OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 17, 2019

एयिम्स् वैद्यकलाशालायाम् अग्निबाधा। 

    नवदिल्ली> अद्य सायंकाले तीव्रपरिचरणगृहस्य समीपे वर्तमानसौधे एव अग्निबाधा आपन्ना। अग्‌निशमन-सेनाव्यूहं समागत्य अग्निशमनाय यथोचितं कार्याणि कुर्वन्तः सन्ति। सौधे विद्यमानान् ततः अन्यत्र प्रेषयन्ति।
साभिमानं जीवति संस्कृतम्
-सि बि विनायकः




निर्वाचनायोगस्य प्रत्यभिज्ञापत्रमपि आधार पत्रेण सह बन्धनीयम् - निर्वाचनायोगः।
     नवदिल्ली> परेषां नामनि मतदानं, द्वित्वमतदानं च रोद्धुम् उद्दिश्य  निर्वाचनायोगस्य प्रत्यभिज्ञा-पत्रमपि आधार पत्रेण सह बन्धनीयम् इति निर्वाचनायोगेन प्रार्थितम्। एतदर्थं नियममन्त्रालयाय आयोगेन पत्रं  प्रेषितम्।  प्रत्यभिज्ञापत्रम् आधार पत्रेण सह बन्धितुम् १९५० तमस्य जनप्राधिनित्य-नियमे परिवर्तनं करणीयम् इत्यपि आयोगेण प्रार्थितम् अस्ति।
       आधारपत्रद्वारा मतदानिनां पट्टिकाशोधनाय २०१५ तमे आयोगेन परियोजना आनीता, किन्तु सर्वोच्चन्यायालयेन परियोजना रोधिता आसीत्। सार्वजनिक-वितरण-संविधानस्य सुतार्यतायाः कृते  एव आधारपत्रसुविधा उपयोक्तुम् न्यायालयेन अनुज्ञा प्रदत्ता आसीत्। 

Thursday, August 15, 2019

"प्रप्रथमः शस्त्रवैद्यः सुश्रुतः ; सङ्गणकयन्त्राणि भाषन्ते चेत् तस्य कारणं संस्कृतम् - केन्द्रमन्त्री। 
केन्द्रमन्त्री रमेश् पोख्रियाल !
अद्य संस्कृतदिनम्। 
 मुम्बई >  "भविष्यत्काले भाषमाणानि सङ्गणकयन्त्राणि साक्षात्करिष्यन्ते चेत् तदर्थं निर्णायकं योगदानं संस्कृतभाषया कृतमिति 'नासा'संस्थया अपि अङ्गीकृतम्। यतः विश्वे विद्यमाना एका शास्त्रीया भाषा  संस्कृतम् एव।" - केन्द्रस्य मानवविभवशेषिविकासमन्त्रिणः रमेश् पोख्रियाल् वर्यस्य एव इमाः वाचः। मुम्बई  ऐ ऐ टि संस्थया आयोजिते बिरुददानकार्यक्रमस्य उद्घाटनं कुर्वन् भाषमाणःआसीत् सः।
  यथा उच्चार्यते तथा लिख्यमाणा भाषा भवति संस्कृतम् इत्यतः भाविनि भाषमाणानां सङ्गणकयन्त्राणां साक्षात्काराय संस्कृतमेव अत्यन्तमुपयुज्यमाणा भाषा इति नासया निर्णीतम्। विश्वस्य प्रप्रथमः शस्त्रवैद्यः आयुर्वेदाचार्यः सुश्रुतमहर्षिरित्यपि केन्द्रमन्त्रिणा उक्तम्। कणिका तन्मात्रा इत्यादिविषयेषु चरकमहर्षिणा गवेषणं कृतमिति तेन सुस्मारितम्।

संस्कृतदिनशुभाशयाः -
-संस्कृतं किमर्थम् आवश्यकम् ? केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? 
  
