OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 27, 2019

वार्तामुक्तकानि। 
मोदी पत्रिकां समर्पितवान्। 
  वाराणसी >  प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्थे वाराणसी मण्डले भा ज पा स्थानाशिरूपेण नामनिर्देशपत्रिकां समर्पितवान्। प्रमुखानां सख्यदलानां नेतृभिः सह आगत्य वाराणसी जनपदाधिकारिणः सुरेन्द्रसिंहस्य सकाशमासीत् पत्रिकासमर्पणम्।
ऐ एन् एस् विक्रमादित्ये अग्निबाधा - एकः मृतः। 
  मुम्बई >  भारतस्य एकैकस्यां विमानवाहिनिमहानौकायां 'ऐ एन् एस् विक्रमादित्य' नामिकायां गतदिने अग्निबाधा सञ्जाता। महानौकाकर्मचारिभिः झटित्येव अग्निशमने कृते अपि तस्मिनुद्यमे डि एस् चौहान् नामकः लफ्टनन्ट् कमान्डर् पदस्थः मृतः। महानौकायाः कार्यक्षमता अवशिष्टा वर्तते।
श्रीलङ्कास्फोटनपरम्परायाः सूत्रधारः हतः। 
  कोलम्बो >  श्रीलङ्कास्फोटनपरम्परायाः सूत्रधारः इति उच्यमाणः इस्लामिकातङ्कवादी सह्रान् हाषिं नामकः स्फोटनेषु अन्यतमे एव हतः इति स्थिरीकृतः। कोलम्बोस्थे 'षान्ग्रिला'ख्ये पञ्चनक्षत्रपदीये निवाससमुच्चये कृते स्फोटने असीदस्य मृत्युः इति श्रीलङ्काराष्ट्रपतिना मैत्रीपाल सिरिसेनेन उक्तम्। श्रीलङ्का, केरलं, तमिलनाट् इत्येतेषु राज्येषु इस्लामिकशासनं संस्थापनीयमिति सामाजिकमाध्यमद्वारा सह्रान् हाषिमेन उक्तमासीत्।
'ऐ एन् एस् विक्रमादित्य' महानौकायाम् अग्निबाधा - नाविकः मारितः।

  नवदिल्ली> भारतस्य विमानवाहिनी नौका ऐ एन् एस् विक्रमादित्यः इत्यस्मिन् आपन्नायाम् अग्निबाधायाम एकः नाविकः मारितः। कर्णाटकस्थ कार्वार्  महानौका निस्थानं प्रति आगमनसमये एव अग्नि बाधा अभवत् इति नाविकसेनया आवेदितम्। अग्निशमनप्रवर्तनानां मध्ये लेफ्टनन्ट् कमान्टर् डि. एस्. चौहानः मृतः।  चौहानस्य नेतृत्वे  आसीत् अग्निशमनप्रवर्तनानि। अधिकधूमेन चैहानः मूर्छितः अभवत्।  शीघ्रं तं नाविक आतुरालयं प्रविशत्। ततः पूर्वं मृत्युः अभवत्।
क्षिप्रम् अग्निः अधीना अभवत् इत्यनेन नौकायाः क्षमतायाः हानिः न अभवत् इति नाविकसेनया उक्तम्।

