OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 12, 2019

चीनान् उद्पीडयन् लेक्कीमा चक्रवातः - मृताः १८ , १० लक्षं जनाः सुरक्षितस्थानं प्रति प्रेषिताः I
   बीजिङ्> अतितीव्र चक्रवातः चीनस्य पूर्व मण्डलेषु नाशान् वितीर्य अतिक्रामति। १८ दश जनाः मारिताः दशलक्षं जनाः ततः सुरक्षितस्थानं प्रति  नीताः। ह्यः आसीत्‌ चक्रवातस्य वीचनम् । षान् हाय् प्रविश्यां प्रति तरमाणस्य चक्रवातस्य वेगः १८७ कि. मी इति वर्धितम् अस्ति। लेक्कीमा इति नामाङ्कितः चक्रवातः संवत्सरेऽस्मिन् चीनं उद्पीडयन्तः नवमः प्रकृतिदुरन्तः भवति।  सुरक्षाप्रवर्तनानि  सुसज्जानि चेदपि १५ जनाः अप्रत्यक्षाः अभवन्I २०० गृहाणि पूर्णतया ३,२०० गृहाणि भागिकतया च भग्नानि। चक्रवातेन जाते भूपातेन एकस्याः नद्याः प्रवाहः स्थगिताः। प्रवाहगति परिवर्तनेन प्रवहितायाः नद्याः जलं १० मीट्टर् उन्नतिं प्राप्य जनवासमण्डलेषु व्याप्तम् च। 
प्रलयताण्डवम्। चतुर्दिनाभ्यन्तरे चतुर्षु राज्येषु १४२ जनाः मारिताः 
  नवदिल्ली> चतुर्दिनाभ्यन्तरे प्रलयदुर्दशया  चतुर्षु राज्येषु १४२ जनाः कालकबलीभूताः अभवन्। केरलं, कर्णाटकं, गुर्जरं, महाराष्ट्रं च भवति एते राज्याः। अतितीव्रवृष्ट्या जलोपप्लवे च बहुविधनष्टं जातम्। कर्णाटकं २४, केरलं ६०, गुर्जरं २२ च मृताः। भूभ्रंशेन पतितानां मृत्‌-पाषाण-घण्डानाम् अधः जनाः बद्धाः वर्तन्ते। रक्षा प्रवर्तनानि प्रचलन्त्यनस्यूतम्। शक्ता वर्षा पुनरपि स्यात् इति केन्द्र वातावरण निरीक्षण केन्द्रेण निगतितं वर्तते।

Sunday, August 11, 2019

काश्मीर् अधित्यका शान्तिमधिगच्छति।
श्रीनगरं >  जम्मूकाश्मीरस्य जम्मू, कठुवा, साम्बा, उधंपुरं, रियासि जनपदेषु निरोधाज्ञां निराकरोत्। तत्रत्याः विद्यालयाः अध्ययनाय उद्घाटिताः। सर्वकारकार्यालयेषु अधिकाः सेवकाः कार्यार्थमुपस्थिताः। आपणानि विपण्यश्च सजीवतां प्राप्ताः। गतागतानि च साधारणस्थितिमवाप्तानि। 
  डोडा, किष्त्वर् जनपदयोः निशानियमे लघुत्वमकरोत्। किन्तु पूञ्च्, रजौरि, रम्बान् जनपदेषु नियन्त्रणानि अनुवर्तन्ते।
सोणियागान्धी कोण्ग्रस् दलस्य मध्य-कालीनाध्यक्षा।
   
नवदिल्ली> कोण्ग्रस् दलस्य मध्यकालीना अध्यक्षारूपेण सोणियागान्धी गतरात्रौ सम्पन्नया प्रवर्तकसमित्या ऐककण्ठ्येन चिता। राहुलगान्धिनः स्थानत्यागेन मासत्रयं यावत् स्थानं रिक्तमासीत्। नेह्रुपरिवारादृते नूतनाध्यक्षः भवितव्यः इति राहुल गान्धिनः निर्देशाय ऐकमत्यं रूपीकर्तुं कोण्ग्रस् दलः न प्रभवति स्म। अन्ते प्रवर्तकसमित्यङ्गानां सम्मर्द्दविधेया सोणिया अल्पकालाय तत्स्थानं स्वीकृतवती। कोण्ग्रस्-प्रवर्तनसमितेः मेलनानन्तरम् ए ऐ सि सि कर्यदर्शीना के सि वेणुगोपालेन निर्णयः वर्णितः। 

