OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 28, 2019

मिथः विश्वासः आतङ्कवादविरुद्धवातावरणं च शान्तये अनिवार्यम् - इम्रान् खानं प्रति मोदी।
   नवदिल्ली> पाकिस्थानस्य प्रधानमन्त्रिणं इम्रान् खानं प्रति नरेन्द्र मोदी अवदत् यत्‍ मिथः विश्वासः आतङ्कवादविरुद्धवातावरणं च शान्तये साहाय्यवर्धनाय अनिवार्यम् । द्वितीयवारमपि प्रधानमन्त्रिरूपेण चितः इत्यनेन अभिनन्दनवचसा पुरस्कर्तुं इम्रान् खानः मोदिनं आहूतवान्। तस्मिन् समये अभिनन्दनस्य प्रत्युत्तरवद् आसीत् नरेन्द्रमोदिनः इदं भाषणम्। बलाकोट् व्योमाक्रमणानन्तरं संवृत्तं प्रथम संभाषणमासीत् इदम्

Monday, May 27, 2019

लक्षद्वीपं लक्ष्यीकृत्य ऐ एस् भीकराः? शक्तं निरीक्षणमनुवर्तते। 
अनन्तपुरी >  श्रीलङ्कातः नौकामाश्रित्य १५ इस्लामिक् स्टेट् [ऐ एस्] भीकराः लक्षद्वीपं प्रति गच्छन्तः इति सूचनया केरलतीरमभिव्याप्य सर्वत्र शक्तं निरीक्षणमारब्धम्। नाविकसेना, तीरसंरक्षणसेना, तीरदेशारक्षकदलं च निरीक्षणे नेतृत्वमावहन्ति। श्रीलङ्कातः कस्यांचित् श्वेतवर्णयुक्तायां नौकायामेव भीकराः लक्षद्वीपं लक्ष्यीकृत्य सञ्चरन्तीति दक्षसंस्थायाः सूचना।
त्रिपुरदेशे शक्ता वर्षा ७३९ जनाः दुरिताश्वास-शिबिरं प्रेषिताः।
  त्रिपुरम्> त्रिपुरराज्ये अतिवृष्ट्या वातेन च ७३९ जनाः भवनरहिताः अभवत्| एते जनाः दुरिताश्वास-शिबिरं प्रति प्रेषिताः। उत्तर त्रिपुरं, उनक्कोट्टि, धला जनपदेषु  एव अतिवृष्टिः अभवत्। अतिवृष्टिप्रभावेन १०३९ गृहाणि भग्नानि इति आवेदनम् अस्ति। जनाः विविधभागेषु स्थगिताः वर्तन्ते। विद्युत् स्थंभाः वृक्क्षाः  च  वातेन पतिताः। चत्वारिंशत् नौकाः सुरक्षाप्रवर्तनेषु निरताः सन्ति। एन् डि आर् एफ्, त्रिपुर स्टेटे रैफिल्स् च भवतः रक्षाप्रवर्तनस्य कार्यकर्तारौ। अद्यापि सौदामिनी वृष्टिः च शक्तया रीत्या भवितुमर्हतः इति वातावरणनीरीक्षणकेन्द्रेण निगदितम्।

Sunday, May 26, 2019

तेरेसा मेय् प्रधानमन्त्रिपदं त्यजति; नूतनमन्त्री जूलाय् मासे। 
तेरेसा मेय् ब्रिट्टीष् सभायां कण्ठस्तम्भितबाष्पवृत्तिकलुषा जायते। 

