OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 2, 2019

संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्, डीन्,
कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्।
संभाषण चित्रकारः- मुहम्मद् फर्हानः,
सेन्ट् मेरीस्  यू पि एस् तेवरा।
नमांसि, संस्कृतबालकेन्द्रम्-सायङ्काले 30 निमेषान् एकघण्टा वा यावत् बालकेन्द्रं चालयेत्। तत्र सम्भाषणं, भाषाशिक्षणं, क्रीडा:, सांस्कृतिककार्यक्रमा: च भवन्ति - संस्कृतमाध्यमेन। मार्गदर्शनाय संस्कृतभारत्या एतत्सम्बन्धे लघुपुस्तकमपि प्रकाशितम्। एतेषु बालकेन्द्रेषु बाला: क्रीडन्त: एव द्वित्रेषु मासेषु एव सम्भाषणाभ्यासं कुर्वन्ति, नक्षत्र-तिथि-मासादि-सांस्कृतिकविषयान् अपि जानन्ति। स्वबालानाम् एतादृशेन शिक्षणेन,  परम्परासम्बद्धसंस्कारेण, संस्कृतसम्भाषणेन च मातापितर: अत्यन्तं प्रभाविता: भवन्ति। कापि संस्कृतज्ञा युवति: , शिक्षिका, गृहिणी वा स्वगृहे एव बालकेन्द्रं चालयितुं शक्नोति। मित्राणि, तेन तस्या: गृहं परित: स्थितेषु गृहेषु संस्कृतस्य प्रवेश: भवति।  
 जयतु  संस्कृतम्  जयतु भारतम्

Wednesday, May 1, 2019

वार्तामुक्तकानि। 
न्याय.रामचन्द्रमेनोन् छत्तीसगढ़े मुख्यन्यायाधिपः। 
नवदिल्ली >  केरल उच्चन्यायालये न्यायाधीशः न्याय. पि आर् रामचन्द्रमेनोनः छत्तीसगढ़स्य मुख्यन्यायाधिपरूपेण नियुक्तः। 
कनकधारायज्ञाय आदिशङ्करकुलदेवतामन्दिरं सिद्धम्।
 कालटी > श्रीशङ्करस्य कुलदेवताक्षेत्रे कालटी श्रीकृष्णमन्दिरे प्रतिसंवत्सरं आघुष्यमाणः कनकधारायज्ञः मई पञ्चमदिनाङ्कादारभ्य नवमदिनाङ्कपर्यन्तं सम्पत्स्यते। तन्त्रविध्यनुसारं सज्जीकृतानि कनकधारायन्त्राणि ऐश्वर्यदेवतायाः प्राणप्रतिष्ठया सज्जीकृतानि सुवर्ण-रजतामलकानि च यज्ञमण्डपे संस्थाप्य ३२ वैदिकैः १०,००८ वारं कनकधारास्तोत्रजपैः पवित्रीक्रियन्ते। 
पुनरपि आक्रमणसाध्यता - श्रीलङ्कायां जाग्रता। 
कोलम्बो > रमदान् मासारम्भात् पूर्वं श्रीलङ्कायां पुनरपि भीकराक्रमणसाध्यता अस्तीति सूचनानुसारं राष्ट्रे अतिजाग्रतानिर्देशः कृतः। पञ्चसु  स्थानेषु आक्रमणसाध्यता अस्तीति गुप्तान्वेषणविभागस्य पूर्वसूचना। 
चतुर्थसोपाने मतदानं ६४%!
नवदिल्ली  >  लोकसभानिर्वाचनस्य चतुर्थसोपाने नवसु राज्येषु ७२ मण्डलेषु ६४% सम्मतिदायकाः स्वाधिकारं विनियुक्तवन्तः! महाराष्ट्रं, ओडीषा, केरलं, तमिल्नाट् राज्येषु मतदानप्रक्रिया समाप्ता।
केरलमपि आत्मघातिनां लक्ष्यः इति रहस्यप्रकाशनम्। 
 कोच्ची >  श्रीलङ्कायां कृतम् आत्मघातिभीकराक्रमणमिव केरले अपि स्फोटनपरम्परां चालयितुं भीकराः चिन्तितवन्त इति सत्यप्रस्तावः। श्रीलङ्कास्फोटने भागभागिति सन्देहेन  एन् ऐ ए संस्थया गृहीतात् पालक्काट् प्रदेशीयात् रियास् अबूबक्कर् नामकादेव ईदृशः प्रस्तावः अभवत्। 
  कोच्चिम् अभिव्याप्य बहुषु स्थानेषु स्फोटनं कर्तुमासीत् निश्चयः। स्फोटकानां सञ्चयनाय निर्देशः कृतः। किन्तु सङ्घाङ्गेषु केषाञ्चन मतवैरुध्येन योजना न संवृत्ता। 

