OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 8, 2019

विपाट् ५०% गणनीयम् - षट्दिनानि यावत् प्रतिपाल्य स्थास्यामः - विपक्षिदलाः।
     नवदिल्ली> लेकसभा निर्वाचनेषु प्रतिशतं ५० विपाट् पत्राणि गणानीयानि इति विपक्षिदलाः वाञ्चन्ति। गणनार्थं षट् दिनानां विलम्बेन एव मतगणनाफलं प्रकाशयितुं शक्यते इति निर्वाचना योगस्य वादं निरस्य सर्वोच्च-न्यायपीठे विपक्षिदलैः सत्यापनं प्रकाशितम्। २१ विपक्षिदलैः तेषां वाञ्चा प्रकाशिता।
    निर्वाचनप्रक्रमस्य विश्वासार्जनाय षट्दिनानां विलम्बः गुरुतरा न्यूनता न इति सत्यवाङ्मूले विपक्षिदलेन  लिखितम्। निर्वाचनायोगस्य वा मतदानयन्त्रस्य वा क्षमतायां शङ्का नास्ति। किन्तु तानि सर्वेषां विश्वासयोग्यानि भवेयुः इत्यस्ति आस्माकम् अभिलाषः इति सत्यवाङ्मूल-पत्रिकायाम् लिखितम्।

Sunday, April 7, 2019

प्राशासनिक-सेवापरीक्षाफलं प्रकाशितम् - प्रथमस्थाने दलितविभागीयः। 
   नवदिल्ली >  २०१८ तमवर्षस्य प्राशासनिकसेवापरीक्षाफलं यू पि एस् सि संस्थया प्रकाशितम्। ऐ ऐ टि मुम्बई संस्थातः बिरुदं प्राप्तवान् तथा राजस्थानराज्ये जयपुरं स्वदेशीयः  दलितजातीयः च कनिष्क् कटारियः प्रथमस्थानमर्हति। गुहावतीस्थायाः ऐ ऐ टी संस्थायाः बिरुदं लब्धवता जयपुरं स्वदेशीयेन अक्षन्त् जेयिन् नामकेन द्वितीयस्थानं प्राप्तम्। तृतीयस्थीनीयः जुनैद् अहम्मदः, चतुर्थस्थानीयः श्रेयान्स् कुमदाख्यः राजस्थानस्य किषन् गढ् स्वदेशीयः च भवति। पञ्चमस्थानं कस्यैचन महिलायै लभते, सा तु सृष्टि जयन्त् देश्मुख् नामिका, मध्यप्रदेशस्य भोपाल् प्रदेशीया।
केरले भूगर्भजलं षट् मीटर् पर्यन्तम् अवनतम्। 
पानजलदुर्भिक्षं प्रतीक्षते।
आलप्पुष़ा >  प्रलयानन्तरं केरले विविधेषु जनपदेषु भूगर्भजलवितानं द्वेरारभ्य षण्मीटर् पर्यन्तम् अवनतमिति राज्यभूजलविभागेन कृते अन्वीक्षणे परिदृष्टम्। अन्वीक्षणफलस्य आवेदनं सर्वकाराय समर्पितम्। राज्ये नैकेषु प्रदेशेषु पानजलदुर्भिक्षम् भविष्यतीति आशङ्का अस्ति।
 तृश्शिवपेरूर् जनपदस्य विविधेषु प्रदेशेषु एव ६ मीटर् परिमितस्य जलावनतिः दृष्टा। गतदशसंवत्सरेषु राज्यस्य कूपेषु अनुभूतं जलवितानव्यतियानं निरीक्ष्य आसीत् अन्वीक्षणम्।
 कोल्लं, कोट्टयं, वयनाट्, कासरगोड्, कोष़िक्कोट्, एरणाकुलम्, आलप्पुष़ा, मलप्पुरम्, इटुक्की, पत्तनंतिट्टा, कण्णूर्, पालक्काट्, तिरुवनंतपुरम् इति क्रमेण एव अन्येषां जनपदानां भूगर्भजलप्रतिसन्धिः।