 -डॉ.बलदेवानन्द-सागरः
      संस्कृत-विषये कश्चन मां पृच्छति यत् किमर्थं संस्कृतम् आवश्यकम् ? अथवा साम्प्रतम् एकविंशे शताब्दे संस्कृतस्य किं नाम उपयोगित्वम्? तदा अहन्तु इदमेव उत्तरामि यत् यथा जीवनार्थं जलं श्वसनं चावश्यके भवतः तद्वदेव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् |
      विषयेsस्मिन् नात्र मम कश्चन दुराग्रहः | अहन्तु अनुभवाधारेण वदामि | आकाशवाण्यां दूरदर्शने च संस्कृत-वार्ता-प्रसारणनिरते एतावति ४५-वर्षावधिके काले अनेके तादृशाः अनुभवाः अभवन् यत् नाहं संस्कृत-वार्ता-प्रसारकः अभविष्यं चेत् ममास्तित्व

Wednesday, August 14, 2019

असमस्य देशीय-पौरत्वपट्टिका आगस्तमासस्य ३१ दिनाङ्के प्रकाशनीया इति सर्वोच्चन्यायालयः।

 नवदिल्ली> असमस्य राष्ट्रिय-पौरत्वपट्टिका आगस्तमासस्य एकत्रिंशत् (३१) दिनाङ्के प्रकाशनीया इति सर्वोच्चन्यायालयेन आदिष्टम्। आधार-पत्रविवरणानां कृते कियन्मात्रं परिरक्षा दीयते तावत् पौरत्व-पट्टिकायाः कृतेऽपि करणीया इत्यपि न्यायालयेनादिष्टा।
असमराज्ये कृता अनधिकृताधिनिवेशं निरस्तुं  केन्द्र-सर्वकारेण आयोजिता भवति पौरत्व  पट्टिका। बंगलादेशतः लक्षश: जनाः असमम् आगच्छन्ति इति ज्ञात्वा केन्द्रसर्वकारेण आयोजिता भवति इयं देशीयपौरत्वपट्टिका I

चन्द्रयानं - २ पृथ्वीभ्रमणपथात् चन्द्रयात्राम् आरभत।

 बेङ्गलुरु >  भारतस्य द्वितीयं चान्द्रपर्यवेषणोपग्रहपेटकं 'चन्द्रयानं -२' पृथिव्याः भ्रमणपथात् चन्द्रोपग्रहं लक्ष्यीकृत्य प्रयाणमारभत। भ्रमणपथपरिवर्तनं [Trans Lunar Injunction] विजयकरमासीदिति ऐ एस् आर् ओ वक्त्रा उक्तम्। 
  अद्य उषसि ३.३०वादने भमणपथोन्नयनं सम्पन्नम्। चन्द्रयानं - २ आग.२० तमे चन्द्रस्य भ्रमणपथं प्राप्स्यति। तदा दौत्यपेटकं चन्द्रस्य प्रभाववलयाधीनं भविष्यति। ततः ६ दिनैः पेटकं चन्द्रस्य दूरतमं भ्रमणपथं प्रापयिष्यति। क्रमशः चन्द्रात् १०० कि. मी परिमितं दूरं प्रापयितव्यम्। ततः सेप्तं. ७ तमे दिनाङ्के चन्द्रोपग्रहस्य दक्षिणध्रुवे पेटकं अवतरिष्यति।

