OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 19, 2019

द्वितीयसोपाने मतदानं ६६%! 
नवदिल्ली >  गुरुवासरे सम्पन्ने भारतलोकसभानिर्वाचनस्य द्वितीयसोपाने प्रतिशतं षड्षष्टि जनाः मतदानाधिकारं विनियुक्तवन्तः इति निर्वाचनायोगस्य वरिष्ठः उपायुक्तः उमेष् सिंहः निगदितवान्। ११ राज्येषु तथा केन्द्रशासनप्रदेशे पुतुश्शेर्यां च ९५ लोकसभामण्डलेषु निर्वाचनं सम्पन्नम्। 
   बीहार्, उत्तरप्रदेशः, महाराष्ट्रं, जम्मुकाश्मीरः, ओडीषा इत्येतेषु राज्येषु मतदानविनियोगः न्यूनमासीत्। तमिल् नाट् राज्ये ३८ मण्डलेषु निर्वाचनं सम्पन्नम्। तत्रस्थस्य वेल्लूर् मण्डलस्य निर्वाचनं आर्थिकं व्यवहारनियमलङ्घनमारोप्य निरस्तमासीत्। 
   विविधराज्येषु मतदानप्रक्रिया प्रतिशतरूपेण -   वंगः - ७५.२७, मणिप्पुरं - ७५.६९, असमः - ७३.३१, पुतुश्शेरी - ७२.४०, छत्तीसगढ - ६८.७०, कर्णाटकं - ६७.६७, तमिल्नाट् - ६१.५२, बीहार् - ५८.१४, उत्तरप्रदेशः - ५८.१२, ओडीषा - ५७.४१, महाराष्ट्रं - ५५.३७, जम्मुकाश्मीरः - ४३.३७।

Thursday, April 18, 2019

जेट् एयर् वेय्स् इति संस्थया विमानसेवा स्थगिता।
  
मुम्बै> आर्थिकक्लेशेन जेट् एयर् वेय्स् इति संस्थया विमानसेवा बुधवासरे रात्रेरारभ्य  स्थगिता। बुधवासरे रात्रौ १०.३० वादने अन्तिमं विमानं  भूमौ अवतारितम्। गतदिनेषु पञ्चविमानानि एव डयितानि। १२० विमानसेवाः प्रतिदिनं आसन्। किन्तु आर्थिकक्लेशेन शुष्कीभूय एवं जातम्। 
विश्वस्य बृहत् विमानं डयितम्। त्रयः आकाश-बाणः विक्षेपणाय  विमाने सुसज्जः।
    मौक्रोसोफ्ट् संस्थायाः सहस्थापकः पोल् अलन् इत्याख्यस्य सङ्कल्पनमासीत्  विश्वस्य बृहत् आकारकं विमानम् इति। इदानीं तस्य स्वप्नस्य साक्षात्कारः  अभवत्। शनिवासरे विमानं उड्डयितम्।
१९४७ तमे डयितः  होवार्ड् ह्यूग्स् इत्यस्य 'स्प्रूस् गूस्' इति विमानादपि बृहत् भवति 'स्ट्राट्टो लोञ्च्' इति नूतनं इदं विमानम्।
    कालिफोर्णिय देशास्य मोजावे एयर्  आन्ट् स्पेस् पोर्टतः उड्डयितं विमानं होराद्वयम्  आकाशे विहरितम्।  २८ चक्राणि द्वे बाह्य कवचे, षट् ७४८ जेट् यन्त्राणि च सन्ति इति विमानस्य सविशेषता एव। विमानस्य पक्षे पादकन्तुकक्षेत्रस्य उभयपार्श्वपर्यन्तं दीर्घितं अस्ति। विक्षेपणाय सुसज़्जः    त्रयः आकाश-बाणाः अपि विमाने  विद्यन्ते। किन्तु विमानस्य डयनं द्रष्टुं पोल् अलन् इत्यस्य भाग्यः नासीत्। विगते ओक्तोबर् मासे सः दिवङ्गतः अभवत्।

