OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 24, 2019

मोदी अजय्यः , राष्ट्रशासनाय पुनरपि एन् डि ए ; कमलोद्यानं विस्तृतम्।
एन् डि ए - ३५२ । भाजपादलस्यैकस्यैव शासनाधिकारसंख्या - ३०३ । केरलं विहाय आराष्ट्रं कोण्ग्रसः उन्मूलनाशः। अमेठ्यां राहुलगान्धी पराजितः, वयनाटे अत्युज्वलविजयः।
नवदिल्ली >  १७ तमे लोकसभानिर्वाचने भारते सर्वत्र उद्वीजिते  मोदीतरङ्गे प्रवचनानि उल्लङ्ख्य ३५२ स्थानबलेन देशीय जनायत्त सख्यं [एन् डि ए] शासनानुवर्तनं प्राप। उत्तरभारते विपक्षदलैः परिकल्पितः प्रतिरोधदुर्गः नरेन्द्रमोदिनः अश्वमेधस्य पुरतः निष्फलः जातः। वङ्गे ओडीषायां च मोदिनः नेतृत्वे विजयपताकां दृढीकरोति स्म। किन्तु केरले कमलविकासः इति स्वप्नः न फलितः।

   पक्षसंख्याप्रकारः एवम् - कोष्ठके २०१४ पक्षसंख्याक्रमः।

एन् डि ए - ३५२ [३३९] बिजेपी - ३०३ [२८२], शिवसेना - १८ [१८], जनतादल् (यु) - १६ [२], एल् जे पी - ६ [६], शि. अका.दल् - २ [४], अप्नादल् - २ [२], एऐ ए डि एं के - १ [३७], अन्ये ५ [०]।
यू पि ए - ९१ [५७] . कोण्ग्रस् - ५२ [४४] , डि एं के - २३ [०], एन् सि पी - ५ [६], मुस्लीं लीग् - ३ [२], एन् सि - ३ [०], जे एम् एम् - १ [२], अन्ये ४ [३]।

Thursday, May 23, 2019

लोकसभानिर्वाचनं - मतगणना अनुवर्तते। राष्ट्रे पुनरपि मोदीशासनम्।
 नवदिल्ली > जनहितं मोदीशासनेन सहेति मतगणनासूचना। मतगणनाफलं बहिरागतेषु ५४२ मण्डलेषु भाजपादलनेतृत्वे विद्यमानं एन् डि ए सख्यं ३३७ मण्डलेषु अग्रे गच्छति। कोण्ग्रस्दलस्य नेतृत्वमापद्यमानं यू पि ए सख्यं ९० मण्डलेषु पुरोगच्छति। 
  दक्षिणभारतं विहाय आराष्ट्रं नरेन्द्रमोदिप्रभावः द्रष्टुं शक्यते। दक्षिणभारते कर्णाटके बि जे पि प्रभावः अस्ति। केरले तु कोण्ग्रस् नेतृत्वे विद्यमानं यू डिएफ् दलं असाधारणं प्रभावं प्रदर्शयति। २० मण्डलेषु १९ मण्डलेष्वपि यू डि एफ् स्थानाशिनः अग्रे गच्छन्ति।
मतदानगणना अद्य ; राज्यानां कृते जाग्रतानिर्देशः।  
 नवदिल्ली >  लोकसभानिर्वाचनस्य जनविधिः कीदृश इति अद्य मध्याह्नेन ज्ञातुं शक्यते। मतगणना प्रभाते अष्टवादने अारभ्यते। प्रारम्भफलसूचनाः उपनववादनेन लभ्यते।
  तथा च राष्ट्रस्य विविधराज्येषु सङ्घर्षसाध्यता वर्तते इत्यतः अतावजाग्रता परिपालनीया इति केन्द्रगृहमन्त्रालयेन  निर्देशः कृतः। राज्यानां मुख्यकार्यकर्तारं तथा आरक्षकाधिकारिणं च एतदधिकृत्य निर्देशः कृतः इति मन्त्रालयाधिकृतैरुक्तम्।