Friday, April 26, 2019

संस्कृतभारत्याः 39 तमः संवत्सरीयमहामहः आलुवा देशे।
    आलुवा> एप्रिल् मासस्य 27, 28 दिनाङ्के आलुवा विद्याधिराज विद्याभवने संस्कृतभारत्याः एकोन चत्वारिंशत्तमः संवत्सरीय महामहः भविष्यति। प्रभाते नववादने पुस्तकमेला समारब्स्यते। सायं त्रिवादने संस्कृत सङ्गम कार्यक्रमस्य उद्‌घाटनं श्रीशङ्‌‌राचार्य विश्वविद्यालयस्य भूतपूर्व कुलपतिः डा. एं सि दिलीप् कुमारवर्यः करिष्यति। संस्कृतभारत्याः संघटना कार्यदर्शी श्री दिनेश् कामत् वर्यः मुख्यभाषणं च करिष्यति। डा. वारणक्कोट् गोविन्दन् नम्पूतिरि वर्यः  अस्मिन् वर्षस्य पण्डित-रत्नपुरस्कारेण समादृतो भविष्यति। आलुवा अद्वैताश्रमाध्यक्षः स्वामी शिवस्वरूपानन्दः कार्यक्रमे अनुग्रह भाषणं करिष्यति। डा. पि के माधवन्, महामहोपाध्याय डो. जि गङ्गाधरन् नायर् महोदयः, डा ईश्वरः ई एन्‌  च  कार्यक्रमे भाषणं करिष्यन्ति।
मुख्यन्यायाधीशं विरुध्य गूढालोचनारोपः -  भूत. न्याया. ए के  पट्नायिकः अन्वीक्ष्यते।
नवदिल्ली >  भारतसर्वोच्चन्यायालयस्य मुख्यन्यायाधीशं रञ्जन् गोगोय् वर्यं विरुध्य उद्भूतस्य लैङ्गिकारोपस्य नेपथ्ये उच्यमाणां गूढालोचनाम् अधिकृत्य अन्वेष्टुं भूतपूर्वन्यायाधीशस्य ए के पट्नायिकस्य नेतृत्वे सङ्घः नियुक्तः। मुख्यन्यायाधिपं विरुध्य प्रवर्तयितुं केचन स्वामभ्युपागच्छन्निति उत्सवसिंहबयिन्स् नामकेन नीतिज्ञेन समर्पितस्य लेखस्य आधारे एवायं पदक्षेपः।
अन्वीक्षणे सि बि ऐ, एे बि, ऐ एन् ए इत्यादिसंस्थानां साहाय्यम् अपेक्षितम्।
'फानि' चक्रवातः तमिळनाट् तीरं प्रति ; केरले वायुप्रवाह-वृष्टिसाध्यता, जाग्रतानिर्देशः ; तमिल्नाटे अतिजाग्रता। 
अनन्तपुरी >  श्रीलङ्कायाः दक्षिणपूर्वदिशि पुष्टिं प्राप्यमाणः न्यूनमर्दः तमिलनाट् राज्ये चक्रवातरूपेण प्राप्तुं साध्यता अस्तीति पर्यावरणविभागः। तत्र अतिजाग्रतानिर्देशः [रेड् अलेर्ट्]  प्रख्यापितः। 
  चक्रवातः केरलान् साक्षान्नोपसृजते तथापि एप्रिल् २९, ३० मई १ दिनाङ्केषु व्याप्यमानवृष्टेः अतिशक्तस्य झंझावातस्य च साध्यता वर्तते। सोमवासराय एरणाकुलम्, इटुक्की, तृश्शूर्, मलप्पुरं जनपदेषु जाग्रतानिर्देशः [येल्लो अलर्ट्] प्रख्यापितः। कर्णाटकराज्यस्य विविधप्रदेशेषु अपि वृष्टि-वातसाध्यता अस्ति। 
बङ्ग्लादेशेन चक्रवातस्य फानि इति नाम चकार।

Thursday, April 25, 2019

श्रीलङ्कास्फोटनं - उत्तरदायित्वं ऐ एस् संस्थया स्वीकृतम्। 
मरणानि ३५९। पुनरपि स्फोटनं ; न जीवहानिः। 