Wednesday, April 17, 2019

लोमवती मधुकर्कटी। पश्चिमाद्रिपङ्क्तितिषु नवीना मधुकर्कटी लब्धा।
-डा. अभिलाष् जे
   कोट्टक्कल्> तमिल्नाट् राज्यस्य कोत्तगिरि वनेषु पूर्णतया लोमयुक्तां मधुकर्कटीं प्राप्ता। कोट्टक्कल् आर्यवैद्यशालायाः औषधोद्यान-गवेषणकेन्द्रस्य सस्यवर्गीकरणविभागस्य शास्त्रकारस्य डा.को एम् प्रभुकुमारस्य तथा डा.इन्दिरा बालचन्द्रस्य च नेतृत्वे प्रवृत्ते गवेषणे नवीना मधुकर्कटी प्रत्यभिज्ञाता । समान्य मधुकर्किटीतः विभिन्ना भवति एषा इति डा. इन्दिरा बालचन्द्रेन उक्तम्। पुष्पाणि पीतवर्णानि सन्ति। फलानां रूपं सामान्यमधुकर्कटीतः लघु भवति। नीलगिरि वनेषु अपूर्वाणां सस्यानां अध्ययने अस्ति अस्य अवगमनम्। एतत् सस्यं दक्षिण अमेरिक्कायां विद्यमान वास्कोण्सेल्लिया प्यूबसेन्स् अस्तीति निर्णीतमस्ति। मधुररसमपि न्यूनमेव। अस्यां जीवकम्  सी, ए पोट्टास्यं इत्यादीनां बाहुल्यं वर्तते। अस्य पाप्पयिन् इति वस्तुना औषधनिर्माणं भवति।  समुद्रतलात् ४९०० तः ९८०० उपरि भागे वर्तन्ते।मालियड्करा ए एन् एम् महाविद्यालयस्य सस्य शास्त्रविभागस्य अध्यापकः डा. सी एन् सुनिलः, पूर्व शास्त्रकारः नवीन कुमारः तन्त्रांश विभागस्य अङ्गः बिनु प्रकाशः इत्येते सन्ति गवेषकाः।

Tuesday, April 16, 2019

प्रशासने  अगन्तुं शक्यते  चेत् शिखावृत्तिना सह प्रतिदास्यामः - निर्वाचनायोगं प्रति मयावती। 
    लख्नौ> निर्वचनप्रचारणस्य काले आत्मानं विरुद्ध्य ४८ होरात्मकस्य निवारणं प्रख्यापितस्य निर्वाचनायोगस्य प्रक्रमान्‌ विरुद्ध्य बी एस्‌ पि नेतृणी मायावती रोषाकुला अभवत्। निर्वाचन नियमान् उल्लङ्घितवती इति उक्त्वा आसीत्‌ आयोगस्य प्रक्रमः। निर्वाचननियमान् उल्लङ्ख्य वेदिकासु प्रभाषं कृतवान्‌ इत्यनेन यूपि मुख्यमन्त्रिणे योगीने आदित्यनाथाय निर्वाचन प्रचारणात् ७२ होरात्मकं निवारणम् आयाेगेन प्रख्यापितम् आसीत्I आयोगस्य निर्णयः पक्षावलम्बितः इति मायावत्या उक्तम्। प्रशासने  अगन्तुं शक्यते  चेत् शिखा वृत्तिना सह प्रतिदास्यामः इति मायावत्या उक्तम्।

फ्रान्स् राष्ट्रे पुरातनं 'नेत्रदाम्' क्रैस्तवाराधनालयः अग्निसात्कृतः। 

पारीस् >  फ्रान्स् राष्ट्रस्थः ८५० संवत्सरैः पुरातनः नेत्रदाम नामकः क्रैस्तवाराधनालयः गतसोमवासरे अग्निबाधायां विशीर्णः अभवत्। आराधनालयस्य नवीकरणप्रवर्तनानां मध्ये आसीदग्निबाधा। मुख्यगोपुरं छदिश्च अग्निसात्कृते। 
  १२तमे शतके आसीदस्य आराधनालयस्य निर्मितिः। यावच्छीघ्रम् अस्य पुनर्निमितिं करिष्यतीति फ्रान्स् राष्ट्रपतिना इम्मानुवल् मक्रोण् महाभागेन उक्तम्।
लोकसभानिर्वाचनं द्वितीयसोपानं गुरुवासरे ; घोषप्रचारणम् अद्य समाप्यते। 
नवदिल्ली >  भारते १७तमलोकसभानिर्वाचनस्य द्वितीयसोपानं गुरुवासरे सम्पत्स्यते। १३ राज्येषु ९७ मण्डलेष्वेव निर्वाचनम्। एतेषु स्थानेषु घोषप्रचारणम् अद्य सायं समाप्यते। 
  द्वितीयसोपाने अधिकतमानि मण्डलानि तमिळनाडु राज्ये विद्यन्ते - ३९। कर्णाटकस्य १४, उत्तरप्रदेशस्य ८ , महाराष्ट्रस्य १० मण्डलेषु परश्वः मतदानं भविष्यति। असं - ५, बीहारः - ५, ओडीषा - ५, छत्तीसगढ़ - ३, वेगः - ३,   जम्मुकाश्मीरः - २, त्रिपुरं - १, पुतुश्शेरी - १ एतान्येव द्वितीयकोपाने जनहितकांक्षीणि अन्यानि मण्डलानि