  कोच्यामपि अतिजाग्रता 

  कोच्ची भीकराणामागामी लक्ष्य इति गुप्तचरविभागस्य पुर्वसूचनामनुसृत्य प्रदेशस्थेषु मुख्यस्थानेषु सुरक्षां शक्तीकर्तुं निर्देशः। तीरदेशः, अन्ताराष्ट्रविमाननिलयः, कोच्ची तैलशुद्धीकरणशाला, आर्थिकमण्डलं, रिसर्व बैंक् कार्यालयः इत्यादिषु स्थानेषु सुरक्षाक्रमीकरणं तीव्रं कारितम्।
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन् 
कविकुलगुरु कालिदास-विश्वविद्यालयः महाराष्ट्रम्।
सम्भाषणचित्रकारः - श्री हरिः पि 
नमांसि, चतु:शतात् वर्षेभ्य: पूर्वं विश्वे 5000 भाषा: आसन्। इदानीम् उपद्विसहस्रा: सन्ति। व्यवहार: परित्यक्त: इत्यत: 3000 भाषा: विनष्टा:। व्यवहार-ह्रासादेव सहस्राधिका: भाषा: विनाशपथे सन्ति। संस्कृतभाषा नित्य-व्यवहारस्य भाषा करणीया। लक्षश: जनानां परस्पर-व्यवहार:, गृहव्यवहार:, विद्यालयव्यवहार:, कार्यालयव्यवहार:, सामाजिकव्यवहार: च संस्कृतेन भवेत्। संस्कृतस्य पुन: व्यवहारभाषाकरणमेव संस्कृतस्य पुन: भाषात्वसम्पादनम्। किञ्च एतद् कार्यं संस्कृतसेवायां मूलभूतं कार्यं, प्राणभूतं  च कार्यम्। मित्राणि, एतस्मै प्राणभूताय कार्याय अस्माकं जीवनं समर्पयाम:।

Tuesday, April 30, 2019

अन्तर्जालयुगेपि जीवन्ति पुस्तकानि।

संस्कृतभारत्या द्वारा कर्णाटकस्थे दावणगेरि इत्याख्ये प्रदेशे प्रचाल्यमाणे संस्कृतप्रबोधनवर्गे संस्कृतपुस्तकापणाः राराजन्ते ।
भारतीयाभ्याम् अमेरिक्कस्य 'केमिक्कल्' पुरस्कारः।
    पेन्सिल्वानिय> अमेरिक्कस्य केमिक्कल् सोसैटी द्वारा दीयमानाय पुरस्काराय भारतस्य द्वाै वैज्ञानिकौ अर्हतां प्राप्तवन्तौ। शान्ति स्वरूप्, विवेक्‌ एम् प्रभु च भवतः एतौ।

  अलिगड् मुस्लीं विश्वविद्यालयतः फिसिकल् केमिस्ट्रि विषये डाक्टर् बिरुदं सम्पादिता शान्तिस्वरूपः ओ इ एम्‌ अनुसन्धानदलस्य अध्यक्षः भवति। पिट्‌स् बर्ग् पलेट्‌ ग्लास् संस्थायाः कर्मचारी भवति। पि पि जि उद्योग संस्थायाः अनुसन्धाननिर्देशकः इत्यादि स्थानेषु विराजितः आसीत्।

