OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 29, 2019

G-२० अग्रोपवेशनम् अद्य सम्पूर्णताम् एतिl

    ओसाक्क> दिन द्वयस्य जि २० अग्रोपवेशनम् अद्य सम्पद्यते। जापान राष्ट्रस्थ ओसाका नगरे ह्यः आरब्धं भवति उपवेशनम्। प्रधानमन्त्री नरेन्द्रमोदी ब्रसील् प्रधानमन्त्री जयिर् बोल् सेनारे तथा इन्दोनेष्यस्य राष्ट्रपतिः जो जो विडोडाे प्रभृतिभ्यां सह चर्चाम् अकरोत्I वाणिज्यं राष्ट्र सुरक्षा आदि विषयेषु अद्य चर्चा प्रचलिष्यति। 'मनुष्य केन्द्रीकृतः भविष्यसमूहः' इत्यस्ति G-२० अग्रोपवेशनस्य ध्येयवाक्यम्। भारत अमेरिका जापानराष्ट्राणां ( त्रिराष्‌ट्रोपवेशनम्) संयुक्तोपवेशनमपि अभवत्‌।

Friday, June 28, 2019

अपराजितभारतम्। 
विन्डीसं प्रति भारतस्य विजयः १२५ धावनाङ्कानाम्। 
माञ्चेस्टर् > विश्वचषकक्रिक्कट् स्पर्धायां वेस्टिन्डीसं पराजित्य भारतस्य अश्वमेधम् उपान्त्यचक्रस्य समीपं वर्तते। भारतदलं स्वस्य पञ्चमे प्रतिद्वन्दे वेस्टिन्डीसं १२५ धावनाङ्कैः पराजितवत्। अनेन विन्डीस् दलं विश्वचषकपरम्परातः बहिर्गतम्। 
  'टोस्' प्राप्य कन्दुकताडनं स्वीकृतवता भारतेन निश्चिते क्षेपचक्रे २६८ धावनाङ्काः प्राप्ताः। नायकः विराट्कोली ७२ धावनाङ्कान् प्राप्य श्रेष्ठक्रीडकपदं प्राप्तवान्। एम् एस् धोनी ५६ धावनाङ्कान् प्राप्य अबाह्यः अवर्तत। परं विन्डीस्दलस्य ताडनावसरे भारतस्य मुहम्मद् षमी चतुरान् कन्दुक ताडकान् बहिर्गमयितवान्। विन्डीसस्य कन्दुकताडनं १४३ धावनाङ्कप्रापणेन समाप्तम्।

Thursday, June 27, 2019

अद्य भारत-वेस्टिन्डीस् प्रतिद्वन्दः। 
मान्चेस्टर् >  विश्वचषकक्रिक्कट् स्पर्धायाम् अद्य भारतं वेस्टिन्डीसं प्रति स्पर्धिष्यते। अद्य वेस्ट् इन्डीस् दलं पराजयते तर्हि विश्वचषकपरम्परातः बहिर्गमिष्यति इत्यतः तेषां अद्यतनस्पर्धा परमप्राधान्यमर्हति। किन्तु इतःपर्यन्तं पराजयं विना क्रीडन्तं भारतदलं प्रति विजयः अनिवार्यः। 
  गतदिनस्य प्रतिद्वन्दे न्यूसिलान्ट् दलस्योपरि पाकिस्थानस्य विजयः अभवत्।
शुद्धीकृते लवणे अधिकतया 'पोटास्यं फेरोसयनैड्'।

