OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 16, 2019

फ्रान्स् राष्ट्रे पुरातनं 'नेत्रदाम्' क्रैस्तवाराधनालयः अग्निसात्कृतः। 

पारीस् >  फ्रान्स् राष्ट्रस्थः ८५० संवत्सरैः पुरातनः नेत्रदाम नामकः क्रैस्तवाराधनालयः गतसोमवासरे अग्निबाधायां विशीर्णः अभवत्। आराधनालयस्य नवीकरणप्रवर्तनानां मध्ये आसीदग्निबाधा। मुख्यगोपुरं छदिश्च अग्निसात्कृते। 
  १२तमे शतके आसीदस्य आराधनालयस्य निर्मितिः। यावच्छीघ्रम् अस्य पुनर्निमितिं करिष्यतीति फ्रान्स् राष्ट्रपतिना इम्मानुवल् मक्रोण् महाभागेन उक्तम्।
लोकसभानिर्वाचनं द्वितीयसोपानं गुरुवासरे ; घोषप्रचारणम् अद्य समाप्यते। 
नवदिल्ली >  भारते १७तमलोकसभानिर्वाचनस्य द्वितीयसोपानं गुरुवासरे सम्पत्स्यते। १३ राज्येषु ९७ मण्डलेष्वेव निर्वाचनम्। एतेषु स्थानेषु घोषप्रचारणम् अद्य सायं समाप्यते। 
  द्वितीयसोपाने अधिकतमानि मण्डलानि तमिळनाडु राज्ये विद्यन्ते - ३९। कर्णाटकस्य १४, उत्तरप्रदेशस्य ८ , महाराष्ट्रस्य १० मण्डलेषु परश्वः मतदानं भविष्यति। असं - ५, बीहारः - ५, ओडीषा - ५, छत्तीसगढ़ - ३, वेगः - ३,   जम्मुकाश्मीरः - २, त्रिपुरं - १, पुतुश्शेरी - १ एतान्येव द्वितीयकोपाने जनहितकांक्षीणि अन्यानि मण्डलानि

Monday, April 15, 2019

भारते दक्षिण-पश्चिमकालीना वर्षा सामान्येन भविष्यति  
   नवदिल्ली> कृषिमण्डलेषु समाश्वासं वितरति इदम् आवेदम्। अस्मिन् संवत्सरे दक्षिण-पश्चिमकालीना वर्षा सामान्यतया भविष्यति इति वातावरण-निरीक्षण-केन्देण आवेदितम्।  दीर्घकालीन-मापानाङ्कस्य ९६% वृष्टिः भविष्यति इति भूवैज्ञानिक विभागसचिवः  राजीवः दिल्याम् आयोजिते वार्ताहरमेलने अवदत्।
    जूण् मासतः सेप्तम्बर् मासपर्यन्तं भवति दक्षिण-पश्चिम वर्षाकालः। राष्ट्रस्य अर्धाधिकभागस्य भूमेः जललब्धिः  दक्षिण-पश्चिम वर्षाकालम् आश्रित्य भवति।

Sunday, April 14, 2019

यू ए ई राष्ट्रे शक्ता वर्षा- जाग्रता निर्देशः प्रसारितः।
   दुबाय्> मेघगर्जनेन सौदामिन्या सहितायां महत्यां वृष्ट्यां निमज्जितं यु ए ई राष्ट्रम्। विविध भागेषु वातः वृष्टिः च अनुवर्तते इति कारणेन रविवासरस्य पूर्वाह्ने ११:३० पर्यन्तं जाग्रता सूचना प्रसारिता अस्ति। शनिवासरात् आरभ्य अनुवर्तिता भवति वृष्टिः। वृष्ट्या सह करकाः (Hali) अपि पतितानि। पूर्वदेशेषु एदन् अल्गयिल्, प्रदेशेषु विद्यमानेषु गिरिशिखरेषु मेघविस्फोटः अभवत्। गतागतसुविधा स्थगिता। 
   दिनद्वयात् पूर्वं अन्तरिक्षः मेघाच्छादितः आसीत्। मध्याह्ने एव आतपः। अन्यस्मिन् काले  शीतवातस्य वीजनम् आसीत्। इदानीं सर्वकारेण अतिसुरक्षाप्रक्रमाः स्वीकृताः।