   केमिक्कल् इंज्जिनीयर् भवति विवेक्‌ पोली महाशयः। विपुलेषु अनुसन्धानेषु कार्यनिरतः आसीत्I २०१५ तमे पोली महोदयः इलट्रोलैट् इति योजनायां नायकः आसीत्। वेर्जीनिय पोलीटेक्निक् संस्थायाः बिरुदं, मासचु सेट् विश्वविद्यालयतः डाक्टर् बिरुदं च तेन अवाप्तम्।
सहजीविने व्यथितमनस्काय शिशवे विश्वस्य आदरः। 
डेरिक् सि लालः कुक्कुटपोतं गृहीत्वा
आतुरालयाधिकृतानां पुरतः। 
 ऐसोल् >  एकस्मिन् हस्ते कुक्कुटशाबकम् अन्यस्मिन् दशरूप्यकमुद्रां च धृत्वा आतुरालयाधिकृतान् शाबकस्य जीवरक्षणाय याच्यमानं शिशुमुखं तरसा न विस्मर्यते। एषः डेरिक् सि लल्चानिम नामकः मिसोरां देशीयः बालकः। सहजीविने सन्तप्तहृदयः सः अन्ताराष्ट्रसमूहेन समादृतः अस्ति। 'पेट्टा' नामकेन अन्ताराष्ट्र पशु संरक्षणसंघटनेन [People for Ethical Treatment of Animals] "करुणार्द्रहृदयः शिशुः" पुरस्कार एव [Compationated Kid] डेरिक् बालकेन प्राप्तः। 
  घटना एवं । मिसोरामराज्ये सायरङ्गनगरवासी अयं षड्वयस्कः बालकः यदा स्वस्य द्विचक्रिकामारुह्य स्वगृहपरिसरे संक्रमणं अकरोत् तदा कस्यचन कुक्कुटशाबकस्य उपरि द्विचक्रिकाचक्रं आरुह्य तं पेषयामास।  सन्तप्तहृदयः सः तं कुक्कुटशाबकं संगृह्य समीपस्थम् आतुरालयमधावत्। हस्ते गृहीतां दशरूप्यकमुद्रां प्रसार्य कुक्कुटशाबकं रक्षितुम् आतुरालयाधिकृतान् अयाचत। किन्तु तस्मिन्नाभ्यन्तरे कुक्कुटपोतः मृत अभवत्। 
  परन्तु कुक्कुटशाबकं धारयन्तं तं काचन अनुवैद्या स्वजङ्गमदूरवाणीद्वारा चित्रीकृत्य पादटिप्पण्या सह समाजमाध्यमेषु न्यक्षिपत्। तत्तु आविश्वं  प्रासारयत्। अभिनन्दनानि तमन्वागच्छन्। प्रथमं स्वस्य विद्यालयेन सः समादृतः। अन्ते अन्ताराष्ट्रसमादरणं च। 
  बालकेषु पशुसहानुतिसंवर्धनं मानवमभिव्याप्य समस्तजीवजालं प्रति सहानुभूतिवर्धनाय सहायकमिति पेट्टा इन्डिया संस्थया पत्रिकाटिप्पणिना उक्तम्।

Monday, April 29, 2019

संस्कृतभाषाप्रचारणमण्डले संस्कृतभारत्याः योगदानं महत्तरं - एम्  सि दिलीप् कुमारः।
विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतसंगमं
डा एं सि दिलीप्कुमारः उद्घाटनं करोति।
 आलुवा >  संस्कृतभाषायाः प्रचारणे संस्कृतभारत्याः तथा 'विश्वसंस्कृतप्रतिष्ठानं' नामकस्य केरलघटकस्य योगदानं महत्तरं भवतीति कालटी संस्कृतविश्वविद्यालयस्य भूतपूर्वकुलपतिना एं सि दिलीप् कुमारमहोदयेन उक्तम्। 'प्रतिष्ठान'स्य ३९तमं राज्यस्तरीयं संस्कृतसङ्गमम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। आविश्वं बहुषु राष्ट्रेषु संस्कृतसम्भाषणद्वारा भाषाप्रचारणाय यतते संस्कृतभारती। प्रतिष्ठानस्य प्रवर्तनं केरले आदर्शपूर्णं तथापि इतो$पि  उत्कृष्टं भवितव्यमिति तेन निर्दिष्टम्। यतः यत्र संस्कृतस्य प्रभावः न दृश्यते तत्र सांस्कृतिकाधःपतनं सूच्यते।
  अस्मिन् संस्कृतसङ्गमे संस्कृतशास्त्रपण्डितः ग्रन्थकारश्च वारणक्कोट्ट् गोविन्दन् नम्पूतिरिः , रेखाचित्रकारः वेणु वारियत्त् इत्येतौ पण्डितरत्नपुरस्कारेण आदृतौ। संस्कृतभारत्याः अखिलभारतीयसंघटनाकार्यदर्शी दिनेश् कामत्त् वर्यः मुख्यभाषणमकरोत्। राज्याध्यक्षः डो. पि के माधवः कार्यक्रमे अध्यक्षपदमलङ्कृतवान्। उपाध्यक्षः डो. ई एन् ईश्वरः स्वागतं, पि एम् जोषी कृतज्ञतां च प्रकाशितवन्तौ।