Monday, April 15, 2019

भारते दक्षिण-पश्चिमकालीना वर्षा सामान्येन भविष्यति  
   नवदिल्ली> कृषिमण्डलेषु समाश्वासं वितरति इदम् आवेदम्। अस्मिन् संवत्सरे दक्षिण-पश्चिमकालीना वर्षा सामान्यतया भविष्यति इति वातावरण-निरीक्षण-केन्देण आवेदितम्।  दीर्घकालीन-मापानाङ्कस्य ९६% वृष्टिः भविष्यति इति भूवैज्ञानिक विभागसचिवः  राजीवः दिल्याम् आयोजिते वार्ताहरमेलने अवदत्।
    जूण् मासतः सेप्तम्बर् मासपर्यन्तं भवति दक्षिण-पश्चिम वर्षाकालः। राष्ट्रस्य अर्धाधिकभागस्य भूमेः जललब्धिः  दक्षिण-पश्चिम वर्षाकालम् आश्रित्य भवति।

Sunday, April 14, 2019

यू ए ई राष्ट्रे शक्ता वर्षा- जाग्रता निर्देशः प्रसारितः।
   दुबाय्> मेघगर्जनेन सौदामिन्या सहितायां महत्यां वृष्ट्यां निमज्जितं यु ए ई राष्ट्रम्। विविध भागेषु वातः वृष्टिः च अनुवर्तते इति कारणेन रविवासरस्य पूर्वाह्ने ११:३० पर्यन्तं जाग्रता सूचना प्रसारिता अस्ति। शनिवासरात् आरभ्य अनुवर्तिता भवति वृष्टिः। वृष्ट्या सह करकाः (Hali) अपि पतितानि। पूर्वदेशेषु एदन् अल्गयिल्, प्रदेशेषु विद्यमानेषु गिरिशिखरेषु मेघविस्फोटः अभवत्। गतागतसुविधा स्थगिता। 
   दिनद्वयात् पूर्वं अन्तरिक्षः मेघाच्छादितः आसीत्। मध्याह्ने एव आतपः। अन्यस्मिन् काले  शीतवातस्य वीजनम् आसीत्। इदानीं सर्वकारेण अतिसुरक्षाप्रक्रमाः स्वीकृताः।

Saturday, April 13, 2019

जालियन् वालाबाग् वधम् - १०० संवत्सराणि अतीतानि।
    तस्मिन् दिने १५०० निरपराधि जनाः हताः। स्वतन्त्रताभिवाञ्छया जालियन् वाला बाग् चत्वरे समागताः समान्यजनाः ब्रिट्टणस्य सैनिकनेतृणा रजिनाल्ड डयर् नामकेन गोलिकाशस्त्र प्रयोगेण निहताः। १९१९ एप्रिल् १३ वैशाखिदिने आसीत् तत्। 
सर्वं स्मरिष्यामः ।
भारतस्य स्वातन्त्र्यं पालयिष्यामः ।
भाजपा शासनं पुनरपि भविष्यति चेत् राष्ट्रविद्रोहनियमः सुशक्तं करिष्यति- राजनाथ सिंहः।
    नवदिल्ली> राष्ट्रविद्रोहनियमः निराकरिष्यते इत्युक्त्वा प्रकाशितं कोण्ग्रस् दलस्य सङ्कल्पपत्रिकां विरुद्ध्य केन्द्र आभ्यन्तरमन्त्रिणा राजनाथसिंहेन स्वस्य विरुद्धाभिमतः प्रकाशितः। भाजपा शासनं पुनरपि भविष्यति चेत् राष्ट्रविद्रोहनियमः सुशक्तं करिष्यति इति तेन उक्तम्। गुजरात् राज्यस्थ कच् देशे सामायोजिते निर्वाचनपदसञ्चलने भाषमाणः आसीत् सः।
अष्टोत्तरशतं दीपप्रज्वलनेन संस्कृताचार्यस्य अष्टोत्तरशततमः जन्मदिनाघोषः।   
के पि अच्युतपिषारटि। 

