OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 23, 2019

आतङ्किभ्यः आर्थिक साहाय्यलब्धिं निरुद्ध्य पाकिस्थानः प्रक्रमः स्वीकरणीयः इति भारतम्।
    नवदिल्ली> आतङ्कवादिभ्यः दीयमानां आर्थिकसाहाय्यलब्धिं निरुद्ध्य पाकिस्थानेन प्रक्रमः स्वीकरणीयः इति पाकिस्थानं प्रति भारतम् आवदत्।  आतङ्वादिभ्यः सुलभतया लभ्यमानं आर्थिकसाहाय्यलब्धिं रोद्धुं  प्रयतमानायाः फिनान्षियल् आक्षन् टास्क् फोर्स् (FTF) इति अन्तराष्ट्रसंस्थायाः निर्देशाः यथाकालं करणीयाः  इति च भारतेन अभ्यर्थितम्। प्रक्रम स्वीकरणे विलम्बः चेत्‌  प्रत्याघातान् स्वीकर्तुं सज्जा भवतु इति  FTF संस्थया पकिस्थानाय पूर्वसूचना  प्रदत्ता आसीत्। ओक्तोबर् मासात् पूर्वं पाकिस्थानेन निर्देशाः पालनीयाः। नो चेत् पाकिस्थानं श्यामसूचिकायां कल्पयिष्यते। एवं चेत् एवं चेत् आर्थिकसमस्यया मथ्यमानेन पाकिस्थानेन अन्ताराष्ट्रस्तरात् आर्थिकसाहाय्यं लब्धुं इतःपरं अधिकः क्लेशः अभिमुखीक्रियेत।

Saturday, June 22, 2019

कालेश्वरं जलसेचनयोजना रामर्पिता। 
कालेश्वरं जलसम्भरणी। 
हैदराबाद् >  विश्वस्य बृहत्तमा विविधोद्देश्ययोजना इति परिगणिता तेलुङ्काना राज्यस्था  'कालेश्वरं जलसेचनयोजना' राष्ट्राय समर्पिता। ह्यः जयशङ्करभूपालपल्लि जनपदस्थे मेदिगद्दग्रामे समायोजिते कार्यक्रमे तेलुङ्कान - आन्ध्रयोः राज्यपालः ई एस् एल् नरसिंहः, तेलुङ्कानस्य मुख्यमन्त्री के चन्द्रशेखररावः, आन्ध्रप्रदेशस्य मुख्यमन्त्री वै एस् जगन्मोहन रेड्डी, महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र फड्नविसः इत्येते मिलित्वा योजनायाः उद्घाटनमकुर्वन्। 
  राष्ट्रस्य जलसेचनयोजनानां चरिते अतिविशिष्टा भवत्येषा योजना प्रातिवेशिकराज्यानां केन्द्रसर्वकारस्य च अनुमतिं प्राप्य अतिशीघ्रं निर्माणं पूर्तीकृतम्। समुद्रतीरस्य इतरजलसेचनसुविधानां चाभावे गोदावरीनद्यां निर्मितः जलसञ्चयः तेलुङ्कानाराज्यस्य अनुग्रहाय वर्तते।

Friday, June 21, 2019

News Live
योगः भारतस्य संस्कृतिः, अयं सामान्य जनान् प्रति निवेशनीयः इति लक्ष्यम् - नरेन्द्रमोदी।
    राञ्चि> 'योगः' भारतस्य संस्कृतिः,सामान्यजनान् प्रति निवेशनीयम् इत्यस्ति लक्ष्यम् इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्‌तम्। राञ्चीस्थे प्रभात् तारा क्रीडाङ्कणे आयोजिते योगदिनाचरणस्य राष्ट्रियतलोद्घाटने भाषमाणः आसीत् सः। उत्तम-स्वास्थ्याय तुष्टये च साहायकः भवति योगः। अधुनिकयोगं नगरात् ग्रामं प्रापयितुमेव इदानीन्तन मम प्रयत्नः। सामान्यजनानां वनवासिजनानां च गृहेषु योगस्य सत्फलानि प्रापणीयानि। केन कारणेन इति चेत्  सामान्यजनाः वनवासिनः च साधारणतया रोगाधिक्येन पीडिताः भवन्ति  इत्यपि मोदिना उक्‌तम्।
  अन्ताराष्ट्र योगदिने मोदिना सह त्रिंशत् सहस्राधिकं जनाः योग दिनस्य कार्यक्रमे भागभाजः आसन् । झार्खण्डस्य राजधान्याम् कार्यक्रमः अधुना एव सम्पनः।
बालिका स्वस्य अनुजेन सह योगासनक्रीडायां (केरलम्)
सम्प्रतिवार्तायाः छात्रावार्ताावतारिका श्रुति श्रीजित्तः भवति एषा
अन्ताराष्ट्र योगदिने बहरिन् देशे समायोजितः योगोत्सवः २०१९