Saturday, April 6, 2019

नरेन्द्रमोदिने यू ए ई राष्ट्रस्य 'साईद्' पुरस्कारः। 
अबुदाबी >  युए ई राष्ट्रस्य परमोन्नतबहुमतिः साईद् नामकः भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने दीयते।  सविशेषप्रवर्तनानि कुर्वद्भ्यः राष्ट्रनेतृभ्यः यू ए ई राष्ट्रपतिना शैख् खलीफा बिन् साईद् अल् नह्यानेन दीयमानः पुरस्कारः भवत्येषः। अनेन पुरस्कारेण आद्रियमाणः प्रथमः भारतीयनेता भवति नरेन्द्रमोदिः। 
  उभयराष्ट्रबन्धस्य शक्तीकरणे मोदिनः योगदानं श्लाघनीयमिति पुरस्कारप्रख्यापनं कुर्वन् यू ए ई राष्ट्रस्य उत्तराधिकारी तथा उपसर्वसैन्याधिपः शैख् मुहम्मद् बिन् सईद् अल् नह्यानः अवदत्। २०१६तम संवत्सरस्य भारतगणतन्त्रदिनाघोषे शैख् मुहम्मदः मुख्यातिथिः आसीत्।
लोकसभानिर्वाचनं निराकर्तुं काश्मीरि जनान् प्रति विभागीय वादि नेतृणाम् आह्वानम्।
   श्रीनगरम्> सार्वजनिक निर्वाचनं निराकर्तुं   विभागीयवादि  नेतृणा सयिद् अलि षा गिलानिना काश्मीरिजनाः आहूताः। जनतन्त्र प्रवर्तनेषु प्रधानभागः भवति निर्वाचनम्।  किन्तु यत्रकुत्रापि जनतन्त्रस्य सूक्ष्मकणाः अपि द्रष्टुं न शक्यते इति तेन उक्तम्। काश्मीरिजनाः इदानीम् अनुवर्तमानेषु साहचर्येषु त्रिप्ताः न इत्यपि गिलानिना उच्यते। 
   जम्मुकाश्मीरस्य विभागीयवादि संघटने जमा अत्ते इस्लामि, जम्मुकाश्मीर् लिबरेषन् फ्रन्ट् इति नामके  केन्द्रसर्वकारेण निरुद्धे आसीत्। अस्य प्रक्रमस्य प्रतिषेधप्रकाशनाय भवति  निर्वचन निराकरणाय आह्वानम्। 
    1996 संवत्सरे अपि एतादृशरूपेण निर्वाचनं विरुद्ध्य विभागीय वादि नेतृभिः  आह्वानम् आसीत्।  निर्वाचनं समीचीनतया भविष्यति चेत् सर्वकारस्य प्रवर्तनान् प्रति जनाः सम्मुखाः तिष्ठन्ति इति व्याख्या भविष्यति इति भीत्या भवति निर्वाचनं विरुद्ध्य आह्वानस्य निदानम्।

Thursday, April 4, 2019

राष्ट्रपति पुरस्कारेण संस्कृतमनीषिणौ समादृतौ
माननीयोपराष्ट्रपतिः वैंकय्या-नायडु-महोदयः राष्ट्रपतेः सम्मान-पत्रप्रदानेन अद्य नवदिल्ल्यां  बलदेवानन्द-सागरं सभाजयति । (०४-०४-२०१९)

माननीयोपराष्ट्रपतिः वैंकय्या-नायडु-महोदयः राष्ट्रपतेः सम्मान-पत्रप्रदानेन अद्य नवदिल्ल्यां  महामहोपाध्याय डा गंगाधरन् नायर् महोदयं  सभाजयति । (०४-०४-२०१९)
राहुल् गान्धी वयनाट् मण्डले पत्रिकां समार्पयत्।
आराधकान् उत्तेजयन् वीथीप्रदर्शनम्।

