OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 11, 2019

लोकसभानिर्वाचनस्य प्रथमसोपानम् अद्य। 
कोच्ची >  सप्तसोपानयुतस्य भारतलोकसभानिर्वाचनस्य प्रथमसोपानम् अद्य सम्पद्यते। विंशति राज्येषु ९१ मण्डलेष्वेव मतदानविनियोगः। तथा च त्रयाणां राज्यानां विधानसभानिर्वाचनमपि अद्य सम्पद्यते। 
 आन्ध्राप्रदेशस्य आहत्य ४०मण्डलेषु २५ मण्डलेषु अद्य निर्वाचनं भविष्यति। तेलुङ्कानस्य १७, उत्तरप्रदेशस्य ८, महाराष्ट्रस्य ७, असमराज्यस्य ५, उत्तराखण्डस्य ५ मण्डलेषु च अद्य जनाधिकारः विनियुज्यते। अद्यैव जनहिताय   प्रतीक्ष्यमाणानि इतराणि राज्यानि मण्डलानि च - बीहारः [४], ओडीषा [४], अरुणाचलप्रदेशः [२], मेघालयः [२],  पश्चिमवंगः [२], जम्मुकाश्मीरः [२], छत्तीसगढ़, मणिप्पूर्, मिसोराम्, नागालान्ट्, सिक्किम्, त्रिपुरं, अन्तमान्-निक्कोबार्, लक्षद्वीपः [एकैकं] च। आन्ध्रप्रदेशः, अरुणाचलप्रदेशः सिक्किम राज्येषु विधानसभानिर्वाचनानि च अद्य प्रचलन्ति।
लोकसभानिर्वाचनस्य प्रथम श्रेणी समारब्धाI ९१ मण्डलेषु अद्य मतदानम् 
       नवदिल्ली> अद्य प्रातः सप्तवादने लोकसभानिर्वाचनस्य प्रथम श्रेणीमतदानम् समारब्धम्। १८ राज्येषु २ केन्द्रशासन केन्द्रयोः च भवति मतदानम्। आन्ध्राप्रदेशे अरुणाचलप्रदेशे च नियमसभानिर्वाचनस्य मतदानमपि अद्य प्रचलति। प्रातः सप्तवादने मतदानम्  आरब्धम्। सुरक्षाकार्यक्रमः सुसज्जतया वर्तते।

Wednesday, April 10, 2019

संस्कृत-पत्रकारितायाः आधुनिक-संस्कृतस्य च सुबहु प्रचारार्थं कृतभूरिश्रमाय बलदेवानन्द सागर-महोदयाय  राष्ट्रपतेः सम्मान-प्रमाणपत्र-प्रदानम् 
     -  हेमन्त-जोशी