Thursday, June 20, 2019

जनसङ्ख्या - भारतं प्रथमस्थाने भविष्यति।
    न्यूयोर्क् > अष्टसंवत्सरेभ्यः परं भारतं जनसङ्ख्याक्रमे चीनम् अतिक्रम्येत इति यू एन् राष्ट्रतः आवेदनम्। इदानीं प्रथस्थाने चीनादेशः भवति। २०१९- २०५० कालेषु चीनस्य जनसङ्ख्यायां ३.१४ कोटि जनानां न्यूनता भविष्यति इति आवेद्यते। World population prospects 2019 इति आवेदने अस्ति ईदृशी सूचना। 
  २०५० संवत्सरे विश्वजनसंख्या ७७० कोटीतः ९७० कोटि इति वर्धनं भविष्यति। तदा भारतेन सह नवराष्ट्रेषु भविष्यति जनसंख्यायाः अर्धभागः। भारतम् अतिरिच्य नैजीरियम्, पाकिस्थानम् कोङ्गो, एत्योपिय, टान्सानिय, इन्दोनेष्य, ईजिप्त्, अमेरिक्क इत्यादीनि  राष्ट्राणि भवन्ति एते। तदानीं भारतस्य जनसंख्या द्विगुणिता भविष्यति। तथा मनुष्याणाम् आयुर्देर्घ्यं ७२.६तः  ७७.१ इति भविष्यति।

Wednesday, June 19, 2019


  1. यु पि राज्ये पत्रिका विज्ञप्तिः संस्कृतभाषायां च भविष्यति।
     लख्नौ> संस्कृतभाषायाः पोषणाय उत्तरप्रदेश सर्वकारः तेषां पत्रिका-विज्ञप्तिः संस्कृतभाषायां कूर्वन्ति। इदानीं हिन्दी आङ्गलेय उर्दु भाषासु  प्रसार्यमाणान् अतिरिच्य भवति इयं नूतनी विज्ञप्तिः।  नूतनयोजनया सह मुख्यमन्त्रिरिणः योगी आदित्यनाथस्य प्रभाषणानि सर्वकारस्य विज्ञप्ति: च  संस्कृतभाषायां लब्धुमवसरः अस्ति। समीपकाले नीति आयोगस्य उपवेशने योगिना कृतस्य भाषणस्य संस्कृतभाषारूपमपि प्रकाशितम् आसीत्। तस्मिन्  जनाः प्रभाविताश्च आसन्।
कांग्रेसदलस्य नेता अधीर रंजनः चौधरी ।

 कोल्कत्ताता > कांग्रेसेन पश्चिम बंगाले बहरामपुर-सांसदस्य अधीर रंजन चौधरेः नाम लोकसभायाः कृते प्रस्तावितम्। वार्ताहर-संस्थायाः अनुसारेण एकदिनात् पूर्वमेव कांग्रेसदलसभायां राहुल गांधिना नेतृत्वं कर्तुम् असमर्थतां प्रतिज्ञापितम्। यु पि ए अध्यक्षायाः सोणिया गान्धिनः गृहे आयोजिते उपवेशने आसीत् अधीर रंजन चौधरेः नामप्रस्तावः। पिसिसि दलस्य पूर्वाध्यक्षः आसीत्‌ एषः। द्वितीये युपि ए सर्वकारस्य सभायां रेल् सहमन्त्री आसीत् एषः। १९९९तः प्रतिनिर्वाचने अनस्यूतं पञ्चवारं बहरान् पूर् मण्डलतः विजयीभूतः अस्ति एषः।

Tuesday, June 18, 2019

पुनरपि पुल्वामावत् आक्रमणं, सैनिकवाहनम् स्फोटनेन  भग्नम्। 
   श्रीनगरम्> पुल्वामा प्रदेशे सैनिकानां वाहनं विस्फोटनेन भग्नं जातम्I अरिहाल् ग्रामे आसीत् घटना प्रवृत्ता। '४४-राष्ट्रिय रैफिल्' सैनिकानां यानं प्रति आसीत् आक्रमणम्।  आक्रमणेन यानं पूर्णतया भग्नं, बहवः सैनिकाः क्षताः इत्यस्ति इदानीन्तनं आवेदनम्।