 लण्टन् > ब्रक्सिट् विषये पराजयम् अभिमुखीक्रियमाणा ब्रिट्टनस्य प्रधानमन्त्रिणी तेरेसा मेय् स्वस्थानं त्यक्तुं निश्चितवती। ब्रिट्टीष् संसद्सभायां गतशुक्रवासरे जूण् सप्तमदिने सभानेतृस्थानं त्यक्ष्यतीति तया उक्तम्। 
   'यूरोप्यन् यूणियन्' नामकात् राष्ट्रसंघात् ब्रिट्टनं बहिरागन्तुं २०१६ तमे वर्षे तेरेसायाः नेतृत्वे हितपरिशोधना कृता आसीत्। तदर्थं सहयोगः लब्धः। किन्तु यूरोप्यन् यूणियनं प्रति तेरेसया कृतस्य सन्धेः संसदः अङ्गीकारः न लब्धः। तदेव तेरेसा मेय् वर्यायाः स्थानत्यागाय नीतम्।
नरेन्द्रमोदी एन् डि ए लोकसभासङ्घनेता; मन्त्रिसभारूपीकरणाय अधिकारवादः उन्नीतः। 
मोदिनः राष्ट्रपतिना सह सन्दर्शनम्। 
नवदिल्ली >  ह्यः नवदिल्ल्यां केन्द्रीयसंसद्सभामण्डपे सम्पन्ने एन् डि ए सख्यनेतॄणां  मेलने सङ्घनेतृरूपेण नरेन्द्रमोदी ऐककण्ठ्येन चितः। मोदिनः नाम शिरोमणि अकालिदल्  दलाध्यक्षेण प्रकाश् सिंहबादलेन निर्दिष्टम्। नितीष् कुमारः, रांविलास पास्वानः, ई के पलनिस्वामी इत्यादिभिः नेतृभिः सहयोगः कृतः। सर्वैः अङ्गीकृतम्।  
  रात्रौ राष्ट्रपतिं सन्दर्श्य मन्त्रिसभारूपीकरणाय सख्यस्य अधिकारः बोधयति स्म! मोदिनं प्रधानमन्त्रिरूपेण नियुज्य राष्ट्रपतिः मन्त्रिसभारूपीकरणाय आदिशत्। शपथसमारोहः गुरुवासरे सम्पद्स्यते।

Saturday, May 25, 2019

नरेन्द्रमोदिनः शपथ ग्रहणं मेय् त्रिंशत् (३०) दिनाङ्के निश्चितम्। 
    नवदिल्ली> सप्तदश (१७) तमे लोकसभानिर्वाचने भारते सर्वत्र उद्वीजिते  मोदीतरङ्गे प्रवचनानि उल्लङ्ख्य द्विपञ्चाशतधिकत्रिशतं  (३५२) स्थानबलेन राष्ट्रिय जनत्न्त्र सख्यं [एन् डि ए] शासनानुवर्तनं प्राप। उत्तरभारते विपक्षदलैः परिकल्पितः प्रतिरोधदुर्गः नरेन्द्रमोदिनः अश्वमेधस्य पुरतः निष्फलः जातः। वङ्गे ओडीषायां च मोदिनः नेतृत्वे विजयपताकां दृढीकरोति स्म। किन्तु केरले कमलविकासः इति स्वप्नः न फलितः। केरलं विहाय आराष्ट्रं कोण्ग्रसः उन्मूलनाशः अभवत्। अमेठ्यां राहुलगान्धी पराजितः, किन्तु केरलस्थे वयनाट् मण्डले तस्य अत्युज्वलविजयः च अभवत्।

   पक्षसंख्याप्रकारः एवम् - एन् डि ए -द्विपञ्चाशतधिकत्रिशतं (३५२)  बिजेपी - त्रयाधिक त्रिशतं (३०३) शिवसेना - अष्टा दश , जनतादल् (यु) - षोडश १६  एल् जे पी - षट्  , शिरोमणि अकालि दल् - द्वे , अप्नादल्  द्वे- २ , एऐ ए डि एं के - एकं १  अन्ये पञ्च५ ।
यू पि ए - नवदश ९१ [५७] . कोण्ग्रस् - द्विपञ्चा शत् ५२ [४४] , डि एं के - त्रयोविंशति२३ [०], एन् सि पी - पञ्च ५ [६], मुस्लीं लीग् - त्रीणि ३ [२], एन् सि पि त्रीणि - ३ [०], जे एम् एम् - एकम् १ [२], अन्ये पञ्च। ।
प्रधानमन्त्रि रूपेण नरेन्द्रमोदिनः शपथ ग्रहणं मेय् त्रिंशत् (३०) दिनाङ्के निश्चितम् अस्ति।
गुज्रराज्यस्थे वाणिज्यभवनसमुच्चये अग्निप्रकाण्डः - २० छात्राः मृताः। 
भवनसमुच्चये अग्निबाधा। 