   नवदिल्ल्याम् अशोका-होटेल्-इत्यत्र मासेऽस्मिन् ४-दिने राष्ट्रपतेः सम्मान-पत्रेण महर्षि-बादरायण-व्यास-सम्मानेन च वरिष्ठाः युवानश्च प्रायेण शताधिकाः विद्वान्सः भारतस्य माननीयेन उपराष्ट्रपतिना वैङ्कय्या-नायडु-महोदयेन सभाजिताः। अवसरेऽस्मिन् भाषमाणः माननीयः उपराष्ट्रपतिः अब्रवीत् यत् पुरातनानां भारतीय-भाषाणां सम्वर्धनं संरक्षणञ्च साम्प्रतं परमावश्यके स्तः | 
     अत्रावसरे आकाशवाण्याः दूरदर्शनस्य च सुख्यातः संस्कृत-वार्त्ताप्रसारकः डॉ.बलदेवानन्द-सागरः संस्कृत-पत्रकारितायाः आधुनिक-संस्कृतस्य च सुबहु प्रचारार्थं कृतभूरिश्रमः सन् राष्ट्रपतेः सम्मान-पत्रेण सभाजितोऽस्ति | 
    इदमत्र विशेषेण अवधेयमस्ति यत् सागर-महोदयः साम्प्रतमपि व्यक्तिशो वा वैद्युताणविक-सञ्चारमाध्यमैः संस्कृतस्य शिक्षण-प्रशिक्षण-प्रवाहिनीं प्रवाहयति| संस्कृत-पत्रकारिताम् अभिलक्ष्य अमुना महोदयेन संस्कृत-भाषायामेव प्रथमं “संस्कृतपत्रकारिताः इतिवृत्तम् अधुनातन-स्वरूपञ्च” इति पुस्तकम् अलेखि| इदमपि उल्लेखनीयं यत् जगति प्रथमोऽयं संस्कृत-वार्त्ता-प्रसारको येन १९९४-तमे वर्षे ओगस्ट-मासे २१-विंशे दिने दृश्य-वाहिनीतः [दूरदर्शनात्] प्रथमवारं वार्त्ता-प्रसारणम् आरब्धम्| संस्कृत-शिक्षा-जगतः संस्कृतवार्त्ता-श्रोतृवर्ग-पक्षतश्च सागर-महोदयस्य कृते कोटिशो मङ्गलकामनाः वितीर्यन्ते |
राजनैतिकदलाचार्यः के एम् माणी दिवंगतः। 
  कोच्ची>  केरलस्य राजनैतिक-दलमण्डले अतुल्यप्रशोभं विराजमानः वरिष्ठनेता , केरलाकोण्ग्रस् (एम्) दलस्य परमाध्यक्षः, यू डि एफ् सख्यस्य परमोन्नतः नेता,  तथा च पक्षभेदं विना 'माणिसर्' इति सम्बुध्या समादृतः के एम् माणि महोदयः (८६) ह्यः सायं कोच्ची नगरस्थे लेक्षोर् आतुरालये दिवंगतः। श्वासकोशरोगबाधितः सः कतिपयकालेन तत्र चिकित्सायामासीत्। 
  इदानीं कोट्टयं जनपदस्थे पाला मण्डले सामाजिकस्य माणिमहोदयस्य राजनैतिक-जीवनप्रशोभाम् एवं संगृह्यामहे - 
* राष्ट्रे नितरामधिकतमम् आयव्ययपत्राणि अवतारितवान् वित्तमन्त्री! (१३वारं)
* केवलमेकैकमात्रस्य मण्डलस्य दीर्घतमकालीनः सामाजिकः! (पाला - १३वारं विजितवान्,  ५४ संवत्सराणां सामाजिकत्वम्!)
* केरलराजतन्त्रसभायां दीर्घतमकालीनः अङ्गः ! 
* केरलराज्यस्य मन्त्रिरूपेण भूयिष्ठकालीना सेवा! सप्तवारत्वेन २४ संवत्सराणि विविधाः विभागाः अनेन निरूढाः!
  प्रधानमन्त्री नरेन्द्रमोदी , कोण्ग्रस् दलाध्यक्षः राहुल् गान्धी, केरलमुख्यमन्त्री पिणरायि विजयः इत्यादयः बहवः प्रमुखाः माणिवर्यस्य निर्याणे अनुशोचितवन्तः!
ऑण् लैन् द्वारा धनांशदानं स्वीकृतेषु प्रथमस्थानं कनय्यकुमाराय- ७० लक्षम्।
   नवदिल्ली > अम्मिन् लोकसभानिर्वाचने प्रचारणाय ओण्लैन् द्वारा धनांशं स्वीकृतवन्तः बहवः सन्ति। तेषु अधिकधनं स्वीकृत्य प्रथमस्थानं प्राप्तवान् सि पि ऐ स्थानाशी कनय्यकुमारः। ७० लक्षं रूप्यकाणि तेन एवं स्वीकृतानि। पूर्वदिल्ली मण्डलस्य ए ए पि स्थानाशी अतिषि मार्लेनया ५० लक्षं रुप्यकाणि सञ्चितानि। आन्ध्रराज्यस्य पार्चुरितः स्पर्धिष्यमाणः बि एस् पि स्थानाशी विजयकुमारः १.९ लक्षं रूप्यकाणि  समाहृतानि। सि पि एम्‌ स्थानाशी मुहम्मद् सलीमः १.४ लक्षं रूप्यकाणि एवं संभृतानि।
     'अवर् डेमोक्रसि' इति क्रौड् फण्टिङ् अन्तर्जाल-सुविधा द्वारा स्थानाशिनः १.४ कोटि रूप्यकाणि एवं स्वीकृतानि। ४० स्थानाशिनः एषा अन्तर्जाल सुविधायाः उपयोगं कृतवन्तः।