Monday, June 17, 2019

द्वयोः राष्ट्रयोः विद्युद् बन्धः पूर्णतया विच्छेदितः। रयिल् यानसेवा  स्थगिता
   ब्यूणस् ऐरिस्> विगते रविवासरे द्वे  राष्ट्रे अन्धकारान् निमज्ज्य आपन्नं विद्युत् स्थगनमेव आविश्वं चर्चाविषयः। अर्जन्टीन-उरुग्वा च भवतः एते राष्ट्रेI  विद्युत् वितरण संविधाने जातः दोषः एव अस्य कारणम् इति उद्योगसंस्थया उक्तम्।  ४.८ कोटि जनाः अनया बाधिताः। प्रादेशिकसमयः प्रातः सप्तवादने एव विद्युत् वितरणे बाधा अभवत्। धावमानानि रेलयानानि अपि स्थगितानि। जनाः चकिताः च। इतिहासे इदंप्रथमतया आसीत् ईदृशं विद्युत्स्थगनम्। विनाविलम्बं विद्युत् प्रसारः पुनःस्थापितः। किन्तु अन्धकारे पतितानां नगराणां चित्राणि इदानीमपि विद्युन्मााध्यमेन भ्रमणं कुर्वन्ति।

Sunday, June 16, 2019

बिहारे अङ्गारकवातेन ६१ जनाः मृताः। 
   पाट्न > बिहार राज्ये अङ्गारकवातेन ६१ जनाः मृताः। २५ होराभ्यन्तरे आसीत् इयं घटना। शताधिकाः आतुरालयं प्रविष्टाः। वार्ताहर-संस्थया ऐ एन् एस् द्वारा आवेदनम् प्रकाशितम्। मृतेषु भूरि जनाः औरङ्गबाद् , गय, नवाडा जनपदेषु विद्यमानाः भवन्ति। प्रदेशेस्मिन् शनिवासरादारभ्य ४५ डिग्रि सेल्ष्यस् भवति तापमानम्। शनिवासरे रात्रिपर्यन्तम् उष्णवायुतरङ्गेण २७ जनाः मृत्युमुपगताः इति औरङ्गबादस्य  'सिविल् सर्जन्' डा सुरेन्द्रप्रसादेन उक्तम्। संख्याधिकाः जनाः आतुरालये वर्तन्ते इत्यपि तेनोक्तम्। अस्यां घटनायां मुख्यमन्त्री नीतीष्कुमारः स्वदुःखं प्रकाशितवान्।  मृतानां कुटुम्बाय सः ४ लक्षं रूप्यकाणि समाश्वासधनं प्रख्यापितवान्।

Friday, June 14, 2019

सार्वजनिक विद्यालयेषु वर्षेऽस्मिन् १.६३ लक्षं शिशवः नूतनतया समागताः।

    तिरुवनन्तपुरम् > केरलराज्ये सार्वजनिक-विद्यालयेषु छात्राणां संख्या अधिकतया वर्धिता। वर्षेऽस्मिन् १.६३ लक्षं शिशवः नूतनतया समागताः इति गणनया प्रमाणीक्रियते। निजीय विद्यालयेषु ३८००० छात्राणां न्यूनता प्रथमस्तरे अभवत्‌ इत्यस्ति आवेदनम्। सार्वजनिक-शिक्षाक्षेत्रे अनुवर्त्यमानः अन्ताराष्ट्रगुणोत्कर्षः, आधारसुविधायाः सौलभ्यं च छात्राणं समाकर्षणस्य कारणम्। 
    सर्वकारीय विद्यालयेषु ११.६९ लक्षं सर्वकारसहकृत विद्यालयेषु २१.५८ लक्षं छात्राः च अध्ययनं कुर्वन्ति इति गणना सूचयति।
स्वकीय-बाह्याकाशनिलयस्थापनाय भारतस्य ऐ ए स् आर् ओ।
   नवदिल्ली> भारतीय बाह्याकाशानुसन्धान संस्थया (इस्रो)स्वकीय बाह्याकाशनिलयस्थापनाय योजना सज्जीक्रियते। मानवं बाह्याकाशं प्रेषयितुं निश्चितं गगनयान योजनायाः सफलतानन्तरं बाह्याकाश निलयस्य निर्माणसंबन्धी  नूतनी योजना सर्वकाराय समर्प्यते इति 'इस्रो' संस्थायाः निर्देशकः डा. के शिवः अवदत्‌। सूक्ष्मगुरुत्वबल (micro gravity) -परीक्षणाय लघूपकरणमपि विक्षिप्यते इति सः वार्तामाध्यमान् प्रति अवदत्।
    ऐ एस् आर् ओ संस्थया सङ्कल्पितस्य बाह्याकाशनिलयाय २० 'टण्' भारः भविष्यति। अस्य निलयस्य भ्रमणपथः भौमोपरितलात् ४०० किलोमीट्टर् दूरे निश्चितः अस्ति। १५ तः २० दिनपर्यन्तम् अनुसन्धातृभ्यः अस्मिन् वासं कर्तुं शक्यते।

