OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 9, 2019

श्रीशङ्करजन्मदिनाघोषः - अद्य कालट्यां महापरिक्रमः सन्यासिसङ्गमश्च। 
कालटी >  अद्वैतवेदान्तसंस्थापकस्य श्रीशङ्कराचार्यस्य जन्मदिनोत्सवः जन्मग्रामे कालट्यामद्य सम्पद्यते। महापरिक्रमः , पूर्णानदीपूजा , नक्रघट्टस्नानं, सन्यासिसङ्गमः इत्येतैः कार्यक्रमैः जन्मदिनाघोषः आयोजयिष्यते। 
  आदिशङ्करकीर्तिस्तम्भमण्डपे प्रभाते दशवादने सन्यासिसङ्गमः सम्पद्यते। भारतस्य नानाराज्येभ्यः शतशः सन्यासिनः भागभाजः भवन्ति। सायं सम्पद्यमाने महापरिक्रमे सन्यासिनः सांस्कृतिकनेतारः सहस्रशः बहुजनाश्च भागं कुर्वन्ति। 
  श्रृङगेरीमठस्य अधीनतायां वर्तमाने आदिशङ्करजन्मभूमिमन्दिरे मन्दिराचारान् विहाय शास्त्रार्थविद्वत्सभा , रथोत्सवः इत्यादयः आयोज्यमानाः सन्ति। कुलदेवतामन्दिरे श्रीकृष्णमन्दिरे सायं षट्वादने ३२ मातृजनान् 'मातृपञ्चकस्तोत्रा'लापनेन  आद्रियन्ते।

Wednesday, May 8, 2019

नाट्यसत्रम्। संस्कृतचलनचित्रशिल्पशाला ।
-डा.अभिलष् जे
     तृश्शूर्> संस्कृताध्यापकः परिस्थिति कार्यकर्ता च आसीत् श्री अशोकन् पुरनाट्टुकरा महोदयः। तस्य स्मरणार्थं लैव् सान्स्क्रिट् संस्थायाः नेतृत्वे संस्कृतचलनचित्रशिल्पशाला प्रचलिष्यति।मेय् नवम्यां तृश्शूर् साहित्याक्काटमी चङ्मबुषा बृहत्प्रकोष्ठे प्रातः सार्धनववादने शिल्पशाला आरप्स्यते।कथा पटकथा संभाषणं निदेशनं इत्यादि क्षेत्रेषु विद्वांसः कक्ष्यां नेष्यन्ति।कालटी संस्कृतविश्वविद्यालयस्य तिरूर् प्रादेशिक केन्द्रस्य तथा भारतमुद्रा संस्कृतपत्रिकायाः च साहाय्येन एषा शिल्पशाला भविष्यति। तिरूर् प्रादेशिक केन्द्रस्य साहित्यविभागाध्यक्षा डा. सि के जयन्ती  शिल्पशालायाः उद्घाटनं करिष्यति। चलनचित्र निदेशकः मोहरली पोयिलुङ्गल् इस्मयिल् मुख्यातिथिः भविष्यति।  डा.महेष् बाबु एस् एन् शिल्पशालायाः नेतृत्वं करिष्यति। उच्चतर माध्यमिक छात्राणां विशेष गणना भविष्यति।
इन्दोनेष्या राष्ट्रे अग्निपर्वत विस्फोटः
        जक्कार्ता > इन्दोनेष्‌या राष्ट्रे अग्निपर्वत विस्फोटनं जातम्। सुमात्रा द्वीप‌समूहे वर्तमानः सिनाबङ् इत्याख्यः पर्वतः  मङ्गलवासरेएव स्फोटनम् अभवत्। क्षतः वा ? मृत्युः वा नाऽस्ति इत्यावेदनम्।

