OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 10, 2019

केरले पुनरपि अन्यत्र महान् भूभ्रंशः , उपचत्वारिंशत् गृहाणि निर्मार्जितानि। 

अतिवृष्टिदुरिते ५० मरणानि , बहवः अप्रत्यक्षाः। 
अधिकानि समाश्वासशिबिराणि आरब्धानि। ७ जनपदेषु अतिजाग्रता। 
कोच्ची >  केरले अतिवृष्टिदुरन्तः अनुवर्तते। गतदिने मलप्पुरं जनपदस्थे कवलप्पारा प्रदेशे महान् मृत्भ्रंशः सम्पन्नः। रात्रौ सम्पन्नस्य दुरन्तस्य व्याप्तिः अनिर्णीता वर्तते। विलम्बेनासीत् कवलप्पारादुन्तमधिकृत्य बाह्यलोकैः विज्ञातम्। रक्षाप्रवर्तकाणां लक्ष्यस्थानप्राप्तिरपि दुष्करमासीत्। अनवरतं वर्षती वृष्टिः मुहुर्मुहुः जायमानः मृद्भ्रंशश्च रक्षाप्रवर्तनं दुष्कारयति। सैन्यस्य सेवनम् अपेक्ष्यमाणमपि दुरन्तभूमिं प्राप्तुं न शक्नोति। 
  आहत्य ५० मरणानि विज्ञापितानि। राज्ये विविधेषु जनपदेषु ७३८ दुरिताश्वासशिबिराणि आरब्धानि। ६४,०१३ जनाः शिबिरेषु अभयं प्राप्तवन्तः सन्ति। कोच्ची अन्ताराष्ट्रविमाननिलयः रविवासरपर्यन्तं पिहितः।
प्रलयभीत्यां दक्षिणभारतम्
-बिजिला किषोरः
  नवदिल्ली> केन्द्रीय-आभ्यन्तरमन्त्रालयेन केरल-कर्णाटक-महाराष्ट्र-राज्येषु प्रवृत्तस्य अतितीव्र दक्षिणपश्चिम-वृष्टिपातस्य बहुविधनाश नष्टं च निरीक्षितम्। 82000 जनान् सुरक्षित-स्थानं प्रति परिवर्तितवन्तः।  2,325 जनान् रक्षितवन्तः च। केन्द्र आभ्यन्तरमन्त्री श्री अमित् षामहोदयः  प्रवर्तनानां नेतृत्वमावहति। तस्य निर्देशानुसारं आभ्यन्तरसहमन्त्री श्री नित्यानन्त् रोय् महोदयस्य अध्यक्षपथे उन्नताधिकारसमितेः मेलने घटनायाः रूक्षतां अवलोकयति।
    भूतल-नाविक-तीरसंरक्षणसेनायाः183 गणान् विहाय राष्ट्रिय-दुरन्त-प्रतिरोधसेनायाः 173 गणाः राज्यचतुष्टयेषु रक्षादौत्यकार्यं कुर्वन्तः सन्तीति एन् डि आर् एफ् अध्यक्षेण प्रोक्तं वर्तते ॥

