OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 4, 2019

जापाने नवसाम्राज्यप्रसूतिः - रेय्वा।
जापाने ओको हियोमा नगरस्थे आपणकवाटे स्थापिता नवसाम्राज्याख्या पताका। 

टोक्यो >  जापानराष्ट्रे मई मासस्य प्रथमदिनाङ्कादारभ्य साम्रज्यशासनकालाय नवनामधेयः - रेय् वा।  क्रमः लयः च इत्यर्थः। अनेन नाम्नैव जापानसाम्राज्यम् इतःपरमभिज्ञायते। अकिहितो चक्रवर्तिनः 'हेय् सेय्'  नामकः इदानींतनशासनकालः एप्रिल् मासेन समाप्यते। 
 प्रधानमन्त्री षिन्सो आबे वर्यः नवसाम्राज्यस्य नाम प्राख्यापयत्। क्रमः, शुभम् इत्यर्थोपेतः 'रेय्' शब्दः, लयः इत्यर्थको 'व' शब्दः जापनीस् भाषायाम्। एतयोः शब्दयोः मेलनेन नूतनाख्या विधत्ता। पुरातनजापान् कवितासमाहारात् 'मनियोषु'नामकादेव अयं नामधेयः लब्ध इति आबे वर्येणोक्तम्। 
 चत्वारि अधिराष्ट्राणि  - जापाने एकैकाधिराजस्य कालखण्डः सविशेषे नाम्नि ज्ञायते। आधुनिके जपानचरिते चत्वारि साम्राज्यानि सन्ति। मेय् जि कालखण्डः [१८६८-१९१२], तय् षो [१९१२-१९२६], षो वा [१९२६-१९८९], हेय् सेय् [१९८९-२०१९]।

Wednesday, April 3, 2019

व्यंग्यचित्रम् 
-देवीदास पाण्डेयः
कृषकान् युवकान् अकिञ्चनान् च वशीकर्तुं कोण्ग्रसः घोषणापत्रम्। 
 नवदिल्ली >  कार्षिकर्णादिविषयान् कर्माभावं दारिद्र्यं च मुख्यसमस्यारूपेण स्वीकृत्य तेषां परिहाराय विविधाः परियोजनाः अवतार्य कोण्ग्रस् दलस्य घोषणापत्रं प्रकाशितम्। 'वयं करिष्यामः' इति शीर्षकयुक्तं घोषणापत्रं दलस्य वरिष्ठनेतॄणां सान्निध्ये अध्यक्षेण राहुल् गान्धिना प्रकाशितम्। 
  यदि कोण्ग्रस् शासनपदं प्राप्स्यति तर्हि अधोनिर्दिष्टानि कार्याणि विधास्यन्तीति घोषणापत्रे वाग्दानं क्रियते। 
* २०२० मार्च् मासाभ्यन्तरे केन्द्रसेवनसरण्यां चतुर्लक्षं कर्मरिक्तस्थानानि पूरयिष्यन्ते! 
* कृषकाणां कृते सविशेषम् आयव्ययपत्रम् अवतारयिष्यते! कार्षिकर्णप्रत्यर्पणे कालविलम्बः दण्डनार्हः अपराधः न भविष्यति! 
* निस्वानां कृते "न्यूनतमम् आय योजना" (न्याय) परिकल्प्यते, यत्र दरिद्रेभ्यः प्रतिमासं ६००० रूप्यकाणाम् आयः दृढीकुरुते! 
* पञ्चायत्त् स्तरे दशलक्षं सेवामित्रपदानि संसृज्यते!
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्,
 डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
नमांसि, संस्कृतभाषा व्यावहारिकी भाषा आसीत् इति वयं दृष्टवन्त: बहुभि: सन्दर्भै:। तर्हि तादृशी सा भाषिता भाषा दैनन्दिनव्यवहारत: कथम् अदृश्यतां गता? कारणानि बहूनि स्यु: ऐतिहासिकानि, सामाजिकानि, व्यक्तिगतानि च इति। ऐतिहासिकानि यथा-प्रादेशिकभाषाणां विकास:, नूतनमतप्रवर्तकै: संस्कृतेतरभाषाणाम् आश्रयणम्, राजाश्रयस्य अभाव:, वैदेशिकानाम् आक्रमणम्, भारतीय विश्वविद्यालयानां, गुरुकुलानां, ग्रथालयानांच नाशनम्, सहस्रवर्षाणां परकीयशासनकाले विदेशिभाषाणां राजभाषात्वम्, विदुषाम् आश्रयस्थानभूतानां मठमन्दिराणां नाशनम् इत्यादीनि। 
कोण्ग्रस् दलस्य घोषणापत्रिका राष्ट्रविरुद्धानां मावोवादिनां च संरक्षणम् उद्दिश्य - जैट्ली।
    नवदिल्ली> कोण्ग्रस् दलस्य निर्वाचनानुबन्ध घोषणापत्रिका अपायजटिला अकार्या च इति केन्द्र मन्त्रिणा अरुण् जैट्लिना उक्तम्। नवदिल्यां भाजपा दलस्य केन्द्र कार्यालये वार्ता माध्यमान् प्रति भाषमाणः आसीत् सः। कोण्ग्रस् दलस्य घोषणापत्रिकायाः कांश्चन आशयाः अपायकरः भवति। भारतस्य शिथिलीकरणस्य  कार्यसूची  भविष्यति एषः आशयः इति अरुण् जैटिली अवदत्I
   ऐ पि सि विभागस्य  १२४(IPC 124) निष्कास यिष्ये इत्यस्ति घोषणापत्रिकायाम्। सा राष्ट्र विरुद्धानां मावोवादिनां च संरक्षणम् उद्दिश्य भवति । एवं चेत् देशद्रोहः अदोषः भविष्यति इत्यपि जैट्लिना उक्तम्।