Monday, April 8, 2019

विपाट् ५०% गणनीयम् - षट्दिनानि यावत् प्रतिपाल्य स्थास्यामः - विपक्षिदलाः।
     नवदिल्ली> लेकसभा निर्वाचनेषु प्रतिशतं ५० विपाट् पत्राणि गणानीयानि इति विपक्षिदलाः वाञ्चन्ति। गणनार्थं षट् दिनानां विलम्बेन एव मतगणनाफलं प्रकाशयितुं शक्यते इति निर्वाचना योगस्य वादं निरस्य सर्वोच्च-न्यायपीठे विपक्षिदलैः सत्यापनं प्रकाशितम्। २१ विपक्षिदलैः तेषां वाञ्चा प्रकाशिता।
    निर्वाचनप्रक्रमस्य विश्वासार्जनाय षट्दिनानां विलम्बः गुरुतरा न्यूनता न इति सत्यवाङ्मूले विपक्षिदलेन  लिखितम्। निर्वाचनायोगस्य वा मतदानयन्त्रस्य वा क्षमतायां शङ्का नास्ति। किन्तु तानि सर्वेषां विश्वासयोग्यानि भवेयुः इत्यस्ति आस्माकम् अभिलाषः इति सत्यवाङ्मूल-पत्रिकायाम् लिखितम्।

Sunday, April 7, 2019

प्राशासनिक-सेवापरीक्षाफलं प्रकाशितम् - प्रथमस्थाने दलितविभागीयः। 
   नवदिल्ली >  २०१८ तमवर्षस्य प्राशासनिकसेवापरीक्षाफलं यू पि एस् सि संस्थया प्रकाशितम्। ऐ ऐ टि मुम्बई संस्थातः बिरुदं प्राप्तवान् तथा राजस्थानराज्ये जयपुरं स्वदेशीयः  दलितजातीयः च कनिष्क् कटारियः प्रथमस्थानमर्हति। गुहावतीस्थायाः ऐ ऐ टी संस्थायाः बिरुदं लब्धवता जयपुरं स्वदेशीयेन अक्षन्त् जेयिन् नामकेन द्वितीयस्थानं प्राप्तम्। तृतीयस्थीनीयः जुनैद् अहम्मदः, चतुर्थस्थानीयः श्रेयान्स् कुमदाख्यः राजस्थानस्य किषन् गढ् स्वदेशीयः च भवति। पञ्चमस्थानं कस्यैचन महिलायै लभते, सा तु सृष्टि जयन्त् देश्मुख् नामिका, मध्यप्रदेशस्य भोपाल् प्रदेशीया।
केरले भूगर्भजलं षट् मीटर् पर्यन्तम् अवनतम्। 
पानजलदुर्भिक्षं प्रतीक्षते।
आलप्पुष़ा >  प्रलयानन्तरं केरले विविधेषु जनपदेषु भूगर्भजलवितानं द्वेरारभ्य षण्मीटर् पर्यन्तम् अवनतमिति राज्यभूजलविभागेन कृते अन्वीक्षणे परिदृष्टम्। अन्वीक्षणफलस्य आवेदनं सर्वकाराय समर्पितम्। राज्ये नैकेषु प्रदेशेषु पानजलदुर्भिक्षम् भविष्यतीति आशङ्का अस्ति।
 तृश्शिवपेरूर् जनपदस्य विविधेषु प्रदेशेषु एव ६ मीटर् परिमितस्य जलावनतिः दृष्टा। गतदशसंवत्सरेषु राज्यस्य कूपेषु अनुभूतं जलवितानव्यतियानं निरीक्ष्य आसीत् अन्वीक्षणम्।
 कोल्लं, कोट्टयं, वयनाट्, कासरगोड्, कोष़िक्कोट्, एरणाकुलम्, आलप्पुष़ा, मलप्पुरम्, इटुक्की, पत्तनंतिट्टा, कण्णूर्, पालक्काट्, तिरुवनंतपुरम् इति क्रमेण एव अन्येषां जनपदानां भूगर्भजलप्रतिसन्धिः।