कल्पट्टा >  कोण्ग्रस् दलस्य देशीयाध्यक्षः राहुल् गान्धी केरलस्य वयनाट् मण्डले यू डि एफ् सख्यस्य स्थानाशिरूपेण नामनिर्देशपत्रिकां समार्पयत्। देशीय-राज्यीयनेतॄणां सान्निध्ये वयनाट् जनपदाधिकारिणः समक्षे पत्रिकायाः गणचतुष्टयं तेन समर्पितम्।
  ह्यः रात्रौ कोष़िक्कोट् प्राप्तः राहुलः अद्य प्रभाते सार्धदशवादने दलस्य देशीयसचिवया तथा च सोदर्या प्रियङ्का गान्धिना सह उदग्रयानेन वयनाटस्थे कल्पट्टां प्राप्तवान्। सहस्रशः यू डि एफ् प्रवर्तकाः सामान्यजनाश्च राहुलदर्शमात्रोत्सुकाः प्रतीक्ष्यमाणाः आसन्। सुरक्षाधिकारिणः निर्देशं विगणय्य अपावृते वाहने सञ्चरन् जनानभिवादनं कुर्वन् सः प्रियङ्कया नेतृभिश्च सह जनपदकार्यालयम् अगच्छत्।
 पत्रिकासमर्पणानन्तरं कल्पट्टानगरे वीथीप्रदर्शनं च सम्पन्नम्।
अबुदाबिदेशे पुरातनानि ग्रामावशिष्टानि सन्दृष्टानि। 

  अबुदाबि> अबुदाबि नगरात् १६० किलोमीट्टर्  पश्चिमभागे मिर्फ द्वीपस्य समीपे पुरातनानां ग्रामाणाम् अवशिष्टानि संदृष्टानि। शिलायुगकालस्य इति विचिन्त्यमानेषु अवशिष्टेषु गृहाणां तथा जनाः मिलित्वा उषितानां च प्रमाणानि उपलब्धानि।  6500 तः 8000 संवत्सराणां पुरातनत्वम् अस्य ग्रामस्य अस्ति इति मन्यते। समृद्धस्य  भूतकालस्य विशिष्टभागाः एव इदानीम्  उपलब्धाः  इति अबुदाबि विनोदसञ्चार सांस्कृतिक-विभागाध्यक्षः मुहम्मद्अल्- मुबारकः अवदत्।
    यु ए ई जनानां महत्तमं  पैतृकमधिकृत्य  पौराणां ज्ञानाय ईदृशानुसन्धानानि आवश्यकानि। शिलानिर्मितं शक्तं गृहमासीत् एतेषाम्। मत्स्याहारिणानाम् एतेषाम् आयुः ३० तः ५० संवत्सरपर्यन्तमासीत् इति अनुमीयते  इत्यपि मुबारकः अवदत्I
जापाने नवसाम्राज्यप्रसूतिः - रेय्वा।
जापाने ओको हियोमा नगरस्थे आपणकवाटे स्थापिता नवसाम्राज्याख्या पताका। 

टोक्यो >  जापानराष्ट्रे मई मासस्य प्रथमदिनाङ्कादारभ्य साम्रज्यशासनकालाय नवनामधेयः - रेय् वा।  क्रमः लयः च इत्यर्थः। अनेन नाम्नैव जापानसाम्राज्यम् इतःपरमभिज्ञायते। अकिहितो चक्रवर्तिनः 'हेय् सेय्'  नामकः इदानींतनशासनकालः एप्रिल् मासेन समाप्यते। 
 प्रधानमन्त्री षिन्सो आबे वर्यः नवसाम्राज्यस्य नाम प्राख्यापयत्। क्रमः, शुभम् इत्यर्थोपेतः 'रेय्' शब्दः, लयः इत्यर्थको 'व' शब्दः जापनीस् भाषायाम्। एतयोः शब्दयोः मेलनेन नूतनाख्या विधत्ता। पुरातनजापान् कवितासमाहारात् 'मनियोषु'नामकादेव अयं नामधेयः लब्ध इति आबे वर्येणोक्तम्। 
 चत्वारि अधिराष्ट्राणि  - जापाने एकैकाधिराजस्य कालखण्डः सविशेषे नाम्नि ज्ञायते। आधुनिके जपानचरिते चत्वारि साम्राज्यानि सन्ति। मेय् जि कालखण्डः [१८६८-१९१२], तय् षो [१९१२-१९२६], षो वा [१९२६-१९८९], हेय् सेय् [१९८९-२०१९]।