Friday, August 9, 2019

काश्मीरे केन्द्रशासनम् अल्पकालिकम् प्रधानमन्त्री। 
नवदिल्ली >  शासनसंविधानस्य ३७० तमानुच्छेदस्य निरासेन जम्मुकाश्मीरे आयोजितं केन्द्रशासनम् अल्पकालिकमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। काश्मीरम् अभिलक्ष्य पाकिस्थानेन अनुवर्तमानानि भीकरप्रवर्तनानि प्रतिरोद्धुम् अनेन पदक्षेपेण शक्यते। केन्द्रसर्वकारस्य अयं पदक्षेपः काश्मीरस्य नवयुगप्रसूतेः कारणभूत इति नरेद्रमोदिना अभिमानितम्।
  गतदिने दूरदर्शनद्वारा कृतेन राष्ट्राभिसम्बोधनेनैव प्रधानमन्त्रिणा तस्याभिमतं प्रकाशितम्। काश्मीरं भारतविनोदसञ्चारस्य राजधानीं कारयितुं शक्यते इति सः उक्तवान्।
केरले अतिवृष्टिदुष्प्रभावः अतिरूक्षः - एकादशमरणानि।
वयनाट् जनपदे जातं भूस्खलनम्। 
प्रदेशे महान् भूविच्छेदः। बहुषु जनपदेषु प्रलयसमानस्थितिः। 
कोच्ची > केरलेन दृष्टस्य महाप्रलयदुरन्तस्य संवत्सरे प्राप्यमाणे पुनरपि अतिवृष्टिदुष्प्रभावेन महान्तः नाशनष्टाः। विविधेषु जनपदेषु , विशिष्य उत्तरकेरले, दश मरणानि प्रस्तुतानि।
  वयनाट् जनपदे मेप्पाटि पुत्तुमला सानुप्रदेशे महत्भूस्खलनं सञ्जातम्। सप्तत्यधिकानि गृहाणि - कर्मकराणां 'पाटि'नामकं   भवनयूथं- निपतितानि विशीर्णानि च। पञ्चाशदधिकाः जनाः अप्रत्यक्षाः अभवन्।
  विमाननिलयः पिहितः। कोच्ची अन्ताराष्ट्रविमाननिलयस्य 'टाक्सि'मार्गः वृष्टिजले निमग्नः इत्यतः निलयः अचिरं पिहितः। विमानसेवनानि मार्गान्तरेण कारयिष्यति।
  एरणाकुलं, इटुक्की , पालक्काट्, मलप्पुरं जनपदेषु अपि भूस्खलनानि जातानि। अनुवर्तमानाम् अतिवृष्टिं विगणय्य रक्षाप्रवर्तनानि संयोजितानि सन्ति।
  १२ जनपदानां विद्यालयेषु अद्य अनध्यायदिनत्वेन प्रख्यापितम्। विश्वविद्यालयानां पि एस् सि संस्थायाः च सर्वाः परीक्षाश्च परिवर्तिताः। सर्वेषु जनपदेषु अतिजाग्रतानिर्देशः कृतः।
  मुख्यमन्त्रिणा स्थितिगतयः अवलोकिताः। केरलस्य मुख्यमन्त्री पिणरायि विजयः दुरितनिवारणसंस्थाकार्यालयं प्राप्य अधिकृतैः सह चर्चित्वा स्थितिगतीनाम् अवलोकनं कृतवान् । १३,००० जनाः इदानीं विविधेषु समाश्वासशिबिरेषु प्राप्ताः इति तेन निगदितम्।

Wednesday, August 7, 2019

लडाकः केन्द्रशासितप्रदेशः इति व्यवहारः न अङ्गीकरोति इति चीनः। 
   बैजिङ् > लद्दाकं केन्द्र-शासन प्रदेशं कर्तुं भारतेन कृतः निश्चयः न अङ्गीक्रियते इति चीनेन उक्तम्। उभयोः राष्ट्रयोः सन्धिः अधुनापि स्थीयते, सीमा-संबधविषयेषु तर्कवितर्काः सन्ति, अतः सीमसंबन्धविषयेषु भारतस्य वाक् तथा प्रवृत्तिः च सश्रद्धं भवितव्यम्  इति चीनः अवदत्। चीनस्य विदेशकार्यमन्त्रालयस्य अन्तर्जालपुटे  प्रकाशिता भवति इयं प्रस्थावना।