Tuesday, May 7, 2019

एस् एस् एल् सि परीक्षायां ९८.११%विजयः!
 अनन्तपुरी >  केरले गतमार्च् मासे सम्पन्नायां दशमीकक्ष्यापरीक्षायां [एस् एस् एल् सी] प्रतिशतं ९८.११ छात्राः उपर्यध्ययनाय अर्हतां प्राप्तवन्तः। परीक्षां लिखितवत्सु ४,३४,७२९ छात्रेषु ४,२६,५१३ छात्राः उत्तीर्णाः। ३७,३३४ छात्राः सर्वेषु विषयेषु A+ पदं प्राप्तवन्तः। १०० % विजयः १७०३ विद्यालयैः लब्धः!
  उत्कृष्टविजयं प्राप्तवत्सु जनपदेषु पत्तनंतिट्टा प्रथमस्थानं प्राप। विद्याभ्यासजनपदेषु आलप्पुषाजनपदस्थः कुट्टनाट् प्रथमस्थानं प्राप। 

Monday, May 6, 2019

रष्यायां सौदामिन्या विमानं दग्धं ; ४१ मरणानि। 
    मोस्को >  तडित्ताडनेन विमानस्य पुच्छाग्रे सम्पन्नायाम् अग्निबाधायां ४१ यात्रिकाः मृताः। रूस् राष्ट्रे 'षेरेमेत्योवो' विमाननिलयात् ७८ यात्रिकैः उड्डयितं 'सुखोय् सूपर् जट् - १००' विमाने एव अग्निबाधा सञ्जाता। झटित्येव विमानं भूमिगतं कृतमपि ४१ यात्रिकाः मृत्युमुपगताः , ६ दाहव्रणिताः अभवन्। एतदाभ्यन्तरे विमानं पूर्णतया दग्धम्। 
   'मुर्मान्' नगरं प्रति प्रस्थिते विमाने उड्डयनवेलायामेव सौदामिनीस्पर्शमभवत्। झटित्येव उत्तरणाय अनुमतिः लब्धा अपि प्रयत्नः विफलो जातः। द्वितीयप्रयत्नेन एव उत्तरणं साधितम्।
रष्यात: विमानवेध संविधानं क्रेतुं पाकिस्तानेन यतते। 

 नवदिल्ली > बालाकोट् आक्रमणवत् पुनरपि भारतम् आक्रमणं करिष्यति इति भीत्या विमानवेध-संविधानं क्रेतुं इच्छति पाकिस्तानः। रष्याराष्ट्रात् पान्टसिर् मिसैल् संविधानं क्रेतुं शक्यते वा न वा इति पाकिस्तानः इदानीं चिन्तयति।  
   प्रतिध्वनिग्राहिम्   (RADAR)  उपकरणस्य साहायेन लक्ष्यं निर्णिय  आक्रमणं  कर्तुं शक्यते इत्येतत् एव पान्टसिर् मिसैल् इति विमानवेध उपकरणस्य सविशेषता। एतस्य क्रीणनसंबन्धितया चर्चां कर्तुं प्रतिनिधिसंघम् मोस्कों प्रति प्रेषयितुं पाकिस्तानः यतते । रष्या तु   प्रतिरोध प्रवर्तनेषु सदा भारतस्य सहवर्ती भवति। पाकिस्तानेन सह क्रियमाणं  प्रतिरोधसंबन्धिं सन्धिम् अधिकृत्य भारतेन तस्य प्रतिषेधं संसूचितम्।