Wednesday, April 3, 2019

व्यंग्यचित्रम् 
-देवीदास पाण्डेयः
कृषकान् युवकान् अकिञ्चनान् च वशीकर्तुं कोण्ग्रसः घोषणापत्रम्। 
 नवदिल्ली >  कार्षिकर्णादिविषयान् कर्माभावं दारिद्र्यं च मुख्यसमस्यारूपेण स्वीकृत्य तेषां परिहाराय विविधाः परियोजनाः अवतार्य कोण्ग्रस् दलस्य घोषणापत्रं प्रकाशितम्। 'वयं करिष्यामः' इति शीर्षकयुक्तं घोषणापत्रं दलस्य वरिष्ठनेतॄणां सान्निध्ये अध्यक्षेण राहुल् गान्धिना प्रकाशितम्। 
  यदि कोण्ग्रस् शासनपदं प्राप्स्यति तर्हि अधोनिर्दिष्टानि कार्याणि विधास्यन्तीति घोषणापत्रे वाग्दानं क्रियते। 
* २०२० मार्च् मासाभ्यन्तरे केन्द्रसेवनसरण्यां चतुर्लक्षं कर्मरिक्तस्थानानि पूरयिष्यन्ते! 
* कृषकाणां कृते सविशेषम् आयव्ययपत्रम् अवतारयिष्यते! कार्षिकर्णप्रत्यर्पणे कालविलम्बः दण्डनार्हः अपराधः न भविष्यति! 
* निस्वानां कृते "न्यूनतमम् आय योजना" (न्याय) परिकल्प्यते, यत्र दरिद्रेभ्यः प्रतिमासं ६००० रूप्यकाणाम् आयः दृढीकुरुते! 
* पञ्चायत्त् स्तरे दशलक्षं सेवामित्रपदानि संसृज्यते!
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्,
 डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
नमांसि, संस्कृतभाषा व्यावहारिकी भाषा आसीत् इति वयं दृष्टवन्त: बहुभि: सन्दर्भै:। तर्हि तादृशी सा भाषिता भाषा दैनन्दिनव्यवहारत: कथम् अदृश्यतां गता? कारणानि बहूनि स्यु: ऐतिहासिकानि, सामाजिकानि, व्यक्तिगतानि च इति। ऐतिहासिकानि यथा-प्रादेशिकभाषाणां विकास:, नूतनमतप्रवर्तकै: संस्कृतेतरभाषाणाम् आश्रयणम्, राजाश्रयस्य अभाव:, वैदेशिकानाम् आक्रमणम्, भारतीय विश्वविद्यालयानां, गुरुकुलानां, ग्रथालयानांच नाशनम्, सहस्रवर्षाणां परकीयशासनकाले विदेशिभाषाणां राजभाषात्वम्, विदुषाम् आश्रयस्थानभूतानां मठमन्दिराणां नाशनम् इत्यादीनि। 
कोण्ग्रस् दलस्य घोषणापत्रिका राष्ट्रविरुद्धानां मावोवादिनां च संरक्षणम् उद्दिश्य - जैट्ली।
    नवदिल्ली> कोण्ग्रस् दलस्य निर्वाचनानुबन्ध घोषणापत्रिका अपायजटिला अकार्या च इति केन्द्र मन्त्रिणा अरुण् जैट्लिना उक्तम्। नवदिल्यां भाजपा दलस्य केन्द्र कार्यालये वार्ता माध्यमान् प्रति भाषमाणः आसीत् सः। कोण्ग्रस् दलस्य घोषणापत्रिकायाः कांश्चन आशयाः अपायकरः भवति। भारतस्य शिथिलीकरणस्य  कार्यसूची  भविष्यति एषः आशयः इति अरुण् जैटिली अवदत्I
   ऐ पि सि विभागस्य  १२४(IPC 124) निष्कास यिष्ये इत्यस्ति घोषणापत्रिकायाम्। सा राष्ट्र विरुद्धानां मावोवादिनां च संरक्षणम् उद्दिश्य भवति । एवं चेत् देशद्रोहः अदोषः भविष्यति इत्यपि जैट्लिना उक्तम्।

