवासरे प्रात: संस्कृतस्य प्रचारप्रसाराय जनजागरणाय च संस्कृतविभागस्य संस्कृतभारत्या: अनौपचारिक-संस्कृतशिक्षणस्य च  संयुक्तसौजन्येन महाविद्यालये तिलककरणम्, संस्कृत- शोभायात्रा, संस्कृतवस्तुप्रदर्शनी, संस्कृतविज्ञानप्रदर्शनी, संस्कृतपुस्तकविपणि: इत्यादीनि विभिन्नानि कार्याणि सम्पन्नानि। सर्वप्रथमं महाविद्यालयस्य  छात्रा: दिवङ्गतात्मने भूतपूर्व-सी.एम.बाबूलालगौडवर्याय मौनश्रद्धाञ्जलिं समर्पितवत्य:। अनन्तरं तिलककरणेन सह संस्कृतगीतानि  गायन्त्य: बालिका: संस्कृतशोभायात्रायां सोत्साहेन प्रतिभागं कृतवत्य:। शोभायात्रा विभिन्नविभागेभ्यो भूत्वा सर्वेभ्य आमन्त्रणं दत्त्वा प्रदर्शनीस्थलं प्राप्तवती। तत्र अन्यविभागीयै:  प्राध्यापकै: छात्राभिस्सह डा.कृष्णा-जैनवर्या(संस्कृतविभागाध्यक्षा) , डा.उर्मिलासिंहतोमर: , डा.कविता -अग्रवाल:, डा.महेन्द्र-शर्मा (NFSE TEACHER) , अलकेशत्रिपाठी (संस्कृतभारती), डा.कल्पनाशर्मा, डा.आशारावत:, डा.राजूराठौर:, अनौपचारिकसंस्कृतशिक्षक: कृष्णकान्त: पञ्चारिया(बीकानेरी),उर्मिला वर्मा  इत्यादय: प्रदर्शन्या: अवलोकनं कृतवन्त:। सर्वे संस्कृतकार्यं वचसा

Thursday, August 22, 2019

गतागत-नियम-लङ्‌घनाय उग्रदण्डः। सेप्तम्बर् मासतः नियमः प्रबलः भविष्यति।
   नवदिल्ली> गतागत-नियमः परिष्कृतः। नियम-लङ्‌घनाय उग्रदण्डः विहितः। सेप्तंबर् मासस्य प्रथमदिनाङ्कात् नियमः प्रबलः भविष्यति। नूतननियमानुसारेण अत्याहित-रोगीयानानां मार्गविध्नकरणाय १०,००० रूप्यकाणि दण्डनशुल्कः दातव्यः। दोषः अनुवर्तते चेत्‌ यान-चालकस्य योग्यता नष्टा भविष्यति। १०० रूप्यकाणां स्थाने ५०० रूप्यकाणि इति शुल्कः वर्धितः। अनुज्ञापत्रं विना यानचालनाय ५००० रूप्यकाणां दण्डनं भाविष्यति। अभिरक्षा-पत्रस्य प्रतिः पार्श्वे नास्ति चेत् २००० रूप्यकाणि भवति दण्डनशुल्कः। अमितवेगेन यानचालनं कृतवत्भ्यः १०००तः २००० रूप्यकाणिपर्यन्तं भवति दण्डनशुल्कः।

Wednesday, August 21, 2019

चन्द्रयानं - २ चान्द्रपथं प्रविष्टम्। 
    बङ्गुलुरु >  भारतस्य द्वितीयं चान्द्रपर्यवेषणपेटकं - चन्द्रयानं २ नामकं - निर्णायकं पदमतीत्य चन्द्रस्य भ्रमणपथं प्राप्तम्। गतदिने प्रभाते ९.०२ वादने पेटकस्य द्रवीकृतयन्त्रं १७३८ निमेषान् प्रज्वाल्य एव दौत्यस्य विजयप्राप्तिः।
  चान्द्रपथे यानस्य दिशाक्रमीकरणं अद्य आरभ्यते। सेप्तम्बरमासस्य द्वितीये दिने पेटकस्य 'लान्डर्' नामकम् अवतरणयन्त्रं विच्छिद्यते। ततः लान्डरस्य सञ्चारपथे परिवर्तनं कृत्वा चन्द्रस्य ३५ कि मी दूरपरिमितं समीपं प्रापयित्वा अवतारणाय पेटकं सज्जीकरिष्यति। सेप्तं ७ दिनाङ्के अस्ति चन्द्रयानस्य चन्दंरोपरितलस्पर्शः।
आतङ्क-व्यवहारात् नाम निष्कासनाय द्विकोटि रूप्यकाणि अभ्यर्थितवन्तः त्रीन् एन्. ऐ. कर्मकरान्‌   विरुद्ध्य प्रक्रमाः।

