OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 17, 2019

केरले चतुर्षु छाद्मिकमतदानमण्डपेषु पुनरपि मतदानम्। 
 अनन्तपुरी >  केरले यत्र यत्र छाद्मिकमतदानं प्रमाणीकृतं तादृशेषु चतुर्षु मतदानमण्डपेषु पुनरपि मतदानप्रक्रियां कर्तुं केन्द्रनिर्वाचनायोगेन आदिष्टम्। कासर्गोड् लोकसभामण्डलस्थेषु कल्याश्शेरि विधानसभामण्डलस्य  १९  , ६९, ७० तमेषु मण्डपेषु कण्णूर् लोकसभामण्डलस्थे तलिप्परम्प् विधानसभामण्डलस्य १६६तमे मतदानमण्डपे च रविवासरे पुनर्मतदानप्रक्रिया संपत्स्यते। केरले पूर्वकालेषु व्याजमतदानारोपाः अभवन्नपि पुनर्मतदानं प्रप्रथममेव। 
  एकदिनात्मकघोषप्रचारणाय अनुमतिः दत्ता। स्थानाशिनः गृहसन्दर्शनं कृत्वा प्रचरणाय नेतृत्वं वहन्ति।
वङ्गराज्ये घोषप्रचारणम् दिनैकस्मात् पूर्वमेव समापितम् ; निर्वाचनं रविवासरे। 
 निर्वाचनायोगस्य असाधारणः पदक्षेपः। तृणमूल-भाजपासङ्घर्षः हेतुः। 
कोल्कोत्ता >  पश्चिमवङ्गराज्ये अनुस्यूतमनुवर्तमानस्य राजनैतिकसंघट्टनस्य परस्पराक्रमणस्य च आधारे तत्र प्रचाल्यमानस्य निर्वाचनघोषप्रचारणम् आयोगस्य आदेशेन ह्यः समाप्तम्। नो चेत् अद्य समापितव्यमासीत्। वंगे सप्तमे तथा अन्तिमे सोपाने ९ मण्डलेषु रविवासरे निर्वाचनं सम्पत्स्यते। 
   कोल्कोत्तायां मङ्गलवासरे सम्पन्नायां भाजपाध्यक्षस्य वीथीप्रदर्शनवेलायां भाजपा-तृणमूल् अनुयायिनां सङ्घर्षः जातः। तदा सामाजिकपरिष्कर्तुः तथा तत्त्वचिन्तकस्य ईश्वरचन्द्रविद्यासागरस्य प्रतिमा भञ्जिता। तदनुबन्ध्य राज्ये सर्वत्र सङ्घर्षः सञ्जातः। अत एव राष्ट्रनीतिशासनस्य ३२४तम विभागस्य आधारे घोषप्रचारणणं एकदिनात् पूर्वमेव समापयितव्यमिति आयोगस्य अपूर्वः व्यवहारः। 
  तदनन्तरं तृणमूल - भा ज पादयः राजनैतिकदलाः परस्परारोपप्रत्यारोपेषु संलग्नाः भवन्ति।
अन्तर्जालेन वित्तकोश चोरणम् - विविधदेशीयाः ग्रहीताः।
    यू एस्> विविधराष्ट्रस्थाः दश जनाः अन्तर्जालवित्तकोशचोरणेन ग्रहीताः अभवन्I यू.एस् राष्ट्रस्य पिट्स्बर्ग् देशात् भवति एतेषां ग्रहणम्।  वित्तचोरणम्, अलीकधनस्य संशोधताकरणम् च भवति तैः अनुष्ठितं दुष्कर्म। 'गोस्निं माल्वेयर् वैरस्' इति अन्तर्जालीय कुकर्मणा ७०० कोटि  रूप्यकाणि अनेन दुःष्कर्मदलेन ग्रहीतानि इत्यस्ति दोषारोपः।  कुकर्म दलीयेषु पञ्चजनाः रष्याराष्ट्रस्थाः। ते निलीनाः। प्रकरणानन्तरं यू. एस्, ब्लजेरिय, जर्मनी, जोर्जिय, मोल्डोव, उक्रैन् राष्ट्राणाम् आरक्षकाः मिलित्वा  अन्वेणम् आरब्धम्।

