OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 5, 2019

निपा स्थिरीकृता ; केन्द्रसाहाय्यः वाग्दत्तः। 
कोच्ची >  केरले एरणाकुलं जनपदस्थे आतुरालये 'निपा'वैरसाणुबाधासन्देहेन प्रविष्टे छात्रयुवके बाधा स्थिरीकृता। पूनादेशस्थात् 'देशीय वैरसाणुगवेषण संस्थानात्' आतुरस्य रक्तस्रवादीनां परिशोधनफलेनैव अयं निपाबाधितः इति प्ररूढीकृतः। ततःपरं केरलस्य स्वास्थ्यविभागः अतीवजाग्रतया प्रवर्तते। 
  रोगिणम् अतिसामीप्यवर्तिताः ५ जनाः ज्वरबाधया कलमश्शेरीस्थे सर्वकारातुरालये अनन्यसम्पर्कविभागे [Isolation ward] सूक्ष्मनिरीक्षणे वर्तन्ते। तेषां रक्तस्रवादयः परिशोधनायै समर्पिताः। 
  तथा च केन्द्रस्वास्थ्यमन्त्रिणः हर्षवर्धनस्य नेतृत्वे केरलस्य सविशेषावस्थाः विशकलिताः। केरलं प्रति वैद्यसङ्घं प्रेषयितुं पदक्षेपाः स्वीकृताः।
  रोगिणः अवस्था तु इदानीं समीचीना वर्तते। 

Tuesday, June 4, 2019

अन्तर्जालचौर्यं; सर्वोच्च-न्यायालयस्य भूतपूर्व न्यायाधिपः वञ्चितः। 
   नवदिल्ली> अन्तर्जालचाैर्येण भारतस्य सर्वोच्च-न्यायालयस्य  भूतपूर्व न्यायाधिपः अपि पीडितः अभवत्। पूर्व न्यायाधिपाय आर् एम् लोधामहाभागाय लक्षं रूप्यकाणं नष्टम् अभवत्। महोदयस्य मित्रस्य न्यायाधीशस्य बि पि सिंहस्य विद्युत्पत्रसुविधा स्वायत्तीकृत्य आसीत् चोरणं प्रवृत्तम्।  मेय् १९ दिनाङ्के रात्रौ बि पि सिंहस्य इमैल् सन्देशः लब्धः। सन्देशे बन्धोः आतुरालयचिकित्सार्थं लक्षं रूप्यकाणि आवश्यकानि शीघ्रं प्रेषणीयानि इत्यासीत्। वित्तलेख सङ्ख्या अपि प्रेषिता आसीत्। लोधावर्यः द्विवारं ५०००० रूप्यकाणि इतिक्रमेण प्रेषितवान् ।  
पश्चात् मेय् ३० दिनाङ्के  बि पि सिंहस्य ई पत्रं पुनः आगतम्। तदानीमेव तस्करेण वञ्चितः इति सः ज्ञातवान्।  घटनायां दिल्लीस्थ आरक्षकविभागेन प्रक्रमः स्वीकृतः।
संस्कृताभियानम्
 प्रा.विजयकुमारः मेनन्, डीन्. 
कविकुलगुरु कालिदास विश्वविद्यालयः
नमांसि!  ग्रीष्मावकाशकाले विद्यालयच्छात्राः कार्यहीनाः भवन्ति। कथं तेषां समयनिर्वाहः स्यात् इति मातापितृणामपि महती चिन्ता भवति। यदि वयम् अस्माकं प्रदेशे प्रतिदिनं ३-४ घण्टाः इव १०-१५ दिनानां ग्रीष्मशिबिरम् आयोजयामः , तत्र च संस्कृतसम्भाषणं, सामान्यज्ञानं, नीतिकथा:, भारतीयतासम्बद्धाः विषयाः, सुभाषितानि इत्यादीनि पाठयामः तर्हि बहवः छात्राः शिक्षार्थिरूपेण आगच्छेयुः। मित्राणि, अयं कश्चन प्रसिद्धः.छात्राकर्षकः जनाकर्षकश्च वार्षिकः कार्यक्रमः भवेत्।
 जयतु संस्कृतं जयतु भारतम्। 
१३ सैनिकैः सह व्योमसेनाविमानम् अप्रत्यक्षमभवत्। 
 