Sunday, April 28, 2019

लोकसभानिर्वाचनं - चतुर्थसोपानं श्वः ; मण्डलानि ७२।
    नवदिल्ली >  भारतलोकसभानिर्वाचनस्य चतुर्थसोपानं श्वः सम्पद्यते। ९ राज्येषु ७२ मण्डलेषु सम्पद्यमानस्य मतदानस्य घोषप्रचारणं ह्यः समाप्तम्। अनेन ३७४ मण्डलेषु मतदानप्रक्रिया सम्पूर्णतामाप्नोति।
  चतुर्थसोपाने मतदानप्रक्रिया सम्पत्स्यमानानि राज्यानि संख्या च - महाराष्ट्रं - १७, उत्तरप्रदेशः - १३, राजस्थानं - १३, वंगः - ८, मघ्यप्रदेशः - ६, ओडिशा - ६, बीहार् - ५, झार्खण्ड् - ३, जम्मुकाश्मीर् - १। ओडिशायाम् अवशिष्टेषु ४१ मण्डलेषु विधानसभानिर्वाचनमपि श्व एव भविष्यति।
'फानि' चक्रवातः मङ्गलवासरे तीरं प्राप्स्यति।
     चेन्नै> भारतमहासमुद्रस्य भूमध्यरेखाप्रदेशे जातः अतितीव्र न्यूनमर्दः चक्रवातरूपेण परिवर्तितः। २४ होराभ्यन्तरेण शक्तिं धृत्वा उत्तरपश्चिमभागान् प्रति यास्यति वातः। चक्रवातः मङ्गलवासरे आन्ध्रं तमिळ् नाट् प्रदेशान् प्राप्य शक्तया रीत्या वीजनं कर्तुं प्रभविष्यति I  १७० कि. मी स्यात् वातवेगः। अतः जाग्रतानिर्देशः प्रसारितः अस्ति। धीवराः समुद्रे मा अवतरन्तु इति इति निर्दिष्टम्।

Saturday, April 27, 2019

वार्तामुक्तकानि। 
मोदी पत्रिकां समर्पितवान्। 
  वाराणसी >  प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्थे वाराणसी मण्डले भा ज पा स्थानाशिरूपेण नामनिर्देशपत्रिकां समर्पितवान्। प्रमुखानां सख्यदलानां नेतृभिः सह आगत्य वाराणसी जनपदाधिकारिणः सुरेन्द्रसिंहस्य सकाशमासीत् पत्रिकासमर्पणम्।
ऐ एन् एस् विक्रमादित्ये अग्निबाधा - एकः मृतः। 
  मुम्बई >  भारतस्य एकैकस्यां विमानवाहिनिमहानौकायां 'ऐ एन् एस् विक्रमादित्य' नामिकायां गतदिने अग्निबाधा सञ्जाता। महानौकाकर्मचारिभिः झटित्येव अग्निशमने कृते अपि तस्मिनुद्यमे डि एस् चौहान् नामकः लफ्टनन्ट् कमान्डर् पदस्थः मृतः। महानौकायाः कार्यक्षमता अवशिष्टा वर्तते।
श्रीलङ्कास्फोटनपरम्परायाः सूत्रधारः हतः। 
  कोलम्बो >  श्रीलङ्कास्फोटनपरम्परायाः सूत्रधारः इति उच्यमाणः इस्लामिकातङ्कवादी सह्रान् हाषिं नामकः स्फोटनेषु अन्यतमे एव हतः इति स्थिरीकृतः। कोलम्बोस्थे 'षान्ग्रिला'ख्ये पञ्चनक्षत्रपदीये निवाससमुच्चये कृते स्फोटने असीदस्य मृत्युः इति श्रीलङ्काराष्ट्रपतिना मैत्रीपाल सिरिसेनेन उक्तम्। श्रीलङ्का, केरलं, तमिलनाट् इत्येतेषु राज्येषु इस्लामिकशासनं संस्थापनीयमिति सामाजिकमाध्यमद्वारा सह्रान् हाषिमेन उक्तमासीत्।
'ऐ एन् एस् विक्रमादित्य' महानौकायाम् अग्निबाधा - नाविकः मारितः।