Saturday, August 10, 2019

प्रलयदुरिताश्वासाय कर्णाटकम्   १०० कोटि रूप्यकाणि व्ययीकर्तुं सुव्यवस्थितानि।
  बेङ्गलूरु> मुख्यमन्त्रिणा यद्‌यूरप्प महाभागेन प्रलय दुरिताश्वासाय शतं कोटि रूप्यकाणि सुव्यवस्थितानि। कर्णाटकराज्ये प्रलयाधिक्येन पीडितानां शिबिरं तेन सन्दर्शितम्।  शिबिरेषु उषित्वा तेन सुरक्षाकार्याणाम्  आयोजनं कृतम्। बलगावि, बोगल् कोट् जिल्लाप्रदेशेषु आसीत् मुख्यमन्त्रि-महोदयस्य सन्दर्शनम्।
केरले पुनरपि अन्यत्र महान् भूभ्रंशः , उपचत्वारिंशत् गृहाणि निर्मार्जितानि। 

अतिवृष्टिदुरिते ५० मरणानि , बहवः अप्रत्यक्षाः। 
अधिकानि समाश्वासशिबिराणि आरब्धानि। ७ जनपदेषु अतिजाग्रता। 
कोच्ची >  केरले अतिवृष्टिदुरन्तः अनुवर्तते। गतदिने मलप्पुरं जनपदस्थे कवलप्पारा प्रदेशे महान् मृत्भ्रंशः सम्पन्नः। रात्रौ सम्पन्नस्य दुरन्तस्य व्याप्तिः अनिर्णीता वर्तते। विलम्बेनासीत् कवलप्पारादुन्तमधिकृत्य बाह्यलोकैः विज्ञातम्। रक्षाप्रवर्तकाणां लक्ष्यस्थानप्राप्तिरपि दुष्करमासीत्। अनवरतं वर्षती वृष्टिः मुहुर्मुहुः जायमानः मृद्भ्रंशश्च रक्षाप्रवर्तनं दुष्कारयति। सैन्यस्य सेवनम् अपेक्ष्यमाणमपि दुरन्तभूमिं प्राप्तुं न शक्नोति। 
  आहत्य ५० मरणानि विज्ञापितानि। राज्ये विविधेषु जनपदेषु ७३८ दुरिताश्वासशिबिराणि आरब्धानि। ६४,०१३ जनाः शिबिरेषु अभयं प्राप्तवन्तः सन्ति। कोच्ची अन्ताराष्ट्रविमाननिलयः रविवासरपर्यन्तं पिहितः।
प्रलयभीत्यां दक्षिणभारतम्
-बिजिला किषोरः
  नवदिल्ली> केन्द्रीय-आभ्यन्तरमन्त्रालयेन केरल-कर्णाटक-महाराष्ट्र-राज्येषु प्रवृत्तस्य अतितीव्र दक्षिणपश्चिम-वृष्टिपातस्य बहुविधनाश नष्टं च निरीक्षितम्। 82000 जनान् सुरक्षित-स्थानं प्रति परिवर्तितवन्तः।  2,325 जनान् रक्षितवन्तः च। केन्द्र आभ्यन्तरमन्त्री श्री अमित् षामहोदयः  प्रवर्तनानां नेतृत्वमावहति। तस्य निर्देशानुसारं आभ्यन्तरसहमन्त्री श्री नित्यानन्त् रोय् महोदयस्य अध्यक्षपथे उन्नताधिकारसमितेः मेलने घटनायाः रूक्षतां अवलोकयति।
    भूतल-नाविक-तीरसंरक्षणसेनायाः183 गणान् विहाय राष्ट्रिय-दुरन्त-प्रतिरोधसेनायाः 173 गणाः राज्यचतुष्टयेषु रक्षादौत्यकार्यं कुर्वन्तः सन्तीति एन् डि आर् एफ् अध्यक्षेण प्रोक्तं वर्तते ॥