Saturday, April 13, 2019

जालियन् वालाबाग् वधम् - १०० संवत्सराणि अतीतानि।
    तस्मिन् दिने १५०० निरपराधि जनाः हताः। स्वतन्त्रताभिवाञ्छया जालियन् वाला बाग् चत्वरे समागताः समान्यजनाः ब्रिट्टणस्य सैनिकनेतृणा रजिनाल्ड डयर् नामकेन गोलिकाशस्त्र प्रयोगेण निहताः। १९१९ एप्रिल् १३ वैशाखिदिने आसीत् तत्। 
सर्वं स्मरिष्यामः ।
भारतस्य स्वातन्त्र्यं पालयिष्यामः ।
भाजपा शासनं पुनरपि भविष्यति चेत् राष्ट्रविद्रोहनियमः सुशक्तं करिष्यति- राजनाथ सिंहः।
    नवदिल्ली> राष्ट्रविद्रोहनियमः निराकरिष्यते इत्युक्त्वा प्रकाशितं कोण्ग्रस् दलस्य सङ्कल्पपत्रिकां विरुद्ध्य केन्द्र आभ्यन्तरमन्त्रिणा राजनाथसिंहेन स्वस्य विरुद्धाभिमतः प्रकाशितः। भाजपा शासनं पुनरपि भविष्यति चेत् राष्ट्रविद्रोहनियमः सुशक्तं करिष्यति इति तेन उक्तम्। गुजरात् राज्यस्थ कच् देशे सामायोजिते निर्वाचनपदसञ्चलने भाषमाणः आसीत् सः।
अष्टोत्तरशतं दीपप्रज्वलनेन संस्कृताचार्यस्य अष्टोत्तरशततमः जन्मदिनाघोषः।   
के पि अच्युतपिषारटि। 

पट्टाम्पी >  संस्कृतप्रचारः जीवितव्रतत्वेन स्वीकृतवतः आचार्यस्य १०८तमं जन्मदिनं अक्षरदेवतायाः पुरतः १०८ दीपान् प्रज्वाल्य आघुष्टम्। के पि अच्युतपिषारटि नामकः वन्द्यवयोधिकः इदानीमपि संस्कृतभाषाप्रचाराय मग्नः भवति। प्रतिदिनं अनेकाः शिष्याः 'पुतुश्शेरि मन' नामके तस्य भवने  सन्देहनिवारणाय नवज्ञानार्जनाय च तम् उपगच्छन्ति। शिष्याणां परिवाराङ्गानाम् अभ्युदयकाङ्क्षिणां च नेतृत्वे कोटुमुण्ट मण्णियम्पूर् सरस्वतीमन्दिरे आसीत् १०८ दीपानां प्रज्वालनम्। 
  पण्डितराज इति प्रख्यातस्य पुन्नश्शेरि नीलकण्ठशर्मणः शिष्येषु वयोभिः ज्येष्ठतमो भवति के पि अच्युतपिषारटिः।  यशःशरीरः संस्कृतपण्डितः ग्रन्थकारश्च  के पि नारायण पिषारटिः तस्य ज्येष्ठः आसीत्। बाल्ये ज्येष्ठ आसीत् देववाण्यां तस्य गुरुः। अनन्तरं पुन्नश्शेरि नम्पिनः 'सारस्वतोद्योतिनी' नामिकायां पाठशालायां संवत्सरचतुष्टयं संस्कृतं पठित्वा 'साहित्यशिरोमणि' बिरुदं संप्राप्तवान्। 
   ततः तृप्रयार् पेरिङ्ङोट्टुकर विद्यालये संस्कृताध्यापनेन अच्युतपिषारटि वर्यः स्वस्य संस्कृतसपर्यां प्रारब्धवान्। अनन्तरं सप्त वा अष्ट विद्यालयेषु सः औद्योगिकवृत्तिरूपेण  संस्कृतामृतं पर्यवेषयत्। विरामानन्तरं स्वभवनमेव पाठशालामकरोत्। ततः इदानीमपि शिष्येभ्यः ज्ञानसुधा प्रवहति।संस्कृतसाहित्य व्याकरणादिषु शास्त्रेषु तस्य अगाधं पाण्डित्यमास्वाद्य शिष्याः अभिरमन्ति च।