Wednesday, May 22, 2019

६०० कोटि रूप्यकाणाम् उन्मादक-वस्तुना सह पाकिस्थानस्य मत्स्यबन्धननौका ग्रहीता। 
   मुम्बै> भारतस्य तीरसुरक्षादलेन ६०० कोटि रूप्यकाणाम् उन्मादक वस्तुना सह पाकिस्थानस्य मस्यबन्धननौका ग्रहीता। २०० किलो हेरोयिन् इति उन्मादक-वस्तुना सह अल्-मदीना इति पाकिस्थाननौका एव ग्रहीता। तस्यां विद्यमानाः जनाः प्रश्न-विचारणाय नियन्त्रणे स्थापिताः  इति तीर-सुरक्षा-दलस्य अधिनिर्देशकः अवदत्। गुर्जरदेशस्य तीरभागतः एव नौका ग्रहीता। पाकिस्थाननौकायाः उन्मादक-वस्तुनि समाहर्तुम्  भारतस्य मत्स्य-बन्धननौकायाम् आगताः त्रयोदश (१३) जनाः अपि सुरक्षादलेन ग्रहीताः।

Tuesday, May 21, 2019

लोकसभानिर्वाचनं सम्पूर्णम् - अन्तिमसोपाने व्यापकः अक्रमः, एको हतः। 
नवदिल्ली >  भारते १७ तमं लोकसभानिर्वाचनं समाप्तम्। रविवासरे सम्पन्ने अन्तिमसोपाने वङ्ग-पञ्चाब-उत्तरप्रदेशराज्येषु अतिक्रमघटनाः सम्पन्नाः। पञ्चाबे कोण्ग्रस् - शिरोमणि अकालिदल् दलयोः सम्घट्टने एकः हतः।  वङ्गे बि जे पी- तृणमूल् दलानुयायिनां संघट्टनं जातम्। 
  अन्तिमसोपाने ६३.९८% मतदानं कृतम्! मतगणना २३ तमदिनाङ्के भविष्यति!

Monday, May 20, 2019

अन्तमानद्वीपसमूहे वर्षा समारब्धा।  
Photo: Zee News
   नवदिल्ली> दक्षिणपश्चिम वर्षाकालः अन्तमान् निक्कोबार् द्वीपसमूहे समारब्धः इति वातावरणनिरीक्षण केन्द्रेण निगदितम्।  जूण् मासस्य षष्टदिनाङ्गे  वर्षा केरलराज्यं प्राप्स्यते। ग्रीष्मकालस्य वृष्टिपाते आराष्ट्रं प्रतिशतं द्वाविंशति भागस्य न्यूनता आसीत्। मार्च् मासतः मेय् पञ्चदश पर्यन्तं उपाशीति (७५.९) मिल्ली मात्रा (मिलितमात्रा - Millimetre) आसीत् वृष्टिमानम्। सामान्यतया षण्णवति दशांशम् अष्ट (९६.८) मिलितमात्रा आसीत्‌ पूर्वकालवृष्टिपातः। कार्षिकमण्डलस्य भविष्यकालोत्पादने ग्रीष्मकालीनवृष्टिपातस्य न्यूनता  बाधा भविष्यति।  

Sunday, May 19, 2019

शैक्षिकयोजनापरिष्करणाय एन् सि ई आर् टी। 
नवदिल्ली > राष्ट्रिय शैक्षिकपरियोजनायाः परिप्रेक्ष्यपरिष्करणार्थं देशीय शैक्षिकपरिशीलन अनुसन्धानसमित्या [एन् सि ई आर् टी] निश्चितम्। १४ संवत्सरेभ्यः परमेव एतादृशं परिष्करणम्। तदर्थं प्रारम्भपदक्षेपाः आरब्धा इति एन् सि ई आर् टी संस्थायाः निदेशकः  हृषीकेश् सेनापतिः अब्रवीत्। 
   छात्राः, अध्यापकाः, रक्षितारः इत्यादिभ्यः विविधेभ्यः मण्डलेभ्यः ७२,००० जनेभ्यः लक्षाधिकाः निर्देशाः समाहृताः।   नूतनीं समितिं  रूपीकृत्य निर्देशानां विशकलनं कृत्वा परिष्कारः करिष्यते। एतदर्थं एकसंवत्सरम् आवश्यकम्। 
  अध्यापनस्य उत्कृष्टतां वर्धयितुमेवास्य लक्ष्यः। संवत्सरान्ते ४२ लक्षमध्यापकानां कृते परिशीलनं दातुं संस्थायाः परियोजना अस्ति।
'गल्फ्' राष्ट्रेषु अमेरिक्केन सैनिकाः विन्यस्यन्ते|
   मनाम > पश्चिमेष्यप्रदेशस्य सङ्घर्षस्य पृष्टभूमौ 'गल्फ्' राष्ट्रेषु अरब् गल्फ् सागरमण्डलेषु च अमेरिक्केन सैनिकाः विन्यस्यन्ते| इरानतः सम्भव्यमानानि आक्रमणानि रोद्धुं सैनिकान् विन्यस्तुम् अनुज्ञायै अमेरिक्केन कृता प्रार्थना गल्फ् राष्ट्रैः अङ्गीकृता इत्यस्ति नूतनम् आवेदनम्। उभयपक्ष सन्ध्यनुसारेण भवति अनुज्ञा इत्यस्ति आवेदने।  इरानतः प्रादिवेशिक-राष्ट्रान् वा मण्डलेषु अमेरिक्कस्य हितान् वा विरुद्ध्य आक्रमणानि सैनिकभीषाः च भवन्ति चेत्  मिलित्वा प्रतिरोद्धुम् उद्‌दिश्यते अनया सन्धिना। तैलेन्धनवितरणं सुरक्षितं कर्तुं समुद्रगतागतस्य विघ्नकरणात् इरानं निवारयितुं च अनेन प्रक्रमेण शक्यते इति 'शर्ख् उल् औस्त्' इति पत्रिकया आवेदितम्।