पट्टाम्पी >  संस्कृतप्रचारः जीवितव्रतत्वेन स्वीकृतवतः आचार्यस्य १०८तमं जन्मदिनं अक्षरदेवतायाः पुरतः १०८ दीपान् प्रज्वाल्य आघुष्टम्। के पि अच्युतपिषारटि नामकः वन्द्यवयोधिकः इदानीमपि संस्कृतभाषाप्रचाराय मग्नः भवति। प्रतिदिनं अनेकाः शिष्याः 'पुतुश्शेरि मन' नामके तस्य भवने  सन्देहनिवारणाय नवज्ञानार्जनाय च तम् उपगच्छन्ति। शिष्याणां परिवाराङ्गानाम् अभ्युदयकाङ्क्षिणां च नेतृत्वे कोटुमुण्ट मण्णियम्पूर् सरस्वतीमन्दिरे आसीत् १०८ दीपानां प्रज्वालनम्। 
  पण्डितराज इति प्रख्यातस्य पुन्नश्शेरि नीलकण्ठशर्मणः शिष्येषु वयोभिः ज्येष्ठतमो भवति के पि अच्युतपिषारटिः।  यशःशरीरः संस्कृतपण्डितः ग्रन्थकारश्च  के पि नारायण पिषारटिः तस्य ज्येष्ठः आसीत्। बाल्ये ज्येष्ठ आसीत् देववाण्यां तस्य गुरुः। अनन्तरं पुन्नश्शेरि नम्पिनः 'सारस्वतोद्योतिनी' नामिकायां पाठशालायां संवत्सरचतुष्टयं संस्कृतं पठित्वा 'साहित्यशिरोमणि' बिरुदं संप्राप्तवान्। 
   ततः तृप्रयार् पेरिङ्ङोट्टुकर विद्यालये संस्कृताध्यापनेन अच्युतपिषारटि वर्यः स्वस्य संस्कृतसपर्यां प्रारब्धवान्। अनन्तरं सप्त वा अष्ट विद्यालयेषु सः औद्योगिकवृत्तिरूपेण  संस्कृतामृतं पर्यवेषयत्। विरामानन्तरं स्वभवनमेव पाठशालामकरोत्। ततः इदानीमपि शिष्येभ्यः ज्ञानसुधा प्रवहति।संस्कृतसाहित्य व्याकरणादिषु शास्त्रेषु तस्य अगाधं पाण्डित्यमास्वाद्य शिष्याः अभिरमन्ति च।

Friday, April 12, 2019

लोकसभा-निर्वाचनस्य प्रथमसोपानम् समाप्तम्। आन्ध्राप्रदेशे आक्रमणेषु द्वौ हतौ।
     नवदिल्ली> लोकसभा निर्वाचनस्य प्रथम सोपानं सम्पन्नम्। २० राज्येषु ९१ मण्डलेषु एव अद्य मतदान मभवत् । लब्धां  गणनाम् अनुसृत्य सिक्किं ६०% मिसोरम् ६०% नागालान्ट् ७८%, मणिपुरम् ७ ८.२%, त्रिपुर ८१%, असं(५) ६८%, प. बंगाल् (२) ८१ %, आन्टमान् निक्कोबार् (१) ७०.६७%, आन्ध्रं (२५) ६६ %, उत्तराखण्डम् (५) ५७.८५%, जमुकाश्मीर् (२) ५४.४९%, तेलङ्काना (१५) ६०%, छत्तीस् गढ् (१) ५६%, अरुणाचल् (२) ६६%, बिहार् (४) ५०%, लक्षद्वीप् (१) ६६%, महाराष्ट्रम् (७)५६%, मेघालयम् (२) ६७.१६%, ओडीषा (४) ६८%, यु पि (८) ६३६९% इति क्रमेण अस्ति मतदान स्थितिः। 
आन्ध्राप्रदेशे दुरापन्ने कलहे द्वाै निहतौ। वै एस् आर् कोण्ग्रस् टी डी पि दलयोः प्रवर्तकौ भवतः एतौ।