  मुम्बै> 'अयोडिन्' इति रासवस्तुना सह मिश्रिते  आपणे विक्रयमाणे शुद्धीकृते लवणे उग्रविषांशः अस्ति इति परीक्षितावेदनम्। यु एस् राष्ट्रस्य 'अनलटिकल् लबोरटरि' मध्ये कृते परीक्षणे आसीत् इदं प्रत्यभिज्ञानम्। भारते विक्रीयमाणेषु स्यूते निभृतलवणेषु भूरि एतादृशं 'पोटास्यं फेरोसयनैड्' इति विषलिप्तं भवति इति परीक्षणफलम्। अन्तरिक्षतः जलबाष्पकणान् स्वीकृत्य लवणस्य द्रवीकरणं न भवति। 'पोटास्यं फेरोसयनैड्' इति रासवस्तुनः संयोगेन। अनया रीत्या लवणस्य द्रवीकरणं दीर्घकालपर्यन्तं रोद्घुम् एव अधिकतया रासवस्तु प्रयोगः क्रियते इति वार्तां  प्रकाशयन् शिवशङ्कर् गुप्तः वार्ताहरमेलने उक्तम्। मुंबैस्थ गोधं  ग्रैन्स् आन्ट् फाम्स् प्रोडक्ट्स् अध्यक्षः भवति एषः।
  'पोटास्यं फेरोसयनैड्' इत्यस्य उपयोगेन कान्सर्, अतिकायत्वं, रक्तातिसम्मर्द्दः वृक्करोगः आदीनां कारणं भविष्यति। किलोमितानां लवणे यौगिकरूपेण ०.०६०० इत्यस्ति मात्रामानम्। किन्तु १.८५ तः ४.७१ पर्यन्तमस्ति मात्रामानम्। विषलिप्तलवणं विरुद्ध्य आन्तोलनाय उद्युतः अस्ति ९१ वयस्कः शिवशङ्कर गुप्तः। 

Wednesday, June 26, 2019

अलं वेदनया, हस्तौ खण्डनं कर्तुम् आवश्यमुन्नीय 'वृक्षमनुष्यः' 
 
         धाक्क> हस्तौ वृक्षशिखरमिव वर्धमानेन अपूर्वरोगेण पीडितः भवति बंग्लादेशस्थः अबुल् बजन्तरः। तस्य हस्तयोः २५ वारं शल्यक्रियाम् अकरोत्। वेदनाम् असहमानः एषः स्वस्य हस्तं कर्तयितुं भिषग्वरान् प्रार्थयति इदानीम्। २०१६ तः पञ्चविंशति शाल्यक्रियाः तस्य हस्तयोः पादयोः च कृता। किन्तु देहाश्मरिः वर्धिता। वेदनायाः आधिक्येन सः पुनरपि आतुरालयं प्राविशत्। तस्य माता अपि वदति तस्य आवश्यम् अङ्गीकुर्वति।  अनेन प्रकारेण  हस्तस्य वेदना निवारयितुं शक्त्यते चेत्‌ तदेव किल वरम् इति तस्य माता अपि पृच्छति।
        विदेशेषु गमिष्यति चेत् उत्तमचिकित्सां लभेत इति तस्याः विश्वासः। किन्तु अर्थिकक्लेशः एव समस्या। आर्जितावेदनानुसारं विश्वे षट् संख्यापरिमिताः‌ जनाः एव अनेन रोगेण पीडिताः इति अस्माकम्  लब्धं ज्ञानम्। शारीरे जायमानस्य 'चर्मकील'स्य (Warts) त्वरितवर्धनमेव वृक्षमनुष्य रोगः (Treenan dindrom) इति कथ्यते । पादौ हस्तौच चर्मकीलेन वृक्षशिखराणि इव रूपान्तरं भविष्यति इत्यस्ति रोगस्य प्रत्यक्षरूपः।

Tuesday, June 25, 2019

अमेरिकीयविदेशमन्त्रिणः भारतयात्रा
-पुरुषोत्तमशर्मा
  नवदिल्ली> अमेरिकीय विदेशमन्त्री माइकल.आर.पाम्पियो त्रिदिवसीयसन्दर्शनाय भारतमागमिष्यति। संसदीयनिर्वाचनानन्तरं भारतामरिकादेशयो: नेतृणां मध्ये संवादं भविष्यति। अस्यां यात्रायां पाम्‍प‍ियो विदेशमन्त्रिणा एस.जयशङ्करेण अथ च प्रशासनाधिकारिभिः सह मेलनं करिष्यति। पाम्पियो वर्यस्य यात्रावधौ देशद्वयस्य मध्ये सामरिकसहयोगसम्वर्धनं चर्चिष्यते। एतदतिरिच्य देशद्वयं द्विपक्षीय-क्षेत्रीय-वैश्विकप्रकरणानि समेत्य परस्परम् उच्चस्तरीयां उभयतलचर्चां च करिष्यति।