Saturday, April 6, 2019

नरेन्द्रमोदिने यू ए ई राष्ट्रस्य 'साईद्' पुरस्कारः। 
अबुदाबी >  युए ई राष्ट्रस्य परमोन्नतबहुमतिः साईद् नामकः भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने दीयते।  सविशेषप्रवर्तनानि कुर्वद्भ्यः राष्ट्रनेतृभ्यः यू ए ई राष्ट्रपतिना शैख् खलीफा बिन् साईद् अल् नह्यानेन दीयमानः पुरस्कारः भवत्येषः। अनेन पुरस्कारेण आद्रियमाणः प्रथमः भारतीयनेता भवति नरेन्द्रमोदिः। 
  उभयराष्ट्रबन्धस्य शक्तीकरणे मोदिनः योगदानं श्लाघनीयमिति पुरस्कारप्रख्यापनं कुर्वन् यू ए ई राष्ट्रस्य उत्तराधिकारी तथा उपसर्वसैन्याधिपः शैख् मुहम्मद् बिन् सईद् अल् नह्यानः अवदत्। २०१६तम संवत्सरस्य भारतगणतन्त्रदिनाघोषे शैख् मुहम्मदः मुख्यातिथिः आसीत्।
लोकसभानिर्वाचनं निराकर्तुं काश्मीरि जनान् प्रति विभागीय वादि नेतृणाम् आह्वानम्।
   श्रीनगरम्> सार्वजनिक निर्वाचनं निराकर्तुं   विभागीयवादि  नेतृणा सयिद् अलि षा गिलानिना काश्मीरिजनाः आहूताः। जनतन्त्र प्रवर्तनेषु प्रधानभागः भवति निर्वाचनम्।  किन्तु यत्रकुत्रापि जनतन्त्रस्य सूक्ष्मकणाः अपि द्रष्टुं न शक्यते इति तेन उक्तम्। काश्मीरिजनाः इदानीम् अनुवर्तमानेषु साहचर्येषु त्रिप्ताः न इत्यपि गिलानिना उच्यते। 
   जम्मुकाश्मीरस्य विभागीयवादि संघटने जमा अत्ते इस्लामि, जम्मुकाश्मीर् लिबरेषन् फ्रन्ट् इति नामके  केन्द्रसर्वकारेण निरुद्धे आसीत्। अस्य प्रक्रमस्य प्रतिषेधप्रकाशनाय भवति  निर्वचन निराकरणाय आह्वानम्। 
    1996 संवत्सरे अपि एतादृशरूपेण निर्वाचनं विरुद्ध्य विभागीय वादि नेतृभिः  आह्वानम् आसीत्।  निर्वाचनं समीचीनतया भविष्यति चेत् सर्वकारस्य प्रवर्तनान् प्रति जनाः सम्मुखाः तिष्ठन्ति इति व्याख्या भविष्यति इति भीत्या भवति निर्वाचनं विरुद्ध्य आह्वानस्य निदानम्।

Thursday, April 4, 2019

राष्ट्रपति पुरस्कारेण संस्कृतमनीषिणौ समादृतौ
माननीयोपराष्ट्रपतिः वैंकय्या-नायडु-महोदयः राष्ट्रपतेः सम्मान-पत्रप्रदानेन अद्य नवदिल्ल्यां  बलदेवानन्द-सागरं सभाजयति । (०४-०४-२०१९)

माननीयोपराष्ट्रपतिः वैंकय्या-नायडु-महोदयः राष्ट्रपतेः सम्मान-पत्रप्रदानेन अद्य नवदिल्ल्यां  महामहोपाध्याय डा गंगाधरन् नायर् महोदयं  सभाजयति । (०४-०४-२०१९)
राहुल् गान्धी वयनाट् मण्डले पत्रिकां समार्पयत्।
आराधकान् उत्तेजयन् वीथीप्रदर्शनम्।