Thursday, April 11, 2019

लोकसभानिर्वाचनस्य प्रथमसोपानम् अद्य। 
कोच्ची >  सप्तसोपानयुतस्य भारतलोकसभानिर्वाचनस्य प्रथमसोपानम् अद्य सम्पद्यते। विंशति राज्येषु ९१ मण्डलेष्वेव मतदानविनियोगः। तथा च त्रयाणां राज्यानां विधानसभानिर्वाचनमपि अद्य सम्पद्यते। 
 आन्ध्राप्रदेशस्य आहत्य ४०मण्डलेषु २५ मण्डलेषु अद्य निर्वाचनं भविष्यति। तेलुङ्कानस्य १७, उत्तरप्रदेशस्य ८, महाराष्ट्रस्य ७, असमराज्यस्य ५, उत्तराखण्डस्य ५ मण्डलेषु च अद्य जनाधिकारः विनियुज्यते। अद्यैव जनहिताय   प्रतीक्ष्यमाणानि इतराणि राज्यानि मण्डलानि च - बीहारः [४], ओडीषा [४], अरुणाचलप्रदेशः [२], मेघालयः [२],  पश्चिमवंगः [२], जम्मुकाश्मीरः [२], छत्तीसगढ़, मणिप्पूर्, मिसोराम्, नागालान्ट्, सिक्किम्, त्रिपुरं, अन्तमान्-निक्कोबार्, लक्षद्वीपः [एकैकं] च। आन्ध्रप्रदेशः, अरुणाचलप्रदेशः सिक्किम राज्येषु विधानसभानिर्वाचनानि च अद्य प्रचलन्ति।
लोकसभानिर्वाचनस्य प्रथम श्रेणी समारब्धाI ९१ मण्डलेषु अद्य मतदानम् 
       नवदिल्ली> अद्य प्रातः सप्तवादने लोकसभानिर्वाचनस्य प्रथम श्रेणीमतदानम् समारब्धम्। १८ राज्येषु २ केन्द्रशासन केन्द्रयोः च भवति मतदानम्। आन्ध्राप्रदेशे अरुणाचलप्रदेशे च नियमसभानिर्वाचनस्य मतदानमपि अद्य प्रचलति। प्रातः सप्तवादने मतदानम्  आरब्धम्। सुरक्षाकार्यक्रमः सुसज्जतया वर्तते।

Wednesday, April 10, 2019

संस्कृत-पत्रकारितायाः आधुनिक-संस्कृतस्य च सुबहु प्रचारार्थं कृतभूरिश्रमाय बलदेवानन्द सागर-महोदयाय  राष्ट्रपतेः सम्मान-प्रमाणपत्र-प्रदानम् 
     -  हेमन्त-जोशी