पाकिस्थानाय अमेरिक्कस्य पूर्वसूचना।
     वाषिङ्टण्> काश्मीरः केन्द्रशासित-प्रदेशत्वेन परिवर्तितः इत्यस्मिन् विषये भारतं पाकिस्थानं च संयमं करणीयम् इति अमेरिकेन अभ्यर्थितः। भीकराणां भारत-सीमाप्रवेशः निवारणीयः, भीकरदलान् विरुद्ध्य तीव्रप्रक्रमाः स्वीकरणीयाः इति च अमेरिक्केन पाकिस्थानाय पूर्व सूचना प्रदत्ता। जम्मुकाश्मीरे पुलवामावत् भीकराक्रमणः स्यात् इति बैधिकायोगस्य  रहस्यावेदनम् आसीत्। अपि च जुलै ३१ दिनाङ्के निलीयागताः चत्वारः पाकिस्थानीय सैनिकाः भारतसेनया निहताः। अस्य आधारे भवति पाकिस्थानं प्रति अमेरिकस्य पूर्वसूचना।
भारतस्य भूतपूर्व-विदेशकार्यमन्त्रिणी सुषमा स्वराजमहाभागा  दिवंगता
     नवदिल्ली> वरिष्ठा भा ज पा नेतृणी भूतपूर्व-विदेशकार्यमन्त्रणी सुषमा स्वराजमहाभागा  दिवंगता। सप्तषष्ठि वयस्का सा वृक्करोगेण पीडिता आसीत्l  ह्यः रात्रौ १०.२० वादने हृदयाघातेन एषा एयिंस् आतुरालये प्रवेशिता ११.०० दिवंगता चI
     २०१४ तमे नरेन्द्रमोदीये सर्वकारे विदेशकार्य-मन्त्रिणी आसीत्। २०१९ तमस्य निर्वाचने अस्वास्थ्येन एषा भागं न स्वीकृतवती। बाजपेयी सर्वकारेऽपि एषा मन्त्रिणी आसीत्। १००९- २०१४ तमे विपक्षदल नेत्री च आसीत्। 

Tuesday, August 6, 2019

संस्कृताभियानम्।
-प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः
महाराष्ट्रम्।
नमांसि!  संस्कृतं कठिनम्, व्याकरणभूयिष्ठम्(अभ्यसितुं न शक्यते), निर्जीवम्, एषा विशिष्टजातीयानां भाषा,संस्कृतपठनं नाम ' राम: रामौ रामा: ......',  ' गच्छति गच्छत: गच्छन्ति....' इत्यादीनां - शब्दरूपाणां धातुरूपाणां च कण्ठस्थीकरणम्, संस्कृतं नाम पूजादिकर्मकाण्डम्, संस्कृतं नाम पुरातनम्, (कालबाह्यं out-of-date)- इत्येवं प्रकारेण जनानां मनसि या: मिथ्याभावना:, ये च पूर्वाग्रहा: वा सन्ति ते जनानां भाषाभ्यासस्य प्रवर्तने अवरोधा: भवन्ति।मित्राणि,  तेषां निवारणोपाया: चिन्तनीया:, तदनुकूला: कार्यक्रमा: आयोजनीया: च । तदर्थम् अस्माकं जीवनात् अल्पं कालं संस्कृतमात्रे समर्पयाम: ।
  जयतु संस्कृतम् जयतु भारतम्। 
पुनरपि वैदेशिका तैलनौका संगृह्य इरानः - होर्मुस् सागरमार्गः सङ्घर्षभरितो जातः।
   डेहरान्> पेर्स्यस्य उपसागरस्य सङ्घर्षः तैलेन सिञ्यित्य इरानेन अन्या एका तैलनौकाऽपि ग्रहीता। इरानस्य वार्तामाध्यमेन इयं  वार्ता आवेदिता। इरान् रेवल्यूषणरि गार्ड् कोर्प्स् इति रक्षिदलेन महानौकाग्रहणं कृतम् इति तैः आवेद्यते। विदेशीयाः सप्तकर्मकराः अपि नौकया सह बद्धाः सन्ति। नौकेयं कस्य राष्ट्रस्य इति आवेदने नास्ति। महानौकायां ७००००० लिट्टर् मितम् इन्धनम् अस्ति इति इरानियन् दूरदर्शनमाध्यमेन वदति। 
   समुद्रमार्गः उल्लङ्घितः इति उक्त्वा  इरानेन  इतःपूर्वं ग्रहीता बिट्टणस्य महानौका इदानीमपि इरानस्य पाश्वे भवतिI
काश्मीर् इतःपरं सर्वप्रकारेण भारतराष्ट्रप्रदेशः। 
विशिष्टं पदं दीयमानं 'अनुच्छेदः ३७०' प्रत्यादिष्टः।
काश्मीरः द्विधा विभक्तः  - जम्मुकाश्मीरः  लडाकश्च
नवदिल्ली > केन्द्रसर्वकारस्य अप्रतीक्षितेन नाटकीयेन च केनचित् पदक्षेपेण जम्मु काश्मीरराज्याय सविशेषं पदं दीयमानः शासनसंहितायाः ३७० इत्यनुच्छेदः निरस्तः। अपि च राज्यं   जम्मु काश्मीरः, लडाकः इति केन्द्रशासनप्रदेशरूपेण द्विधा विभक्तुं निश्चितम्। अनुच्छेदनिरासविधायकं राष्ट्रपतेः विज्ञापनं राज्यसभया अङ्गीकृतम्। तथा च राज्यस्य पुनःसंघटनाविधेयकं च सभया अङ्गीकृतम्।