कोलम्बो >  गते ईस्टर् दिने श्रीलङ्कायां क्रैस्तवदेवाराधनालयेषु पञ्चनक्षत्रवाससमुच्चयेषु च संवत्तस्य आत्मघातिबोम्बाक्रमणस्य उत्तरदायित्वं इस्लामिक स्टेट्  [ऐ एस्] नामिकया भीकरसंस्थया स्वीकृतम्। पूर्वं सर्वकारेण निगदितमासीत् यत् 'नाषणल् तौहीद् जमा अत्' नामिका प्रादेशिकभीकरसंस्था एषामाक्रमणानां भूमिकायां प्रावर्तन्त। 
  तथा च कोलम्बोनगरात् ४० कि मी पूर्वस्यां दिशि पुगोडा नगरे ह्यः बोम्बस्फोटनं कृतम्। तत्र कस्यचन न्यायालयस्य समीपे जनशून्ये स्थाने आसीत् स्फोटनम्। अत एव जीवहानिः नास्तीति सूचितम्। 
  इतःपर्यन्तं स्फोटनेषु हतानां संख्या ३५९ अभवत्। तेषु १० भारतीयाः भवन्ति। बेङ्गलुरु स्वदेशिनौ ए मारिगौडः, एछ् पुट्टराजुः इत्येतौ मृताविति श्रीलङ्कास्थः भारतीयाधिकारी [हैकम्मीषणर्] निगदितवान्। >  गते ईस्टर् दिने श्रीलङ्कायां क्रैस्तवदेवाराधनालयेषु पञ्चनक्षत्रवाससमुच्चयेषु च संवत्तस्य आत्मघातिबोम्बाक्रमणस्य उत्तरदायित्वं इस्लामिक स्टेट्  [ऐ एस्] नामिकया भीकरसंस्थया स्वीकृतम्। पूर्वं सर्वकारेण निगदितमासीत् यत् 'नाषणल् तौहीद् जमा अत्' नामिका प्रादेशिकभीकरसंस्था एषामाक्रमणानां भूमिकायां प्रावर्तन्त।
  तथा च कोलम्बोनगरात् ४० कि मी पूर्वस्यां दिशि पुगोडा नगरे ह्यः बोम्बस्फोटनं कृतम्। तत्र कस्यचन न्यायालयस्य समीपे जनशून्ये स्थाने आसीत् स्फोटनम्। अत एव जीवहानिः नास्तीति सूचितम्।
  इतःपर्यन्तं स्फोटनेषु हतानां संख्या ३५९ अभवत्। तेषु १० भारतीयाः भवन्ति। बेङ्गलुरु स्वदेशिनौ ए मारिगौडः, एछ् पुट्टराजुः इत्येतौ मृताविति श्रीलङ्कास्थः भारतीयाधिकारी [हैकम्मीषणर्] निगदितवान्।

Wednesday, April 24, 2019

संस्कृतभारत्याः 39 तमः संवत्सरीयमहामहः आलुवा देशे।
    आलुवा> एप्रिल् मासस्य 27, 28 दिनाङ्के आलुवा विद्याधिराज विद्याभवने संस्कृतभारत्याः एकोन चत्वारिंशत्तमः संवत्सरीय महामहः भविष्यति। प्रभाते नववादने पुस्तकमेला समारब्स्यते। सायं त्रिवादने संस्कृत सङ्गम कार्यक्रमस्य उद्‌घाटनं श्रीशङ्‌‌राचार्य विश्वविद्यालयस्य भूतपूर्व कुलपतिः डा. एं सि दिलीप् कुमारवर्यः करिष्यति। संस्कृतभारत्याः संघटना कार्यदर्शी श्री दिनेश् कामत् वर्यः मुख्यभाषणं च करिष्यति। डा. वारणक्कोट् गोविन्दन् नम्पूतिरि वर्यः  अस्मिन् वर्षस्य पण्डित-रत्नपुरस्कारेण समादृतो भविष्यति। आलुवा अद्वैताश्रमाध्यक्षः स्वामी शिवस्वरूपानन्दः कार्यक्रमे अनुग्रह भाषणं करिष्यति। डा. पि के माधवन्, महामहोपाध्याय डो. जि गङ्गाधरन् नायर् महोदयः, डा ईश्वरः ई एन्‌  च  कार्यक्रमे भाषणं करिष्यन्ति।