Tuesday, August 13, 2019

न्यूनतम-राशिः नस्ति- वित्तकोशैः ९७२२ कोटि रूप्यकाणि शुल्करूपेण ग्रहीतानि।
नवदिल्ली> सञ्चितवित्तरेखायां न्यूनावश्यधनराशिः नस्ति इत्यनेन ग्राहकेभ्यः दण्डशुल्कं ग्रहीतुम् अनुज्ञां लब्धवन्तः वित्तकोशाः उपदशकोटि रूप्यकाणि एतावत्पर्यन्तं स्वायत्तीकृतानि। भारतराष्ट्रे विद्यमानाः द्वाविंशति वित्तकोशाः एवं राशिं स्वीकृतवन्तः। षोडशोत्तर द्विसहस्र तमात् (२०१६) एप्रिल् मासात् आरभ्य एकोनविंशत्युत्तर द्विसहस्र-तमं (२०१९) मार्च् मासपर्यन्तं ग्रहीतः दण्ड-शुल्कराशिः भवति अयम्। सामान्येन दरिद्रजनाः   न्यूनतमधनराशिमपि  वित्तलेखे निक्षेप्तु अशक्ताः भवन्ति। जन धन वित्तलेखाः सुवर्णादिकम् अदाय कृषि कार्येभ्यः अपि  धनं प्रदातुम् न प्रभवन्ति। अतः ईदृश-कार्याय सामान्यवित्तलेखाः आवश्यकाः। समाजे आर्थिकस्तरे दारिद्र्यरेखायाः अधोभागे वर्तमानानां दरिद्राणां वित्तलेखात् नियम -बलेन एतावत् धनं बलादाहृतम् इति अस्माभिः ज्ञेयम्। 
अमेरिक्कादेशं प्रति 'एयर् इन्डिया'याः साक्षात् विमानसेवारम्भः आग.१५ तमदिनाङ्के। 
नवदिल्ली > उत्तर अमेरिक्कादेशं प्रति एयर् इन्डिया विमानसेवासंस्थायाः प्रथमा साक्षाद्विमानसेवा भारतस्वातन्त्र्यदिने [आगस्ट् १५] समारभ्यते। उत्तरध्रुवस्य उपरि विद्यमानेन व्योममार्गेणैव एयरिन्डियाविमानानि डयमानानि स्युः। इन्धनोपभोगस्य यात्राकालस्य च लघूकरणं, सेवकानां कार्यक्षमताप्रबलीकरणं , कारबणिकवस्तूनां बहिर्गमनव्याप्तेः न्यूनीकरणमित्यादीनि लक्ष्यीक्रियन्ते। सेवायै  भारत-अमेरिकाव्योमयानमन्त्रालययोः अनुमतिः लब्धा अस्ति।
"विमतानि तर्काः न भवेयुः" - चीनां प्रति भारतविदेशकार्यमन्त्री। 
भारतविदेशकार्यमन्त्री जयशङ्करः चीनाविदेशकार्यमन्त्री वाङ् यि च।
 भारत-चीनाबन्धः आगोलस्थिरतायाः हेतुर्भवेत्। 
बीजिंग् > भिन्नाभिप्रायाः आवयोर्मध्ये संग्रामकारणं मास्तु इति दृढमतिः द्वयोः     राष्ट्रयोः सहवर्तित्वबन्धे परमप्रधानमिति भारतस्य विदेशकार्यमन्त्री एस् . जयशङ्करः चीनराष्ट्रम् उद्बोधितवान्। चीनासन्दर्शनवेलायां चीनायाः विदेशकार्यमन्त्री तथा राज्यसदस्यः वाङ् यि इत्यनेन सह कृतायां चर्चायामासीत् जयशङ्करस्य परामर्शः। जम्मूकाश्मीरस्य सविशेषपदनिरासे चीनायाः विमतं प्रस्तुतमपि उभयराष्ट्रबन्धं शक्तीकर्तुं निर्णयः अभवत्।
  भारतचीनासहयोगदृढीकरणार्थं सन्धिचतुष्टये जयशङ्करः वाङ् यिश्च हस्ताक्षरं कृतवन्तौ। सांस्कृतिक-स्वास्थ्यक्षेम-कायिक-पुरावस्तुप्रबन्धकार्यमण्डलेषु आसीत् हस्ताक्षरीकरणमिति विदेशकार्यमन्त्रालयेन स्पष्टीकृतम्।
वातावरणव्यत्ययः- महाराष्ट्रेण  टास्क्‌ फोर्स् रूपीक्रियते।
   मुम्बै> प्रलयदुरिते आपन्नस्य  मुम्बै नगरस्य वातावरणव्यत्ययम् अनुसन्धानं कर्तुं 'टास्क् फोर्स्' इति  विभागं कर्तुं  महाराष्ट्र-सर्वकारेण निश्चितम्। अस्मिन् संवत्सरे जातस्य वृष्टिपातस्य मापनं आधारप्रमाणत्वेन स्वीकृत्य अङ्कितम्। अस्मिन् संवत्सरे वृष्टिः वातावरणव्यत्यासकारणत्वेन संमभवत् इत्यस्ति वैज्ञानिकानां मतम्। जलोपप्लवे लन्टण्, वेनीस् , जनीव इत्यादि नगरेषु अनुवर्तमानाः  प्रक्रियाः काः इति अध्ययनं कृत्वा  मुम्बैनगराय विशेष-योजना आयोक्ष्यते इति च अधिकृतैः उक्तम्। इदानीं मुम्बै तीरप्रदेशेषु तापमानः वर्धितक्रमेण उन्नतिं याति। घटना इयं  वातावरण-व्यात्ययस्य सूचना भवति इति च तैरुक्तम्।

