OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 6, 2019

आर्थिकसङ्कटः प्रतिरोध-आर्थिक संकलपः न्यूनीक्रियते पाकिस्थानेनI
   इस्लामाबाद्> अतिकठिनात् आर्थिकक्लेशात् रक्षां प्राप्तुं सैन्यस्य प्रतिरोध-धन-सञ्चयमपि न्यूनीक्रियते पाकिस्थानेन। एकसंवत्सरात्मकस्य न्यूनीकरणाय सैन्यस्य अनुज्ञा अस्ति इति पाकिस्थानस्य मुख्यमन्त्रिणा इम्रान् खानेन उक्तम्। अन्ताराष्ट्र नाणकनिधीतः ६०० कोटि डोलर् धनं ऋणं स्वीकर्तुं निश्चितः पाकिस्थानः कठिननियन्त्रणेषु बद्धो भविष्यति। अर्थिक सङ्कल्पने जायमाना न्यूनता परिहृतव्या इति IMF संस्थयाः निर्दिष्टम्।
भारतस्य विश्वचषकाश्वमेधाय विजयेन प्रारम्भः। 
    सताम्टण् [इङ्लेण्ट्] >  क्रिक्कट् क्रीडायां विश्वं जेतुं भारतस्य अश्वमेधः विजयारवेन प्रारब्धः। ह्यः अत्र 'रोस् बौल्' क्रीडाङ्कणे  दक्षिणाफ्रिक्काराष्ट्रेण सह सम्पन्नायां भारतस्य प्रथमस्पर्धायां 'कोह्लिबलं' ६ क्रीडकैः विजयीभूतम्। 
 निश्चिते ५० प्रक्षेपचक्रे दक्षिणाफ्रिक्कादलेन २२७ धावनाङ्कानि समाहृतानि। तदनन्तरं कन्दुकताडनमारब्धवन्तः भारतक्रीडकाः चतुर्णां क्रीडकानां विनष्टेन ४७.३ प्रक्षेपचक्रैः विजयपदं प्रापुः।
केरले अद्य अध्ययनवर्षारम्भः।  
 प्रथमकक्ष्यातः +२ कक्ष्यापर्यन्तं एकीकरणस्य प्रथमसोपानमपि प्रारभते! 
   कोच्ची > मासद्वयस्य ग्रीष्मकालीनविरामवेलां परिसमाप्य छात्राः पुनरपि विद्यामधुरमास्वदितुं विद्यालयान् गच्छन्ति। सामाजिकशिक्षासंरक्षणयज्ञस्य ऊर्जं स्वीकृत्य 'है टेक्' रीत्या नवीकृताः कक्ष्याप्रकोष्ठा  छात्रान् प्रतीक्ष्यमाणाः सन्ति।   ४ लक्षं बालकाः प्रथमकक्ष्यायां प्रवेशः स्वीकृताः।