Friday, August 9, 2019

काश्मीरे केन्द्रशासनम् अल्पकालिकम् प्रधानमन्त्री। 
नवदिल्ली >  शासनसंविधानस्य ३७० तमानुच्छेदस्य निरासेन जम्मुकाश्मीरे आयोजितं केन्द्रशासनम् अल्पकालिकमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। काश्मीरम् अभिलक्ष्य पाकिस्थानेन अनुवर्तमानानि भीकरप्रवर्तनानि प्रतिरोद्धुम् अनेन पदक्षेपेण शक्यते। केन्द्रसर्वकारस्य अयं पदक्षेपः काश्मीरस्य नवयुगप्रसूतेः कारणभूत इति नरेद्रमोदिना अभिमानितम्।
  गतदिने दूरदर्शनद्वारा कृतेन राष्ट्राभिसम्बोधनेनैव प्रधानमन्त्रिणा तस्याभिमतं प्रकाशितम्। काश्मीरं भारतविनोदसञ्चारस्य राजधानीं कारयितुं शक्यते इति सः उक्तवान्।
केरले अतिवृष्टिदुष्प्रभावः अतिरूक्षः - एकादशमरणानि।
वयनाट् जनपदे जातं भूस्खलनम्। 
प्रदेशे महान् भूविच्छेदः। बहुषु जनपदेषु प्रलयसमानस्थितिः। 
कोच्ची > केरलेन दृष्टस्य महाप्रलयदुरन्तस्य संवत्सरे प्राप्यमाणे पुनरपि अतिवृष्टिदुष्प्रभावेन महान्तः नाशनष्टाः। विविधेषु जनपदेषु , विशिष्य उत्तरकेरले, दश मरणानि प्रस्तुतानि।
  वयनाट् जनपदे मेप्पाटि पुत्तुमला सानुप्रदेशे महत्भूस्खलनं सञ्जातम्। सप्तत्यधिकानि गृहाणि - कर्मकराणां 'पाटि'नामकं   भवनयूथं- निपतितानि विशीर्णानि च। पञ्चाशदधिकाः जनाः अप्रत्यक्षाः अभवन्।
  विमाननिलयः पिहितः। कोच्ची अन्ताराष्ट्रविमाननिलयस्य 'टाक्सि'मार्गः वृष्टिजले निमग्नः इत्यतः निलयः अचिरं पिहितः। विमानसेवनानि मार्गान्तरेण कारयिष्यति।
  एरणाकुलं, इटुक्की , पालक्काट्, मलप्पुरं जनपदेषु अपि भूस्खलनानि जातानि। अनुवर्तमानाम् अतिवृष्टिं विगणय्य रक्षाप्रवर्तनानि संयोजितानि सन्ति।
  १२ जनपदानां विद्यालयेषु अद्य अनध्यायदिनत्वेन प्रख्यापितम्। विश्वविद्यालयानां पि एस् सि संस्थायाः च सर्वाः परीक्षाश्च परिवर्तिताः। सर्वेषु जनपदेषु अतिजाग्रतानिर्देशः कृतः।
  मुख्यमन्त्रिणा स्थितिगतयः अवलोकिताः। केरलस्य मुख्यमन्त्री पिणरायि विजयः दुरितनिवारणसंस्थाकार्यालयं प्राप्य अधिकृतैः सह चर्चित्वा स्थितिगतीनाम् अवलोकनं कृतवान् । १३,००० जनाः इदानीं विविधेषु समाश्वासशिबिरेषु प्राप्ताः इति तेन निगदितम्।

Wednesday, August 7, 2019

लडाकः केन्द्रशासितप्रदेशः इति व्यवहारः न अङ्गीकरोति इति चीनः। 
   बैजिङ् > लद्दाकं केन्द्र-शासन प्रदेशं कर्तुं भारतेन कृतः निश्चयः न अङ्गीक्रियते इति चीनेन उक्तम्। उभयोः राष्ट्रयोः सन्धिः अधुनापि स्थीयते, सीमा-संबधविषयेषु तर्कवितर्काः सन्ति, अतः सीमसंबन्धविषयेषु भारतस्य वाक् तथा प्रवृत्तिः च सश्रद्धं भवितव्यम्  इति चीनः अवदत्। चीनस्य विदेशकार्यमन्त्रालयस्य अन्तर्जालपुटे  प्रकाशिता भवति इयं प्रस्थावना।