Tuesday, April 2, 2019

अलीकविरुद्ध-राष्ट्रनिर्माणाय उद्योगिनां कृते वैदेशिकं प्रशिक्षणम्।
    नवदिल्ली> राष्ट्रम् अलीकमुक्तं कर्तुम् अन्नतोद्योगिनः  विशेषप्रशिक्षणाय  राष्ट्रान्तरं प्रेषयिष्यन्ते। अलीकग्रहणाय अन्ताराष्ट्रप्रशिक्षणाय केन्द्र विजिलन्स् आयोगेन एव उद्योगिनः प्रेषयिष्यन्ते। 
ओस्ट्रिय राष्ट्रस्य राजधान्यां वियन्नायाम् अन्ता राष्ट्र अलीकविरुद्ध विद्याविहारे एव प्रशिक्षणं प्रचलिष्यते। जूण्‌मासस्य तृतीयदिनाङ्कतः चतुर्दश दिनाङ्कपर्यन्तं भवति प्रशिक्षणम्। २४० कोटि रूप्यकाणि एव प्रशिक्षणाय सज्जीकृतानि। 
बालकानाम् असभ्यचित्रप्रसारणं - २० जनाः निगृहीताः। 
अनन्तपुरी >  सामाजिकमाध्यमद्वारा बालकानां नग्नचित्राणि प्रसारितानि इति विषये केरले २० जनाः निगृहीताः। 'ओपरेषन् पि हन्ट्' इति नामधेयीकृतेन सविशेषान्वीक्षणेन आसीत् केरलस्य सैबर्विभागेन अयं पदक्षेपः। 
 बालकान् प्रति लैङ्गिकातिक्रमान् प्रतिरोद्धुं केरलस्य आरक्षकविभागेन सविशेषदलः रूपीकृतः आसीत्। इन्टर्पोल् नामकान्ताराष्ट्रनियोगकर्तुः अप्रत्यक्षानां चूषणविधेयानां बालकानां कृते प्रवर्तमानस्य संघनस्य च साह्येन विविधस्थानेषु युगपत् कृते अन्वीक्षणे २० अपराधिनः निगृहीताः आसन्। 
  बालकानां नग्नचित्राणां प्रसारणं सहभोगत्वं च पञ्चवर्षाणां तीव्रकारागारबन्धनाय दशलक्षं रूप्यकाणि यावत् द्रव्यदण्डाय च अर्हति।
उपग्रहाणि एकस्मिन् समये त्रिषु विभिन्नपथेषु विक्षिप्य इतिहसं विरच्य 'इस्रो'।
   श्रीहरिक्कोट्टा> भारतस्य वैदेशिकराष्ट्राणां च नवविंशति (29) उपग्रहाणि पि एस् एल् वि सि ४५ इति आकाशबाणम् उपयुज्य विक्षिप्तानि। विगते मङ्गलवासरे प्रभाते ९.३० वादने सतीष् धवान् बाह्याकाश केन्द्रात् आसीत् । विक्षेपणम्।  भारतस्य एमिसाट्, अमेरिक्कस्य २० उपग्रहाणि, लित्वानियस्य द्वे उपग्रहे, स्विसर् लन्टस्य एकं स्पेयिनस्य एकं च भ्रमणपथं  प्रापयितम्।  होरात्रयस्य यत्नेन  साफलता अभवत्I