Wednesday, June 5, 2019

इतिहासं विरचय्य  नगरपालिकाशासनं भा ज पा दलेन अधिगतम्।
   कोल्कत्ता> लोकसभनिर्वाचनानन्तरं पश्चिम-बंगाले नूतनं चरितं विरचितं भाजपादलेन। कोल्कत्ता राज्ये एकस्याः नगरपालिकायाः शासनं भाजपा दलेन समार्जितम्। भट्पर नगरपालिका-शासनमेव इदानीं भाजपादलाय लब्धम्। लोकसभानिर्वाचने मतदाने लब्धा उन्नतिः तथा नगरसभाध्याक्षपदवी च भाजपादलस्य विजयस्य माधुर्यं द्विगुणी कृता। ३५ अङ्गेषु २६ जनानां मतदानं स्वीकृत्य आसीत् भाजपा दलस्थः सैरव् सिंहः नगरसभाध्यक्षपदवीम् अरूढवान्।
निपा स्थिरीकृता ; केन्द्रसाहाय्यः वाग्दत्तः। 
कोच्ची >  केरले एरणाकुलं जनपदस्थे आतुरालये 'निपा'वैरसाणुबाधासन्देहेन प्रविष्टे छात्रयुवके बाधा स्थिरीकृता। पूनादेशस्थात् 'देशीय वैरसाणुगवेषण संस्थानात्' आतुरस्य रक्तस्रवादीनां परिशोधनफलेनैव अयं निपाबाधितः इति प्ररूढीकृतः। ततःपरं केरलस्य स्वास्थ्यविभागः अतीवजाग्रतया प्रवर्तते। 
  रोगिणम् अतिसामीप्यवर्तिताः ५ जनाः ज्वरबाधया कलमश्शेरीस्थे सर्वकारातुरालये अनन्यसम्पर्कविभागे [Isolation ward] सूक्ष्मनिरीक्षणे वर्तन्ते। तेषां रक्तस्रवादयः परिशोधनायै समर्पिताः। 
  तथा च केन्द्रस्वास्थ्यमन्त्रिणः हर्षवर्धनस्य नेतृत्वे केरलस्य सविशेषावस्थाः विशकलिताः। केरलं प्रति वैद्यसङ्घं प्रेषयितुं पदक्षेपाः स्वीकृताः।
  रोगिणः अवस्था तु इदानीं समीचीना वर्तते। 

Tuesday, June 4, 2019

अन्तर्जालचौर्यं; सर्वोच्च-न्यायालयस्य भूतपूर्व न्यायाधिपः वञ्चितः। 
   नवदिल्ली> अन्तर्जालचाैर्येण भारतस्य सर्वोच्च-न्यायालयस्य  भूतपूर्व न्यायाधिपः अपि पीडितः अभवत्। पूर्व न्यायाधिपाय आर् एम् लोधामहाभागाय लक्षं रूप्यकाणं नष्टम् अभवत्। महोदयस्य मित्रस्य न्यायाधीशस्य बि पि सिंहस्य विद्युत्पत्रसुविधा स्वायत्तीकृत्य आसीत् चोरणं प्रवृत्तम्।  मेय् १९ दिनाङ्के रात्रौ बि पि सिंहस्य इमैल् सन्देशः लब्धः। सन्देशे बन्धोः आतुरालयचिकित्सार्थं लक्षं रूप्यकाणि आवश्यकानि शीघ्रं प्रेषणीयानि इत्यासीत्। वित्तलेख सङ्ख्या अपि प्रेषिता आसीत्। लोधावर्यः द्विवारं ५०००० रूप्यकाणि इतिक्रमेण प्रेषितवान् ।  
पश्चात् मेय् ३० दिनाङ्के  बि पि सिंहस्य ई पत्रं पुनः आगतम्। तदानीमेव तस्करेण वञ्चितः इति सः ज्ञातवान्।  घटनायां दिल्लीस्थ आरक्षकविभागेन प्रक्रमः स्वीकृतः।
संस्कृताभियानम्
 प्रा.विजयकुमारः मेनन्, डीन्. 
कविकुलगुरु कालिदास विश्वविद्यालयः
नमांसि!  ग्रीष्मावकाशकाले विद्यालयच्छात्राः कार्यहीनाः भवन्ति। कथं तेषां समयनिर्वाहः स्यात् इति मातापितृणामपि महती चिन्ता भवति। यदि वयम् अस्माकं प्रदेशे प्रतिदिनं ३-४ घण्टाः इव १०-१५ दिनानां ग्रीष्मशिबिरम् आयोजयामः , तत्र च संस्कृतसम्भाषणं, सामान्यज्ञानं, नीतिकथा:, भारतीयतासम्बद्धाः विषयाः, सुभाषितानि इत्यादीनि पाठयामः तर्हि बहवः छात्राः शिक्षार्थिरूपेण आगच्छेयुः। मित्राणि, अयं कश्चन प्रसिद्धः.छात्राकर्षकः जनाकर्षकश्च वार्षिकः कार्यक्रमः भवेत्।
 जयतु संस्कृतं जयतु भारतम्। 
१३ सैनिकैः सह व्योमसेनाविमानम् अप्रत्यक्षमभवत्। 
 