Thursday, June 13, 2019

आर्थिक-क्लेशः, पुरजनाः जूण्‌ ३० तः पूर्वं धनस्थितिः प्रकाशनीया - इम्रान् खान्। 

  इस्लामाबाद्> आर्थिक-क्लेशेन पुरजनाः जूण्‌ ३० दिनाङ्कतः पूर्वं  धनस्थितिः प्रकाशनीया इति पाकिस्थानस्य प्रधानमन्त्री इम्रान् खानः अवदत्। आर्थिकस्थिति-विवरणयोजना स्थापिता अस्ति। योजनाद्वारा करः पूरणीयः, नो चेत् राष्ट्राय कालयापनं न शक्यते इति पौरजनान् प्रति सः अवदत्। आर्थिक-सङ्कल्पनमेलनस्य कालः समागतः इत्यनेन एतस्य वाचः श्रद्धेयः। *विनामीय (Benami) वित्तलेखानां स्थावर-जङ्‌गमवस्तूनां विदेश-वितलेखेषु निभृतानां धनानां विवरणानि च एवं प्रकाशनीयानि। 
   सर्वेषाम् आर्थिकव्यवहारान् अधिकृत्य विवरणानि गुप्तान्वेषण-विभागेन संग्रहीतानि सन्ति इति इम्रानः पूर्व सूचना प्रदत्ता।
*विनामी (Benami) = विशेष-नाम।

Wednesday, June 12, 2019

गिरीष् कर्णाटः निर्यातः। 

बेङ्गुलुरु > कन्नडसाहित्याय आधुनिकचैतन्यं दत्तवान् गिरीष् कर्णाट् [८१] दिवंगतः। नाटककर्ता, चलच्चित्रकारः, अभिनेता, इत्यादिभिः स्वप्रतिभां विलासयन् सः ज्ञानपीठपुरस्कारजेता च आसीत्। तस्य अभिलाषमनुसृत्य विलापयात्रा, सामाजिकदर्शनम्, औद्योगिकबहुमतयः , धार्मिकाचारः इत्यादीनि विहाय  अन्त्याञ्जलिः संवृत्ता।

Tuesday, June 11, 2019

षोपियान् प्रदेशे संघर्षः- द्वौ भीकरौ सेनया मारितौ। 

  श्रीनगरम्> जम्मुकाश्मीरस्थ षोपियाने भीकरदलसुरक्षासेनयोः मिथः सङ्घर्षः प्रवृत्तःI  द्वौ आतङ्किनौ सेनया निहतौ। अद्य मङ्गल वासरे उषसि अवनीरा मण्डले आसीत् सङ्घर्षः। प्रदेशस्मिन् आतङ्किनः छन्नः तिष्टन्तः इति गुप्तविवरणस्य आधारे सुरक्षासेनया अन्वेषणम् आरब्धम् । तदा निलीय स्थिताः आतङ्किनः सुरक्षासैनिकान् प्रति नालिकाशस्त्रं प्रयुक्तवन्तः।  सन्दर्भेऽस्मिन् प्रवृत्ते परस्पर गोलिकाप्रहरे एव द्वौ आतङ्किनाै निहतौ। शस्त्राणि, विस्फोटक वस्तूनि च सेनया ग्रहीतानिI भीकरौ केषु आतङ्किदलेषु विद्यमानौ इति  प्रत्यभिज्ञानं नाऽभवत्। 

Monday, June 10, 2019

शान्तिपूर्णवातावरणस्य सृष्टिः पाकिस्थानेन करणीया -अमेरिका
     वाषिङ्टण्> दक्षिणेष्याराष्ट्रेषु शान्तिपूर्ण-वातावरणस्य सृष्टेः उत्तरदायकः पाकिस्थानः इति अमेरिक्केन उक्तम्। पाकिस्थानं केन्द्रीकृत्य प्रववर्तमानान् आतङ्कवाददलान् निर्वीर्यं कर्तुं पाकिस्थानाय उत्तरदायित्वमस्ति इति अमेरिकेनोक्तम्। भारतेन सह शान्ति चर्चायै सज्जः इति पाकिस्थानस्य प्रधानमन्त्रिणः इम्रान् खानस्य सूचनानन्तरम् आसीत् अमेरिक्कस्य ईदृशोक्तिः।
   पाकिस्थाने प्रवर्तमानाः आतङ्किनः गृह्णीयाः। आतङ्क-प्रवर्तनेन सह शान्तिचर्चा न शक्यते। भीकरदलीयानां स्वतन्त्रविहाराय  पाकिस्थाने कृताः अवसराः  स्थगनीयाः इत्यपि अमेरिक्कस्य प्रतिनिधी पि टि ऐ वार्ता-संस्थां प्रति अब्रवीत्।