Monday, June 24, 2019

 लोकसभायां ये सांसदा: संस्कृतेन शपथं स्वीकृतवन्त: तेषां नामानि
 वार्ताहर: जगदीश: डाभी, गुजरातम् ।
★मध्यप्रदेश: -
१) महेन्द्र: सोलंकी, शाजापुरम्
२) सुधीर: गुप्ता, मन्दसौरम्
३) अनिल: फिरोजिया, उज्जयिनी
४) गुमानसिंह: डामोर:, रतलाम
५) गजेन्द्र: पटेल:, खरगोनम्
६) छतरसिंह: दरबार:, धार:
७) साध्वी प्रज्ञा ठाकुर:, भोपालम्
८) रोडमल: नागर:, राजगढ़म्
९) दुर्गादास: उइके, बैतूलम्
★गुजरातम् -
१) डा. महेन्द्र: मुञ्जपरा, सुरेन्द्रनगरम्
२) देवुसिंह: चौहान:, खेड़ा
३) परबतभाई पटेल:, बनासकांठा
४) सी.आर.पाटील:, नवसारी
५) प्रभुभाई वसावा, बारडोली
★उत्तरप्रदेश: -
१) ब्रजभूषणशरणसिंह:, कैसरगंज
२) डा. सत्यपालसिंह:, बागपतम्
३) वीरेन्द्रसिंह:, बलिया
४) कुंवर पुष्पेन्द्रसिंह: चंदेल:, हमीरपुरम्
★राजस्थानम् -
१) स्वामी सुमेधानन्द: सरस्वती, सीकरम्
२) सुभाषचंद्र: बहेडिया, भीलवाडा
३) रामचरण: बोहरा, जयपुरम्
४) भागीरथः चौधरी, अजयमेरु:                       
★पश्चिम-वङ्गः -
१) डा. सुभाष सरकार:, बाङ्कुरा
२) सुरेन्द्रजीतसिंह: अहलुवालिया, दुर्गापुरम्
३) दिलीप: घोष:, मेदिनीपुरम्
★देहली -
१) डा. हर्षवर्धन:, चांदनी चौक
२) रमेशचन्द्र: विधूडी, दक्षिणदेहली
३) मीनाक्षी लेखी, नवदेहली
★हरियाणा -
१) सुनीता दुग्गल, सिरसा
२) डा.अरविंद: शर्मा
★झारखण्ड: -
१) निशिकांत: दुबे, गोड्डा
२) संजय: सेठ:, रांची
★उडीसा -
१) भतृहरि: महताब, कटक
२) प्रताप: शडङ्गी, बालासोर
★महाराष्ट्रम् -
१) उन्मेश: पाटील:, जळगांव
२) गिरीश: बापट:, पुणे
★बिहार:
१) अश्विनीकुमार: चौबे, बक्सरम्
२) अशोककुमार: यादव:, मधुबनी
★उत्तराखण्डम् -
१) तीरथसिंह: रावत:, गढ़वालम्
२) अजय: भट्ट:, नैनीताल,
★गोवा -
१) श्रीपाद: नाईक:, उत्तरगोवा
★असमम् -
१) दिलीप: सायकिया, मङ्गलदोई
★कर्णाटकम् -
१) अनन्त: हेगडे, उत्तरकन्नडम्

संस्कृताभियानम्
प्रा.विजयकुमारः मेनन्,
नमांसि,
अन्याभिः भारतीयाभिः वैदेशिकीभिश्च भाषाभिः रचितानाम् उत्तमानां च ग्रन्थानां संस्कृतेन अनुवादकरणेन संस्कृतसाहित्यम् आधुनिकतमं , सुसमृद्धं च भवेत् इति धिया प्रभूतानां अपरभाषानिबद्धानां ज्ञानविज्ञानसम्बद्धानां काव्य-कथा-नाट्यानां च संस्कृतानुवादः करणीयः। तदर्थं केवलं सरलं प्रामाणिकं च प्रवाहमयं संस्कृतम् एव उपयोक्तव्यम्। आधुनिककाले एतादृशः व्यवहारः बहुभिः जनैः विविधैः संघटनैः च क्रियमाणः दृश्यते। एतस्मिन् श्लाघ्ये कर्मणि सरलसंस्कृतस्य एव प्रयोगे कृते , इष्टसिद्धौ अधिका व्यापकता , प्रामाणिकता च आगमिष्यति। मित्राणि, वयं एतस्मिन् श्लाघ्यकर्मणि प्रवर्तामहे।
 जयतु संस्कृतं जयतु भारतम्।
इरानस्योपरि यु एस् राष्ट्रस्य अन्तर्जालिकं युद्धम् - सङ्गणक-श्रृङ्खलायाः नाशः कृतः। 
   वाषिङ्टण्>  स्वस्य छायाग्राहियुत सैनिकोदग्रयानं नालिका शस्त्रवेधं कृतम् इत्यस्य विप्रतिपत्तिप्रकाशनाय इरानस्य अग्निबाण-नियन्त्रण -संविधाने यू एस् राष्ट्रेण 'सैबर्' आक्रमणं कृतम् इति नूतनम् आवेदनम्। राष्ट्रपतिना डोणाल्ड् ट्रम्पेण गुप्तरूपेण  यू एस् सैनिकनिर्देशकः आदिष्टः इति 'वाषिङ्टण् पोस्ट्' इति पत्रिकया आवेदितम्। 
   इरानस्य आकाशबाण-अग्नि सायकादयानां नियन्त्रणाय अनुपेक्षितं सङ्गणकश्रृङ्खला भग्ना जाता इत्यपि आवेदनम् बहिरागतम्। किन्तु विषयेऽस्मिन् इरानस्य प्रतिस्पन्दः न लब्धः। 