Tuesday, April 2, 2019

अलीकविरुद्ध-राष्ट्रनिर्माणाय उद्योगिनां कृते वैदेशिकं प्रशिक्षणम्।
    नवदिल्ली> राष्ट्रम् अलीकमुक्तं कर्तुम् अन्नतोद्योगिनः  विशेषप्रशिक्षणाय  राष्ट्रान्तरं प्रेषयिष्यन्ते। अलीकग्रहणाय अन्ताराष्ट्रप्रशिक्षणाय केन्द्र विजिलन्स् आयोगेन एव उद्योगिनः प्रेषयिष्यन्ते। 
ओस्ट्रिय राष्ट्रस्य राजधान्यां वियन्नायाम् अन्ता राष्ट्र अलीकविरुद्ध विद्याविहारे एव प्रशिक्षणं प्रचलिष्यते। जूण्‌मासस्य तृतीयदिनाङ्कतः चतुर्दश दिनाङ्कपर्यन्तं भवति प्रशिक्षणम्। २४० कोटि रूप्यकाणि एव प्रशिक्षणाय सज्जीकृतानि। 
बालकानाम् असभ्यचित्रप्रसारणं - २० जनाः निगृहीताः। 
अनन्तपुरी >  सामाजिकमाध्यमद्वारा बालकानां नग्नचित्राणि प्रसारितानि इति विषये केरले २० जनाः निगृहीताः। 'ओपरेषन् पि हन्ट्' इति नामधेयीकृतेन सविशेषान्वीक्षणेन आसीत् केरलस्य सैबर्विभागेन अयं पदक्षेपः। 
 बालकान् प्रति लैङ्गिकातिक्रमान् प्रतिरोद्धुं केरलस्य आरक्षकविभागेन सविशेषदलः रूपीकृतः आसीत्। इन्टर्पोल् नामकान्ताराष्ट्रनियोगकर्तुः अप्रत्यक्षानां चूषणविधेयानां बालकानां कृते प्रवर्तमानस्य संघनस्य च साह्येन विविधस्थानेषु युगपत् कृते अन्वीक्षणे २० अपराधिनः निगृहीताः आसन्। 
  बालकानां नग्नचित्राणां प्रसारणं सहभोगत्वं च पञ्चवर्षाणां तीव्रकारागारबन्धनाय दशलक्षं रूप्यकाणि यावत् द्रव्यदण्डाय च अर्हति।
उपग्रहाणि एकस्मिन् समये त्रिषु विभिन्नपथेषु विक्षिप्य इतिहसं विरच्य 'इस्रो'।
   श्रीहरिक्कोट्टा> भारतस्य वैदेशिकराष्ट्राणां च नवविंशति (29) उपग्रहाणि पि एस् एल् वि सि ४५ इति आकाशबाणम् उपयुज्य विक्षिप्तानि। विगते मङ्गलवासरे प्रभाते ९.३० वादने सतीष् धवान् बाह्याकाश केन्द्रात् आसीत् । विक्षेपणम्।  भारतस्य एमिसाट्, अमेरिक्कस्य २० उपग्रहाणि, लित्वानियस्य द्वे उपग्रहे, स्विसर् लन्टस्य एकं स्पेयिनस्य एकं च भ्रमणपथं  प्रापयितम्।  होरात्रयस्य यत्नेन  साफलता अभवत्I