केरले मताधिकाराङ्कनं महत्तरम्!(७८℅)
* समीपकालानां सर्वोच्चं मतदानम्! * ब॒हुत्र मतदानसमाप्तिः रात्रौ  विलम्बेन। यन्त्राणाम् अकुशलत्वमपि विलम्बहेतुः। 
अनन्तपुरी >  सप्तदशतमलोकसभानिर्वाचनस्य स्पर्धानिलः केरले मतदानवेलायामपि दृष्टः। दशकत्रितयेषु सर्वोत्कृष्टं मतदानमानमेव सम्पन्नम्। प्राथमिकसूचनाः अनुसृत्य ७७.७०% जनाः स्वाधिकारं विनियुक्तवन्तः। 
   प्रातः सप्तवादनादारब्धा मतदानप्रक्रिया सायं षड्वादनमिति निश्चितसमयमतिक्रम्य रात्रौ विलम्ब्य दीर्घिता। गतकालप्रक्रियामपेक्ष्य 'विविपाट्' यन्त्रस्य योजनेन अधिकः समयः एकैकस्य मतदानाय अपेक्षित आसीत्। किञ्च बहुत्रापि मतदानयन्त्राणां दूषणेन मतदानप्रारम्भ अपि विलम्बितः। किन्तु सम्मतिदायकानां बाहुल्यमपि प्रमुखं कारणमासीत्। 
  उच्चतमं मतदानं कण्णूर् मण्डले अङ्कितं - ८२.५%! राहुलगान्धिनः स्थानाशित्वेन देशीयश्रद्धामापन्ने वयनाट् मण्डले मतदानं सर्वकालीनं मानं भित्वा ८०.३% इति रेखितम्! केरलस्य सर्वेषु मण्डलेष्वपि मतदानमानं २०१४ तमवर्षस्य मानम् अतीतम्! अधुनातनस्य मतदानस्य फलं सर्वे राजनैतिकदलाः स्वहितफलात्मिकमति आश्वसन्ते!
श्रीलङ्काराष्ट्रे दुरापन्नानां स्फोटनानाम् उत्तरदायित्वम् ऐ एस् दलेन स्वीकृतम्।
  नवदिल्ली> ईस्टर् दिने श्रीलङ्कराष्ट्रे आपन्नानां विस्फोटनानां दायित्वम् इस्लामिक् स्टेट् इति भीकरदलेन स्वीकृतम्। अष्टकेन्द्रेषु दुरापन्ने विस्फोटने ३१० जनाः मारिताःI ५०० अधिकाः व्रणिताः च। प्रदेशिक-आतङ्कवाद-संधटनया 'तौहीद्  जमा अत्' इत्यनया आक्रमणं कृता इत्यासीत् श्रीलङ्‌कायाः पूर्वोक्तिः। आक्रमणस्य दायित्वम् इस्लामिक्‌ स्टेट् दलेन स्वीकृतम्। आक्रमणकारी ऐ एस् स्यात् इति अमेरिक्काराष्ट्रेण पूर्वम् उक्तमासीत्‌। न्यूसिलान्टस्थ क्रैस्ट् देवालये कृताक्रमणानुबन्धतया भवति इदम् आक्रमणम् इति सर्वकारेण उच्यते इदानीम्।  क्रैस्तवदेवलयाः वसतिगृहाणि च आसीत् लक्ष्याणि। अष्टौ भारतीयाः बहवः विदेशीयाः च मारिताः। तेषु पञ्चचत्वारिंशत् (४५) शिशवः आसन्।