 सूरट् >  गुजरात् राज्ये सूरत् नगरस्थे सर्थाणा प्रदेशे विद्यमाने तक्षशिला आर्केड्  नामके भवनसमुच्चये दुरापादितेन अग्निप्रकाण्डेन तत्रस्थाः  छात्रपरिशीलनकेन्द्रीयाः २० कौमारच्छात्राः मृत्युमुपगताः। गतदिने अपराह्ने चतुर्भूमिकात्मकस्य भवनसमुच्चयस्य द्वितीयभूमिके आसीत् अग्निबाधा सञ्जाता। उपरितले वर्तितात् छात्रपरिशीलनकेन्द्रात् छात्राः प्राणरक्षार्थं तदुपरि धाविताः अपि धूमतपादिभिः उपरिष्ठात् अधः कूर्दित्वा तथा तापाग्रस्तेन च छात्राः अपमृत्युमुपगताः।
  अग्निशमनसेनायाः १० एककानि आगत्य रक्षाप्रवर्तनानि अकुर्वन्। भवनसमुच्चयस्य स्वामिनं तथा कार्यकर्तृन् च विरुध्य व्यवहारः कृतः।

Friday, May 24, 2019

लोकसभानिर्वाचनं - केरले यू डि एफ् दलस्य अत्युज्वलविजयः। (१९/२०)    
वामपक्षदलस्य उन्मूलनाशः। कमलं न विकसितम् । 
 कोच्ची >  लोकसभानिर्वाचनस्य मतगणनायाम् अन्तिमविधिः कोण्ग्रस् दलनेतृत्वे विद्यमानस्य यू डि एफ् सख्यस्यानुकूलः। सि पि एम् दलनेतृत्वोपेतस्य वामपक्षजनाधिपत्यसख्यस्य [एल् डि एफ्] शासनपक्षस्य अतिदयनीयः पराजयः। केरलभूमौ कमलविकासाय बि जे पि दलस्य कठिनप्रयत्न अपि विफलो जातः। २० मण्डलेषु १९ सु अपि यू डि एफ् स्थानाशिनः विजयीभूताः। एकस्मिन् मण्डले एल् डि एफ् दलस्य आश्वासजयः। 
  कोण्ग्रस् दलाध्यक्षस्य राहुल् गान्धिनः स्थानाशित्वेन देशीयश्रद्धामावहदासीत् केरलम्। वयनाट् मण्डले राज्यचरितस्य सर्वोत्कृष्टभूयिष्ठसंख्यकेन राहुल् गान्धी विजितः। वामदलस्थानाशिनः ४,३१,७७० मतदानानां भूरिसंख्या। फलप्रवचनेन विजयप्रतीक्षामापन्ने तिरुवनंतपुरं मण्डले बिजेपी स्थानाशी कुम्मनं राजशेखरः द्वितीयस्थानेन तृप्तः अभवत्। तत्र शशि तरूरः [कोण्ग्रस्] विजितवान्। कठिनया त्रिकोणप्रतियोगितया भाजपादलस्य विजयप्रतीक्षया   सविशेषश्रद्धामापादितेषु मण्डलान्तरेषु तृतीयस्थानमगच्छन् बि जे पी स्थानाशिनः।
मोदी अजय्यः , राष्ट्रशासनाय पुनरपि एन् डि ए ; कमलोद्यानं विस्तृतम्।
एन् डि ए - ३५२ । भाजपादलस्यैकस्यैव शासनाधिकारसंख्या - ३०३ । केरलं विहाय आराष्ट्रं कोण्ग्रसः उन्मूलनाशः। अमेठ्यां राहुलगान्धी पराजितः, वयनाटे अत्युज्वलविजयः।
नवदिल्ली >  १७ तमे लोकसभानिर्वाचने भारते सर्वत्र उद्वीजिते  मोदीतरङ्गे प्रवचनानि उल्लङ्ख्य ३५२ स्थानबलेन देशीय जनायत्त सख्यं [एन् डि ए] शासनानुवर्तनं प्राप। उत्तरभारते विपक्षदलैः परिकल्पितः प्रतिरोधदुर्गः नरेन्द्रमोदिनः अश्वमेधस्य पुरतः निष्फलः जातः। वङ्गे ओडीषायां च मोदिनः नेतृत्वे विजयपताकां दृढीकरोति स्म। किन्तु केरले कमलविकासः इति स्वप्नः न फलितः।