  नवदिल्ली> भारतस्य विमानवाहिनी नौका ऐ एन् एस् विक्रमादित्यः इत्यस्मिन् आपन्नायाम् अग्निबाधायाम एकः नाविकः मारितः। कर्णाटकस्थ कार्वार्  महानौका निस्थानं प्रति आगमनसमये एव अग्नि बाधा अभवत् इति नाविकसेनया आवेदितम्। अग्निशमनप्रवर्तनानां मध्ये लेफ्टनन्ट् कमान्टर् डि. एस्. चौहानः मृतः।  चौहानस्य नेतृत्वे  आसीत् अग्निशमनप्रवर्तनानि। अधिकधूमेन चैहानः मूर्छितः अभवत्।  शीघ्रं तं नाविक आतुरालयं प्रविशत्। ततः पूर्वं मृत्युः अभवत्।
क्षिप्रम् अग्निः अधीना अभवत् इत्यनेन नौकायाः क्षमतायाः हानिः न अभवत् इति नाविकसेनया उक्तम्।

Friday, April 26, 2019

संस्कृतभारत्याः 39 तमः संवत्सरीयमहामहः आलुवा देशे।
    आलुवा> एप्रिल् मासस्य 27, 28 दिनाङ्के आलुवा विद्याधिराज विद्याभवने संस्कृतभारत्याः एकोन चत्वारिंशत्तमः संवत्सरीय महामहः भविष्यति। प्रभाते नववादने पुस्तकमेला समारब्स्यते। सायं त्रिवादने संस्कृत सङ्गम कार्यक्रमस्य उद्‌घाटनं श्रीशङ्‌‌राचार्य विश्वविद्यालयस्य भूतपूर्व कुलपतिः डा. एं सि दिलीप् कुमारवर्यः करिष्यति। संस्कृतभारत्याः संघटना कार्यदर्शी श्री दिनेश् कामत् वर्यः मुख्यभाषणं च करिष्यति। डा. वारणक्कोट् गोविन्दन् नम्पूतिरि वर्यः  अस्मिन् वर्षस्य पण्डित-रत्नपुरस्कारेण समादृतो भविष्यति। आलुवा अद्वैताश्रमाध्यक्षः स्वामी शिवस्वरूपानन्दः कार्यक्रमे अनुग्रह भाषणं करिष्यति। डा. पि के माधवन्, महामहोपाध्याय डो. जि गङ्गाधरन् नायर् महोदयः, डा ईश्वरः ई एन्‌  च  कार्यक्रमे भाषणं करिष्यन्ति।
मुख्यन्यायाधीशं विरुध्य गूढालोचनारोपः -  भूत. न्याया. ए के  पट्नायिकः अन्वीक्ष्यते।
नवदिल्ली >  भारतसर्वोच्चन्यायालयस्य मुख्यन्यायाधीशं रञ्जन् गोगोय् वर्यं विरुध्य उद्भूतस्य लैङ्गिकारोपस्य नेपथ्ये उच्यमाणां गूढालोचनाम् अधिकृत्य अन्वेष्टुं भूतपूर्वन्यायाधीशस्य ए के पट्नायिकस्य नेतृत्वे सङ्घः नियुक्तः। मुख्यन्यायाधिपं विरुध्य प्रवर्तयितुं केचन स्वामभ्युपागच्छन्निति उत्सवसिंहबयिन्स् नामकेन नीतिज्ञेन समर्पितस्य लेखस्य आधारे एवायं पदक्षेपः।
अन्वीक्षणे सि बि ऐ, एे बि, ऐ एन् ए इत्यादिसंस्थानां साहाय्यम् अपेक्षितम्।
'फानि' चक्रवातः तमिळनाट् तीरं प्रति ; केरले वायुप्रवाह-वृष्टिसाध्यता, जाग्रतानिर्देशः ; तमिल्नाटे अतिजाग्रता। 
अनन्तपुरी >  श्रीलङ्कायाः दक्षिणपूर्वदिशि पुष्टिं प्राप्यमाणः न्यूनमर्दः तमिलनाट् राज्ये चक्रवातरूपेण प्राप्तुं साध्यता अस्तीति पर्यावरणविभागः। तत्र अतिजाग्रतानिर्देशः [रेड् अलेर्ट्]  प्रख्यापितः। 
  चक्रवातः केरलान् साक्षान्नोपसृजते तथापि एप्रिल् २९, ३० मई १ दिनाङ्केषु व्याप्यमानवृष्टेः अतिशक्तस्य झंझावातस्य च साध्यता वर्तते। सोमवासराय एरणाकुलम्, इटुक्की, तृश्शूर्, मलप्पुरं जनपदेषु जाग्रतानिर्देशः [येल्लो अलर्ट्] प्रख्यापितः। कर्णाटकराज्यस्य विविधप्रदेशेषु अपि वृष्टि-वातसाध्यता अस्ति। 
बङ्ग्लादेशेन चक्रवातस्य फानि इति नाम चकार।