पाकिस्थानाय अमेरिक्कस्य पूर्वसूचना।
     वाषिङ्टण्> काश्मीरः केन्द्रशासित-प्रदेशत्वेन परिवर्तितः इत्यस्मिन् विषये भारतं पाकिस्थानं च संयमं करणीयम् इति अमेरिकेन अभ्यर्थितः। भीकराणां भारत-सीमाप्रवेशः निवारणीयः, भीकरदलान् विरुद्ध्य तीव्रप्रक्रमाः स्वीकरणीयाः इति च अमेरिक्केन पाकिस्थानाय पूर्व सूचना प्रदत्ता। जम्मुकाश्मीरे पुलवामावत् भीकराक्रमणः स्यात् इति बैधिकायोगस्य  रहस्यावेदनम् आसीत्। अपि च जुलै ३१ दिनाङ्के निलीयागताः चत्वारः पाकिस्थानीय सैनिकाः भारतसेनया निहताः। अस्य आधारे भवति पाकिस्थानं प्रति अमेरिकस्य पूर्वसूचना।
भारतस्य भूतपूर्व-विदेशकार्यमन्त्रिणी सुषमा स्वराजमहाभागा  दिवंगता
     नवदिल्ली> वरिष्ठा भा ज पा नेतृणी भूतपूर्व-विदेशकार्यमन्त्रणी सुषमा स्वराजमहाभागा  दिवंगता। सप्तषष्ठि वयस्का सा वृक्करोगेण पीडिता आसीत्l  ह्यः रात्रौ १०.२० वादने हृदयाघातेन एषा एयिंस् आतुरालये प्रवेशिता ११.०० दिवंगता चI
     २०१४ तमे नरेन्द्रमोदीये सर्वकारे विदेशकार्य-मन्त्रिणी आसीत्। २०१९ तमस्य निर्वाचने अस्वास्थ्येन एषा भागं न स्वीकृतवती। बाजपेयी सर्वकारेऽपि एषा मन्त्रिणी आसीत्। १००९- २०१४ तमे विपक्षदल नेत्री च आसीत्। 

Tuesday, August 6, 2019

संस्कृताभियानम्।
-प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः
महाराष्ट्रम्।
नमांसि!  संस्कृतं कठिनम्, व्याकरणभूयिष्ठम्(अभ्यसितुं न शक्यते), निर्जीवम्, एषा विशिष्टजातीयानां भाषा,संस्कृतपठनं नाम ' राम: रामौ रामा: ......',  ' गच्छति गच्छत: गच्छन्ति....' इत्यादीनां - शब्दरूपाणां धातुरूपाणां च कण्ठस्थीकरणम्, संस्कृतं नाम पूजादिकर्मकाण्डम्, संस्कृतं नाम पुरातनम्, (कालबाह्यं out-of-date)- इत्येवं प्रकारेण जनानां मनसि या: मिथ्याभावना:, ये च पूर्वाग्रहा: वा सन्ति ते जनानां भाषाभ्यासस्य प्रवर्तने अवरोधा: भवन्ति।मित्राणि,  तेषां निवारणोपाया: चिन्तनीया:, तदनुकूला: कार्यक्रमा: आयोजनीया: च । तदर्थम् अस्माकं जीवनात् अल्पं कालं संस्कृतमात्रे समर्पयाम: ।
  जयतु संस्कृतम् जयतु भारतम्। 
पुनरपि वैदेशिका तैलनौका संगृह्य इरानः - होर्मुस् सागरमार्गः सङ्घर्षभरितो जातः।
   डेहरान्> पेर्स्यस्य उपसागरस्य सङ्घर्षः तैलेन सिञ्यित्य इरानेन अन्या एका तैलनौकाऽपि ग्रहीता। इरानस्य वार्तामाध्यमेन इयं  वार्ता आवेदिता। इरान् रेवल्यूषणरि गार्ड् कोर्प्स् इति रक्षिदलेन महानौकाग्रहणं कृतम् इति तैः आवेद्यते। विदेशीयाः सप्तकर्मकराः अपि नौकया सह बद्धाः सन्ति। नौकेयं कस्य राष्ट्रस्य इति आवेदने नास्ति। महानौकायां ७००००० लिट्टर् मितम् इन्धनम् अस्ति इति इरानियन् दूरदर्शनमाध्यमेन वदति। 
   समुद्रमार्गः उल्लङ्घितः इति उक्त्वा  इरानेन  इतःपूर्वं ग्रहीता बिट्टणस्य महानौका इदानीमपि इरानस्य पाश्वे भवतिI
काश्मीर् इतःपरं सर्वप्रकारेण भारतराष्ट्रप्रदेशः। 
विशिष्टं पदं दीयमानं 'अनुच्छेदः ३७०' प्रत्यादिष्टः।
काश्मीरः द्विधा विभक्तः  - जम्मुकाश्मीरः  लडाकश्च
नवदिल्ली > केन्द्रसर्वकारस्य अप्रतीक्षितेन नाटकीयेन च केनचित् पदक्षेपेण जम्मु काश्मीरराज्याय सविशेषं पदं दीयमानः शासनसंहितायाः ३७० इत्यनुच्छेदः निरस्तः। अपि च राज्यं   जम्मु काश्मीरः, लडाकः इति केन्द्रशासनप्रदेशरूपेण द्विधा विभक्तुं निश्चितम्। अनुच्छेदनिरासविधायकं राष्ट्रपतेः विज्ञापनं राज्यसभया अङ्गीकृतम्। तथा च राज्यस्य पुनःसंघटनाविधेयकं च सभया अङ्गीकृतम्।