Tuesday, April 23, 2019

रसना संस्कृतमासपत्रिकायाः सम्पादिका समादृता। 
    त्रिश्शूर्-/केरलम्> के पि कोच्चुकृष्णगणक स्मारकपुरस्कारेण रसना संस्कृतपत्रिकायाः सम्पादिका डा. के श्यामला समादृता। तृश्शिवपेरूर् विवेकानन्द सेवाकेन्द्रेण पुरस्कारः समायोजितः।
   दशवर्षाणियावत् संस्कृतपत्रिकाद्वारा संस्कृत प्रचारणमण्डलेषु एषा प्रयत्नं कृतवती। स्तगनं विना पत्रिका प्रतिमासं प्रकाशिता इति प्राधान्यमावहति। इदानीं संस्कृतपत्रकारिता मण्डलेषु उत्तमपत्रिका इति सर्वैः अङ्गीकृता भवति एषा रसना नाम संस्कृतमासपत्रिका।
लोकसभानिर्वाचनं  - तृतीयसोपानम् अद्य ; मण्डलानि ११७।
नवदिल्ली >  भारते लोकसभानिर्वाचनस्य तृतीयं सोपानम् अद्य प्रातः  सप्तवादने आरब्धम्। १३ राज्येषु द्वयोः केन्द्रशासनप्रदेशयोश्च अस्मिन्  सोपाने मतदानं सम्पद्यते। केरलं , गुजरात्, गोवा राज्येषु सर्वेषु मण्डलेष्वपि अद्यैव जनहितं समर्पयिष्यति। 
 कर्नाटके १४, महाराष्ट्रे १४, उत्तरप्रदेशे १०, छत्तीसगढ़े ७, ओडीषायां ६, बीहारे ५, वंगे ५, असमे ४, ततो जम्मुकाश्मीरः, त्रिपुरा, दादर नगरहवेली, दामन् दि यू इत्येतेषु प्रदेशेषु च अद्य मतदानं सम्पत्स्यते।

Monday, April 22, 2019

प्रधानमन्त्री चोरः इति उक्तिः - राहुल्गान्धी सर्वोच्च न्यायालये खेदं प्रकाशितवान्।

    नवदिल्ली> प्रधानमन्त्री चोरः इति सर्वोच्च न्यायलयेन प्रत्यभिज्ञातम् इति प्रस्तुत्यां कोण्ग्रस् अध्यक्षः राहुल् गान्धी उच्चन्यायालये खेदं प्रकाशितवान्। सत्यवाङ्मूलमपि लिखित्वा दत्तवान्। राफेल् नियामिकविधाने सर्वोच्च-न्यायालयस्य मध्यकालीन निर्णयं सूचयित्वा  आसीत् राहुल् गान्धिनः भाषणम्। राफेल्  क्रयणे प्रधानमन्त्रिणा अलीकः कृतः इति सर्वोच्च न्यायालयेनोक्तम् इत्यासीत्  अमेत्याम् आयोजिते निर्वाचनमेलने उक्तम्।  एतस्य भाषणं विरुद्ध्य भाजपादलेन सर्वोच्च न्यायालये न्यायालयालक्ष्य याचिका प्रदत्ता आसीत्l 
श्रीलङ्कायां स्फोटनपम्परा - २०५ हताः ; ४५० अधिकाः व्रणिताः।
कोलम्बो > श्रीलङ्कायां राजधानी कोलम्बोनगरमभिव्याप्य विविधस्थानेषु होराणामाभ्यन्तरे संवृत्तायां आत्मघातिस्फोटनपरम्परायां २०५ जनाः हताः। ४५० अधिकाः आहताः।
 ईस्टर दिने प्रभाते आसीत् स्फोटनम्। कोलम्बोनगरसमीपस्थायां मृगशालायां, कोछीगडा सेन्ट् आन्टणीस् चर्च्, नेगम्पो सेन्ट सेबास्ट्यन् चर्च् , बाटिकला चर्च् इत्येतेषु क्रैस्तवदेवालयेषु संग्री ला, सिन्नमण् ग्रान्ट्, किङ्स् बरी इत्येतेषु  निवाससमुच्चयेषु च स्फोटनानि अभवन्। स्फोटनस्य उत्तरदायित्वं केनापि इतःपर्यन्तं न स्वीकृतम्।