कल्पट्टा >  कोण्ग्रस् दलस्य देशीयाध्यक्षः राहुल् गान्धी केरलस्य वयनाट् मण्डले यू डि एफ् सख्यस्य स्थानाशिरूपेण नामनिर्देशपत्रिकां समार्पयत्। देशीय-राज्यीयनेतॄणां सान्निध्ये वयनाट् जनपदाधिकारिणः समक्षे पत्रिकायाः गणचतुष्टयं तेन समर्पितम्।
  ह्यः रात्रौ कोष़िक्कोट् प्राप्तः राहुलः अद्य प्रभाते सार्धदशवादने दलस्य देशीयसचिवया तथा च सोदर्या प्रियङ्का गान्धिना सह उदग्रयानेन वयनाटस्थे कल्पट्टां प्राप्तवान्। सहस्रशः यू डि एफ् प्रवर्तकाः सामान्यजनाश्च राहुलदर्शमात्रोत्सुकाः प्रतीक्ष्यमाणाः आसन्। सुरक्षाधिकारिणः निर्देशं विगणय्य अपावृते वाहने सञ्चरन् जनानभिवादनं कुर्वन् सः प्रियङ्कया नेतृभिश्च सह जनपदकार्यालयम् अगच्छत्।
 पत्रिकासमर्पणानन्तरं कल्पट्टानगरे वीथीप्रदर्शनं च सम्पन्नम्।
अबुदाबिदेशे पुरातनानि ग्रामावशिष्टानि सन्दृष्टानि। 

  अबुदाबि> अबुदाबि नगरात् १६० किलोमीट्टर्  पश्चिमभागे मिर्फ द्वीपस्य समीपे पुरातनानां ग्रामाणाम् अवशिष्टानि संदृष्टानि। शिलायुगकालस्य इति विचिन्त्यमानेषु अवशिष्टेषु गृहाणां तथा जनाः मिलित्वा उषितानां च प्रमाणानि उपलब्धानि।  6500 तः 8000 संवत्सराणां पुरातनत्वम् अस्य ग्रामस्य अस्ति इति मन्यते। समृद्धस्य  भूतकालस्य विशिष्टभागाः एव इदानीम्  उपलब्धाः  इति अबुदाबि विनोदसञ्चार सांस्कृतिक-विभागाध्यक्षः मुहम्मद्अल्- मुबारकः अवदत्।
    यु ए ई जनानां महत्तमं  पैतृकमधिकृत्य  पौराणां ज्ञानाय ईदृशानुसन्धानानि आवश्यकानि। शिलानिर्मितं शक्तं गृहमासीत् एतेषाम्। मत्स्याहारिणानाम् एतेषाम् आयुः ३० तः ५० संवत्सरपर्यन्तमासीत् इति अनुमीयते  इत्यपि मुबारकः अवदत्I
जापाने नवसाम्राज्यप्रसूतिः - रेय्वा।
जापाने ओको हियोमा नगरस्थे आपणकवाटे स्थापिता नवसाम्राज्याख्या पताका। 

टोक्यो >  जापानराष्ट्रे मई मासस्य प्रथमदिनाङ्कादारभ्य साम्रज्यशासनकालाय नवनामधेयः - रेय् वा।  क्रमः लयः च इत्यर्थः। अनेन नाम्नैव जापानसाम्राज्यम् इतःपरमभिज्ञायते। अकिहितो चक्रवर्तिनः 'हेय् सेय्'  नामकः इदानींतनशासनकालः एप्रिल् मासेन समाप्यते। 
 प्रधानमन्त्री षिन्सो आबे वर्यः नवसाम्राज्यस्य नाम प्राख्यापयत्। क्रमः, शुभम् इत्यर्थोपेतः 'रेय्' शब्दः, लयः इत्यर्थको 'व' शब्दः जापनीस् भाषायाम्। एतयोः शब्दयोः मेलनेन नूतनाख्या विधत्ता। पुरातनजापान् कवितासमाहारात् 'मनियोषु'नामकादेव अयं नामधेयः लब्ध इति आबे वर्येणोक्तम्। 
 चत्वारि अधिराष्ट्राणि  - जापाने एकैकाधिराजस्य कालखण्डः सविशेषे नाम्नि ज्ञायते। आधुनिके जपानचरिते चत्वारि साम्राज्यानि सन्ति। मेय् जि कालखण्डः [१८६८-१९१२], तय् षो [१९१२-१९२६], षो वा [१९२६-१९८९], हेय् सेय् [१९८९-२०१९]।