    एमिसाट् उपग्रहं विहाय अन्यानि सर्वाणि उपग्रहाणि वाणिज्य आवश्यकाय भवन्ति ।  एमिसाट् ग्रहस्य भारः ४३६ किलोमितं भवति। उपग्रहाणि सर्वाणि प्रप्रथमतया एकस्मिन् समये त्रिषु विभिन्नभ्रमणपथेषु विक्षिप्तानि इत्यस्ति विशेषता। शत्रुराष्ट्रस्य प्रतिध्वनिग्राहीतः सूक्ष्म विवरणानि समाहर्तुं इदम् उपग्रहम् उपकारकं भवति।

Monday, April 1, 2019

राहुलस्य द्वितीयं स्थानाशित्वं वयनाट् मण्डले दृढीकृतम्। 
नवदिल्ली >  राजनैतिकदलानां साप्ताहिकीम् आशङ्काम् आकाङ्क्षां च विरामीकृत्य 'इन्डियन् नेषणल् कोण्ग्रस्' दलस्य देशीयाध्यक्षस्य राहुल् गान्धिनः दक्षिणभारतीयं स्थानाशित्वं निश्चितम्। केरलराज्यस्थं वयनाट् नामकं मण्डलं राहुल् गान्धिनः द्वितीयं मण्डलमिति कोण्ग्रसः वरिष्ठनेत्रा ए के आन्टणिवर्येण उद्घुष्टम्। 
  दक्षिणभारते कोण्ग्रसः अधीशत्वं संवर्धयितुमेव त्रयाणां राज्यानां संगमस्थानं वयनाट् मण्डलं चितमिति आन्टणिना उक्तम्। किन्तु राहुलस्य उपस्थितीये अमेठिमण्डले तस्य विजयप्रतीक्षा नास्तीत्यतः अमेठीतः पलायितवानिति मुख्यप्रतिद्वन्दिनः भा ज पा दलस्य अध्यक्षेण अमित् षावर्येण अपहसितम्।
वैद्यविज्ञानेन वैदेही श्रद्धास्पदा भवतु!
बुद्धिविकासाय संस्कृताध्ययनम्।
  प्रमाणत्वेन   बालकानां वार्तावाहिनी। 