Thursday, April 25, 2019

श्रीलङ्कास्फोटनं - उत्तरदायित्वं ऐ एस् संस्थया स्वीकृतम्। 
मरणानि ३५९। पुनरपि स्फोटनं ; न जीवहानिः। 

कोलम्बो >  गते ईस्टर् दिने श्रीलङ्कायां क्रैस्तवदेवाराधनालयेषु पञ्चनक्षत्रवाससमुच्चयेषु च संवत्तस्य आत्मघातिबोम्बाक्रमणस्य उत्तरदायित्वं इस्लामिक स्टेट्  [ऐ एस्] नामिकया भीकरसंस्थया स्वीकृतम्। पूर्वं सर्वकारेण निगदितमासीत् यत् 'नाषणल् तौहीद् जमा अत्' नामिका प्रादेशिकभीकरसंस्था एषामाक्रमणानां भूमिकायां प्रावर्तन्त। 
  तथा च कोलम्बोनगरात् ४० कि मी पूर्वस्यां दिशि पुगोडा नगरे ह्यः बोम्बस्फोटनं कृतम्। तत्र कस्यचन न्यायालयस्य समीपे जनशून्ये स्थाने आसीत् स्फोटनम्। अत एव जीवहानिः नास्तीति सूचितम्। 
  इतःपर्यन्तं स्फोटनेषु हतानां संख्या ३५९ अभवत्। तेषु १० भारतीयाः भवन्ति। बेङ्गलुरु स्वदेशिनौ ए मारिगौडः, एछ् पुट्टराजुः इत्येतौ मृताविति श्रीलङ्कास्थः भारतीयाधिकारी [हैकम्मीषणर्] निगदितवान्। >  गते ईस्टर् दिने श्रीलङ्कायां क्रैस्तवदेवाराधनालयेषु पञ्चनक्षत्रवाससमुच्चयेषु च संवत्तस्य आत्मघातिबोम्बाक्रमणस्य उत्तरदायित्वं इस्लामिक स्टेट्  [ऐ एस्] नामिकया भीकरसंस्थया स्वीकृतम्। पूर्वं सर्वकारेण निगदितमासीत् यत् 'नाषणल् तौहीद् जमा अत्' नामिका प्रादेशिकभीकरसंस्था एषामाक्रमणानां भूमिकायां प्रावर्तन्त।
  तथा च कोलम्बोनगरात् ४० कि मी पूर्वस्यां दिशि पुगोडा नगरे ह्यः बोम्बस्फोटनं कृतम्। तत्र कस्यचन न्यायालयस्य समीपे जनशून्ये स्थाने आसीत् स्फोटनम्। अत एव जीवहानिः नास्तीति सूचितम्।
  इतःपर्यन्तं स्फोटनेषु हतानां संख्या ३५९ अभवत्। तेषु १० भारतीयाः भवन्ति। बेङ्गलुरु स्वदेशिनौ ए मारिगौडः, एछ् पुट्टराजुः इत्येतौ मृताविति श्रीलङ्कास्थः भारतीयाधिकारी [हैकम्मीषणर्] निगदितवान्।