Wednesday, April 3, 2019

व्यंग्यचित्रम् 
-देवीदास पाण्डेयः
कृषकान् युवकान् अकिञ्चनान् च वशीकर्तुं कोण्ग्रसः घोषणापत्रम्। 
 नवदिल्ली >  कार्षिकर्णादिविषयान् कर्माभावं दारिद्र्यं च मुख्यसमस्यारूपेण स्वीकृत्य तेषां परिहाराय विविधाः परियोजनाः अवतार्य कोण्ग्रस् दलस्य घोषणापत्रं प्रकाशितम्। 'वयं करिष्यामः' इति शीर्षकयुक्तं घोषणापत्रं दलस्य वरिष्ठनेतॄणां सान्निध्ये अध्यक्षेण राहुल् गान्धिना प्रकाशितम्। 
  यदि कोण्ग्रस् शासनपदं प्राप्स्यति तर्हि अधोनिर्दिष्टानि कार्याणि विधास्यन्तीति घोषणापत्रे वाग्दानं क्रियते। 
* २०२० मार्च् मासाभ्यन्तरे केन्द्रसेवनसरण्यां चतुर्लक्षं कर्मरिक्तस्थानानि पूरयिष्यन्ते! 
* कृषकाणां कृते सविशेषम् आयव्ययपत्रम् अवतारयिष्यते! कार्षिकर्णप्रत्यर्पणे कालविलम्बः दण्डनार्हः अपराधः न भविष्यति! 
* निस्वानां कृते "न्यूनतमम् आय योजना" (न्याय) परिकल्प्यते, यत्र दरिद्रेभ्यः प्रतिमासं ६००० रूप्यकाणाम् आयः दृढीकुरुते! 
* पञ्चायत्त् स्तरे दशलक्षं सेवामित्रपदानि संसृज्यते!
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्,
 डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
नमांसि, संस्कृतभाषा व्यावहारिकी भाषा आसीत् इति वयं दृष्टवन्त: बहुभि: सन्दर्भै:। तर्हि तादृशी सा भाषिता भाषा दैनन्दिनव्यवहारत: कथम् अदृश्यतां गता? कारणानि बहूनि स्यु: ऐतिहासिकानि, सामाजिकानि, व्यक्तिगतानि च इति। ऐतिहासिकानि यथा-प्रादेशिकभाषाणां विकास:, नूतनमतप्रवर्तकै: संस्कृतेतरभाषाणाम् आश्रयणम्, राजाश्रयस्य अभाव:, वैदेशिकानाम् आक्रमणम्, भारतीय विश्वविद्यालयानां, गुरुकुलानां, ग्रथालयानांच नाशनम्, सहस्रवर्षाणां परकीयशासनकाले विदेशिभाषाणां राजभाषात्वम्, विदुषाम् आश्रयस्थानभूतानां मठमन्दिराणां नाशनम् इत्यादीनि। 
कोण्ग्रस् दलस्य घोषणापत्रिका राष्ट्रविरुद्धानां मावोवादिनां च संरक्षणम् उद्दिश्य - जैट्ली।
    नवदिल्ली> कोण्ग्रस् दलस्य निर्वाचनानुबन्ध घोषणापत्रिका अपायजटिला अकार्या च इति केन्द्र मन्त्रिणा अरुण् जैट्लिना उक्तम्। नवदिल्यां भाजपा दलस्य केन्द्र कार्यालये वार्ता माध्यमान् प्रति भाषमाणः आसीत् सः। कोण्ग्रस् दलस्य घोषणापत्रिकायाः कांश्चन आशयाः अपायकरः भवति। भारतस्य शिथिलीकरणस्य  कार्यसूची  भविष्यति एषः आशयः इति अरुण् जैटिली अवदत्I
   ऐ पि सि विभागस्य  १२४(IPC 124) निष्कास यिष्ये इत्यस्ति घोषणापत्रिकायाम्। सा राष्ट्र विरुद्धानां मावोवादिनां च संरक्षणम् उद्दिश्य भवति । एवं चेत् देशद्रोहः अदोषः भविष्यति इत्यपि जैट्लिना उक्तम्।