Monday, August 12, 2019

यमने आभ्यन्तरयुद्धः - एडन् नगरं विघटनवादिभिः गृहीतम्। 
एडन् >  आभ्यन्तरसङ्घर्षेण कलुषितस्य यमनराष्ट्रस्य एडन् नामकं द्वितीयं महानगरं विघटनवादिभिः स्वायत्तीकृतम्। एडने वर्तमानं यमनराष्ट्रपतेः प्रासादं सैनिकशिबिरं च अभिगृहीतमिति 'सतेण् ट्रान्सिषणल् कौण्सिल्' [एस् टि सि] नामकेन विघटनवादिसंघटनेन अभिमानितम्। इतःपर्यन्तं चत्वारिंशत् जनाः सङ्घर्षे व्यापादिताः इति यू एन् संस्थया निगदितम्।
अतिवृष्टिदुष्प्रभावे षट् राज्यानि। 
नवदिल्ली >  साप्ताहिकं यावत् अनुवर्तमाना अतिवृष्टिः , प्रचण्डवातः, जलोपप्लवादयः भारते षडधिकेषु राज्येषु दुरन्तकारणाय अभवन्। इतःपर्यन्तं द्विशताधिकाः जनाः मृत्युमुपगताः। असंख्याः अप्रत्यक्षाः अभवन्। भूविच्छेदैः जलोपप्लवेन च महान्तः नाशनष्टाः जाताः। 
  केरलं, कर्णाटकः, महाराष्ट्रं, गुज्रराज्यं, मध्यप्रदेशः, आन्ध्रप्रदेशः इत्येतेषु राज्येषु तीव्रः सर्वनाशः अभवत् । तमिल नाट्, गोवा, ओडीषा राज्येषु च अतिवृष्ट्या जनजीवनं दुरितमयमस्ति। सर्वेषु राज्येषु देशीयदुरन्तनिवारणसेना, सैन्यः सन्नद्धसेवासंघटनाश्च दुरन्तमुखेषु सक्रियमाणाः सन्ति। 
  कर्णाटके १८ जनपदानि जलनिमग्नानि। उत्तरकर्णाटकं, सानुप्रदेशः, तीरप्रदेशः इत्येतस्थेषु जनपदेषु वृष्टिदुष्प्रभावः अतिरूक्षतया अनुवर्तते। ३१ जनानां जीवहानिः अभवदिति आधिकारिकनिर्णयः। कृष्ण-कावेरीत्याद्याः सर्वाः नद्यः तटातिशयन्त्यः प्रवहन्ति। 
  गुजराते ३१ मरणानि। राज्ये स्थितिः आशङ्काजनकः वर्तते। कच्च्, सौराष्ट्र मण्डलेषु त्रिदिवसीया वृष्टिः अनुस्यूता वर्षति। २० धीवराः अप्रत्यक्षाः। 
  महाराष्ट्रं आश्वासतीरं प्राप्नोति। तत्र वृष्ट्याः शमनमनुभूतम्। प्रलयजलं प्रतिगन्तुमारब्धम्। किन्तु कोलाप्पुरं, साङ्ली, सतारा इत्यादिषु मण्डलेषु पृथक्भूताः जनाः इदीनीमपि महान्तं दुरितमनुभवन्ति। ३० मरणानि दृढीकृतानि। २०० मार्गाः ९४ सेतवश्च रुद्धाः सन्ति।
चीनान् उद्पीडयन् लेक्कीमा चक्रवातः - मृताः १८ , १० लक्षं जनाः सुरक्षितस्थानं प्रति प्रेषिताः I
   बीजिङ्> अतितीव्र चक्रवातः चीनस्य पूर्व मण्डलेषु नाशान् वितीर्य अतिक्रामति। १८ दश जनाः मारिताः दशलक्षं जनाः ततः सुरक्षितस्थानं प्रति  नीताः। ह्यः आसीत्‌ चक्रवातस्य वीचनम् । षान् हाय् प्रविश्यां प्रति तरमाणस्य चक्रवातस्य वेगः १८७ कि. मी इति वर्धितम् अस्ति। लेक्कीमा इति नामाङ्कितः चक्रवातः संवत्सरेऽस्मिन् चीनं उद्पीडयन्तः नवमः प्रकृतिदुरन्तः भवति।  सुरक्षाप्रवर्तनानि  सुसज्जानि चेदपि १५ जनाः अप्रत्यक्षाः अभवन्I २०० गृहाणि पूर्णतया ३,२०० गृहाणि भागिकतया च भग्नानि। चक्रवातेन जाते भूपातेन एकस्याः नद्याः प्रवाहः स्थगिताः। प्रवाहगति परिवर्तनेन प्रवहितायाः नद्याः जलं १० मीट्टर् उन्नतिं प्राप्य जनवासमण्डलेषु व्याप्तम् च। 
प्रलयताण्डवम्। चतुर्दिनाभ्यन्तरे चतुर्षु राज्येषु १४२ जनाः मारिताः 
  नवदिल्ली> चतुर्दिनाभ्यन्तरे प्रलयदुर्दशया  चतुर्षु राज्येषु १४२ जनाः कालकबलीभूताः अभवन्। केरलं, कर्णाटकं, गुर्जरं, महाराष्ट्रं च भवति एते राज्याः। अतितीव्रवृष्ट्या जलोपप्लवे च बहुविधनष्टं जातम्। कर्णाटकं २४, केरलं ६०, गुर्जरं २२ च मृताः। भूभ्रंशेन पतितानां मृत्‌-पाषाण-घण्डानाम् अधः जनाः बद्धाः वर्तन्ते। रक्षा प्रवर्तनानि प्रचलन्त्यनस्यूतम्। शक्ता वर्षा पुनरपि स्यात् इति केन्द्र वातावरण निरीक्षण केन्द्रेण निगतितं वर्तते।