Friday, April 12, 2019

लोकसभा-निर्वाचनस्य प्रथमसोपानम् समाप्तम्। आन्ध्राप्रदेशे आक्रमणेषु द्वौ हतौ।
     नवदिल्ली> लोकसभा निर्वाचनस्य प्रथम सोपानं सम्पन्नम्। २० राज्येषु ९१ मण्डलेषु एव अद्य मतदान मभवत् । लब्धां  गणनाम् अनुसृत्य सिक्किं ६०% मिसोरम् ६०% नागालान्ट् ७८%, मणिपुरम् ७ ८.२%, त्रिपुर ८१%, असं(५) ६८%, प. बंगाल् (२) ८१ %, आन्टमान् निक्कोबार् (१) ७०.६७%, आन्ध्रं (२५) ६६ %, उत्तराखण्डम् (५) ५७.८५%, जमुकाश्मीर् (२) ५४.४९%, तेलङ्काना (१५) ६०%, छत्तीस् गढ् (१) ५६%, अरुणाचल् (२) ६६%, बिहार् (४) ५०%, लक्षद्वीप् (१) ६६%, महाराष्ट्रम् (७)५६%, मेघालयम् (२) ६७.१६%, ओडीषा (४) ६८%, यु पि (८) ६३६९% इति क्रमेण अस्ति मतदान स्थितिः। 
आन्ध्राप्रदेशे दुरापन्ने कलहे द्वाै निहतौ। वै एस् आर् कोण्ग्रस् टी डी पि दलयोः प्रवर्तकौ भवतः एतौ।

Thursday, April 11, 2019

लोकसभानिर्वाचनस्य प्रथमसोपानम् अद्य। 
कोच्ची >  सप्तसोपानयुतस्य भारतलोकसभानिर्वाचनस्य प्रथमसोपानम् अद्य सम्पद्यते। विंशति राज्येषु ९१ मण्डलेष्वेव मतदानविनियोगः। तथा च त्रयाणां राज्यानां विधानसभानिर्वाचनमपि अद्य सम्पद्यते। 
 आन्ध्राप्रदेशस्य आहत्य ४०मण्डलेषु २५ मण्डलेषु अद्य निर्वाचनं भविष्यति। तेलुङ्कानस्य १७, उत्तरप्रदेशस्य ८, महाराष्ट्रस्य ७, असमराज्यस्य ५, उत्तराखण्डस्य ५ मण्डलेषु च अद्य जनाधिकारः विनियुज्यते। अद्यैव जनहिताय   प्रतीक्ष्यमाणानि इतराणि राज्यानि मण्डलानि च - बीहारः [४], ओडीषा [४], अरुणाचलप्रदेशः [२], मेघालयः [२],  पश्चिमवंगः [२], जम्मुकाश्मीरः [२], छत्तीसगढ़, मणिप्पूर्, मिसोराम्, नागालान्ट्, सिक्किम्, त्रिपुरं, अन्तमान्-निक्कोबार्, लक्षद्वीपः [एकैकं] च। आन्ध्रप्रदेशः, अरुणाचलप्रदेशः सिक्किम राज्येषु विधानसभानिर्वाचनानि च अद्य प्रचलन्ति।
लोकसभानिर्वाचनस्य प्रथम श्रेणी समारब्धाI ९१ मण्डलेषु अद्य मतदानम् 
       नवदिल्ली> अद्य प्रातः सप्तवादने लोकसभानिर्वाचनस्य प्रथम श्रेणीमतदानम् समारब्धम्। १८ राज्येषु २ केन्द्रशासन केन्द्रयोः च भवति मतदानम्। आन्ध्राप्रदेशे अरुणाचलप्रदेशे च नियमसभानिर्वाचनस्य मतदानमपि अद्य प्रचलति। प्रातः सप्तवादने मतदानम्  आरब्धम्। सुरक्षाकार्यक्रमः सुसज्जतया वर्तते।

Wednesday, April 10, 2019

संस्कृत-पत्रकारितायाः आधुनिक-संस्कृतस्य च सुबहु प्रचारार्थं कृतभूरिश्रमाय बलदेवानन्द सागर-महोदयाय  राष्ट्रपतेः सम्मान-प्रमाणपत्र-प्रदानम् 
     -  हेमन्त-जोशी