Sunday, April 21, 2019

केरले घोषप्रचारणम् अद्य समाप्यते ; मतदानं परश्वः। 
कोच्ची >   लोकसभानिर्वाचनस्य तृतीयसोपाने  केरलस्य जनहितं सम्पद्यते! परश्वः सम्पद्यमानाय निर्वाचनाय घोषप्रचारणम् अद्य सायं षट्वादने  समाप्यते।  सर्वं सिद्धमिति केरलस्य मुख्यनिर्वाचनाधिकारी टिक्कारां मीणा न्यवेदयत्।
    केरले विद्यमानेषु २० मण्डलेषु एकेनैव सोपानेन निर्वाचनं सम्पत्स्यते। भूरिशः मण्डलेषु कोण्ग्रस् दलस्य नेतृत्वे यू डि एफ् सख्यं , सि पि एम् दलस्य नेतृत्वे एल् डि एफ् सख्यं च मुख्यौ प्रतियोगिनौ। तथापि ५-६सु मण्डलेषु भा ज पा दलेन सह शक्ता त्रिकोणप्रतिस्पर्धा दृश्यते।
 अत्रत्यं वयनाट्  मण्डलं कोण्ग्रस् दलाध्यक्षस्य राहुल् गान्धिनः स्थानाशित्वेन देशीयश्रद्धा्माकर्षति। मिसोरामराज्यस्य राज्यपालपदं परित्यज्य   बी जे पी स्थानाशित्वेन स्पर्धमानस्य कुम्मनं राजशेखरस्य सान्निध्येन तिरुवनन्तपुरं मण्डलमपि राष्ट्रियप्राधान्यमर्हति। शबरिगिरिमन्दिरस्य अधिष्ठानत्वेन वर्तमानं पत्तनंतिट्टा मण्डलमपि देशीयस्तरे त्रिकोणस्पर्धया राजनैतिकश्रद्धामावहति। के सुरेन्द्रः तत्र बी जे पी स्थानाशी।
 प्रधानमन्त्री नरेन्द्रमोदी, अमित् षा, राहुल् गान्धी, प्रियङ्कागान्धी, सीतारां यच्चूरी इत्यादयः बहवः राष्ट्रियनेतारः स्वस्वदलीयानां स्थानाशिनां कृते केरलेषु सर्वत्र प्रचारणं कृतवन्तः सन्ति।