   नवदिल्ली>  असमस्थात् जोर्हट् प्रदेशात् १३ सैनिकैः सह अरुणाचलप्रदेशं गतवत् भारतव्योमसेनायाः "आन्टनोव् ए एन् - ३२" नामकं विमानम् अप्रत्यक्षमभवत्। ह्यः मध्याह्ने १२.३० वादने उड्डयनानन्तरं एकवादने विमानंप्रति विनिमयः स्थगितः। 
  सुखोय् ३०, सि १३० विमानैः सह भूतलसेना इन्तो-टिबटन् आरक्षकबलं, अरुणाचलारक्षकाः इत्यादयः अन्वेषणमारब्धवन्तः।
मन्त्रिपदनियोग स्वीकरणाय द्विचक्रिकायाम्  समागतवान् भारतस्य स्वास्थ्यमन्त्री।
  नवदिल्ली> विश्व-द्विचक्रिका-दिनस्य प्राधान्यत्वात् आदर्शरूपो भूत्वा स्वस्य नियोगस्वीकरणाया द्विचक्रिकाम् आरुह्य आगतवान् मन्त्री। १७ तम लोकसभायां स्वास्थ्य-मन्त्रिपदे नियुक्तः डा. हर्षवर्धनः भवति एषः। स्वस्य गृहतः कार्यालयं प्रति कार्यालयतः गृहं प्रति प्रतिदिनं द्वि चक्रिकया गन्तुम् इच्छति इति सः अवदत्। जनानां मनसि स्वास्थ्यविषये चिन्ता उद्‌पादयितुम् अनेन शक्यते इत्यपि मन्त्री अवदत्। परिस्थित्यनुकूल यानं द्विचक्रिका एव भवति। तस्य विनोदः द्विचक्तिका चालनं च, इति टिट्वर् मध्ये तेन लिखितम्।
निपाविषाणुबाधासन्देहः - कश्चन एरणाकुले निरीक्षणे। 
राज्ये अतिजाग्रता। प्रतिरोधपदक्षेपाः अनुवर्तते। 
कोच्ची >  केरले एरणाकुलं स्वदेशीयः कश्चन युवकछात्रः निपाविषाणुबाधसन्देहात् तीव्रसुरक्षायां तद्देशस्थे निजीयातुरालये निरीक्षणे वर्तते। पूनास्थात् देशीय विषाणुसंस्थानात् स्रवशोधनस्य फलमाकाङ्क्षते। तदनन्तरमेव निपाबाधायां स्थिरीकरणं लभेत। 
   किन्तु राज्ये विशिष्य एरणाकुले समीपजनपदेषु च प्रतिरोधप्रवर्तनेभ्यः सर्वाणि सज्जीकरणानि पूर्तीकृतानि। स्वास्थ्यविभागमन्त्रिण्यः के के शैलजायाः नेतृत्वे मन्त्रालयाधिकृतैः सह परिचर्च्य अवस्थाः अवलोकिताः। जनपदस्थेषु प्रधानातुरालयेषु 'ऐसोलेषन् विभागः' आरब्धः।
शिक्षाक्षेत्रं समुन्नेतुम् उपराष्ट्रपते: विचारा:
-लता नवदिल्ली
   नवदिल्ली> उपराष्ट्रपतिना एम् वेंकैया नायडुना अभिनवाय शिक्षानीतेरध्ययनाय, विश्लेषणार्थम्, तदधिकृत्य विस्तृत-परिचर्चार्थम् च जना: अध्यर्थिता:। विषये कथङ्कारकमपि त्वरित-निष्कर्ष-प्रतिपादनममुना नोचितं प्रख्यापितम्। गतदिने विशाखापत्तननगरे समायोजिते एकस्मिन् कार्यक्रमे उपराष्ट्रपतिना निगदितं शिक्षाक्षेत्रेण सम्बद्धा: सर्वेsपि पक्षा: सविस्तरं परिचर्च्योपस्थापनीया:। शिक्षाक्षेत्रं समुन्नेतुं छात्राणां पुस्तकभारे नैपुण्युत्पादोन्मुखपाठ्यक्रमनिर्माणाय, विद्यालयेषु क्रीडासंवर्धनाय, नैतिकता प्रभावोत्पादनक्षमता-समन्वितायै, छात्रेषु तर्कपूर्णशक्त्युत्पादन-क्षमता-युतायै पाठ्यक्रम-रचनायै अपि च ऐतिहासिकघटनानां स्वतन्त्रतासेनानीनां च योगदानं वर्णनीयान् विषयान् अवधार्यैव पाठ्क्रम-निर्माणमसौ महत्वपूर्णं व्यज्ञापयत्।