Sunday, August 11, 2019

काश्मीर् अधित्यका शान्तिमधिगच्छति।
श्रीनगरं >  जम्मूकाश्मीरस्य जम्मू, कठुवा, साम्बा, उधंपुरं, रियासि जनपदेषु निरोधाज्ञां निराकरोत्। तत्रत्याः विद्यालयाः अध्ययनाय उद्घाटिताः। सर्वकारकार्यालयेषु अधिकाः सेवकाः कार्यार्थमुपस्थिताः। आपणानि विपण्यश्च सजीवतां प्राप्ताः। गतागतानि च साधारणस्थितिमवाप्तानि। 
  डोडा, किष्त्वर् जनपदयोः निशानियमे लघुत्वमकरोत्। किन्तु पूञ्च्, रजौरि, रम्बान् जनपदेषु नियन्त्रणानि अनुवर्तन्ते।
सोणियागान्धी कोण्ग्रस् दलस्य मध्य-कालीनाध्यक्षा।
   
नवदिल्ली> कोण्ग्रस् दलस्य मध्यकालीना अध्यक्षारूपेण सोणियागान्धी गतरात्रौ सम्पन्नया प्रवर्तकसमित्या ऐककण्ठ्येन चिता। राहुलगान्धिनः स्थानत्यागेन मासत्रयं यावत् स्थानं रिक्तमासीत्। नेह्रुपरिवारादृते नूतनाध्यक्षः भवितव्यः इति राहुल गान्धिनः निर्देशाय ऐकमत्यं रूपीकर्तुं कोण्ग्रस् दलः न प्रभवति स्म। अन्ते प्रवर्तकसमित्यङ्गानां सम्मर्द्दविधेया सोणिया अल्पकालाय तत्स्थानं स्वीकृतवती। कोण्ग्रस्-प्रवर्तनसमितेः मेलनानन्तरम् ए ऐ सि सि कर्यदर्शीना के सि वेणुगोपालेन निर्णयः वर्णितः। 

Saturday, August 10, 2019

प्रलयदुरिताश्वासाय कर्णाटकम्   १०० कोटि रूप्यकाणि व्ययीकर्तुं सुव्यवस्थितानि।
  बेङ्गलूरु> मुख्यमन्त्रिणा यद्‌यूरप्प महाभागेन प्रलय दुरिताश्वासाय शतं कोटि रूप्यकाणि सुव्यवस्थितानि। कर्णाटकराज्ये प्रलयाधिक्येन पीडितानां शिबिरं तेन सन्दर्शितम्।  शिबिरेषु उषित्वा तेन सुरक्षाकार्याणाम्  आयोजनं कृतम्। बलगावि, बोगल् कोट् जिल्लाप्रदेशेषु आसीत् मुख्यमन्त्रि-महोदयस्य सन्दर्शनम्।