Wednesday, April 24, 2019

संस्कृतभारत्याः 39 तमः संवत्सरीयमहामहः आलुवा देशे।
    आलुवा> एप्रिल् मासस्य 27, 28 दिनाङ्के आलुवा विद्याधिराज विद्याभवने संस्कृतभारत्याः एकोन चत्वारिंशत्तमः संवत्सरीय महामहः भविष्यति। प्रभाते नववादने पुस्तकमेला समारब्स्यते। सायं त्रिवादने संस्कृत सङ्गम कार्यक्रमस्य उद्‌घाटनं श्रीशङ्‌‌राचार्य विश्वविद्यालयस्य भूतपूर्व कुलपतिः डा. एं सि दिलीप् कुमारवर्यः करिष्यति। संस्कृतभारत्याः संघटना कार्यदर्शी श्री दिनेश् कामत् वर्यः मुख्यभाषणं च करिष्यति। डा. वारणक्कोट् गोविन्दन् नम्पूतिरि वर्यः  अस्मिन् वर्षस्य पण्डित-रत्नपुरस्कारेण समादृतो भविष्यति। आलुवा अद्वैताश्रमाध्यक्षः स्वामी शिवस्वरूपानन्दः कार्यक्रमे अनुग्रह भाषणं करिष्यति। डा. पि के माधवन्, महामहोपाध्याय डो. जि गङ्गाधरन् नायर् महोदयः, डा ईश्वरः ई एन्‌  च  कार्यक्रमे भाषणं करिष्यन्ति।

केरले मताधिकाराङ्कनं महत्तरम्!(७८℅)
* समीपकालानां सर्वोच्चं मतदानम्! * ब॒हुत्र मतदानसमाप्तिः रात्रौ  विलम्बेन। यन्त्राणाम् अकुशलत्वमपि विलम्बहेतुः। 
अनन्तपुरी >  सप्तदशतमलोकसभानिर्वाचनस्य स्पर्धानिलः केरले मतदानवेलायामपि दृष्टः। दशकत्रितयेषु सर्वोत्कृष्टं मतदानमानमेव सम्पन्नम्। प्राथमिकसूचनाः अनुसृत्य ७७.७०% जनाः स्वाधिकारं विनियुक्तवन्तः। 
   प्रातः सप्तवादनादारब्धा मतदानप्रक्रिया सायं षड्वादनमिति निश्चितसमयमतिक्रम्य रात्रौ विलम्ब्य दीर्घिता। गतकालप्रक्रियामपेक्ष्य 'विविपाट्' यन्त्रस्य योजनेन अधिकः समयः एकैकस्य मतदानाय अपेक्षित आसीत्। किञ्च बहुत्रापि मतदानयन्त्राणां दूषणेन मतदानप्रारम्भ अपि विलम्बितः। किन्तु सम्मतिदायकानां बाहुल्यमपि प्रमुखं कारणमासीत्। 
  उच्चतमं मतदानं कण्णूर् मण्डले अङ्कितं - ८२.५%! राहुलगान्धिनः स्थानाशित्वेन देशीयश्रद्धामापन्ने वयनाट् मण्डले मतदानं सर्वकालीनं मानं भित्वा ८०.३% इति रेखितम्! केरलस्य सर्वेषु मण्डलेष्वपि मतदानमानं २०१४ तमवर्षस्य मानम् अतीतम्! अधुनातनस्य मतदानस्य फलं सर्वे राजनैतिकदलाः स्वहितफलात्मिकमति आश्वसन्ते!