  कोच्ची> विशेषतया परिगणनार्हा भवति वैदेही नाम बालिका। संस्कृताध्ययनेन मानसिक-बौद्धिकवैषम्यानां पारंगन्तुं शक्यते इत्यस्य प्रमाणवत् निदर्शनं भवति सम्प्रतिवार्तायाः १०२ - तमं वार्तासोपानम्।
    अस्माकम् शिशुः मानसिक-बौद्धिक क्लेशैः पीडिता इति ज्ञात्वा पितरौ तस्यै बाल्यात् एव संस्कृतशिक्षां दातुमारभताम् । अत एव तस्यैः विना विलम्बं सरस्वतीदेव्याः कटाक्षमलभत। 
संस्कृतभाषाध्ययनं वैदेह्याः बुद्धिमण्डलं कियन्मात्रं प्राकाशयत् इति द्रष्टुं वैदेह्याः वार्ताप्रस्तुतिः दृश्यताम्।  समाजेषु पार्श्वेषु परित्यक्तानाम् ईदृशानां शिशूनां पुनरुन्नयनं संस्कृताध्ययनेन शक्यते। अतः स्वस्य अपत्यस्य बुद्धिमण्डलस्य विकासः यैः ईप्स्यते तैः स्वस्य अपत्याय संस्कृताध्ययनाय  सन्दर्भः दातव्यः।
https://youtu.be/rwDtfMoesI8

Sunday, March 31, 2019

सिआर् पि एफ् वाहनव्यूहस्य समीपं कार् यानं विस्फोटितम्।
श्रीनगरं >  जम्मू - श्रीनगरराजमार्गे केन्द्र आरक्षकबलवाहनव्यूहस्य समीपं किञ्चन प्रादेशिककार् यानं विस्फोटितमभवत्। राजमार्गेण अटन्तस्य यानस्य स्फोटने न को$पि व्रणित इति सूच्यते!
  कार् यानस्य अनिलकोशः स्फोटितः इति आरक्षकदलस्य प्राथमिकनिगमनम्! किन्तु चालकः झटित्येव धावितः इत्येतत् दुरूहतां जनयति! एतत् भीकराक्रमणमिति न स्पष्टीकृतम्!

Saturday, March 30, 2019

यानेभ्यः अतिसुरक्षा- क्रमाङ्कफलकं निर्बन्धम्। एप्रिल् प्रथमतः प्रबलः भविष्यति।
   तिरुवनन्तपुरम्> एप्रिल् मासस्य प्रथमदिनात् आरभ्य पञ्जीकृतेभ्यः यानेभ्यः अतिसुरक्षा-
 निर्बन्धम्। नूतनतया पञ्जीकृतेभ्यः यानेभ्यः अतिसुरक्षायाः क्रमाङ्कफलकं याने संस्थाप्य दीयमानस्य  दायित्वं याननिर्मातॄणाम् एव। नियमः प्रबलः भविष्यति।
   पञ्जीकरणक्रमाङ्कः, यन्त्राराङ्कः, 'षासि' अङ्कः च विलिख्य विलिम्पनं पुरोभागस्य काजे पातनीयम्। एतस्य पुनःपरिवर्तनं न शक्यते। परिवर्तनाय प्रयासः करोति चेत् लिम्पनस्य नाशः भविष्यति। 
'होलोग्राम्' मुद्रितं भवति नूतनं संख्याफलकम् इत्यस्ति विशेषता। एषा व्यवस्थया आभारतं संख्याफलकस्य समानताम् उपस्थापयितुं  शक्यते। केन्द्र-उपरितल-गतागत मन्त्रालयस्य निर्देशानुसारं भवति नूतनप्रक्रमः।
(विलिम्पनं= sticker)
उपग्रहविक्षेपणं इदानीं जनाः द्रष्टुं प्रभवन्ति।
    नवदेहली- इतः परं ऐ एस् आर् ओ संस्थायाः उपग्रहविक्षेपणं जनाः साक्षात् द्रष्टुं प्रभवन्ति। मंगलवासरे पि एस् एल् वी सी ४५ उपग्रहविक्षेपण्यां एमिसाट्ट् २८ तथा विदेश उपग्रहाः च श्रीहरिकोट्टातः प्रेषिष्यन्ते।तदपि जनाः द्रष्टुं प्रभवन्ति इति ऐ एस् आर् ओ निदेशकेन के शिवन् महोदयेन अवोचत्। तदर्थं पञ्चसहस्रं जनानां उपस्थित्यनुगुणं दर्शनस्थानं तत्र निर्मितमस्ति। किन्तु मंगलवासरे उपस्थितिः केवलं सहस्रजनानां कृते एव। प्रातः सार्धनववादने विक्षेपणं भविष्यति। भारतीयानां तथा दशोपरि वयस्कानां कृते एव प्रवेशः। ऐ एस् आर् ओ संस्थायाः वेब्  तः प्रवेशनपत्रः लभ्यते च।
नीरवमोदिनः प्रातिभाव्यः पुनरपि निरस्तः। 