   नवदिल्ली>  असमस्थात् जोर्हट् प्रदेशात् १३ सैनिकैः सह अरुणाचलप्रदेशं गतवत् भारतव्योमसेनायाः "आन्टनोव् ए एन् - ३२" नामकं विमानम् अप्रत्यक्षमभवत्। ह्यः मध्याह्ने १२.३० वादने उड्डयनानन्तरं एकवादने विमानंप्रति विनिमयः स्थगितः। 
  सुखोय् ३०, सि १३० विमानैः सह भूतलसेना इन्तो-टिबटन् आरक्षकबलं, अरुणाचलारक्षकाः इत्यादयः अन्वेषणमारब्धवन्तः।
मन्त्रिपदनियोग स्वीकरणाय द्विचक्रिकायाम्  समागतवान् भारतस्य स्वास्थ्यमन्त्री।
  नवदिल्ली> विश्व-द्विचक्रिका-दिनस्य प्राधान्यत्वात् आदर्शरूपो भूत्वा स्वस्य नियोगस्वीकरणाया द्विचक्रिकाम् आरुह्य आगतवान् मन्त्री। १७ तम लोकसभायां स्वास्थ्य-मन्त्रिपदे नियुक्तः डा. हर्षवर्धनः भवति एषः। स्वस्य गृहतः कार्यालयं प्रति कार्यालयतः गृहं प्रति प्रतिदिनं द्वि चक्रिकया गन्तुम् इच्छति इति सः अवदत्। जनानां मनसि स्वास्थ्यविषये चिन्ता उद्‌पादयितुम् अनेन शक्यते इत्यपि मन्त्री अवदत्। परिस्थित्यनुकूल यानं द्विचक्रिका एव भवति। तस्य विनोदः द्विचक्तिका चालनं च, इति टिट्वर् मध्ये तेन लिखितम्।
निपाविषाणुबाधासन्देहः - कश्चन एरणाकुले निरीक्षणे। 
राज्ये अतिजाग्रता। प्रतिरोधपदक्षेपाः अनुवर्तते। 
कोच्ची >  केरले एरणाकुलं स्वदेशीयः कश्चन युवकछात्रः निपाविषाणुबाधसन्देहात् तीव्रसुरक्षायां तद्देशस्थे निजीयातुरालये निरीक्षणे वर्तते। पूनास्थात् देशीय विषाणुसंस्थानात् स्रवशोधनस्य फलमाकाङ्क्षते। तदनन्तरमेव निपाबाधायां स्थिरीकरणं लभेत। 
   किन्तु राज्ये विशिष्य एरणाकुले समीपजनपदेषु च प्रतिरोधप्रवर्तनेभ्यः सर्वाणि सज्जीकरणानि पूर्तीकृतानि। स्वास्थ्यविभागमन्त्रिण्यः के के शैलजायाः नेतृत्वे मन्त्रालयाधिकृतैः सह परिचर्च्य अवस्थाः अवलोकिताः। जनपदस्थेषु प्रधानातुरालयेषु 'ऐसोलेषन् विभागः' आरब्धः।
शिक्षाक्षेत्रं समुन्नेतुम् उपराष्ट्रपते: विचारा:
-लता नवदिल्ली
   नवदिल्ली> उपराष्ट्रपतिना एम् वेंकैया नायडुना अभिनवाय शिक्षानीतेरध्ययनाय, विश्लेषणार्थम्, तदधिकृत्य विस्तृत-परिचर्चार्थम् च जना: अध्यर्थिता:। विषये कथङ्कारकमपि त्वरित-निष्कर्ष-प्रतिपादनममुना नोचितं प्रख्यापितम्। गतदिने विशाखापत्तननगरे समायोजिते एकस्मिन् कार्यक्रमे उपराष्ट्रपतिना निगदितं शिक्षाक्षेत्रेण सम्बद्धा: सर्वेsपि पक्षा: सविस्तरं परिचर्च्योपस्थापनीया:। शिक्षाक्षेत्रं समुन्नेतुं छात्राणां पुस्तकभारे नैपुण्युत्पादोन्मुखपाठ्यक्रमनिर्माणाय, विद्यालयेषु क्रीडासंवर्धनाय, नैतिकता प्रभावोत्पादनक्षमता-समन्वितायै, छात्रेषु तर्कपूर्णशक्त्युत्पादन-क्षमता-युतायै पाठ्यक्रम-रचनायै अपि च ऐतिहासिकघटनानां स्वतन्त्रतासेनानीनां च योगदानं वर्णनीयान् विषयान् अवधार्यैव पाठ्क्रम-निर्माणमसौ महत्वपूर्णं व्यज्ञापयत्।