     नवदिल्ली> व्यवसायिनः हस्त-शुल्करूपेण धनम् अभ्यर्थितवन्तः इति घटनायं त्रीरीन् एन्. ऐ. ए उद्योगे स्थितान विरुद्ध्य नियमप्रक्रमाः स्वीकृताः। आतङ्कवाद-प्रवर्तनाय आर्थिकसाहाय्यं कृतवान् आसीत् कश्चन वणिक्। तस्य नाम आतङ्गापराधिनां नामसूचिकायाम् आसीत्। तस्य नाम आतङ्गापराधिनां नामसूचिकायां आसीत्। अपराधिपट्टिकायाः पञ्चीकरणात्पूर्वं  पट्टिकातः नियमव्यवहारतः च तस्य नाम निष्कासयितुं उत्कोचरूपेण आर्थिकाभ्यर्थना कृता।  व्यवसायी तु अर्थनां विरुद्ध्य अभियोगपत्रं दत्तवान् च। विषयेऽस्मिन् डि. ऐ. जि श्रेणीस्थः अधिकारी अन्वेषणं कर्तुम् एन् ऐ  न्यायाधिकारिणा निश्चितम्।

Tuesday, August 20, 2019

काश्मीरम् विषमवृत्ते, इम्रान् खानेन वचसि सौम्यता पालनीया- ट्रम्पः।
 
    वाषिङ्‌टण्> काश्मीरस्य स्थितिः विषमवृत्ते एव, अतः इम्रान् खानेन वचसि सौम्यता पालनीया इति अमेरिक्कस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः अवदत्। सङ्घर्षलघूकरणाय भारत-पाकिस्थानयोः पक्षतः प्रयासः करणीयः इत्यपि तेन अभ्यर्थितम्। 
  भारत-पाकिस्थानयोः प्रधानमन्त्रिभ्यां सह दूरवाणी सम्भाषणानन्तरं टिट्वर् द्वारा आसीत् तस्य अभिमतप्रकाशनम्। सोमवासरे रात्रौ आसीत् भारतप्रधानमन्त्रिणा सह भाषणम्। ३० निमेषपर्यन्तं दीर्घिते भाषणे भारत-अमेरिक्कयोः मध्ये जातां व्यापारसमस्याम् अधिकृत्य चर्चां कृतवन्तौ।  पाकिस्थानेन क्रियमाणा  भारतविरुद्धा प्रस्तावना मण्डलेषु शान्तिपालनाय वैक्लब्यम् उत्‍पातयति इति ट्रम्पं प्रति नरेन्द्रमोदी अवदत्।

Monday, August 19, 2019

उत्तरभारते अतितीव्रा वृष्टिः अनुवर्तते। 
दिल्यां जाग्रतानिर्देशः प्रख्यापितः।
    नवदिल्ली> अतितीव्रवृष्टिषु अनुवर्तमानेषु उत्तरभारतराज्येषु अधिकनाशाः आवेदिताः।  हिमाचलप्रदेशः, हरियाणा, पञ्चाब्, उत्तरप्रदेशः, राजस्थानं, उत्तरघण्डं इत्येतेषु प्रदेशेषु आपन्नेन वृष्टिपाते ५० संख्यायातः अधिकजनाः कालकबलीभूताः। दिल्ली प्रदेशे यमुनानद्याः जलप्रतलं समुन्नतं जातम्। अतः समीपवासिनः गृहं परित्यज्य सुरक्षितस्थानं गन्तुम् निर्दिष्टाः। हिमाचलप्रदेशे भूस्खलनेन वृष्ट्यनुबन्ध अपघातेन च २२ जनाः हताः। षिम्ला कुलुमणालि, माण्डि मण्डलानि एव अतिवृष्ट्या जलोपप्लवेेन च अधिकतया बाधितानि।  मेघविस्फोटेन १७ जनाः मृताः। संख्याधिकाः अप्रत्यक्षाः जाताः।
अफ्गानिस्थाने भीकराक्रमणं - ६३ जनाः हताः। 