   पक्षसंख्याप्रकारः एवम् - कोष्ठके २०१४ पक्षसंख्याक्रमः।

एन् डि ए - ३५२ [३३९] बिजेपी - ३०३ [२८२], शिवसेना - १८ [१८], जनतादल् (यु) - १६ [२], एल् जे पी - ६ [६], शि. अका.दल् - २ [४], अप्नादल् - २ [२], एऐ ए डि एं के - १ [३७], अन्ये ५ [०]।
यू पि ए - ९१ [५७] . कोण्ग्रस् - ५२ [४४] , डि एं के - २३ [०], एन् सि पी - ५ [६], मुस्लीं लीग् - ३ [२], एन् सि - ३ [०], जे एम् एम् - १ [२], अन्ये ४ [३]।

Thursday, May 23, 2019

लोकसभानिर्वाचनं - मतगणना अनुवर्तते। राष्ट्रे पुनरपि मोदीशासनम्।
 नवदिल्ली > जनहितं मोदीशासनेन सहेति मतगणनासूचना। मतगणनाफलं बहिरागतेषु ५४२ मण्डलेषु भाजपादलनेतृत्वे विद्यमानं एन् डि ए सख्यं ३३७ मण्डलेषु अग्रे गच्छति। कोण्ग्रस्दलस्य नेतृत्वमापद्यमानं यू पि ए सख्यं ९० मण्डलेषु पुरोगच्छति। 
  दक्षिणभारतं विहाय आराष्ट्रं नरेन्द्रमोदिप्रभावः द्रष्टुं शक्यते। दक्षिणभारते कर्णाटके बि जे पि प्रभावः अस्ति। केरले तु कोण्ग्रस् नेतृत्वे विद्यमानं यू डिएफ् दलं असाधारणं प्रभावं प्रदर्शयति। २० मण्डलेषु १९ मण्डलेष्वपि यू डि एफ् स्थानाशिनः अग्रे गच्छन्ति।
मतदानगणना अद्य ; राज्यानां कृते जाग्रतानिर्देशः।  
 नवदिल्ली >  लोकसभानिर्वाचनस्य जनविधिः कीदृश इति अद्य मध्याह्नेन ज्ञातुं शक्यते। मतगणना प्रभाते अष्टवादने अारभ्यते। प्रारम्भफलसूचनाः उपनववादनेन लभ्यते।
  तथा च राष्ट्रस्य विविधराज्येषु सङ्घर्षसाध्यता वर्तते इत्यतः अतावजाग्रता परिपालनीया इति केन्द्रगृहमन्त्रालयेन  निर्देशः कृतः। राज्यानां मुख्यकार्यकर्तारं तथा आरक्षकाधिकारिणं च एतदधिकृत्य निर्देशः कृतः इति मन्त्रालयाधिकृतैरुक्तम्।

Wednesday, May 22, 2019

६०० कोटि रूप्यकाणाम् उन्मादक-वस्तुना सह पाकिस्थानस्य मत्स्यबन्धननौका ग्रहीता। 
   मुम्बै> भारतस्य तीरसुरक्षादलेन ६०० कोटि रूप्यकाणाम् उन्मादक वस्तुना सह पाकिस्थानस्य मस्यबन्धननौका ग्रहीता। २०० किलो हेरोयिन् इति उन्मादक-वस्तुना सह अल्-मदीना इति पाकिस्थाननौका एव ग्रहीता। तस्यां विद्यमानाः जनाः प्रश्न-विचारणाय नियन्त्रणे स्थापिताः  इति तीर-सुरक्षा-दलस्य अधिनिर्देशकः अवदत्। गुर्जरदेशस्य तीरभागतः एव नौका ग्रहीता। पाकिस्थाननौकायाः उन्मादक-वस्तुनि समाहर्तुम्  भारतस्य मत्स्य-बन्धननौकायाम् आगताः त्रयोदश (१३) जनाः अपि सुरक्षादलेन ग्रहीताः।