Monday, June 3, 2019

भारतीयरिजर्वबैङ्कस्य द्वैमासिकनीतेरुद्घोषणा गुरुवासरे भविष्यतीति सम्भाव्यते
-पुरुषोत्तमशर्मा 
  नवदिल्ली> भारतीयरिजर्वबैङ्कस्य मौद्रिकनीतिसमिति: गुरुवासरे द्वैमासिकनीतेरुद्घोषणा करिष्यति। प्रधानमन्त्रिण: नरेन्द्रमोदिन: नेतृत्‍वयुतस्य प्रशासनस्य द्वितीये कार्यकाले प्रथमेयं द्वैमासिकनीति: भविष्यति। इत: पूर्वं नीतिसमीक्षाद्वये रिजर्वबैङ्केन प्रतिवारं रेपो रेट् इति निक्षेपमितौ पञ्चविंशति: मूलाङ्कस्यापचिति: कृतासीत्। देशस्य बृहत्तमवित्तकोशेन भारतीयस्‍टेटबैङ्केन अथ च विभिन्‍नोद्योगनिकायै: आशासितं यत् अर्थव्‍यवस्‍थायां तीव्रतायै रिजर्वबैङ्केन कुशीददरेषु अपचिति: यथावस्थमेव प्रवर्तयिष्यते।
गृहमन्त्रिणा नवदिल्लिस्थिते राष्ट्रियरक्षिस्मारके वीरभटेभ्यो श्रद्धाञ्जलि: समर्पित:
-पुरुषोत्तमशर्मा
  नवदिल्ली> गृहमन्त्रिणा अमितशाहेन विगतेह्नि नवदिल्लिस्थिते राष्ट्रियरक्षिस्मारके राष्‍ट्रसेवायै वीरतङ्गतेभ्य: चतुस्त्रिंशत्सहस्राधिकेभ्यो वीरभटेभ्यो श्रद्धाञ्जलि: समर्पित:। श्रीशाहेन निगदितं यत्  भारतम् एतेषामारक्षिणां बलिदानेन सुरक्षितं वर्तते। स्‍मारकमिदं वीराक्षिणां सम्‍माने निर्मितम्। प्रधानमन्त्री नरेन्‍द्रमोदी गचवर्षे ऑक्‍टूबरमासस्य एकविंशे  आरक्षिस्‍मारकदिवसावसरे स्मारकम् उदघाटयत्।
जम्मुकाश्मीरे ५ मासाभ्यन्तरे सुरक्षासेनया १०१ आतङ्किनः निहताः
    नवदिल्ली> संवत्‍सरेस्मिन् जनवरिमासतः मेय् मासपर्यन्तं पञ्चमासाभ्यन्तरे सुरक्षासेनया १०१ आतङ्किनः निहताः। गणनाङ्कः सेनया बहिः प्रकाशितः। १०१ आतङ्किषु  २३ विदेशीयाः ७८ प्रादेशिकाः च अन्तर्भवन्ति। विगतः मार्च् मासतः ५० युवानः विविधेषु आतङ्कपरिपोषण-केन्द्रेषु प्राप्ताः इति गणितद्वारा सेनया व्यक्ततया आवेदितम्। किन्तु आतङ्किदलसमाहरणं कुर्वन्तं प्रत्यभिज्ञाय नाशं कर्तुं प्रयतते सेनया। 
  काश्मीरस्य आतङ्कवादं समापयितुं नूतनमार्गाः अन्विष्यन्ते सेनया। तरुणेभ्यः तेषां कुटुम्बेभ्यः विशेषतया शिक्षां प्रदातुम्  इदानीं सेनया आलोच्यते।