Sunday, May 5, 2019

उतरकोरियेन  पुनरपि अग्निबाणः परीक्षितः।
    सोल> उतरकोरियः  पुनरपि अग्निबाणं परीक्षितवान् इत्यस्ति नूतनम् आवेदनम्। शनिवासरे प्रातः राष्ट्रस्य पूर्वसीमायाम्  आसीत् ह्रस्वदूर अग्निबाणस्य परीक्षणप्रयोगः। किन्तु गतिनियन्त्रितबाणः वा इति सूचना न लब्धा। दक्षिणकोरियेन एव इमा वार्ता प्रकाशिता। उत्तरकोरियस्य प्रयोगान् अधिकृत्य अमेरिक्कया सह सूक्ष्ममांशविवरणचर्चा प्रचलति इति दक्षिणकोरियेनोक्तम्।
    अनुनयभाषणानन्तरम् सर्वण्यपि अणु-अग्निबाणपरीक्षणात् प्रतिनिवर्तितः आसीत् उत्तरकोरियः। किन्तु इदानीं वाग्दानलङ्धनं कृतम् इति दक्षिणकोरियेन उक्तम्।
वार्तामुक्तकानि। 
एस् एस् एल् सि फलं श्वः।
 अनन्तपुरी >  केरले मार्च्मासे सम्पन्नायाः दशमीकक्ष्यापरीक्षायाः [एस् एस् एल् सि] फलं श्वः अपराह्ने द्विवादने प्रकाशयिष्यते। www.results.kite.Kerala.gov.in , keralapareekshabhavan.in ,
.Kerala.gov.in इत्येतेतैः सङ्केतैः   saphalam 2019 इति 'मोबाइल आप्' द्वारा च फलं ज्ञातुं शक्यते।
 वैद्यकप्रवेशपरीक्षा अद्य अपराह्ने। 
अनन्तपुरी > वैद्यक - वैद्यकानुबन्धविषयकाध्ययनक्रमाणां कृते योग्यताप्रवेशपरीक्षा [नीट् - National Eligibility cum Entrance Test] अद्य अपराह्ने द्विवादनादारभ्य पञ्चवादनपर्यन्तं विविधस्थानेषु सम्पत्स्यते। परीक्षार्थिनः मध्याह्ने १२.३० वादने परीक्षाकेन्द्रं प्राप्तुमर्हन्ति।
फोनी - मरणानि १२ ; चक्रवातः पश्चिमवंगं प्राप्तः। 
भुवनेश्वरं >  ओडीषायां संहारताण्डवं कृतवता फोनी चक्रवातेन मृतानां संख्या १२ अभवत्। पुनरधिवासप्रवर्तनानि द्रुतगत्या प्रचलति। ह्यः दुर्बलः जातः फोनी पश्चिमवंगराज्यं  प्राविशत्। अतिवृष्टिः अनुवर्तते।
पञ्चमसोपाननिर्वाचनं श्वः ; ५१ मण्डलेषु। 
   नवदिल्ली > भारते लोकसभानिर्वाचनस्य पञ्चमं सोपानं सोमवासरे (श्वः) सम्पत्स्यते। तदर्थं घोषप्रचारणं ह्यः समाप्तम्। उत्तरप्रदेश् (14), राजस्थान्(12), बंगाल् (7), मध्य प्रदेश्(7), बीहार् (5), झार्खण्ड्(4), जम्मु-काश्मीर् (2) इति ५१ मण्डलेषु अस्ति निर्वाचनम्। 
  कोण्ग्रस् अध्यक्षः राहुल गान्धी, यू पि ए सख्याध्यक्षा सोणिया गान्धी, केन्द्रमन्त्रिणः राजनाथसिंहः, राज्यवर्धन् सिंहराथोड्, जयन्त सिंहः, इत्यादयः अस्मिन् सोपाने जनविधिकाङ्क्षिणः प्रमुखाः भवन्ति।

Saturday, May 4, 2019

भीतिम् उत्पाद्य फोनि ; त्रयः मृताः। 
  भुवनेश्वरं >  दशकद्वयानन्तरं भारतं मथनं कृत्वा वीजिते फोनी चक्रवाते ओडीषायां व्यापकानि नाशनष्टानि जातानि। गतदिने प्रभाते नववादने तीरनगरं पुरी प्राप्तः फणार्थकः 'फोनि' नामकः अयं १७५ कि मी प्रवेगमावहन् पुरीनगरे भुवनेशरे च सहस्रशः गृहाणि वृक्षान् च भूमौ अपातयत्। अस्य रौद्रेण त्रयाणां जनानां प्राणाः विनष्टाः अभवन्। 
   चक्रवातान्वागतायां महद्वृष्ट्यां ग्रामाः नगराणि च जलनिमग्नान्यभवन्। किन्तु चक्रवातस्य रौद्रतां पूर्वमेवाभिज्ञाय ११ लक्षं जनाः सुरक्षितस्थानानि नीताः इत्यतः जीवहानि न्यूनातिन्यूनमभवत्। 
  पुरी , भुवनेश्वारादिषु जनपदेषु विद्युत्-वार्ताविनिमय संविधानानि पूर्णतया विशीर्णानि। रेल् यानगतागतानि दिनद्वयं यावत् निरस्तानि। ओडीषा, आन्ध्रप्रदेशः, वंगः इत्येषु राज्येषु महती वृष्टिः अनुवर्तते।
 कनकधारायज्ञाय आदिशङ्करकुलदेवतामन्दिरं सिद्धम्। 