Monday, August 5, 2019

पाकिस्थानस्य  सैनिकानां मृतशरीराणि  स्वीकृत्य नेतव्यानि इति भारतम्।
प्रत्युत्तरं विना पाकिस्थानः।
   श्रीनगरम्> भारतसैन्येन  मारितानां पाकिस्थानीय-सैनिकानां मृतशरीराणि स्वीकृत्य स्वदेशं प्रति नेतव्यानि इति भारतेन पाकिस्थानः अभ्यर्थितः। किन्तु पाकिस्थानस्य पक्षतः प्रत्युत्तरं न लब्धम्।  पाकिस्थानस्य  'बोर्डर् आक्षन् टीम्' इत्यस्य अङ्गाः भवन्ति एते मृताः सैनिकाः। जूलै मासस्य ३१ दिनाङ्गे रात्रौ आगस्त १ दिनाङ्के उषाकालात् पूर्वं च आसीत् भारतसैनिकान् प्रति पाकिस्थानस्य आक्रमणः।  युद्धे पाकिस्थानस्य चत्वारः सैनिकाः मारिताः इत्यस्ति आवेदनम्।
भीकराक्रमणसूचना - काश्मीरतः विनोदसञ्चारिणः प्रतिनिवर्तन्ते। 
श्रीनगरं >  जम्मुकाश्मीरस्य विविधस्थानेषु भीकराणां बोम्बस्फोटनं, भुषुण्डिप्रयोगाः, यात्रिकापहरणम् इत्यादीनां साध्यता अस्तीति गुप्तचरसूचनानुसारं विनोदसञ्चारिणः तीर्थाटकाश्च प्रतिनिवर्तयितव्याः इति केन्द्र-काश्मीरसर्वकाराभ्यां निर्दिष्टम्। तदनुसृत्य शतशः जनाः अमर्नाथ - पहल्गाम - माछिल माता यात्रादिकं समाप्य प्रतिनिवर्तमानाः सन्ति।
  ब्रिट्टन जर्मनादिराष्ट्रेभ्यश्च तत्तदीयसर्वकारैः काश्मीरं प्रति विनोदयात्रा निरुद्धा। पाकिस्थानस्य साह्येन भीकराः विविधानि आक्रमणानि आयोजितानीति सूचना आगता।