Thursday, May 16, 2019

सर्वोच्चन्यायालयस्य भूतपूर्व न्यायाधिपः मदनलोकुरः फिजिराष्ट्रस्य न्यायाधिपपदे नियुक्तः
    नवदिल्ली> भारतस्य सर्वोच्च न्यायालयस्य भूतपूर्व न्यायाधिपः मदनभीम लोकुरः फिजिराष्ट्रस्य न्यायाधिपपदे नियुक्तः अभवत्। संवत्सरत्रयं यावत् भवति नियुक्तिः। भारतीयन्यायाधिपस्य नियुक्तिः फिजिराष्ट्रे ऐदं प्राथम्येन भवति।
    बहवः भारतीयाः भारतवंशजाः च सन्ति फिजि राष्ट्रे। पसफिक् समुद्रे भवति फिजि। दीप समूहराष्ट्रम् भवति फिजि इति अस्य राष्ट्रस्य विशेषता।

Wednesday, May 15, 2019

सौदीराष्ट्रस्य तैलोद्गमननिलयं प्रति ड्रोण् इति विमानेन आक्रमणम्।
   रियाद्‌> सौदी अरेब्यस्य द्वौ तैलोद्गमननिलयं प्रतितैलोद्गमन निलयं प्रति ड्रोण् इति विमानेन आक्रमणम् कृतम्। मंगलवासरे प्रभाते ६-६:४० आसीत्, पूर्वपश्चिम तैलनालिका पथस्य उद्गामननिलयं प्रति आक्रमणम् अभवत्I आतङ्कवादिना आक्रमणम् कृतम् इति सौदीराष्ट्रस्य उूर्जविभागमन्त्री खालिद् अल् फालिह् अवदत्। 
   आक्रमणेन अग्निबाधा जाता। चेदपि अग्निः नियन्त्रणाधीनः वर्तते। इरानस्य साहाय्येन यमनस्य आतङ्कवादिभिः क्रियमाणानि आक्रमणानि निवारणीयानि इत्यपि सः अवदत्l

Tuesday, May 14, 2019

छत्तीस्गडस्य मावोवादि मण्डलेषु वनिताऽऽरक्षकसेना विन्यस्था। 

     राय्पुर्> छत्तीस्गडस्य बस्तर् दन्तेवादप्रदेशेषु प्रथमा मावोवादि विरुद्धसेना विन्यस्था।  दन्तेश्वरी फैट्टेर्स् इति नूतनगणे ३० वनिता सैनिकाः सन्ति। सेनायाः नेता डेप्यूट्टि सुप्‌रन्डन्ट् दिनेश्वरी नन्दा महाभागायै भवति । सेनाङगेषु पञ्चजनाः मावोवादि प्रवर्तनानि परित्यज्य आगताः इति  प्राधान्यम् अस्ति। बस्तर् वनप्रदेशेषु वर्तिष्यमाणं मावो वादिनम् अधिकृत्य एताः अभिज्ञाः इति कारणेन तान् विरुद्ध्य सक्षमतया  प्रवर्तयितुम् शक्यते  इति विश्वासः अस्ति। अत्याधुनिकोपकरणानां प्रयोगे एताः कुशलतां प्राप्तवत्यः।

Monday, May 13, 2019

व्योमसेनायै शक्तिं प्रदातुम् अप्पाषे उदग्रयानम्।
    नवदिल्ली> व्योमसेनायै शक्तिं प्रदातुम् अप्पाषे गार्डियन् अट्टाक् इति आधुनिकम् उदग्रयानं सज्जम् अभवत्। अमेरिक्क राष्ट्रे अरिसोणदेशे प्रथमयानस्य हस्तान्तरम् अभवत् । भारतस्य व्योमसेनायाः एयर् मार्षल् ए. एस् बतोलियेन प्रथमम् उदग्रयानं  स्वीकृतम्।
   'अप्पाषे ६४इ', रात्रौ दिने च आक्रमितुं शक्तः। प्रतिकूलवातावरणेऽपि भूमौ वा आकाशे वा वर्तिष्यमाणान् लक्ष्यान् भञ्जयितुं शक्यते । रात्रिदृष्टिः संवेदनक्षमता ५० किलोमीट्टर् पर्यन्तम् आक्रमणक्षमता च अस्य विशेषता भवति। अस्य वेगः २७९ किलोमीट्टर् पर्यन्तमस्ति।