Saturday, May 18, 2019

जनायत्तशासनार्थम् अन्तिमो विधिः श्वः। 
नवदिल्ली >  भारतस्य जनायत्तशासनस्य अनन्तरसोपानाय रजनैतिकदलैः मासद्वयाधिकं यावदनुवर्तमानस्य जनहिताहवस्य श्वः परिसमाप्तिः। लोकसभानिर्वाचनस्य सप्तमं तथा अन्तिमं सोपानं रविवासरे सम्पद्यते। सप्तसु राज्येषु एकस्मिन् केन्द्रशासनप्रदेशे च ५९ मण्डलानां जनविधिरेव श्वः प्रचलिष्यति। 
  पञ्चाबे १३, उत्तरप्रदेशे १३, वङ्गे  ९, बीहारे ८, मध्यप्रदेशे ८, हिमाचले ४, झार्खण्डे ३, चण्डीगढे १ इत्येवं सन्ति निर्वाचनाय अवशिष्टानि मण्डलानि। प्रधानमन्त्रिणः नरेन्द्रमोदिनः स्थानाशित्वेन सविशिष्टं वाराणसी भवति एतेषु तारमण्डलम्।
ममतायै हताशा- राजीवकुमारस्य ग्रहणं विरुद्ध्यादेशः प्रतिनिवर्तितः।
    नवदिल्ली> शारदा 'चिट्स्' अलीकव्यवहारानुबन्धतया कोल्कात्ता भूतपूर्व कम्मीषणर् राजीवकुमारः बन्धितः भविष्यति। तस्य ग्रहणे पूर्वकृत-निवारणादेशः न्यायालयेन प्रतिनिवर्तः। सप्ताहानन्तरं व्यवहारप्रक्रमान् अनुसृत्य पुरतो गन्तुं सि बि ऐ संस्थायै अनुज्ञा प्रदत्ता। राजीवकुमारं  स्वाधीने पालयितुं सि बि ऐ दलेन सर्वोच्च न्यायालये  याचिकां  दत्तम् आसीत्I एषः राजीवकुमारः व्यवहारस्य अपराधसंबन्धितानि प्रमाणानि नाशं कृतवान्  अन्वेषणाय सः सहयोगः न ददाति इत्यस्ति सि बि ऐ संस्थायाः उपक्षेपः। बंगाल् मुख्यमन्त्रिणी ममता बानर्जी इत्यस्याः  समीपवर्ती भवति राजीवकुमारः। अतः तं प्रश्नविचारणां कर्तुं आरक्षकनियन्त्रणे स्थापयितुं सि बि ऐ कृते बाधा आसीत्| फेब्रुवरि ५ पर्यन्तं तं आरक्षकनियन्त्रणे स्थापयितुं  सर्वोच्च न्यायालयस्य बाधा आसीत् । सा इदानीं व्यस्था अभवत्। 
    'शारदा धनकार्य' प्रकरणे  अन्वेषणस्य उत्तरदायी आसीत् एषः। किन्तु सः अलीकस्य प्रमाणानां  नाशम् अकरोत्‌। सङ्गणकयन्त्राण्यपि स अपराधसंबन्धिनां प्रमाणानां नाशं कृतवान् इति सि बि ऐ संस्थया सर्वोच्चन्यायालये निवेदितम्।