Sunday, August 4, 2019

विधानसभाङ्गाः अध्ययनं कुर्वन्ति।
   नवदिल्ली> भा ज पा दलीयानां विधानसभाङ्गानां कृते द्विदिनस्य परिशीलन-कार्यक्रमः समारब्धः। सभागृहस्य ग्रन्यालये आयोज्यमानायां कक्ष्यायां प्रधानमन्त्री नरेन्द्रमोदी अपि श्रोतृरूपेण उपस्थितः आसीत्। राष्ट्रियाध्यक्षः अमित् षा कार्यकार्यध्यक्षः जे.पि. नद्दः इत्येतेषां नेतृत्वे भवति 'अभ्यासवर्गः'। प्रभाते दशवादनतः रात्रौ दशवादनपर्यन्तं सञ्चाल्यमानायां कक्ष्यायां  शिष्टाचारः, अनुशासनविधिः, विधानसभायाः प्रक्रमाः, प्रत्ययशास्त्र-सुस्थितिः इत्यादिषु विषयेषु ज्ञानवर्धनमुद्दिश्य कक्ष्याः प्रचलिताः आसन् ।

Saturday, August 3, 2019

अतितीव्र-वृष्टिपाते महाराष्ट्रे ४ छात्राः अप्रत्यक्षाः।
   मुम्बै> अतितीव्रवृष्टिः अनुवर्तिते सति माहाराष्ट्रराज्ये जलपातं दृष्टुमागताः चत्वारः  कलाशाला छात्राः अप्रत्यक्षाः जाताः नवीन मुम्बैस्थ  खार्घार् जलपाते विनोदाय समागताः आसन् एते। ह्यः रात्रौ आरभ्य अनुवर्तिते वृष्टिपाते नगरस्य  मार्ग-रेल गतागते स्थगिते वर्तेते। रायिगड् मलाड् प्रदेशयोः  सौधानां प्रथम अट्टपर्यन्तं जलेन प्लावितं वर्तते। ताने, पालगर् प्रदेशेषु विद्यालयानां  विरामः प्रख्यापितः। समागते चतुविंशति होरा पर्यन्तं शक्ता वर्षा स्यात् इति केन्द्र-वातावरण-निरीक्षण-विभागेन धोषणा प्रखापित।

Friday, August 2, 2019

भूगोलस्याऽपि अपरः ? 'नास'या प्रत्यभिज्ञातः।
   भूसदृशः अन्यः ग्रहः स्यात् इति तस्मिन् जीवः स्यात् इति विचिन्त्य मानवाः बहुकालात् पूर्वं निरीक्षणानि समारब्धानि सन्ति। अन्यग्रह वासिनः आक्रमणान् तेषां अमानुषशक्तिं च अतिकृत्य बह्व्यः कथाः समजायत। किन्तु इदानीं भूमिवत् जीवजालयुक्तः वा? इति शङ्कां जनयन्तीं अपरं ग्रहं दृष्टवन्तः वैज्ञानिकाः। सौरथूथात् बहिः जीवयुक्तग्रहस्य सूचना इदं प्रथमतया एव। जि. जे ३५७ इति नक्षत्रं परितः भ्रमन्तः 'एम्' इति विभागे अन्तर्गतः लघु ग्रहः भवति एषः। आकारे सूर्यस्य त्रिषु एकम् तस्य समान-पिण्डं च स्तः। उष्णः सूर्यात् ५० % न्यूनः च भवति। ३१ प्रकाशसंवत्सरं दूरे विद्यमानं 'हैड्र' इति नक्षत्र-समूहे अस्ति एषः ग्रहः।
    सूर्यं विहाय अन्यान् नक्षत्रान् परितः भ्रममाणान् ग्राहान् अधिकृत्य अनुसन्धानं कृतवन्तः नासासंस्थयाः टेस् ( Transiting Exo Planet Survey ) इति सर्वेक्षणोपग्रहः भवति नवीन-भूदर्शनस्य  पृष्ठतः। 