Sunday, May 12, 2019

मातृदिनम्
मातृदिवसे
*********
या गर्भे मम जीवनं धृतवती प्राप्यातिपीडां भृशं
या मे लालनपालने दृढमना विस्मृत्य नैजं सुखम्।
यस्या नेत्रयुगाद् वहत्यविरतं धारा व्यथायां च मे
पूज्या सा क्व गता स्मरामि चरणौ तस्या दिनेस्मिन् मुहुः।।
(व्रजकिशोरः)  

लोकसभानिर्वाचनं - षष्ठं सोपानमद्य ; ५९ मण्डलेषु।
  नवदिल्ली >  वादप्रतिवादैः लोकसभानिर्वाचनस्य षष्ठसोपानस्य घोषप्रचारणं समाप्तम्। षण्णां राज्यानां दिल्ल्याश्च  ५९ स्थानेषु अद्य जनविधिः सम्पद्यते।
  उत्तरप्रदेशस्य १४, हरियानस्य १०, बीहार-मध्यप्रदेश-पश्चिमवंगराज्यानाम् अष्टशः, दिल्ल्याः ७, झार्खण्डस्य ४ च स्थानेषु एव अद्य निर्वाचनं सम्पद्यते। सी ला दीक्षित् , गौतम् गम्भीर, विजेन्दर् सिंहः इत्यादयः अद्य जनहितं काङ्क्षन्तः प्रमुखाः भवन्ति।

Saturday, May 11, 2019

जैववैविध्यनाशः, अयर्लन्ट् देशे पारिस्थितिक आपत्‍कालः प्रख्यापितः।
    डब्लिन् > ब्रिट्टणस्य पश्चात् पारिस्थितिक-आपत्कालः  उद्घोषितः राष्ट्रं भवति अयर्लन्ट्। उद्घोषणा महत्तरा वार्ता इति स्वीडनस्य परिस्थिति-प्रवर्तका ग्रीट्टा तन्बर्ग् उक्तवती। यूरोप् भूखण्डे सर्वत्र परिस्थितिनाशं विरुद्ध्य प्रतिषेधमेलनानि आयोज्य प्रचारणं कृतवती इत्यनेन अन्ताराष्ट्र स्थरे प्रसिद्धा भवति षोडशवयस्का तन्बर्ग्
     जैववैविध्यनाशं कथम् अभिमुखीकर्तुं शक्यते इति विषये अनुसन्धानं कर्तुं अयर्लन्टट देशस्य विधानासभायाः उपवेशने निश्चितम्। तदनन्तरं सर्वेषाम् अनुज्ञया  पारिस्थितिक आपत्कालः प्रख्यापिता। विश्वराष्ट्राणि अयर्लन्टम् अनुगच्छतु इति ग्रीट्टा तन्बर्ग् आह्वानं कृतवती।
रफाल् पुनरालोकनयाचिकायां वादः समाप्तः, विधिः निर्वाचनानन्तरम्।
   नवदिल्ली> रफाल् पुनरालोकनयाचिका राहुल गान्धिनं विरुद्ध्य न्यायालयालक्ष्य-याचिका च विधिप्रकाशनाय सर्वोच्चन्यायालयेन अधीनतायां कृता। विधिः निर्वाचनानन्तरं भविष्यति। राफेल् प्रकरणे केन्द्रसर्वकाराय सर्वोच्च न्यायालयेन विशुद्धता पत्रप्रदानानन्तरं  वार्ता माध्यमद्वारा प्रकाशितस्य नूतनप्रमाणस्य आधारेण आसीत् याचिकासमर्पितानां वादः। विशुद्धता पत्रप्रदानायकारणभूत-विधिप्रस्तावे न्यूनता  अस्ति इति उक्तवता प्रशान्तभूषणेन सन्धिः निष्कासनीयम् इति न उक्तम्। प्रथम विवरणावेदनं स्वीकृत्य अन्वेणम् स ऐच्छत्। 'सि ए जि' मूल्यं संबन्ध्य अन्वेषणं न कृतम् । इदं प्रथमतया भवति मूल्यान्वेषणं विना सन्धेः अङ्गीकारः। वादाः समाप्ताः विधिः निर्वाचनानन्तरम्भविष्यति।