Sunday, June 23, 2019

आतङ्किभ्यः आर्थिक साहाय्यलब्धिं निरुद्ध्य पाकिस्थानः प्रक्रमः स्वीकरणीयः इति भारतम्।
    नवदिल्ली> आतङ्कवादिभ्यः दीयमानां आर्थिकसाहाय्यलब्धिं निरुद्ध्य पाकिस्थानेन प्रक्रमः स्वीकरणीयः इति पाकिस्थानं प्रति भारतम् आवदत्।  आतङ्वादिभ्यः सुलभतया लभ्यमानं आर्थिकसाहाय्यलब्धिं रोद्धुं  प्रयतमानायाः फिनान्षियल् आक्षन् टास्क् फोर्स् (FTF) इति अन्तराष्ट्रसंस्थायाः निर्देशाः यथाकालं करणीयाः  इति च भारतेन अभ्यर्थितम्। प्रक्रम स्वीकरणे विलम्बः चेत्‌  प्रत्याघातान् स्वीकर्तुं सज्जा भवतु इति  FTF संस्थया पकिस्थानाय पूर्वसूचना  प्रदत्ता आसीत्। ओक्तोबर् मासात् पूर्वं पाकिस्थानेन निर्देशाः पालनीयाः। नो चेत् पाकिस्थानं श्यामसूचिकायां कल्पयिष्यते। एवं चेत् एवं चेत् आर्थिकसमस्यया मथ्यमानेन पाकिस्थानेन अन्ताराष्ट्रस्तरात् आर्थिकसाहाय्यं लब्धुं इतःपरं अधिकः क्लेशः अभिमुखीक्रियेत।

Saturday, June 22, 2019

कालेश्वरं जलसेचनयोजना रामर्पिता। 
कालेश्वरं जलसम्भरणी। 
हैदराबाद् >  विश्वस्य बृहत्तमा विविधोद्देश्ययोजना इति परिगणिता तेलुङ्काना राज्यस्था  'कालेश्वरं जलसेचनयोजना' राष्ट्राय समर्पिता। ह्यः जयशङ्करभूपालपल्लि जनपदस्थे मेदिगद्दग्रामे समायोजिते कार्यक्रमे तेलुङ्कान - आन्ध्रयोः राज्यपालः ई एस् एल् नरसिंहः, तेलुङ्कानस्य मुख्यमन्त्री के चन्द्रशेखररावः, आन्ध्रप्रदेशस्य मुख्यमन्त्री वै एस् जगन्मोहन रेड्डी, महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र फड्नविसः इत्येते मिलित्वा योजनायाः उद्घाटनमकुर्वन्। 
  राष्ट्रस्य जलसेचनयोजनानां चरिते अतिविशिष्टा भवत्येषा योजना प्रातिवेशिकराज्यानां केन्द्रसर्वकारस्य च अनुमतिं प्राप्य अतिशीघ्रं निर्माणं पूर्तीकृतम्। समुद्रतीरस्य इतरजलसेचनसुविधानां चाभावे गोदावरीनद्यां निर्मितः जलसञ्चयः तेलुङ्कानाराज्यस्य अनुग्रहाय वर्तते।