Thursday, August 1, 2019

संस्कृतविश्वविद्यालयस्य धिषणावृत्तिवितरणस्य उद्घाटनं कृतम्। 
कालटी >  श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य संस्कृतप्रचारणविभागेन केरलानां विद्यालयीयछात्राणां कृते गतवर्षे आयोजितस्य संस्कृतधिषणावृत्तेः वितरणस्य राज्यतलोद्घाटनं विश्वविद्यालयस्य कुलपतिना डो. धर्मराज अटाट् वर्येण कृतम्। 
  राज्ये ४००० अधिकाः छात्राः अस्य परियोजनस्य गुणभोक्तारः भवन्ति। यू पि, एछ् एस्, एछ् एस् एस् विभागस्थानां छात्राणां कृते विश्वविद्यालयस्य धिषणावृत्तिः दीयते।
यन्त्रयान-नियम परिष्कारः राज्यसभयाऽपि अनुज्ञातः।
   नवदिल्ली> मार्गेषु नियमान् उल्लङ्घ्य यानचालनं संप्रति कुर्वन्तः नूनं दण्डिताः भवेयुः। मार्गापघातान् न्यूनीकर्तुमुद्दिश्य परिष्कृतः यन्त्रयान-चालन-नियमसंहितायै राज्यसभयाऽपि अनुज्ञा कल्पिता। नियमपत्रस्य अवतारण-समये १०८ सभाजनाः अनुकूलतया मतदानं कृतवन्तः। १३ सभावासिनः एव विप्रतिपत्तिं प्रकाशितवन्तः।
   यान-चालनानुज्ञापत्रं विना यानं चालयति चेत् ५००० रूप्यकाणि दण्डनधनरूपेण दातव्यानि। लघुवयस्कानां चालने तेषां रक्षाकर्तृभ्यः वर्षत्रयाणां काराग्रहवासः एव दण्डनम्। यान दुर्घटनायां क्षतेभ्यः २ लक्षं रूप्यकाणि तथा मृतानां बन्धुजनेभ्यः ५ लक्षं रूप्यकाणि च समाश्वासधनं प्रदातुं नियमपत्रे व्यवस्था अस्ति।
मम सुरक्षा कथं संस्थाप्यते ? यु पि आरक्षकान् विषमवृत्ते पातयित्वा विद्यालयछात्रा। 
  बराबङ्कि (यु पि)> विद्यालय छात्रेभ्यः आत्मविश्वासवर्धनाय उत्तरप्रदेशस्य आरक्षक-विभागेन आयोजितः कार्यक्रमः तेषां लज्जायाः कारणम् अभवत्।  बराबङ्किस्थे आनन्दभवन विद्यालये कक्ष्याचालनाय आरक्षकसेनायाः विभागाधिकारी समागतवान्। कक्ष्यायाः मध्ये एकादशकक्ष्यायाः छात्रायाः प्रश्नकरणस्य पुरतः विवर्णोजातः। 
  उन्नावो घटनाव्यवहारे कया याचिका समर्पिता सा यानदुर्घटनायां पतिता इति घटनाम् उन्नीय आसीत् छात्रायाः  प्रश्न:। आरक्षकाधिकारिणः विवर्णो जाताः इति दृष्ट्वा सह छात्राः हस्तताडनेन छात्रां अभिनन्दितवन्तः इति वार्ता-हरसंस्थया आवेदितम्। सुरक्षासप्ताहाचरणस्य अनुबन्धतया आसीत् आरक्षकाणां कक्ष्याचालनम्। नियमान् अनुसरन्तः पुरजनो भूत्वा संवर्धेत, यथाकालं प्रतिकरणान् प्रकाशयत इत्यादि उपदेशवाक्यानां मध्ये आसीत् ए. एस्. पि- एस् गौतमः छात्रायाः प्रश्नशरेण दग्‌धवान्। मुनिबकिद्वाल इति नामिका छात्रा एव प्रश्नम् अपृच्छत्। दोषी व्यक्तिः बलवान् चेत् सामान्य जनानां सुरक्षा कथं भविष्यति ?। ईदृशघटनासु अहं मम प्रतिषेध: ज्ञाप्यते चेत्‌ मम कृते सुरक्षा कथं संस्थाप्यते ? इत्यासीत् छात्रायाः प्रश्नः।