Monday, June 3, 2019

भारतीयरिजर्वबैङ्कस्य द्वैमासिकनीतेरुद्घोषणा गुरुवासरे भविष्यतीति सम्भाव्यते
-पुरुषोत्तमशर्मा 
  नवदिल्ली> भारतीयरिजर्वबैङ्कस्य मौद्रिकनीतिसमिति: गुरुवासरे द्वैमासिकनीतेरुद्घोषणा करिष्यति। प्रधानमन्त्रिण: नरेन्द्रमोदिन: नेतृत्‍वयुतस्य प्रशासनस्य द्वितीये कार्यकाले प्रथमेयं द्वैमासिकनीति: भविष्यति। इत: पूर्वं नीतिसमीक्षाद्वये रिजर्वबैङ्केन प्रतिवारं रेपो रेट् इति निक्षेपमितौ पञ्चविंशति: मूलाङ्कस्यापचिति: कृतासीत्। देशस्य बृहत्तमवित्तकोशेन भारतीयस्‍टेटबैङ्केन अथ च विभिन्‍नोद्योगनिकायै: आशासितं यत् अर्थव्‍यवस्‍थायां तीव्रतायै रिजर्वबैङ्केन कुशीददरेषु अपचिति: यथावस्थमेव प्रवर्तयिष्यते।
गृहमन्त्रिणा नवदिल्लिस्थिते राष्ट्रियरक्षिस्मारके वीरभटेभ्यो श्रद्धाञ्जलि: समर्पित:
-पुरुषोत्तमशर्मा
  नवदिल्ली> गृहमन्त्रिणा अमितशाहेन विगतेह्नि नवदिल्लिस्थिते राष्ट्रियरक्षिस्मारके राष्‍ट्रसेवायै वीरतङ्गतेभ्य: चतुस्त्रिंशत्सहस्राधिकेभ्यो वीरभटेभ्यो श्रद्धाञ्जलि: समर्पित:। श्रीशाहेन निगदितं यत्  भारतम् एतेषामारक्षिणां बलिदानेन सुरक्षितं वर्तते। स्‍मारकमिदं वीराक्षिणां सम्‍माने निर्मितम्। प्रधानमन्त्री नरेन्‍द्रमोदी गचवर्षे ऑक्‍टूबरमासस्य एकविंशे  आरक्षिस्‍मारकदिवसावसरे स्मारकम् उदघाटयत्।
जम्मुकाश्मीरे ५ मासाभ्यन्तरे सुरक्षासेनया १०१ आतङ्किनः निहताः
    नवदिल्ली> संवत्‍सरेस्मिन् जनवरिमासतः मेय् मासपर्यन्तं पञ्चमासाभ्यन्तरे सुरक्षासेनया १०१ आतङ्किनः निहताः। गणनाङ्कः सेनया बहिः प्रकाशितः। १०१ आतङ्किषु  २३ विदेशीयाः ७८ प्रादेशिकाः च अन्तर्भवन्ति। विगतः मार्च् मासतः ५० युवानः विविधेषु आतङ्कपरिपोषण-केन्द्रेषु प्राप्ताः इति गणितद्वारा सेनया व्यक्ततया आवेदितम्। किन्तु आतङ्किदलसमाहरणं कुर्वन्तं प्रत्यभिज्ञाय नाशं कर्तुं प्रयतते सेनया। 
  काश्मीरस्य आतङ्कवादं समापयितुं नूतनमार्गाः अन्विष्यन्ते सेनया। तरुणेभ्यः तेषां कुटुम्बेभ्यः विशेषतया शिक्षां प्रदातुम्  इदानीं सेनया आलोच्यते।