   नवदिल्ल्याम् अशोका-होटेल्-इत्यत्र मासेऽस्मिन् ४-दिने राष्ट्रपतेः सम्मान-पत्रेण महर्षि-बादरायण-व्यास-सम्मानेन च वरिष्ठाः युवानश्च प्रायेण शताधिकाः विद्वान्सः भारतस्य माननीयेन उपराष्ट्रपतिना वैङ्कय्या-नायडु-महोदयेन सभाजिताः। अवसरेऽस्मिन् भाषमाणः माननीयः उपराष्ट्रपतिः अब्रवीत् यत् पुरातनानां भारतीय-भाषाणां सम्वर्धनं संरक्षणञ्च साम्प्रतं परमावश्यके स्तः | 
     अत्रावसरे आकाशवाण्याः दूरदर्शनस्य च सुख्यातः संस्कृत-वार्त्ताप्रसारकः डॉ.बलदेवानन्द-सागरः संस्कृत-पत्रकारितायाः आधुनिक-संस्कृतस्य च सुबहु प्रचारार्थं कृतभूरिश्रमः सन् राष्ट्रपतेः सम्मान-पत्रेण सभाजितोऽस्ति | 
    इदमत्र विशेषेण अवधेयमस्ति यत् सागर-महोदयः साम्प्रतमपि व्यक्तिशो वा वैद्युताणविक-सञ्चारमाध्यमैः संस्कृतस्य शिक्षण-प्रशिक्षण-प्रवाहिनीं प्रवाहयति| संस्कृत-पत्रकारिताम् अभिलक्ष्य अमुना महोदयेन संस्कृत-भाषायामेव प्रथमं “संस्कृतपत्रकारिताः इतिवृत्तम् अधुनातन-स्वरूपञ्च” इति पुस्तकम् अलेखि| इदमपि उल्लेखनीयं यत् जगति प्रथमोऽयं संस्कृत-वार्त्ता-प्रसारको येन १९९४-तमे वर्षे ओगस्ट-मासे २१-विंशे दिने दृश्य-वाहिनीतः [दूरदर्शनात्] प्रथमवारं वार्त्ता-प्रसारणम् आरब्धम्| संस्कृत-शिक्षा-जगतः संस्कृतवार्त्ता-श्रोतृवर्ग-पक्षतश्च सागर-महोदयस्य कृते कोटिशो मङ्गलकामनाः वितीर्यन्ते |
राजनैतिकदलाचार्यः के एम् माणी दिवंगतः। 
  कोच्ची>  केरलस्य राजनैतिक-दलमण्डले अतुल्यप्रशोभं विराजमानः वरिष्ठनेता , केरलाकोण्ग्रस् (एम्) दलस्य परमाध्यक्षः, यू डि एफ् सख्यस्य परमोन्नतः नेता,  तथा च पक्षभेदं विना 'माणिसर्' इति सम्बुध्या समादृतः के एम् माणि महोदयः (८६) ह्यः सायं कोच्ची नगरस्थे लेक्षोर् आतुरालये दिवंगतः। श्वासकोशरोगबाधितः सः कतिपयकालेन तत्र चिकित्सायामासीत्। 
  इदानीं कोट्टयं जनपदस्थे पाला मण्डले सामाजिकस्य माणिमहोदयस्य राजनैतिक-जीवनप्रशोभाम् एवं संगृह्यामहे - 
* राष्ट्रे नितरामधिकतमम् आयव्ययपत्राणि अवतारितवान् वित्तमन्त्री! (१३वारं)
* केवलमेकैकमात्रस्य मण्डलस्य दीर्घतमकालीनः सामाजिकः! (पाला - १३वारं विजितवान्,  ५४ संवत्सराणां सामाजिकत्वम्!)
* केरलराजतन्त्रसभायां दीर्घतमकालीनः अङ्गः ! 
* केरलराज्यस्य मन्त्रिरूपेण भूयिष्ठकालीना सेवा! सप्तवारत्वेन २४ संवत्सराणि विविधाः विभागाः अनेन निरूढाः!
  प्रधानमन्त्री नरेन्द्रमोदी , कोण्ग्रस् दलाध्यक्षः राहुल् गान्धी, केरलमुख्यमन्त्री पिणरायि विजयः इत्यादयः बहवः प्रमुखाः माणिवर्यस्य निर्याणे अनुशोचितवन्तः!
ऑण् लैन् द्वारा धनांशदानं स्वीकृतेषु प्रथमस्थानं कनय्यकुमाराय- ७० लक्षम्।
   नवदिल्ली > अम्मिन् लोकसभानिर्वाचने प्रचारणाय ओण्लैन् द्वारा धनांशं स्वीकृतवन्तः बहवः सन्ति। तेषु अधिकधनं स्वीकृत्य प्रथमस्थानं प्राप्तवान् सि पि ऐ स्थानाशी कनय्यकुमारः। ७० लक्षं रूप्यकाणि तेन एवं स्वीकृतानि। पूर्वदिल्ली मण्डलस्य ए ए पि स्थानाशी अतिषि मार्लेनया ५० लक्षं रुप्यकाणि सञ्चितानि। आन्ध्रराज्यस्य पार्चुरितः स्पर्धिष्यमाणः बि एस् पि स्थानाशी विजयकुमारः १.९ लक्षं रूप्यकाणि  समाहृतानि। सि पि एम्‌ स्थानाशी मुहम्मद् सलीमः १.४ लक्षं रूप्यकाणि एवं संभृतानि।
     'अवर् डेमोक्रसि' इति क्रौड् फण्टिङ् अन्तर्जाल-सुविधा द्वारा स्थानाशिनः १.४ कोटि रूप्यकाणि एवं स्वीकृतानि। ४० स्थानाशिनः एषा अन्तर्जाल सुविधायाः उपयोगं कृतवन्तः।