    एमिसाट् उपग्रहं विहाय अन्यानि सर्वाणि उपग्रहाणि वाणिज्य आवश्यकाय भवन्ति ।  एमिसाट् ग्रहस्य भारः ४३६ किलोमितं भवति। उपग्रहाणि सर्वाणि प्रप्रथमतया एकस्मिन् समये त्रिषु विभिन्नभ्रमणपथेषु विक्षिप्तानि इत्यस्ति विशेषता। शत्रुराष्ट्रस्य प्रतिध्वनिग्राहीतः सूक्ष्म विवरणानि समाहर्तुं इदम् उपग्रहम् उपकारकं भवति।

Monday, April 1, 2019

राहुलस्य द्वितीयं स्थानाशित्वं वयनाट् मण्डले दृढीकृतम्। 
नवदिल्ली >  राजनैतिकदलानां साप्ताहिकीम् आशङ्काम् आकाङ्क्षां च विरामीकृत्य 'इन्डियन् नेषणल् कोण्ग्रस्' दलस्य देशीयाध्यक्षस्य राहुल् गान्धिनः दक्षिणभारतीयं स्थानाशित्वं निश्चितम्। केरलराज्यस्थं वयनाट् नामकं मण्डलं राहुल् गान्धिनः द्वितीयं मण्डलमिति कोण्ग्रसः वरिष्ठनेत्रा ए के आन्टणिवर्येण उद्घुष्टम्। 
  दक्षिणभारते कोण्ग्रसः अधीशत्वं संवर्धयितुमेव त्रयाणां राज्यानां संगमस्थानं वयनाट् मण्डलं चितमिति आन्टणिना उक्तम्। किन्तु राहुलस्य उपस्थितीये अमेठिमण्डले तस्य विजयप्रतीक्षा नास्तीत्यतः अमेठीतः पलायितवानिति मुख्यप्रतिद्वन्दिनः भा ज पा दलस्य अध्यक्षेण अमित् षावर्येण अपहसितम्।
वैद्यविज्ञानेन वैदेही श्रद्धास्पदा भवतु!
बुद्धिविकासाय संस्कृताध्ययनम्।
  प्रमाणत्वेन   बालकानां वार्तावाहिनी। 


  कोच्ची> विशेषतया परिगणनार्हा भवति वैदेही नाम बालिका। संस्कृताध्ययनेन मानसिक-बौद्धिकवैषम्यानां पारंगन्तुं शक्यते इत्यस्य प्रमाणवत् निदर्शनं भवति सम्प्रतिवार्तायाः १०२ - तमं वार्तासोपानम्।
    अस्माकम् शिशुः मानसिक-बौद्धिक क्लेशैः पीडिता इति ज्ञात्वा पितरौ तस्यै बाल्यात् एव संस्कृतशिक्षां दातुमारभताम् । अत एव तस्यैः विना विलम्बं सरस्वतीदेव्याः कटाक्षमलभत। 
संस्कृतभाषाध्ययनं वैदेह्याः बुद्धिमण्डलं कियन्मात्रं प्राकाशयत् इति द्रष्टुं वैदेह्याः वार्ताप्रस्तुतिः दृश्यताम्।  समाजेषु पार्श्वेषु परित्यक्तानाम् ईदृशानां शिशूनां पुनरुन्नयनं संस्कृताध्ययनेन शक्यते। अतः स्वस्य अपत्यस्य बुद्धिमण्डलस्य विकासः यैः ईप्स्यते तैः स्वस्य अपत्याय संस्कृताध्ययनाय  सन्दर्भः दातव्यः।
https://youtu.be/rwDtfMoesI8