Friday, June 21, 2019

News Live
योगः भारतस्य संस्कृतिः, अयं सामान्य जनान् प्रति निवेशनीयः इति लक्ष्यम् - नरेन्द्रमोदी।
    राञ्चि> 'योगः' भारतस्य संस्कृतिः,सामान्यजनान् प्रति निवेशनीयम् इत्यस्ति लक्ष्यम् इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्‌तम्। राञ्चीस्थे प्रभात् तारा क्रीडाङ्कणे आयोजिते योगदिनाचरणस्य राष्ट्रियतलोद्घाटने भाषमाणः आसीत् सः। उत्तम-स्वास्थ्याय तुष्टये च साहायकः भवति योगः। अधुनिकयोगं नगरात् ग्रामं प्रापयितुमेव इदानीन्तन मम प्रयत्नः। सामान्यजनानां वनवासिजनानां च गृहेषु योगस्य सत्फलानि प्रापणीयानि। केन कारणेन इति चेत्  सामान्यजनाः वनवासिनः च साधारणतया रोगाधिक्येन पीडिताः भवन्ति  इत्यपि मोदिना उक्‌तम्।
  अन्ताराष्ट्र योगदिने मोदिना सह त्रिंशत् सहस्राधिकं जनाः योग दिनस्य कार्यक्रमे भागभाजः आसन् । झार्खण्डस्य राजधान्याम् कार्यक्रमः अधुना एव सम्पनः।
बालिका स्वस्य अनुजेन सह योगासनक्रीडायां (केरलम्)
सम्प्रतिवार्तायाः छात्रावार्ताावतारिका श्रुति श्रीजित्तः भवति एषा
अन्ताराष्ट्र योगदिने बहरिन् देशे समायोजितः योगोत्सवः २०१९

Thursday, June 20, 2019

जनसङ्ख्या - भारतं प्रथमस्थाने भविष्यति।
    न्यूयोर्क् > अष्टसंवत्सरेभ्यः परं भारतं जनसङ्ख्याक्रमे चीनम् अतिक्रम्येत इति यू एन् राष्ट्रतः आवेदनम्। इदानीं प्रथस्थाने चीनादेशः भवति। २०१९- २०५० कालेषु चीनस्य जनसङ्ख्यायां ३.१४ कोटि जनानां न्यूनता भविष्यति इति आवेद्यते। World population prospects 2019 इति आवेदने अस्ति ईदृशी सूचना। 
  २०५० संवत्सरे विश्वजनसंख्या ७७० कोटीतः ९७० कोटि इति वर्धनं भविष्यति। तदा भारतेन सह नवराष्ट्रेषु भविष्यति जनसंख्यायाः अर्धभागः। भारतम् अतिरिच्य नैजीरियम्, पाकिस्थानम् कोङ्गो, एत्योपिय, टान्सानिय, इन्दोनेष्य, ईजिप्त्, अमेरिक्क इत्यादीनि  राष्ट्राणि भवन्ति एते। तदानीं भारतस्य जनसंख्या द्विगुणिता भविष्यति। तथा मनुष्याणाम् आयुर्देर्घ्यं ७२.६तः  ७७.१ इति भविष्यति।

Wednesday, June 19, 2019


  1. यु पि राज्ये पत्रिका विज्ञप्तिः संस्कृतभाषायां च भविष्यति।
     लख्नौ> संस्कृतभाषायाः पोषणाय उत्तरप्रदेश सर्वकारः तेषां पत्रिका-विज्ञप्तिः संस्कृतभाषायां कूर्वन्ति। इदानीं हिन्दी आङ्गलेय उर्दु भाषासु  प्रसार्यमाणान् अतिरिच्य भवति इयं नूतनी विज्ञप्तिः।  नूतनयोजनया सह मुख्यमन्त्रिरिणः योगी आदित्यनाथस्य प्रभाषणानि सर्वकारस्य विज्ञप्ति: च  संस्कृतभाषायां लब्धुमवसरः अस्ति। समीपकाले नीति आयोगस्य उपवेशने योगिना कृतस्य भाषणस्य संस्कृतभाषारूपमपि प्रकाशितम् आसीत्। तस्मिन्  जनाः प्रभाविताश्च आसन्।
कांग्रेसदलस्य नेता अधीर रंजनः चौधरी ।