Monday, April 8, 2019

विपाट् ५०% गणनीयम् - षट्दिनानि यावत् प्रतिपाल्य स्थास्यामः - विपक्षिदलाः।
     नवदिल्ली> लेकसभा निर्वाचनेषु प्रतिशतं ५० विपाट् पत्राणि गणानीयानि इति विपक्षिदलाः वाञ्चन्ति। गणनार्थं षट् दिनानां विलम्बेन एव मतगणनाफलं प्रकाशयितुं शक्यते इति निर्वाचना योगस्य वादं निरस्य सर्वोच्च-न्यायपीठे विपक्षिदलैः सत्यापनं प्रकाशितम्। २१ विपक्षिदलैः तेषां वाञ्चा प्रकाशिता।
    निर्वाचनप्रक्रमस्य विश्वासार्जनाय षट्दिनानां विलम्बः गुरुतरा न्यूनता न इति सत्यवाङ्मूले विपक्षिदलेन  लिखितम्। निर्वाचनायोगस्य वा मतदानयन्त्रस्य वा क्षमतायां शङ्का नास्ति। किन्तु तानि सर्वेषां विश्वासयोग्यानि भवेयुः इत्यस्ति आस्माकम् अभिलाषः इति सत्यवाङ्मूल-पत्रिकायाम् लिखितम्।

Sunday, April 7, 2019

प्राशासनिक-सेवापरीक्षाफलं प्रकाशितम् - प्रथमस्थाने दलितविभागीयः। 
   नवदिल्ली >  २०१८ तमवर्षस्य प्राशासनिकसेवापरीक्षाफलं यू पि एस् सि संस्थया प्रकाशितम्। ऐ ऐ टि मुम्बई संस्थातः बिरुदं प्राप्तवान् तथा राजस्थानराज्ये जयपुरं स्वदेशीयः  दलितजातीयः च कनिष्क् कटारियः प्रथमस्थानमर्हति। गुहावतीस्थायाः ऐ ऐ टी संस्थायाः बिरुदं लब्धवता जयपुरं स्वदेशीयेन अक्षन्त् जेयिन् नामकेन द्वितीयस्थानं प्राप्तम्। तृतीयस्थीनीयः जुनैद् अहम्मदः, चतुर्थस्थानीयः श्रेयान्स् कुमदाख्यः राजस्थानस्य किषन् गढ् स्वदेशीयः च भवति। पञ्चमस्थानं कस्यैचन महिलायै लभते, सा तु सृष्टि जयन्त् देश्मुख् नामिका, मध्यप्रदेशस्य भोपाल् प्रदेशीया।
केरले भूगर्भजलं षट् मीटर् पर्यन्तम् अवनतम्। 
पानजलदुर्भिक्षं प्रतीक्षते।
आलप्पुष़ा >  प्रलयानन्तरं केरले विविधेषु जनपदेषु भूगर्भजलवितानं द्वेरारभ्य षण्मीटर् पर्यन्तम् अवनतमिति राज्यभूजलविभागेन कृते अन्वीक्षणे परिदृष्टम्। अन्वीक्षणफलस्य आवेदनं सर्वकाराय समर्पितम्। राज्ये नैकेषु प्रदेशेषु पानजलदुर्भिक्षम् भविष्यतीति आशङ्का अस्ति।
 तृश्शिवपेरूर् जनपदस्य विविधेषु प्रदेशेषु एव ६ मीटर् परिमितस्य जलावनतिः दृष्टा। गतदशसंवत्सरेषु राज्यस्य कूपेषु अनुभूतं जलवितानव्यतियानं निरीक्ष्य आसीत् अन्वीक्षणम्।
 कोल्लं, कोट्टयं, वयनाट्, कासरगोड्, कोष़िक्कोट्, एरणाकुलम्, आलप्पुष़ा, मलप्पुरम्, इटुक्की, पत्तनंतिट्टा, कण्णूर्, पालक्काट्, तिरुवनंतपुरम् इति क्रमेण एव अन्येषां जनपदानां भूगर्भजलप्रतिसन्धिः।