Friday, May 10, 2019

निरालम्बान् अन्विष्य अज्ञातः कारुणिकः यात्रां करोति।

 दुबाय्> विशुद्धमासेस्मिन् निर्धनानां साहाय्यार्थं तेषां दुरितानां परिहाराय अज्ञातः कश्चन मनुष्यः लोकपर्यटनम्  आरब्धवान्। जीव-कारुण्य प्रर्वर्तननिरतः एषः कः इति कोऽपि न जानन्ति। स्वस्य नाम मुखं वा लोकस्य पुरतः प्रदर्शयितुम् एषः न अभिलषति। तथापि जनाः जानन्ति एषः यु ए ई देशीयः इति। अस्य आदर्शभूतानां कारुण्यप्रवर्तनानां विषये भवति इदानीं जनानां मध्ये चर्चा।
    अस्य महात्मनः प्रवर्तनानि 'खल्बी इत्व्म इन्' इति नाम्नि यु ए इ समयः रात्रौ ७:१५ वादने अबुदाबि दूरदर्शने, सप्त वादने ए बि सि मध्ये तथा खल्बि इतमान् इति यू ट्यूब् वाहिन्यां च प्रसृताः वर्तन्ते। किन्तु कार्यक्रमे  ईदृशस्य प्रवर्तनस्य पृष्ठतः कः इति काऽपि सूचना नास्ति।  'वामहस्तम् अज्ञात्वा दक्षिणहस्तेन दानं करणीयम्' इति उपदेशः सः पालयति।

Thursday, May 9, 2019

श्रीशङ्करजन्मदिनाघोषः - अद्य कालट्यां महापरिक्रमः सन्यासिसङ्गमश्च। 
कालटी >  अद्वैतवेदान्तसंस्थापकस्य श्रीशङ्कराचार्यस्य जन्मदिनोत्सवः जन्मग्रामे कालट्यामद्य सम्पद्यते। महापरिक्रमः , पूर्णानदीपूजा , नक्रघट्टस्नानं, सन्यासिसङ्गमः इत्येतैः कार्यक्रमैः जन्मदिनाघोषः आयोजयिष्यते। 
  आदिशङ्करकीर्तिस्तम्भमण्डपे प्रभाते दशवादने सन्यासिसङ्गमः सम्पद्यते। भारतस्य नानाराज्येभ्यः शतशः सन्यासिनः भागभाजः भवन्ति। सायं सम्पद्यमाने महापरिक्रमे सन्यासिनः सांस्कृतिकनेतारः सहस्रशः बहुजनाश्च भागं कुर्वन्ति। 
  श्रृङगेरीमठस्य अधीनतायां वर्तमाने आदिशङ्करजन्मभूमिमन्दिरे मन्दिराचारान् विहाय शास्त्रार्थविद्वत्सभा , रथोत्सवः इत्यादयः आयोज्यमानाः सन्ति। कुलदेवतामन्दिरे श्रीकृष्णमन्दिरे सायं षट्वादने ३२ मातृजनान् 'मातृपञ्चकस्तोत्रा'लापनेन  आद्रियन्ते।

Wednesday, May 8, 2019

नाट्यसत्रम्। संस्कृतचलनचित्रशिल्पशाला ।
-डा.अभिलष् जे
     तृश्शूर्> संस्कृताध्यापकः परिस्थिति कार्यकर्ता च आसीत् श्री अशोकन् पुरनाट्टुकरा महोदयः। तस्य स्मरणार्थं लैव् सान्स्क्रिट् संस्थायाः नेतृत्वे संस्कृतचलनचित्रशिल्पशाला प्रचलिष्यति।मेय् नवम्यां तृश्शूर् साहित्याक्काटमी चङ्मबुषा बृहत्प्रकोष्ठे प्रातः सार्धनववादने शिल्पशाला आरप्स्यते।कथा पटकथा संभाषणं निदेशनं इत्यादि क्षेत्रेषु विद्वांसः कक्ष्यां नेष्यन्ति।कालटी संस्कृतविश्वविद्यालयस्य तिरूर् प्रादेशिक केन्द्रस्य तथा भारतमुद्रा संस्कृतपत्रिकायाः च साहाय्येन एषा शिल्पशाला भविष्यति। तिरूर् प्रादेशिक केन्द्रस्य साहित्यविभागाध्यक्षा डा. सि के जयन्ती  शिल्पशालायाः उद्घाटनं करिष्यति। चलनचित्र निदेशकः मोहरली पोयिलुङ्गल् इस्मयिल् मुख्यातिथिः भविष्यति।  डा.महेष् बाबु एस् एन् शिल्पशालायाः नेतृत्वं करिष्यति। उच्चतर माध्यमिक छात्राणां विशेष गणना भविष्यति।
इन्दोनेष्या राष्ट्रे अग्निपर्वत विस्फोटः
        जक्कार्ता > इन्दोनेष्‌या राष्ट्रे अग्निपर्वत विस्फोटनं जातम्। सुमात्रा द्वीप‌समूहे वर्तमानः सिनाबङ् इत्याख्यः पर्वतः  मङ्गलवासरेएव स्फोटनम् अभवत्। क्षतः वा ? मृत्युः वा नाऽस्ति इत्यावेदनम्।