Monday, August 5, 2019

पाकिस्थानस्य  सैनिकानां मृतशरीराणि  स्वीकृत्य नेतव्यानि इति भारतम्।
प्रत्युत्तरं विना पाकिस्थानः।
   श्रीनगरम्> भारतसैन्येन  मारितानां पाकिस्थानीय-सैनिकानां मृतशरीराणि स्वीकृत्य स्वदेशं प्रति नेतव्यानि इति भारतेन पाकिस्थानः अभ्यर्थितः। किन्तु पाकिस्थानस्य पक्षतः प्रत्युत्तरं न लब्धम्।  पाकिस्थानस्य  'बोर्डर् आक्षन् टीम्' इत्यस्य अङ्गाः भवन्ति एते मृताः सैनिकाः। जूलै मासस्य ३१ दिनाङ्गे रात्रौ आगस्त १ दिनाङ्के उषाकालात् पूर्वं च आसीत् भारतसैनिकान् प्रति पाकिस्थानस्य आक्रमणः।  युद्धे पाकिस्थानस्य चत्वारः सैनिकाः मारिताः इत्यस्ति आवेदनम्।
भीकराक्रमणसूचना - काश्मीरतः विनोदसञ्चारिणः प्रतिनिवर्तन्ते। 
श्रीनगरं >  जम्मुकाश्मीरस्य विविधस्थानेषु भीकराणां बोम्बस्फोटनं, भुषुण्डिप्रयोगाः, यात्रिकापहरणम् इत्यादीनां साध्यता अस्तीति गुप्तचरसूचनानुसारं विनोदसञ्चारिणः तीर्थाटकाश्च प्रतिनिवर्तयितव्याः इति केन्द्र-काश्मीरसर्वकाराभ्यां निर्दिष्टम्। तदनुसृत्य शतशः जनाः अमर्नाथ - पहल्गाम - माछिल माता यात्रादिकं समाप्य प्रतिनिवर्तमानाः सन्ति।
  ब्रिट्टन जर्मनादिराष्ट्रेभ्यश्च तत्तदीयसर्वकारैः काश्मीरं प्रति विनोदयात्रा निरुद्धा। पाकिस्थानस्य साह्येन भीकराः विविधानि आक्रमणानि आयोजितानीति सूचना आगता।

Sunday, August 4, 2019

विधानसभाङ्गाः अध्ययनं कुर्वन्ति।
   नवदिल्ली> भा ज पा दलीयानां विधानसभाङ्गानां कृते द्विदिनस्य परिशीलन-कार्यक्रमः समारब्धः। सभागृहस्य ग्रन्यालये आयोज्यमानायां कक्ष्यायां प्रधानमन्त्री नरेन्द्रमोदी अपि श्रोतृरूपेण उपस्थितः आसीत्। राष्ट्रियाध्यक्षः अमित् षा कार्यकार्यध्यक्षः जे.पि. नद्दः इत्येतेषां नेतृत्वे भवति 'अभ्यासवर्गः'। प्रभाते दशवादनतः रात्रौ दशवादनपर्यन्तं सञ्चाल्यमानायां कक्ष्यायां  शिष्टाचारः, अनुशासनविधिः, विधानसभायाः प्रक्रमाः, प्रत्ययशास्त्र-सुस्थितिः इत्यादिषु विषयेषु ज्ञानवर्धनमुद्दिश्य कक्ष्याः प्रचलिताः आसन् ।