 कालटी > श्रीशङ्करस्य कुलदेवताक्षेत्रे कालटी श्रीकृष्णमन्दिरे प्रतिसंवत्सरं आघुष्यमाणः कनकधारायज्ञः मई पञ्चमदिनाङ्कादारभ्य नवमदिनाङ्कपर्यन्तं सम्पत्स्यते। तन्त्रविध्यनुसारं सज्जीकृतानि कनकधारायन्त्राणि ऐश्वर्यदेवतायाः प्राणप्रतिष्ठया सज्जीकृतानि सुवर्ण-रजतामलकानि च यज्ञमण्डपे संस्थाप्य ३२ वैदिकैः १०,००८ वारं कनकधारास्तोत्रजपैः पवित्रीक्रियन्ते।

Friday, May 3, 2019

'फोनी' अद्य ओडीषातीरं प्राप्नोति ; ११ लक्षं जनाः वासस्थानं विगताः।

 भुवनेश्वरं >  अतितीव्रचक्रवातरूपेण परिणमितः 'फोनी' अद्य मध्याह्ने पुरी समीपे  ओडीषातीरं प्राप्नोति। यदा तीरं प्राप्नोति तदा तस्य प्रवेगः २०० कि मी भविष्यतीति सूच्यते। ९ जनपदेषु अतिजाग्रतानिर्देशः [रेड् अलर्ट्] कृतः। ११ लक्षं जनाः वासस्थानेभ्यः  सुरक्षितस्थानं प्राप्ताः। 
  ओडीषां विना आन्ध्रप्रदेश-वंगराज्ययोः दश जनपदेष्वपि अतिजाग्रतानिर्देशः कृतः। तत्रस्थाः जनाः अपि सुरक्षितस्थानं नीताः। २२३ रेल् यानानि निरस्तानि।