Tuesday, May 7, 2019

एस् एस् एल् सि परीक्षायां ९८.११%विजयः!
 अनन्तपुरी >  केरले गतमार्च् मासे सम्पन्नायां दशमीकक्ष्यापरीक्षायां [एस् एस् एल् सी] प्रतिशतं ९८.११ छात्राः उपर्यध्ययनाय अर्हतां प्राप्तवन्तः। परीक्षां लिखितवत्सु ४,३४,७२९ छात्रेषु ४,२६,५१३ छात्राः उत्तीर्णाः। ३७,३३४ छात्राः सर्वेषु विषयेषु A+ पदं प्राप्तवन्तः। १०० % विजयः १७०३ विद्यालयैः लब्धः!
  उत्कृष्टविजयं प्राप्तवत्सु जनपदेषु पत्तनंतिट्टा प्रथमस्थानं प्राप। विद्याभ्यासजनपदेषु आलप्पुषाजनपदस्थः कुट्टनाट् प्रथमस्थानं प्राप। 

Monday, May 6, 2019

रष्यायां सौदामिन्या विमानं दग्धं ; ४१ मरणानि। 
    मोस्को >  तडित्ताडनेन विमानस्य पुच्छाग्रे सम्पन्नायाम् अग्निबाधायां ४१ यात्रिकाः मृताः। रूस् राष्ट्रे 'षेरेमेत्योवो' विमाननिलयात् ७८ यात्रिकैः उड्डयितं 'सुखोय् सूपर् जट् - १००' विमाने एव अग्निबाधा सञ्जाता। झटित्येव विमानं भूमिगतं कृतमपि ४१ यात्रिकाः मृत्युमुपगताः , ६ दाहव्रणिताः अभवन्। एतदाभ्यन्तरे विमानं पूर्णतया दग्धम्। 
   'मुर्मान्' नगरं प्रति प्रस्थिते विमाने उड्डयनवेलायामेव सौदामिनीस्पर्शमभवत्। झटित्येव उत्तरणाय अनुमतिः लब्धा अपि प्रयत्नः विफलो जातः। द्वितीयप्रयत्नेन एव उत्तरणं साधितम्।
रष्यात: विमानवेध संविधानं क्रेतुं पाकिस्तानेन यतते। 

 नवदिल्ली > बालाकोट् आक्रमणवत् पुनरपि भारतम् आक्रमणं करिष्यति इति भीत्या विमानवेध-संविधानं क्रेतुं इच्छति पाकिस्तानः। रष्याराष्ट्रात् पान्टसिर् मिसैल् संविधानं क्रेतुं शक्यते वा न वा इति पाकिस्तानः इदानीं चिन्तयति।  
   प्रतिध्वनिग्राहिम्   (RADAR)  उपकरणस्य साहायेन लक्ष्यं निर्णिय  आक्रमणं  कर्तुं शक्यते इत्येतत् एव पान्टसिर् मिसैल् इति विमानवेध उपकरणस्य सविशेषता। एतस्य क्रीणनसंबन्धितया चर्चां कर्तुं प्रतिनिधिसंघम् मोस्कों प्रति प्रेषयितुं पाकिस्तानः यतते । रष्या तु   प्रतिरोध प्रवर्तनेषु सदा भारतस्य सहवर्ती भवति। पाकिस्तानेन सह क्रियमाणं  प्रतिरोधसंबन्धिं सन्धिम् अधिकृत्य भारतेन तस्य प्रतिषेधं संसूचितम्।