 कोल्कत्ताता > कांग्रेसेन पश्चिम बंगाले बहरामपुर-सांसदस्य अधीर रंजन चौधरेः नाम लोकसभायाः कृते प्रस्तावितम्। वार्ताहर-संस्थायाः अनुसारेण एकदिनात् पूर्वमेव कांग्रेसदलसभायां राहुल गांधिना नेतृत्वं कर्तुम् असमर्थतां प्रतिज्ञापितम्। यु पि ए अध्यक्षायाः सोणिया गान्धिनः गृहे आयोजिते उपवेशने आसीत् अधीर रंजन चौधरेः नामप्रस्तावः। पिसिसि दलस्य पूर्वाध्यक्षः आसीत्‌ एषः। द्वितीये युपि ए सर्वकारस्य सभायां रेल् सहमन्त्री आसीत् एषः। १९९९तः प्रतिनिर्वाचने अनस्यूतं पञ्चवारं बहरान् पूर् मण्डलतः विजयीभूतः अस्ति एषः।

Tuesday, June 18, 2019

पुनरपि पुल्वामावत् आक्रमणं, सैनिकवाहनम् स्फोटनेन  भग्नम्। 
   श्रीनगरम्> पुल्वामा प्रदेशे सैनिकानां वाहनं विस्फोटनेन भग्नं जातम्I अरिहाल् ग्रामे आसीत् घटना प्रवृत्ता। '४४-राष्ट्रिय रैफिल्' सैनिकानां यानं प्रति आसीत् आक्रमणम्।  आक्रमणेन यानं पूर्णतया भग्नं, बहवः सैनिकाः क्षताः इत्यस्ति इदानीन्तनं आवेदनम्।

Monday, June 17, 2019

द्वयोः राष्ट्रयोः विद्युद् बन्धः पूर्णतया विच्छेदितः। रयिल् यानसेवा  स्थगिता
   ब्यूणस् ऐरिस्> विगते रविवासरे द्वे  राष्ट्रे अन्धकारान् निमज्ज्य आपन्नं विद्युत् स्थगनमेव आविश्वं चर्चाविषयः। अर्जन्टीन-उरुग्वा च भवतः एते राष्ट्रेI  विद्युत् वितरण संविधाने जातः दोषः एव अस्य कारणम् इति उद्योगसंस्थया उक्तम्।  ४.८ कोटि जनाः अनया बाधिताः। प्रादेशिकसमयः प्रातः सप्तवादने एव विद्युत् वितरणे बाधा अभवत्। धावमानानि रेलयानानि अपि स्थगितानि। जनाः चकिताः च। इतिहासे इदंप्रथमतया आसीत् ईदृशं विद्युत्स्थगनम्। विनाविलम्बं विद्युत् प्रसारः पुनःस्थापितः। किन्तु अन्धकारे पतितानां नगराणां चित्राणि इदानीमपि विद्युन्मााध्यमेन भ्रमणं कुर्वन्ति।

Sunday, June 16, 2019

बिहारे अङ्गारकवातेन ६१ जनाः मृताः। 
   पाट्न > बिहार राज्ये अङ्गारकवातेन ६१ जनाः मृताः। २५ होराभ्यन्तरे आसीत् इयं घटना। शताधिकाः आतुरालयं प्रविष्टाः। वार्ताहर-संस्थया ऐ एन् एस् द्वारा आवेदनम् प्रकाशितम्। मृतेषु भूरि जनाः औरङ्गबाद् , गय, नवाडा जनपदेषु विद्यमानाः भवन्ति। प्रदेशेस्मिन् शनिवासरादारभ्य ४५ डिग्रि सेल्ष्यस् भवति तापमानम्। शनिवासरे रात्रिपर्यन्तम् उष्णवायुतरङ्गेण २७ जनाः मृत्युमुपगताः इति औरङ्गबादस्य  'सिविल् सर्जन्' डा सुरेन्द्रप्रसादेन उक्तम्। संख्याधिकाः जनाः आतुरालये वर्तन्ते इत्यपि तेनोक्तम्। अस्यां घटनायां मुख्यमन्त्री नीतीष्कुमारः स्वदुःखं प्रकाशितवान्।  मृतानां कुटुम्बाय सः ४ लक्षं रूप्यकाणि समाश्वासधनं प्रख्यापितवान्।