Thursday, May 2, 2019

मसूद् अस्हरः आगोलभीकर इति यू एन् प्रख्यापनम्। 

युणैटड् नेषन्स् >  ऐक्यराष्ट्रसभायां भारतस्य चिरकालापेक्षा साधिता। 'जैषे मुहम्मद्' नामिकायाः आतङ्कवादिसंस्थायाः नेता मसूद् अस्हरः आगोलभीकररूपेण यू एन् रक्षासमित्या  प्रख्यापितः। तत्रस्थः भारतस्य स्थिरः प्रतिनिधिः सयिद् अक्बरुद्दीन् वार्तामिमां प्रकाशितवान्।
  चिरकालेन यू एन् रक्षासमित्यां मसूदस्य आगोलभीकरप्रख्यापनाय भारतं यतते स्म। किन्तु समित्यामङ्गराष्ट्रेषु अन्यतमस्य चीनस्य प्रातिकूल्येन अपेक्षा न सफला जाता। पुल्वामा भीकराक्रमणानन्तरम् अन्ताराष्ट्रतलेषु भारतं स्वप्रार्थनां  शक्तमकरोत्। अन्ते चीनेन अपि रक्षासमित्यां भारताय अभियोगः कृतः। 
  भारतस्य नयतन्त्रविजयरूपेण अयं पदक्षेपः परिगण्यते।
यु एस् उपरोधकारणेन इरानतः तैलेन्धनानयनं निर्वर्तयितुं भारतेन आलोच्यते।
   नवदिल्ली> इरानतः तैलेन्धनानयनं भारतम् अन्ये सहकारिराष्ट्राणि च गुरुवासरेण अवस्यते इत्यस्ति नूतनम् आवेदनम्। इरानेन सह अनुवर्त्यमाणः इन्धनव्यापारस्य अन्त्यम् कर्तुं सुहृद्राष्ट्रेभ्यः अमेरिक्कया दत्तः समयः अवस्यते इति कारणेन भवति अयं प्रक्रमः।
    भारतेन अधिकतया तैलेन्धनं स्वीक्रियमाणेषु राष्ट्रेषु त्रितीय स्थाने वर्तते इरान् राष्ट्रम्। ततः इन्धनानयनं स्तगयति इति मूल्यवर्धनस्य कारणं भविष्यति। विगते नवम्बर् मासे इरानेन सह प्रचलितः आणवायुधसंबन्ध संयुक्त मर्यादावाग्दानतः प्रतिनिवृत्तेन अमेरिक्केन इरानस्योपरि व्यपारोपरोधः प्रख्यापितः। अनन्तरं सुहृद्राष्ट्रान् प्रति इरानेन सह क्रियमाणः सर्वविधव्यापाराणाम्  अन्त्यं कर्तुं  प्रार्थितम्।
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्, डीन्,
कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्।
संभाषण चित्रकारः- मुहम्मद् फर्हानः,
सेन्ट् मेरीस्  यू पि एस् तेवरा।
नमांसि, संस्कृतबालकेन्द्रम्-सायङ्काले 30 निमेषान् एकघण्टा वा यावत् बालकेन्द्रं चालयेत्। तत्र सम्भाषणं, भाषाशिक्षणं, क्रीडा:, सांस्कृतिककार्यक्रमा: च भवन्ति - संस्कृतमाध्यमेन। मार्गदर्शनाय संस्कृतभारत्या एतत्सम्बन्धे लघुपुस्तकमपि प्रकाशितम्। एतेषु बालकेन्द्रेषु बाला: क्रीडन्त: एव द्वित्रेषु मासेषु एव सम्भाषणाभ्यासं कुर्वन्ति, नक्षत्र-तिथि-मासादि-सांस्कृतिकविषयान् अपि जानन्ति। स्वबालानाम् एतादृशेन शिक्षणेन,  परम्परासम्बद्धसंस्कारेण, संस्कृतसम्भाषणेन च मातापितर: अत्यन्तं प्रभाविता: भवन्ति। कापि संस्कृतज्ञा युवति: , शिक्षिका, गृहिणी वा स्वगृहे एव बालकेन्द्रं चालयितुं शक्नोति। मित्राणि, तेन तस्या: गृहं परित: स्थितेषु गृहेषु संस्कृतस्य प्रवेश: भवति।  
 जयतु  संस्कृतम्  जयतु भारतम्