Saturday, April 6, 2019

नरेन्द्रमोदिने यू ए ई राष्ट्रस्य 'साईद्' पुरस्कारः। 
अबुदाबी >  युए ई राष्ट्रस्य परमोन्नतबहुमतिः साईद् नामकः भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने दीयते।  सविशेषप्रवर्तनानि कुर्वद्भ्यः राष्ट्रनेतृभ्यः यू ए ई राष्ट्रपतिना शैख् खलीफा बिन् साईद् अल् नह्यानेन दीयमानः पुरस्कारः भवत्येषः। अनेन पुरस्कारेण आद्रियमाणः प्रथमः भारतीयनेता भवति नरेन्द्रमोदिः। 
  उभयराष्ट्रबन्धस्य शक्तीकरणे मोदिनः योगदानं श्लाघनीयमिति पुरस्कारप्रख्यापनं कुर्वन् यू ए ई राष्ट्रस्य उत्तराधिकारी तथा उपसर्वसैन्याधिपः शैख् मुहम्मद् बिन् सईद् अल् नह्यानः अवदत्। २०१६तम संवत्सरस्य भारतगणतन्त्रदिनाघोषे शैख् मुहम्मदः मुख्यातिथिः आसीत्।
लोकसभानिर्वाचनं निराकर्तुं काश्मीरि जनान् प्रति विभागीय वादि नेतृणाम् आह्वानम्।
   श्रीनगरम्> सार्वजनिक निर्वाचनं निराकर्तुं   विभागीयवादि  नेतृणा सयिद् अलि षा गिलानिना काश्मीरिजनाः आहूताः। जनतन्त्र प्रवर्तनेषु प्रधानभागः भवति निर्वाचनम्।  किन्तु यत्रकुत्रापि जनतन्त्रस्य सूक्ष्मकणाः अपि द्रष्टुं न शक्यते इति तेन उक्तम्। काश्मीरिजनाः इदानीम् अनुवर्तमानेषु साहचर्येषु त्रिप्ताः न इत्यपि गिलानिना उच्यते। 
   जम्मुकाश्मीरस्य विभागीयवादि संघटने जमा अत्ते इस्लामि, जम्मुकाश्मीर् लिबरेषन् फ्रन्ट् इति नामके  केन्द्रसर्वकारेण निरुद्धे आसीत्। अस्य प्रक्रमस्य प्रतिषेधप्रकाशनाय भवति  निर्वचन निराकरणाय आह्वानम्। 
    1996 संवत्सरे अपि एतादृशरूपेण निर्वाचनं विरुद्ध्य विभागीय वादि नेतृभिः  आह्वानम् आसीत्।  निर्वाचनं समीचीनतया भविष्यति चेत् सर्वकारस्य प्रवर्तनान् प्रति जनाः सम्मुखाः तिष्ठन्ति इति व्याख्या भविष्यति इति भीत्या भवति निर्वाचनं विरुद्ध्य आह्वानस्य निदानम्।