Tuesday, May 21, 2019

लोकसभानिर्वाचनं सम्पूर्णम् - अन्तिमसोपाने व्यापकः अक्रमः, एको हतः। 
नवदिल्ली >  भारते १७ तमं लोकसभानिर्वाचनं समाप्तम्। रविवासरे सम्पन्ने अन्तिमसोपाने वङ्ग-पञ्चाब-उत्तरप्रदेशराज्येषु अतिक्रमघटनाः सम्पन्नाः। पञ्चाबे कोण्ग्रस् - शिरोमणि अकालिदल् दलयोः सम्घट्टने एकः हतः।  वङ्गे बि जे पी- तृणमूल् दलानुयायिनां संघट्टनं जातम्। 
  अन्तिमसोपाने ६३.९८% मतदानं कृतम्! मतगणना २३ तमदिनाङ्के भविष्यति!

Monday, May 20, 2019

अन्तमानद्वीपसमूहे वर्षा समारब्धा।  
Photo: Zee News
   नवदिल्ली> दक्षिणपश्चिम वर्षाकालः अन्तमान् निक्कोबार् द्वीपसमूहे समारब्धः इति वातावरणनिरीक्षण केन्द्रेण निगदितम्।  जूण् मासस्य षष्टदिनाङ्गे  वर्षा केरलराज्यं प्राप्स्यते। ग्रीष्मकालस्य वृष्टिपाते आराष्ट्रं प्रतिशतं द्वाविंशति भागस्य न्यूनता आसीत्। मार्च् मासतः मेय् पञ्चदश पर्यन्तं उपाशीति (७५.९) मिल्ली मात्रा (मिलितमात्रा - Millimetre) आसीत् वृष्टिमानम्। सामान्यतया षण्णवति दशांशम् अष्ट (९६.८) मिलितमात्रा आसीत्‌ पूर्वकालवृष्टिपातः। कार्षिकमण्डलस्य भविष्यकालोत्पादने ग्रीष्मकालीनवृष्टिपातस्य न्यूनता  बाधा भविष्यति।  

Sunday, May 19, 2019

शैक्षिकयोजनापरिष्करणाय एन् सि ई आर् टी। 
नवदिल्ली > राष्ट्रिय शैक्षिकपरियोजनायाः परिप्रेक्ष्यपरिष्करणार्थं देशीय शैक्षिकपरिशीलन अनुसन्धानसमित्या [एन् सि ई आर् टी] निश्चितम्। १४ संवत्सरेभ्यः परमेव एतादृशं परिष्करणम्। तदर्थं प्रारम्भपदक्षेपाः आरब्धा इति एन् सि ई आर् टी संस्थायाः निदेशकः  हृषीकेश् सेनापतिः अब्रवीत्। 
   छात्राः, अध्यापकाः, रक्षितारः इत्यादिभ्यः विविधेभ्यः मण्डलेभ्यः ७२,००० जनेभ्यः लक्षाधिकाः निर्देशाः समाहृताः।   नूतनीं समितिं  रूपीकृत्य निर्देशानां विशकलनं कृत्वा परिष्कारः करिष्यते। एतदर्थं एकसंवत्सरम् आवश्यकम्। 
  अध्यापनस्य उत्कृष्टतां वर्धयितुमेवास्य लक्ष्यः। संवत्सरान्ते ४२ लक्षमध्यापकानां कृते परिशीलनं दातुं संस्थायाः परियोजना अस्ति।
'गल्फ्' राष्ट्रेषु अमेरिक्केन सैनिकाः विन्यस्यन्ते|
   मनाम > पश्चिमेष्यप्रदेशस्य सङ्घर्षस्य पृष्टभूमौ 'गल्फ्' राष्ट्रेषु अरब् गल्फ् सागरमण्डलेषु च अमेरिक्केन सैनिकाः विन्यस्यन्ते| इरानतः सम्भव्यमानानि आक्रमणानि रोद्धुं सैनिकान् विन्यस्तुम् अनुज्ञायै अमेरिक्केन कृता प्रार्थना गल्फ् राष्ट्रैः अङ्गीकृता इत्यस्ति नूतनम् आवेदनम्। उभयपक्ष सन्ध्यनुसारेण भवति अनुज्ञा इत्यस्ति आवेदने।  इरानतः प्रादिवेशिक-राष्ट्रान् वा मण्डलेषु अमेरिक्कस्य हितान् वा विरुद्ध्य आक्रमणानि सैनिकभीषाः च भवन्ति चेत्  मिलित्वा प्रतिरोद्धुम् उद्‌दिश्यते अनया सन्धिना। तैलेन्धनवितरणं सुरक्षितं कर्तुं समुद्रगतागतस्य विघ्नकरणात् इरानं निवारयितुं च अनेन प्रक्रमेण शक्यते इति 'शर्ख् उल् औस्त्' इति पत्रिकया आवेदितम्।