काबूल् >  अफ्गानिस्थानस्य राजनगर्यां काबूले विवाहाघोषकार्यक्रमे सम्पन्ने आत्मघातिविस्फोटने ६३ जनाः हताः। १८२ जनाः व्रणिताः अभवन्। राष्ट्रे समीपकाले सम्पन्नेषु भीकराक्रमणेषु बृहत्तमं भवत्येतदिति अधिकृतैरुक्तम्। मृत्युसंख्या वर्धेत इत्यपि सूच्यते। स्फोटनस्य उत्तरदायित्वं इस्लामिक स्टेट् [ऐ एस्] संस्थया स्वीकृतम्।
  इस्लामधर्मस्य षिया विभागस्थानां कस्मिंश्चन विवाहोत्सवे आसीदयं दुरन्तः। सहस्राधिकाः जनाः गतदिने रात्रौ आयोजिते कार्यक्रमे सन्निहिताः आसन्। तत्र पुरुषेभ्यः अतिथिभ्यः सज्जीकृते स्थाने आसीत् आत्मघातिस्फोटनं दुरापन्नम्। राष्ट्रे विद्यमानः सुन्नी - षियाविभागयोः सङ्घर्ष  एव अस्य दुरन्तस्य कारणमिति सूच्यते।

Sunday, August 18, 2019

अन्तर्जालयुगेऽपि
साभिमानं विहरति संस्कृतम्
संस्कृत-चलच्चित्राणि इतःपर्यन्तम्...


काश्मीर् विषयः - रक्षासमित्यां भारतस्य नयतन्त्रविजयः। 
 नवदिल्ली >  ऐक्यराष्ट्रसभायाः रक्षासमित्यां काश्मीर् विषयमुन्नीतवत्  पाकिस्थानराष्ट्रं चर्चायां प्रायेण पृथकीकृतम्। अन्ताराष्ट्रसमूहस्य सहयोगः भारताय लब्धः। चीनं विना सर्वः राष्ट्रसमूहः भारतानुकूलं पदं स्वीचकार।काश्मीरविषयः भारतपाकिस्थानयोः उभयपक्षसमस्या भवति, अतः परिहारः उभयोः राष्ट्रयोः चर्चया एव करणीयः इत्यासीत् भूरिशानाम् अङ्गराष्ट्राणां मतम्। 
  विषये अस्मिन् भारतस्य उपष्टम्भः अखण्डनीयः निस्तर्कितश्चासीत्। पाकिस्थानस्य वादमुखानि खण्डितखण्डनरीत्या भारतेन प्रतिरुद्धम्। यू एन् रक्षासमित्यां भारतस्य स्थिराङ्गः सय्यिद् अक्बरुद्दीन् आसीत् नायकः।

Saturday, August 17, 2019

एयिम्स् वैद्यकलाशालायाम् अग्निबाधा। 

    नवदिल्ली> अद्य सायंकाले तीव्रपरिचरणगृहस्य समीपे वर्तमानसौधे एव अग्निबाधा आपन्ना। अग्‌निशमन-सेनाव्यूहं समागत्य अग्निशमनाय यथोचितं कार्याणि कुर्वन्तः सन्ति। सौधे विद्यमानान् ततः अन्यत्र प्रेषयन्ति।
साभिमानं जीवति संस्कृतम्
-सि बि विनायकः




निर्वाचनायोगस्य प्रत्यभिज्ञापत्रमपि आधार पत्रेण सह बन्धनीयम् - निर्वाचनायोगः।
     नवदिल्ली> परेषां नामनि मतदानं, द्वित्वमतदानं च रोद्धुम् उद्दिश्य  निर्वाचनायोगस्य प्रत्यभिज्ञा-पत्रमपि आधार पत्रेण सह बन्धनीयम् इति निर्वाचनायोगेन प्रार्थितम्। एतदर्थं नियममन्त्रालयाय आयोगेन पत्रं  प्रेषितम्।  प्रत्यभिज्ञापत्रम् आधार पत्रेण सह बन्धितुम् १९५० तमस्य जनप्राधिनित्य-नियमे परिवर्तनं करणीयम् इत्यपि आयोगेण प्रार्थितम् अस्ति।
       आधारपत्रद्वारा मतदानिनां पट्टिकाशोधनाय २०१५ तमे आयोगेन परियोजना आनीता, किन्तु सर्वोच्चन्यायालयेन परियोजना रोधिता आसीत्। सार्वजनिक-वितरण-संविधानस्य सुतार्यतायाः कृते  एव आधारपत्रसुविधा उपयोक्तुम् न्यायालयेन अनुज्ञा प्रदत्ता आसीत्। 