Saturday, April 20, 2019

हौर-दिली पूर्व एक्स्प्रस रैल् पट्टिकातः स्कलितम्। १४- यात्रिकाः व्रणिताः।
    काण्पुरम्> : हौर-दिली पूर्व एक्स्प्रस रेल् यानस्य १२ यानपेटकानि  रैल् पट्टिकातः स्कलितानि १४ यात्रिकाः व्रणिताः। शनिवासरे प्रभातात् पूर्वं १२.३० वादने काण्पुरस्य समीपेएव अपघातः जातः। व्रणिताः समीपस्थे आतुरालये प्रविष्वन्तः। राष्ट्रिय दुरन्तनिवारण सेनायाः ४५ अङ्गसहित संघः रक्षाप्रवर्तनानि समारब्धानि।
शिशून् विरुध्य अतिक्रमं वारयितुं नियमसंहितापरिवर्तनाय यतिष्यते - शिशुक्षेममन्त्रिणी। 
 तिरुवनन्तपुरं >  शिशून् विरुध्य अतिक्रमान् वारयितुम् इदानींतनकेन्द्रनियमसंहितायां परिवर्तनाय यतिष्यत इति केरलराज्यस्य स्वास्थ्य-शिशुक्षेममन्त्रिणी के के शैलजा उक्तवती। केरले सप्ताहद्वयाभ्यन्तरे द्वौ शिशू पितृकल्पबान्धवानां मर्दनेन मारितौ इत्येतां घटनां पुरस्कृत्य एव सर्वकारस्य एतादृशी परिकल्पना। एतादृशघटनासु  अपराधिभूतानां द्रव्याणि सर्वकाराधीनतां प्रापयितुं पदक्षेपः   स्वीकरिष्यते।
  मातुः मर्दनेन एरणाकुलस्थे निजीयातुरालये प्रविष्टः त्रिवयस्कः शिशुः ह्यः मृत आसीत्। सप्ताहद्वयात्पूर्वं पितृस्थानीयस्य क्रूरमर्दनेन पञ्चवयस्कः इतरः बालः अपि मृत्युमुपगतवान्।
  शिशून् तथा बालकान् विरुध्य क्रियमाणेभ्यः अतिक्रमेभ्यः तान् रक्षितुं 'तणल्' नामिका परियोजना आविष्कृता अस्ति। १५१७ इति दूरवाणीसंख्यां प्रति बालान् विरुध्य सर्वानतिक्रमान् सूचयितुं शक्यते।
भारतीयाः ट्रिप्पोली नगरात् शीघ्रं प्रतिनिवर्तनीयाः - सुषमास्वराजः। 
   नवदिल्ली> लिबिय राष्ट्रस्य राजधानीतः ट्रिप्पोलीतः भारतीयाः शीघ्रमेव प्रतिनिवर्तनीयाः इति केन्द्र-विदेशकार्यमन्त्रिण्या सुषमा स्वराज् महाभागया उक्तम्।  लिबिय राष्ट्रे आभ्यन्तर कलहः वर्धितः इत्यनेन भवति विदेशकार्यमन्त्रिण्यः निर्देशः। युषमाकं बान्धवान् सुहृदः च ट्रिप्पोलीतः प्रत्यागन्तुम् उच्यताम्  नो चेत् ततः तान् निष्कासितुं न शक्यते अस्माभिः इति टिट्वर् द्वारा सुषमा महाभागया  उक्तम्I
   लिबियस्य राजधानी ट्रिप्पोलीनगरस्य नियन्त्रणं ग्रहीतुकामाः विमतदलीयाः सप्ताहद्वयं यावत् प्रयत्नं कुर्वन्तः सन्ति। सन्दर्भोऽयं संघर्षः वर्धितः। ५०० भारतीयाः ट्रिप्पोलि नगरे सन्ति इत्यस्ति आवेदनम्। अतिरूक्षसंघर्षः  स्यात्  इदानीं विमानसेवा अस्ति इत्यपि विदेशकार्यमन्त्रिण्या उक्तम्।

Friday, April 19, 2019

नेपालस्य पदक्षेपः बाह्याकाशंप्रति- प्रथमः उपग्रहविक्षेपणः विजयः।

 काठ्‌मण्‌डु > बाह्याकाशं प्रति उपग्रहविक्षेपणं कृत्वा नेपालराष्ट्रेणापि तेषाम् उपस्थितिः प्रख्यापिता। नेपालस्य प्रथमविक्षेपणम्  विजयमासीत् इति वैज्ञानिकान् नेपालस्य पौरजनान् च आह्लादचित्तान् आकारयत्। अमेरिक्कस्थ विर्जिनिया विक्षेपणपीठात् २:३१ वादने आसीत् विक्षेपणम्।

    नेपाली साट् १ - उपग्रहः नेपालस्यवैज्ञानिकैः निर्मितः भवति । नेपालदेशस्य वैज्ञानिकयोः अभास् मस्के, हरिराम् श्रेष्ठ इत्याख्ययोः नेतृत्वे विद्यमान सङ्खः एव उपग्रहनिर्माणेषु व्यापृतः। सर्वेभ्यः वैज्ञानिकेभ्यः नेपालस्य प्रधानमन्त्री के पि शर्मा ओली अभिनन्दनम् अर्पितवान्। एषः निमेषः राष्ट्रस्य अभिमान निमेषः इति तेन उक्तम्।