Sunday, June 2, 2019

मोदी सर्वकारस्य प्रथमपरिगणना राज्यसुरक्षायै, जनक्षेम-प्रवर्तनाय च- अमित् षा।

  नव दिल्ली> जनानां योगक्षेमाय तथा राज्य सुरक्षये च मोदिनः सर्वकारः प्रामुख्यं प्रदास्यति इति नूतनः आभ्यन्तरमन्त्री अमित् षा अवदत् ।  तादृश-विषयाणि   प्रवृर्तिपदमानेतुम् प्रयत्नं करिष्‌यामि  इत्यपि सः  अवदत्। टिट्वर् माध्यमेन आसीत् तस्य आशयोक्तिः। आतङ्कवादं विरुद्ध्य प्रक्रमाणाम् आयोजनम्, अनियमेन कृतस्य अधिनिवेशनस्य अन्वेषणं च प्राधान्येन क्रियते इति आभ्यन्तर मन्त्रालयस्य वरिष्ठोद्योगिनः अवदन्|
असमे करीणां संरक्षणाय रेडियो कॉलर् इत्याख्या अभिनवा प्रणालिः समारब्धा
-लता नवदिल्ली
   गुवाहति> असमस्य वनविभागेन तद्विपिनेषु करीणां संरक्षणाय अथ च मानवानां करीणां च मध्ये संघर्षस्थितिं निवारयितुं रेडियो कॉलर इत्याख्या अभिनवा प्रणालिः समारब्धा। राज्यस्य वनमन्त्रिणः परिमलवैद्यस्य पक्षतः अधिगतसूचनानुसारि करिषु रेडियो कॉलर इत्यस्य स्थापनेन अरण्येषु तेषां गतिविधीनाम् अवधानं सारल्येन भवितुमर्हति।
बिहारे मन्त्रिमण्डलविस्तार: 
-पुरुषोत्तमशर्मा, नव दिल्ली।
 पटना> बिहारराज्ये मुख्‍यमन्त्री नीतीशकुमारः अद्य स्वीये मन्त्रिमण्डले विस्‍तारं करिष्यति। राज्यस्य त्रयाणां मन्त्रिणां पदत्यागानन्तरम् इमानि पदानि रिक्‍तानि सञ्जातानि। पदत्रये नूतनविधायकानां मन्त्रित्वेन चयनं सम्भविष्यति। अवधेयमस्ति यत्  अचिरमेव सम्पन्नेषु लोकसभानिर्वाचनेषु विजयानन्तरं राजीवरञ्जनसिंह: पशुपतिकुमारपारसः अथ च दिनेशचन्द्रयादव: स्वपदत्यागं कृतवन्त:।

Saturday, June 1, 2019

यत्र नार्यस्तु पूज्यन्ते- मोदिनः मन्त्रिसभायां षट् वनिताः।
  नवदिल्ली> नारीपूजनस्य प्रमाणत्वेन नरेद्रमोदिनः सर्वकारः। नूतनायां मन्त्रिसभायां षट् वनिता मन्त्रिण्यः अभिषिक्ताः।
   गतवारस्य एन् डि ए सर्वकारस्य प्रधिरोधमन्त्रिणी निर्मलासीताराम-महाभागा, भक्ष्य-सुरक्षा यूणियन् काबिनट् मन्त्रिणी अकालिदलस्य  प्रतिनिधी हरसिम्रत् कौर् बादल्, स्मृति सुबिन् इरानि, भक्ष्य-शोध-विभाग-मन्त्रिणी साध्वी निरञ्जन् ज्योति रेणुका सिह शारुता, बंगालतः दोबा श्री चौधरी च भवन्ति एताः वनिता प्रतिनिधयः।