Friday, May 17, 2019

केरले चतुर्षु छाद्मिकमतदानमण्डपेषु पुनरपि मतदानम्। 
 अनन्तपुरी >  केरले यत्र यत्र छाद्मिकमतदानं प्रमाणीकृतं तादृशेषु चतुर्षु मतदानमण्डपेषु पुनरपि मतदानप्रक्रियां कर्तुं केन्द्रनिर्वाचनायोगेन आदिष्टम्। कासर्गोड् लोकसभामण्डलस्थेषु कल्याश्शेरि विधानसभामण्डलस्य  १९  , ६९, ७० तमेषु मण्डपेषु कण्णूर् लोकसभामण्डलस्थे तलिप्परम्प् विधानसभामण्डलस्य १६६तमे मतदानमण्डपे च रविवासरे पुनर्मतदानप्रक्रिया संपत्स्यते। केरले पूर्वकालेषु व्याजमतदानारोपाः अभवन्नपि पुनर्मतदानं प्रप्रथममेव। 
  एकदिनात्मकघोषप्रचारणाय अनुमतिः दत्ता। स्थानाशिनः गृहसन्दर्शनं कृत्वा प्रचरणाय नेतृत्वं वहन्ति।
वङ्गराज्ये घोषप्रचारणम् दिनैकस्मात् पूर्वमेव समापितम् ; निर्वाचनं रविवासरे। 
 निर्वाचनायोगस्य असाधारणः पदक्षेपः। तृणमूल-भाजपासङ्घर्षः हेतुः। 
कोल्कोत्ता >  पश्चिमवङ्गराज्ये अनुस्यूतमनुवर्तमानस्य राजनैतिकसंघट्टनस्य परस्पराक्रमणस्य च आधारे तत्र प्रचाल्यमानस्य निर्वाचनघोषप्रचारणम् आयोगस्य आदेशेन ह्यः समाप्तम्। नो चेत् अद्य समापितव्यमासीत्। वंगे सप्तमे तथा अन्तिमे सोपाने ९ मण्डलेषु रविवासरे निर्वाचनं सम्पत्स्यते। 
   कोल्कोत्तायां मङ्गलवासरे सम्पन्नायां भाजपाध्यक्षस्य वीथीप्रदर्शनवेलायां भाजपा-तृणमूल् अनुयायिनां सङ्घर्षः जातः। तदा सामाजिकपरिष्कर्तुः तथा तत्त्वचिन्तकस्य ईश्वरचन्द्रविद्यासागरस्य प्रतिमा भञ्जिता। तदनुबन्ध्य राज्ये सर्वत्र सङ्घर्षः सञ्जातः। अत एव राष्ट्रनीतिशासनस्य ३२४तम विभागस्य आधारे घोषप्रचारणणं एकदिनात् पूर्वमेव समापयितव्यमिति आयोगस्य अपूर्वः व्यवहारः। 
  तदनन्तरं तृणमूल - भा ज पादयः राजनैतिकदलाः परस्परारोपप्रत्यारोपेषु संलग्नाः भवन्ति।
अन्तर्जालेन वित्तकोश चोरणम् - विविधदेशीयाः ग्रहीताः।
    यू एस्> विविधराष्ट्रस्थाः दश जनाः अन्तर्जालवित्तकोशचोरणेन ग्रहीताः अभवन्I यू.एस् राष्ट्रस्य पिट्स्बर्ग् देशात् भवति एतेषां ग्रहणम्।  वित्तचोरणम्, अलीकधनस्य संशोधताकरणम् च भवति तैः अनुष्ठितं दुष्कर्म। 'गोस्निं माल्वेयर् वैरस्' इति अन्तर्जालीय कुकर्मणा ७०० कोटि  रूप्यकाणि अनेन दुःष्कर्मदलेन ग्रहीतानि इत्यस्ति दोषारोपः।  कुकर्म दलीयेषु पञ्चजनाः रष्याराष्ट्रस्थाः। ते निलीनाः। प्रकरणानन्तरं यू. एस्, ब्लजेरिय, जर्मनी, जोर्जिय, मोल्डोव, उक्रैन् राष्ट्राणाम् आरक्षकाः मिलित्वा  अन्वेणम् आरब्धम्।