Sunday, June 2, 2019

मोदी सर्वकारस्य प्रथमपरिगणना राज्यसुरक्षायै, जनक्षेम-प्रवर्तनाय च- अमित् षा।

  नव दिल्ली> जनानां योगक्षेमाय तथा राज्य सुरक्षये च मोदिनः सर्वकारः प्रामुख्यं प्रदास्यति इति नूतनः आभ्यन्तरमन्त्री अमित् षा अवदत् ।  तादृश-विषयाणि   प्रवृर्तिपदमानेतुम् प्रयत्नं करिष्‌यामि  इत्यपि सः  अवदत्। टिट्वर् माध्यमेन आसीत् तस्य आशयोक्तिः। आतङ्कवादं विरुद्ध्य प्रक्रमाणाम् आयोजनम्, अनियमेन कृतस्य अधिनिवेशनस्य अन्वेषणं च प्राधान्येन क्रियते इति आभ्यन्तर मन्त्रालयस्य वरिष्ठोद्योगिनः अवदन्|
असमे करीणां संरक्षणाय रेडियो कॉलर् इत्याख्या अभिनवा प्रणालिः समारब्धा
-लता नवदिल्ली
   गुवाहति> असमस्य वनविभागेन तद्विपिनेषु करीणां संरक्षणाय अथ च मानवानां करीणां च मध्ये संघर्षस्थितिं निवारयितुं रेडियो कॉलर इत्याख्या अभिनवा प्रणालिः समारब्धा। राज्यस्य वनमन्त्रिणः परिमलवैद्यस्य पक्षतः अधिगतसूचनानुसारि करिषु रेडियो कॉलर इत्यस्य स्थापनेन अरण्येषु तेषां गतिविधीनाम् अवधानं सारल्येन भवितुमर्हति।
बिहारे मन्त्रिमण्डलविस्तार: 
-पुरुषोत्तमशर्मा, नव दिल्ली।
 पटना> बिहारराज्ये मुख्‍यमन्त्री नीतीशकुमारः अद्य स्वीये मन्त्रिमण्डले विस्‍तारं करिष्यति। राज्यस्य त्रयाणां मन्त्रिणां पदत्यागानन्तरम् इमानि पदानि रिक्‍तानि सञ्जातानि। पदत्रये नूतनविधायकानां मन्त्रित्वेन चयनं सम्भविष्यति। अवधेयमस्ति यत्  अचिरमेव सम्पन्नेषु लोकसभानिर्वाचनेषु विजयानन्तरं राजीवरञ्जनसिंह: पशुपतिकुमारपारसः अथ च दिनेशचन्द्रयादव: स्वपदत्यागं कृतवन्त:।

Saturday, June 1, 2019

यत्र नार्यस्तु पूज्यन्ते- मोदिनः मन्त्रिसभायां षट् वनिताः।
  नवदिल्ली> नारीपूजनस्य प्रमाणत्वेन नरेद्रमोदिनः सर्वकारः। नूतनायां मन्त्रिसभायां षट् वनिता मन्त्रिण्यः अभिषिक्ताः।
   गतवारस्य एन् डि ए सर्वकारस्य प्रधिरोधमन्त्रिणी निर्मलासीताराम-महाभागा, भक्ष्य-सुरक्षा यूणियन् काबिनट् मन्त्रिणी अकालिदलस्य  प्रतिनिधी हरसिम्रत् कौर् बादल्, स्मृति सुबिन् इरानि, भक्ष्य-शोध-विभाग-मन्त्रिणी साध्वी निरञ्जन् ज्योति रेणुका सिह शारुता, बंगालतः दोबा श्री चौधरी च भवन्ति एताः वनिता प्रतिनिधयः।