Wednesday, May 1, 2019

वार्तामुक्तकानि। 
न्याय.रामचन्द्रमेनोन् छत्तीसगढ़े मुख्यन्यायाधिपः। 
नवदिल्ली >  केरल उच्चन्यायालये न्यायाधीशः न्याय. पि आर् रामचन्द्रमेनोनः छत्तीसगढ़स्य मुख्यन्यायाधिपरूपेण नियुक्तः। 
कनकधारायज्ञाय आदिशङ्करकुलदेवतामन्दिरं सिद्धम्।
 कालटी > श्रीशङ्करस्य कुलदेवताक्षेत्रे कालटी श्रीकृष्णमन्दिरे प्रतिसंवत्सरं आघुष्यमाणः कनकधारायज्ञः मई पञ्चमदिनाङ्कादारभ्य नवमदिनाङ्कपर्यन्तं सम्पत्स्यते। तन्त्रविध्यनुसारं सज्जीकृतानि कनकधारायन्त्राणि ऐश्वर्यदेवतायाः प्राणप्रतिष्ठया सज्जीकृतानि सुवर्ण-रजतामलकानि च यज्ञमण्डपे संस्थाप्य ३२ वैदिकैः १०,००८ वारं कनकधारास्तोत्रजपैः पवित्रीक्रियन्ते। 
पुनरपि आक्रमणसाध्यता - श्रीलङ्कायां जाग्रता। 
कोलम्बो > रमदान् मासारम्भात् पूर्वं श्रीलङ्कायां पुनरपि भीकराक्रमणसाध्यता अस्तीति सूचनानुसारं राष्ट्रे अतिजाग्रतानिर्देशः कृतः। पञ्चसु  स्थानेषु आक्रमणसाध्यता अस्तीति गुप्तान्वेषणविभागस्य पूर्वसूचना। 
चतुर्थसोपाने मतदानं ६४%!
नवदिल्ली  >  लोकसभानिर्वाचनस्य चतुर्थसोपाने नवसु राज्येषु ७२ मण्डलेषु ६४% सम्मतिदायकाः स्वाधिकारं विनियुक्तवन्तः! महाराष्ट्रं, ओडीषा, केरलं, तमिल्नाट् राज्येषु मतदानप्रक्रिया समाप्ता।
केरलमपि आत्मघातिनां लक्ष्यः इति रहस्यप्रकाशनम्। 
 कोच्ची >  श्रीलङ्कायां कृतम् आत्मघातिभीकराक्रमणमिव केरले अपि स्फोटनपरम्परां चालयितुं भीकराः चिन्तितवन्त इति सत्यप्रस्तावः। श्रीलङ्कास्फोटने भागभागिति सन्देहेन  एन् ऐ ए संस्थया गृहीतात् पालक्काट् प्रदेशीयात् रियास् अबूबक्कर् नामकादेव ईदृशः प्रस्तावः अभवत्। 
  कोच्चिम् अभिव्याप्य बहुषु स्थानेषु स्फोटनं कर्तुमासीत् निश्चयः। स्फोटकानां सञ्चयनाय निर्देशः कृतः। किन्तु सङ्घाङ्गेषु केषाञ्चन मतवैरुध्येन योजना न संवृत्ता। 

  कोच्यामपि अतिजाग्रता 

  कोच्ची भीकराणामागामी लक्ष्य इति गुप्तचरविभागस्य पुर्वसूचनामनुसृत्य प्रदेशस्थेषु मुख्यस्थानेषु सुरक्षां शक्तीकर्तुं निर्देशः। तीरदेशः, अन्ताराष्ट्रविमाननिलयः, कोच्ची तैलशुद्धीकरणशाला, आर्थिकमण्डलं, रिसर्व बैंक् कार्यालयः इत्यादिषु स्थानेषु सुरक्षाक्रमीकरणं तीव्रं कारितम्।
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन् 
कविकुलगुरु कालिदास-विश्वविद्यालयः महाराष्ट्रम्।
सम्भाषणचित्रकारः - श्री हरिः पि 
नमांसि, चतु:शतात् वर्षेभ्य: पूर्वं विश्वे 5000 भाषा: आसन्। इदानीम् उपद्विसहस्रा: सन्ति। व्यवहार: परित्यक्त: इत्यत: 3000 भाषा: विनष्टा:। व्यवहार-ह्रासादेव सहस्राधिका: भाषा: विनाशपथे सन्ति। संस्कृतभाषा नित्य-व्यवहारस्य भाषा करणीया। लक्षश: जनानां परस्पर-व्यवहार:, गृहव्यवहार:, विद्यालयव्यवहार:, कार्यालयव्यवहार:, सामाजिकव्यवहार: च संस्कृतेन भवेत्। संस्कृतस्य पुन: व्यवहारभाषाकरणमेव संस्कृतस्य पुन: भाषात्वसम्पादनम्। किञ्च एतद् कार्यं संस्कृतसेवायां मूलभूतं कार्यं, प्राणभूतं  च कार्यम्। मित्राणि, एतस्मै प्राणभूताय कार्याय अस्माकं जीवनं समर्पयाम:।