Thursday, May 16, 2019

सर्वोच्चन्यायालयस्य भूतपूर्व न्यायाधिपः मदनलोकुरः फिजिराष्ट्रस्य न्यायाधिपपदे नियुक्तः
    नवदिल्ली> भारतस्य सर्वोच्च न्यायालयस्य भूतपूर्व न्यायाधिपः मदनभीम लोकुरः फिजिराष्ट्रस्य न्यायाधिपपदे नियुक्तः अभवत्। संवत्सरत्रयं यावत् भवति नियुक्तिः। भारतीयन्यायाधिपस्य नियुक्तिः फिजिराष्ट्रे ऐदं प्राथम्येन भवति।
    बहवः भारतीयाः भारतवंशजाः च सन्ति फिजि राष्ट्रे। पसफिक् समुद्रे भवति फिजि। दीप समूहराष्ट्रम् भवति फिजि इति अस्य राष्ट्रस्य विशेषता।

Wednesday, May 15, 2019

सौदीराष्ट्रस्य तैलोद्गमननिलयं प्रति ड्रोण् इति विमानेन आक्रमणम्।
   रियाद्‌> सौदी अरेब्यस्य द्वौ तैलोद्गमननिलयं प्रतितैलोद्गमन निलयं प्रति ड्रोण् इति विमानेन आक्रमणम् कृतम्। मंगलवासरे प्रभाते ६-६:४० आसीत्, पूर्वपश्चिम तैलनालिका पथस्य उद्गामननिलयं प्रति आक्रमणम् अभवत्I आतङ्कवादिना आक्रमणम् कृतम् इति सौदीराष्ट्रस्य उूर्जविभागमन्त्री खालिद् अल् फालिह् अवदत्। 
   आक्रमणेन अग्निबाधा जाता। चेदपि अग्निः नियन्त्रणाधीनः वर्तते। इरानस्य साहाय्येन यमनस्य आतङ्कवादिभिः क्रियमाणानि आक्रमणानि निवारणीयानि इत्यपि सः अवदत्l

Tuesday, May 14, 2019

छत्तीस्गडस्य मावोवादि मण्डलेषु वनिताऽऽरक्षकसेना विन्यस्था। 

     राय्पुर्> छत्तीस्गडस्य बस्तर् दन्तेवादप्रदेशेषु प्रथमा मावोवादि विरुद्धसेना विन्यस्था।  दन्तेश्वरी फैट्टेर्स् इति नूतनगणे ३० वनिता सैनिकाः सन्ति। सेनायाः नेता डेप्यूट्टि सुप्‌रन्डन्ट् दिनेश्वरी नन्दा महाभागायै भवति । सेनाङगेषु पञ्चजनाः मावोवादि प्रवर्तनानि परित्यज्य आगताः इति  प्राधान्यम् अस्ति। बस्तर् वनप्रदेशेषु वर्तिष्यमाणं मावो वादिनम् अधिकृत्य एताः अभिज्ञाः इति कारणेन तान् विरुद्ध्य सक्षमतया  प्रवर्तयितुम् शक्यते  इति विश्वासः अस्ति। अत्याधुनिकोपकरणानां प्रयोगे एताः कुशलतां प्राप्तवत्यः।

Monday, May 13, 2019

व्योमसेनायै शक्तिं प्रदातुम् अप्पाषे उदग्रयानम्।
    नवदिल्ली> व्योमसेनायै शक्तिं प्रदातुम् अप्पाषे गार्डियन् अट्टाक् इति आधुनिकम् उदग्रयानं सज्जम् अभवत्। अमेरिक्क राष्ट्रे अरिसोणदेशे प्रथमयानस्य हस्तान्तरम् अभवत् । भारतस्य व्योमसेनायाः एयर् मार्षल् ए. एस् बतोलियेन प्रथमम् उदग्रयानं  स्वीकृतम्।
   'अप्पाषे ६४इ', रात्रौ दिने च आक्रमितुं शक्तः। प्रतिकूलवातावरणेऽपि भूमौ वा आकाशे वा वर्तिष्यमाणान् लक्ष्यान् भञ्जयितुं शक्यते । रात्रिदृष्टिः संवेदनक्षमता ५० किलोमीट्टर् पर्यन्तम् आक्रमणक्षमता च अस्य विशेषता भवति। अस्य वेगः २७९ किलोमीट्टर् पर्यन्तमस्ति।

Sunday, May 12, 2019

मातृदिनम्
मातृदिवसे
*********
या गर्भे मम जीवनं धृतवती प्राप्यातिपीडां भृशं
या मे लालनपालने दृढमना विस्मृत्य नैजं सुखम्।
यस्या नेत्रयुगाद् वहत्यविरतं धारा व्यथायां च मे
पूज्या सा क्व गता स्मरामि चरणौ तस्या दिनेस्मिन् मुहुः।।
(व्रजकिशोरः)