Friday, May 31, 2019

राष्ट्रियजनतान्त्रिकसंयुत्या: मन्त्रिपरिषद: शपथग्रहणसमारोह:
-पुरुषोत्तमशर्मा, नवदिल्ली
  नवदिल्ली> राष्ट्रियजनतान्त्रिकसंयुते: नेता नरेन्‍द्रमोदी केन्द्रीयमन्त्रिपरिषद: सदस्याश्च गतसायं राष्‍ट्रपतिभवने पदगोपनीयताया: शपथवचनं ग्रहीतवन्त:। अनवरतं द्वितीयवारं प्रधानमन्त्रिपदस्य शपथवचनेन राष्‍ट्रपतिना रामनाथकोविन्देन श्रीमोदी प्रतिज्ञापित:। चतुर्विंशति: संसत्सदस्या: केन्द्रीयमन्त्रित्वेन, नव सदस्या: राज्यमन्त्रिस्वतन्त्रप्रभारत्वेन, चतुर्विंशतिश्च राज्यमन्त्रित्वेन पदगोपनीयताया: शपथवचनै: प्रतिज्ञापयिता:।

  राजधान्यां नवदिल्यां समायोजिते शपथग्रहणसमारोहे बाङ्ग्लादेशस्य राष्ट्रपति: मोहम्मद-अब्दुलहामिद: श्रीलङ्काया: राष्ट्रपति: मैत्रीपाला सिरिसेना किर्गिज्‍स्‍तानस्य राष्‍ट्रपति: सूरोन्‍बे-जीनबेकोफ: म्यामांया: राष्ट्रपति: यू.विनमिण्ट: मॉरिशसराष्ट्रस्य प्रधानमन्त्री प्रविन्‍दकुमारजुगनाथ: नेपालस्य प्रधानमन्त्री के.पी. शर्मा ओली भूटानस्य प्रधानमन्त्री डॉ.लोटेत्शेरिङ्ग: थाईलैण्डस्य विशेषदूत: ग्रिसादा-बूनराचश्चोपस्थिता: आसन्। सममेव बिम्‍सटेक अथ च प्रतिवेशिदेशानां नेतृभिश्च  शपथग्रहणसमारोहे भागो भजित:। भारतेन प्रतिवेशि देशान् प्राथमिकता प्रददतता प्रशासनस्य नीतिमुररीकृत्य बिम्‍स्‍टेकदेशानां नेतार: अपि आमंत्रिता:। वरिष्ठपत्रकार: इंद्राणी बैनर्जी बिम्सटेकदेशानाम नेतृभ्य: आमन्त्रणविषयिणि विदेशनीति: महत्वपूर्णा प्रतिपादिता।