Thursday, August 15, 2019

"प्रप्रथमः शस्त्रवैद्यः सुश्रुतः ; सङ्गणकयन्त्राणि भाषन्ते चेत् तस्य कारणं संस्कृतम् - केन्द्रमन्त्री। 
केन्द्रमन्त्री रमेश् पोख्रियाल !
अद्य संस्कृतदिनम्। 
 मुम्बई >  "भविष्यत्काले भाषमाणानि सङ्गणकयन्त्राणि साक्षात्करिष्यन्ते चेत् तदर्थं निर्णायकं योगदानं संस्कृतभाषया कृतमिति 'नासा'संस्थया अपि अङ्गीकृतम्। यतः विश्वे विद्यमाना एका शास्त्रीया भाषा  संस्कृतम् एव।" - केन्द्रस्य मानवविभवशेषिविकासमन्त्रिणः रमेश् पोख्रियाल् वर्यस्य एव इमाः वाचः। मुम्बई  ऐ ऐ टि संस्थया आयोजिते बिरुददानकार्यक्रमस्य उद्घाटनं कुर्वन् भाषमाणःआसीत् सः।
  यथा उच्चार्यते तथा लिख्यमाणा भाषा भवति संस्कृतम् इत्यतः भाविनि भाषमाणानां सङ्गणकयन्त्राणां साक्षात्काराय संस्कृतमेव अत्यन्तमुपयुज्यमाणा भाषा इति नासया निर्णीतम्। विश्वस्य प्रप्रथमः शस्त्रवैद्यः आयुर्वेदाचार्यः सुश्रुतमहर्षिरित्यपि केन्द्रमन्त्रिणा उक्तम्। कणिका तन्मात्रा इत्यादिविषयेषु चरकमहर्षिणा गवेषणं कृतमिति तेन सुस्मारितम्।

संस्कृतदिनशुभाशयाः -
-संस्कृतं किमर्थम् आवश्यकम् ? केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? 
  
 -डॉ.बलदेवानन्द-सागरः
      संस्कृत-विषये कश्चन मां पृच्छति यत् किमर्थं संस्कृतम् आवश्यकम् ? अथवा साम्प्रतम् एकविंशे शताब्दे संस्कृतस्य किं नाम उपयोगित्वम्? तदा अहन्तु इदमेव उत्तरामि यत् यथा जीवनार्थं जलं श्वसनं चावश्यके भवतः तद्वदेव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् |
      विषयेsस्मिन् नात्र मम कश्चन दुराग्रहः | अहन्तु अनुभवाधारेण वदामि | आकाशवाण्यां दूरदर्शने च संस्कृत-वार्ता-प्रसारणनिरते एतावति ४५-वर्षावधिके काले अनेके तादृशाः अनुभवाः अभवन् यत् नाहं संस्कृत-वार्ता-प्रसारकः अभविष्यं चेत् ममास्तित्व

Wednesday, August 14, 2019

असमस्य देशीय-पौरत्वपट्टिका आगस्तमासस्य ३१ दिनाङ्के प्रकाशनीया इति सर्वोच्चन्यायालयः।

 नवदिल्ली> असमस्य राष्ट्रिय-पौरत्वपट्टिका आगस्तमासस्य एकत्रिंशत् (३१) दिनाङ्के प्रकाशनीया इति सर्वोच्चन्यायालयेन आदिष्टम्। आधार-पत्रविवरणानां कृते कियन्मात्रं परिरक्षा दीयते तावत् पौरत्व-पट्टिकायाः कृतेऽपि करणीया इत्यपि न्यायालयेनादिष्टा।
असमराज्ये कृता अनधिकृताधिनिवेशं निरस्तुं  केन्द्र-सर्वकारेण आयोजिता भवति पौरत्व  पट्टिका। बंगलादेशतः लक्षश: जनाः असमम् आगच्छन्ति इति ज्ञात्वा केन्द्रसर्वकारेण आयोजिता भवति इयं देशीयपौरत्वपट्टिका I