Saturday, May 18, 2019

जनायत्तशासनार्थम् अन्तिमो विधिः श्वः। 
नवदिल्ली >  भारतस्य जनायत्तशासनस्य अनन्तरसोपानाय रजनैतिकदलैः मासद्वयाधिकं यावदनुवर्तमानस्य जनहिताहवस्य श्वः परिसमाप्तिः। लोकसभानिर्वाचनस्य सप्तमं तथा अन्तिमं सोपानं रविवासरे सम्पद्यते। सप्तसु राज्येषु एकस्मिन् केन्द्रशासनप्रदेशे च ५९ मण्डलानां जनविधिरेव श्वः प्रचलिष्यति। 
  पञ्चाबे १३, उत्तरप्रदेशे १३, वङ्गे  ९, बीहारे ८, मध्यप्रदेशे ८, हिमाचले ४, झार्खण्डे ३, चण्डीगढे १ इत्येवं सन्ति निर्वाचनाय अवशिष्टानि मण्डलानि। प्रधानमन्त्रिणः नरेन्द्रमोदिनः स्थानाशित्वेन सविशिष्टं वाराणसी भवति एतेषु तारमण्डलम्।
ममतायै हताशा- राजीवकुमारस्य ग्रहणं विरुद्ध्यादेशः प्रतिनिवर्तितः।
    नवदिल्ली> शारदा 'चिट्स्' अलीकव्यवहारानुबन्धतया कोल्कात्ता भूतपूर्व कम्मीषणर् राजीवकुमारः बन्धितः भविष्यति। तस्य ग्रहणे पूर्वकृत-निवारणादेशः न्यायालयेन प्रतिनिवर्तः। सप्ताहानन्तरं व्यवहारप्रक्रमान् अनुसृत्य पुरतो गन्तुं सि बि ऐ संस्थायै अनुज्ञा प्रदत्ता। राजीवकुमारं  स्वाधीने पालयितुं सि बि ऐ दलेन सर्वोच्च न्यायालये  याचिकां  दत्तम् आसीत्I एषः राजीवकुमारः व्यवहारस्य अपराधसंबन्धितानि प्रमाणानि नाशं कृतवान्  अन्वेषणाय सः सहयोगः न ददाति इत्यस्ति सि बि ऐ संस्थायाः उपक्षेपः। बंगाल् मुख्यमन्त्रिणी ममता बानर्जी इत्यस्याः  समीपवर्ती भवति राजीवकुमारः। अतः तं प्रश्नविचारणां कर्तुं आरक्षकनियन्त्रणे स्थापयितुं सि बि ऐ कृते बाधा आसीत्| फेब्रुवरि ५ पर्यन्तं तं आरक्षकनियन्त्रणे स्थापयितुं  सर्वोच्च न्यायालयस्य बाधा आसीत् । सा इदानीं व्यस्था अभवत्। 
    'शारदा धनकार्य' प्रकरणे  अन्वेषणस्य उत्तरदायी आसीत् एषः। किन्तु सः अलीकस्य प्रमाणानां  नाशम् अकरोत्‌। सङ्गणकयन्त्राण्यपि स अपराधसंबन्धिनां प्रमाणानां नाशं कृतवान् इति सि बि ऐ संस्थया सर्वोच्चन्यायालये निवेदितम्।