Thursday, May 30, 2019

अत्युष्णेन  दहति चन्द्रापूर्- भूगोले अधिकोष्णः अत्र इति प्रमाणीकृतः।
  मुम्बै> गतदिने भूगोलस्य अत्युष्णप्रदेशः इति दुष्पदे महाराष्ट्रस्य विदर्भ मण्डलस्थ चन्द्रापुरं पतितम्। 47.48°  इत्यासीत् अङ्कितं तापमानम्।  कालिफोर्णिय मरुप्रदेशस्थ 'डेत् वालि' इति प्रदेशस्य आसीत् अत्युष्णयुतप्रदेशेषु प्रथमस्थानम्। मेय् ‌ अष्टादश दिनाङ्के मङ्गलवारे असीत् अत्युष्णः अङ्कितः। प्रदेशेषु उष्णवातप्रवाहः स्यात् इति पूर्व सूचना प्रदत्ता अस्ति।
  गतसप्ताहाभ्यन्तरे  विदर्भायां दशजनाः अत्युष्णेन मारिताः आसन्। गतदशवर्षाभ्यन्तरे भवति उष्णस्य एतादृशं त्वरितवर्धनम्।
प्रधानमन्त्रिणो मोदिनो मन्त्रिपरिषद: सदस्यानाञ्च शपथग्रहणसमारोह:
-पुरुषोत्तमशर्मा, नवदिल्ली
    नवदिल्ली> प्रधानमन्त्रिण: नरेन्द्रमोदिन: शपथग्रहणसमारोहे अद्य नवदिल्ल्यां बाङ्ग्लादेशस्य राष्ट्रपति: मोहम्मद-अब्दुलहामिद: श्रीलङ्काया: राष्ट्रपति: मैत्रीपाला सिरिसेना किर्गिज्‍स्‍तानस्य राष्‍ट्रपति: सूरोन्‍बे-जीनबेकोफ: म्यामांया: राष्ट्रपति: यू.विनमिण्ट: मॉरिशसराष्ट्रस्य प्रधानमन्त्री प्रविन्‍दकुमारजुगनाथ: नेपालस्य प्रधानमन्त्री के.पी. शर्मा ओली भूटानस्य प्रधानमन्त्री डॉ.लोटेत्शेरिङ्ग: थाईलैण्डस्य विशेषदूत: ग्रिसादा-बूनराचश्चोपस्थास्यन्ति।

  बिम्‍सटेक अथ च प्रतिवेशिदेशानां नेतृभिश्च  शपथग्रहणसमारोहे उपस्थातुं पुष्टि: कृतास्ति । अयं प्रधानमन्त्रिण: नरेन्द्रमोदिनो द्वितीय: कार्यकालो वर्तते । विदेशमन्त्रालयस्य प्रवक्ता रवीशकुमार: विवरणमिदं प्रदत्तवान् ।

  राष्ट्रपति: रामनाथकोविन्द: नरेन्‍द्रमोदिने केन्द्रीय मन्त्रिपरिषद: अन्यसदस्येभ्यश्च राष्ट्रपतिभवने सायं सप्तवादने पदगोपनीयताया: शपथवचनै: प्रतिज्ञापयिष्यति। स्रोतोभिस्सूचितं यत्  राज्‍य केमुख्‍यमन्त्रिभ्यो राज्‍यपालेभ्यश्च शपथग्रहणसमारोहस्यामन्त्रणं प्रेषितमस्ति । एतदतिरिच्य कांग्रेसदलाध्‍यक्ष: राहुलगांधी संयुक्तप्रगतिशीलसंयुत्या: अध्‍यक्षा सो‍नियागांधी च अत्रावसरे उपस्थास्यत:।
नवभारताय मोदिनः द्वितीयः 'राजसूयः' अद्य आरभते। 
नवदिल्ली >  नवभारतनिर्माणं वाग्दानं कुर्वत् नरेन्द्रमोदिनः नेतृत्वे एन् डि ए सख्यस्य द्वितीयं मन्त्रिमण्डलं अद्य सायं सप्तवादने सत्यशपथं करोति। राष्ट्रपतिभवनस्य प्राङ्कणे राष्ट्रपतिः रामनाथकोविन्दः प्रधानमन्त्रिणं इतरमन्त्रिणश्च शपथवाक्यं प्रतिज्ञापयिष्यति। भारतस्य २२तमं मन्त्रिमण्डलमेव अद्य शासनायते। 
  गतमन्त्रिसभायां वर्तिताः प्रमुखाः प्रायशः सर्वे अस्यामनुवर्तिष्यते इति सूच्यते। विदेशराष्ट्रनेतारः, पक्ष-विपक्षाणां राजनैतिकदलनेतारश्च कार्यक्रमे$स्मिन् भागभागित्वं करिष्यन्ति।