चन्द्रयानं - २ पृथ्वीभ्रमणपथात् चन्द्रयात्राम् आरभत।

 बेङ्गलुरु >  भारतस्य द्वितीयं चान्द्रपर्यवेषणोपग्रहपेटकं 'चन्द्रयानं -२' पृथिव्याः भ्रमणपथात् चन्द्रोपग्रहं लक्ष्यीकृत्य प्रयाणमारभत। भ्रमणपथपरिवर्तनं [Trans Lunar Injunction] विजयकरमासीदिति ऐ एस् आर् ओ वक्त्रा उक्तम्। 
  अद्य उषसि ३.३०वादने भमणपथोन्नयनं सम्पन्नम्। चन्द्रयानं - २ आग.२० तमे चन्द्रस्य भ्रमणपथं प्राप्स्यति। तदा दौत्यपेटकं चन्द्रस्य प्रभाववलयाधीनं भविष्यति। ततः ६ दिनैः पेटकं चन्द्रस्य दूरतमं भ्रमणपथं प्रापयिष्यति। क्रमशः चन्द्रात् १०० कि. मी परिमितं दूरं प्रापयितव्यम्। ततः सेप्तं. ७ तमे दिनाङ्के चन्द्रोपग्रहस्य दक्षिणध्रुवे पेटकं अवतरिष्यति।

Tuesday, August 13, 2019

न्यूनतम-राशिः नस्ति- वित्तकोशैः ९७२२ कोटि रूप्यकाणि शुल्करूपेण ग्रहीतानि।
नवदिल्ली> सञ्चितवित्तरेखायां न्यूनावश्यधनराशिः नस्ति इत्यनेन ग्राहकेभ्यः दण्डशुल्कं ग्रहीतुम् अनुज्ञां लब्धवन्तः वित्तकोशाः उपदशकोटि रूप्यकाणि एतावत्पर्यन्तं स्वायत्तीकृतानि। भारतराष्ट्रे विद्यमानाः द्वाविंशति वित्तकोशाः एवं राशिं स्वीकृतवन्तः। षोडशोत्तर द्विसहस्र तमात् (२०१६) एप्रिल् मासात् आरभ्य एकोनविंशत्युत्तर द्विसहस्र-तमं (२०१९) मार्च् मासपर्यन्तं ग्रहीतः दण्ड-शुल्कराशिः भवति अयम्। सामान्येन दरिद्रजनाः   न्यूनतमधनराशिमपि  वित्तलेखे निक्षेप्तु अशक्ताः भवन्ति। जन धन वित्तलेखाः सुवर्णादिकम् अदाय कृषि कार्येभ्यः अपि  धनं प्रदातुम् न प्रभवन्ति। अतः ईदृश-कार्याय सामान्यवित्तलेखाः आवश्यकाः। समाजे आर्थिकस्तरे दारिद्र्यरेखायाः अधोभागे वर्तमानानां दरिद्राणां वित्तलेखात् नियम -बलेन एतावत् धनं बलादाहृतम् इति अस्माभिः ज्ञेयम्। 
अमेरिक्कादेशं प्रति 'एयर् इन्डिया'याः साक्षात् विमानसेवारम्भः आग.१५ तमदिनाङ्के। 
नवदिल्ली > उत्तर अमेरिक्कादेशं प्रति एयर् इन्डिया विमानसेवासंस्थायाः प्रथमा साक्षाद्विमानसेवा भारतस्वातन्त्र्यदिने [आगस्ट् १५] समारभ्यते। उत्तरध्रुवस्य उपरि विद्यमानेन व्योममार्गेणैव एयरिन्डियाविमानानि डयमानानि स्युः। इन्धनोपभोगस्य यात्राकालस्य च लघूकरणं, सेवकानां कार्यक्षमताप्रबलीकरणं , कारबणिकवस्तूनां बहिर्गमनव्याप्तेः न्यूनीकरणमित्यादीनि लक्ष्यीक्रियन्ते। सेवायै  भारत-अमेरिकाव्योमयानमन्त्रालययोः अनुमतिः लब्धा अस्ति।