Sunday, June 9, 2019

वार्तामुक्तकानि। 
वर्षाकालः सम्प्राप्तः। 
अनन्तपुरी > केरले 'मण्सूण्' नामकः दक्षिणपश्चिमीयः वर्षाकालः समागतः। सप्ताहैकस्य विलम्बेन एव अस्मिन् वारे वर्षाकालस्य सम्प्राप्तिः। केरलस्य विविधजनपदेषु शक्ता वर्षा लभ्यमाना अस्ति। 
अद्य आरभ्य 'ट्रोलिंङ्' निरोधः। 
कोच्ची >  केरलस्य तीरसमुद्रेषु अद्य अर्धरात्रादारभ्य मण्सूण्कालीयः यन्त्रवत्कृतमत्स्यबन्धननिरोधः - ट्रोलिंङ् निरोधः - आरभ्यते। जूलाय् ३१ दिनाङ्कपर्यन्तं निरोधः सम्पत्स्यते। किन्तु परम्परागतमत्स्यबन्धनयानानां निरोधः न बाधते। 
विश्वचषकक्रिक्कट् - भारतम् अद्य आस्ट्रेलियां विरुध्यते। 
लण्टन् >  इङ्लण्टे सम्पद्यमानायां विश्वचषकक्रिक्कट् स्पर्धापरम्परायायां भारतस्य द्वितीया प्रतियोगिता अद्य आस्ट्रेलियां प्रति। इदानीं त्रयाणां कन्दुकताडकानां विनष्टेन ३०१ धावनाङ्काः समुपलब्धाः। शिखर् धवानेन शतकं सम्प्राप्तम्।
दुबाय् राष्ट्रे बस् यानदुर्घटना १२भारतीयाः अभिव्याप्य १७ मृताः। 

ओमानतः दुबाय् प्रति आगतं यानं दुर्घटितम्। ११ भारतीयानां मृतदेहाः स्वदेशं नीताः। 
दुबाय् > गते गुरुवासरे दुबाय् राष्ट्रम् असाधारणेन दुर्घटनेन प्रकम्पितम्। सायं पादोनषड्वादने दुबाय् मध्ये 'मुहम्मद् बिन् सायिद्' मार्गे राषिदिय नामके स्थाने मस्कटतः दुबाय् प्रति आगतं बस्यानं दुर्घटनाविधेयमभवत्। ३१ यात्रिकाः याने आसन्। रमदान् विरामकालाघोषाय मस्कट् गत्वा प्रतिनिवर्तमाना आसन् ते। चालकस्य अश्रद्धा तथा अतिशीघ्रता च दुर्घटनाकारणमिति मन्यते। 
   मृतेषु १२ भारतीयेषु ८ केरलीयाः, अन्ये महाराष्ट्रियाश्च। द्वौ पाकिस्थानीयौ, एकः ओमानीयः, एकः अयर्लान्ट् देशीयः, एकः फिलिप्पीन्स् देशीयश्च मृत्युमुपगताः अन्ये यात्रिकाः। 
  ११ भारतीयानां मृतशरीराणि स्वस्वदेशं नीतानि। मृतस्य कस्यचन मुम्बई स्वदेशीयस्य शरीरं दुबाय् मध्ये एव संस्क्रियते। तदर्थं बान्धवाः दुबाय् प्राप्ताः। भारतीयानां मृतशरीराणि निश्शुल्केनैव 'एयर् इन्डिया' विमाने भारतं नीतानि।

Friday, June 7, 2019

रष्याराष्ट्रे सेतुः अप्रत्यक्षः अभवत्, चोरैः चोरितः इति आशङ्क्यते|
   सेन्ट् पीटेर्स् बर्ग्> अपहरणे विविध प्रकाराः  दृष्टवन्तः वयम्।  किन्तु रष्य राष्ट्रे जातम्  विशेषापहरणवत् इतः पर्यन्तं विश्वे न जातम्। तत्र तस्करैः भीमाकारः उत्तरणसेतुः  एव अपहृता। लोहभगानां चोराः स्यात् अस्य पृष्टतः इत्यस्ति आवेदनम्।