   नवदिल्ल्याम् अशोका-होटेल्-इत्यत्र मासेऽस्मिन् ४-दिने राष्ट्रपतेः सम्मान-पत्रेण महर्षि-बादरायण-व्यास-सम्मानेन च वरिष्ठाः युवानश्च प्रायेण शताधिकाः विद्वान्सः भारतस्य माननीयेन उपराष्ट्रपतिना वैङ्कय्या-नायडु-महोदयेन सभाजिताः। अवसरेऽस्मिन् भाषमाणः माननीयः उपराष्ट्रपतिः अब्रवीत् यत् पुरातनानां भारतीय-भाषाणां सम्वर्धनं संरक्षणञ्च साम्प्रतं परमावश्यके स्तः | 
     अत्रावसरे आकाशवाण्याः दूरदर्शनस्य च सुख्यातः संस्कृत-वार्त्ताप्रसारकः डॉ.बलदेवानन्द-सागरः संस्कृत-पत्रकारितायाः आधुनिक-संस्कृतस्य च सुबहु प्रचारार्थं कृतभूरिश्रमः सन् राष्ट्रपतेः सम्मान-पत्रेण सभाजितोऽस्ति | 
    इदमत्र विशेषेण अवधेयमस्ति यत् सागर-महोदयः साम्प्रतमपि व्यक्तिशो वा वैद्युताणविक-सञ्चारमाध्यमैः संस्कृतस्य शिक्षण-प्रशिक्षण-प्रवाहिनीं प्रवाहयति| संस्कृत-पत्रकारिताम् अभिलक्ष्य अमुना महोदयेन संस्कृत-भाषायामेव प्रथमं “संस्कृतपत्रकारिताः इतिवृत्तम् अधुनातन-स्वरूपञ्च” इति पुस्तकम् अलेखि| इदमपि उल्लेखनीयं यत् जगति प्रथमोऽयं संस्कृत-वार्त्ता-प्रसारको येन १९९४-तमे वर्षे ओगस्ट-मासे २१-विंशे दिने दृश्य-वाहिनीतः [दूरदर्शनात्] प्रथमवारं वार्त्ता-प्रसारणम् आरब्धम्| संस्कृत-शिक्षा-जगतः संस्कृतवार्त्ता-श्रोतृवर्ग-पक्षतश्च सागर-महोदयस्य कृते कोटिशो मङ्गलकामनाः वितीर्यन्ते |
राजनैतिकदलाचार्यः के एम् माणी दिवंगतः। 
  कोच्ची>  केरलस्य राजनैतिक-दलमण्डले अतुल्यप्रशोभं विराजमानः वरिष्ठनेता , केरलाकोण्ग्रस् (एम्) दलस्य परमाध्यक्षः, यू डि एफ् सख्यस्य परमोन्नतः नेता,  तथा च पक्षभेदं विना 'माणिसर्' इति सम्बुध्या समादृतः के एम् माणि महोदयः (८६) ह्यः सायं कोच्ची नगरस्थे लेक्षोर् आतुरालये दिवंगतः। श्वासकोशरोगबाधितः सः कतिपयकालेन तत्र चिकित्सायामासीत्। 
  इदानीं कोट्टयं जनपदस्थे पाला मण्डले सामाजिकस्य माणिमहोदयस्य राजनैतिक-जीवनप्रशोभाम् एवं संगृह्यामहे - 
* राष्ट्रे नितरामधिकतमम् आयव्ययपत्राणि अवतारितवान् वित्तमन्त्री! (१३वारं)
* केवलमेकैकमात्रस्य मण्डलस्य दीर्घतमकालीनः सामाजिकः! (पाला - १३वारं विजितवान्,  ५४ संवत्सराणां सामाजिकत्वम्!)
* केरलराजतन्त्रसभायां दीर्घतमकालीनः अङ्गः ! 
* केरलराज्यस्य मन्त्रिरूपेण भूयिष्ठकालीना सेवा! सप्तवारत्वेन २४ संवत्सराणि विविधाः विभागाः अनेन निरूढाः!
  प्रधानमन्त्री नरेन्द्रमोदी , कोण्ग्रस् दलाध्यक्षः राहुल् गान्धी, केरलमुख्यमन्त्री पिणरायि विजयः इत्यादयः बहवः प्रमुखाः माणिवर्यस्य निर्याणे अनुशोचितवन्तः!
ऑण् लैन् द्वारा धनांशदानं स्वीकृतेषु प्रथमस्थानं कनय्यकुमाराय- ७० लक्षम्।
   नवदिल्ली > अम्मिन् लोकसभानिर्वाचने प्रचारणाय ओण्लैन् द्वारा धनांशं स्वीकृतवन्तः बहवः सन्ति। तेषु अधिकधनं स्वीकृत्य प्रथमस्थानं प्राप्तवान् सि पि ऐ स्थानाशी कनय्यकुमारः। ७० लक्षं रूप्यकाणि तेन एवं स्वीकृतानि। पूर्वदिल्ली मण्डलस्य ए ए पि स्थानाशी अतिषि मार्लेनया ५० लक्षं रुप्यकाणि सञ्चितानि। आन्ध्रराज्यस्य पार्चुरितः स्पर्धिष्यमाणः बि एस् पि स्थानाशी विजयकुमारः १.९ लक्षं रूप्यकाणि  समाहृतानि। सि पि एम्‌ स्थानाशी मुहम्मद् सलीमः १.४ लक्षं रूप्यकाणि एवं संभृतानि।
     'अवर् डेमोक्रसि' इति क्रौड् फण्टिङ् अन्तर्जाल-सुविधा द्वारा स्थानाशिनः १.४ कोटि रूप्यकाणि एवं स्वीकृतानि। ४० स्थानाशिनः एषा अन्तर्जाल सुविधायाः उपयोगं कृतवन्तः।