लण्टन् >  पि एन् बि वित्तकोशात् त्रयोदशसहस्रं कोटि रूप्यकाणि व्याजर्णरूपेण अपहृत्य देशान्तरं गतवतः नीरवमोदिनः प्रातिभाव्यः ब्रिट्टीष् नीतिपीठेन पुनरपि निरस्तः। गतदिने ब्रिट्टने 'वेस्ट् मिन्स्टर्' न्यायाध्यक्षनीतिपीठस्य न्यायाधीशेन एम्मा आर्बुत् नोट् इत्यनेनैव नीरवस्य प्रातिभाव्ययाचना निरस्ता। 
   प्रातिभाव्यः लभ्यते चेत् प्रमाणानि नाशयितव्यानि भविष्यन्ति, साक्षिणः स्वाधीनतां प्राप्स्यन्ते, उत व्यापादिताः भविष्यन्तीति वादः न्यायालयेन अङ्गीकृतः। निरस्तप्रातिभाव्यः नीरवमोदी 'वान्स् वर्त् ' कारागृहे बद्धः। अस्मिन् व्यवहारे आगामिवादः एप्रिल् २६ दिनाङ्के भविष्यति।

Thursday, March 28, 2019

ओडिशा/वनं रक्षणाय पञ्चसप्ततिः महिलाभि: समूहः निर्मितः, विंशतिः वर्षेभ्यः रक्षाकार्यं कुर्वत्यः सन्ति—
-साक्षी चौरसिया
पुरीस्थितायां महानदी-डेल्टायां पञ्चसप्ततिः प्रहलपरिमितं क्षेत्रं प्रसरित मैंग्रोव-वनं रक्षणाय अभियानं प्रवर्तितम् । प्रतिदिनं वारद्वयं अन्वीक्षणाय दण्डं स्वीकृत्य वनमागत्य महिलाः सीटिकावादनमपि कुर्वन्ति, सङ्कटम् अनुमीयते सति दूरभाषमाध्यमेन अन्यान् जनानपि आह्वयन्ति।

  भुवनेश्वर् > ओडिशायाः पुर्यां पञ्चसप्ततिः महिलाः गतविंशतिः वर्षेभ्यः मैंग्रोव-वनं रक्षणाय अभियाने सङ्लग्नाः सन्ति।  झंझावातानन्तरं वृक्षाणां महत्त्वं ज्ञायते। 1999तमे वर्षे ओडिशायाम् एकं सुपरसाइक्लोन इत्याख्य: चक्रवात: आगत: आसीत्। बहूनि गृहाणि, अन्नानि च नष्टानि जातानि। जनाः बहुकष्टम् अनुभूतवन्तः। जनाः ज्ञातवन्तः यत् तेषां जीवनं वृक्षैः (मैंग्रोव वनेनैव) सुरक्षितम् अस्ति। कस्मिंश्चिदपि मूल्ये वनस्य सुरक्षायाः सङ्कल्पं कृत्वा महिलाः समूहं निर्मितवत्यः।
   52वर्षीया चारुलता बिस्वालः कथयति यत् —“भारतं पुनश्च अन्यदेशाः चक्रवातस्य विषये जानन्ति। एतेन गृहऽन्नादि नष्टाः जाताः। मृदपि कट्वभवत्। वनस्य महत्त्वं ज्ञातवन्तः।  2001 तमे वर्षे गुंडाबेलायाः सप्ततिः महिलाभिः वनरक्षा-समितिः निर्मिता। प्रत्येक-गृहतः महिलानां प्रतिभागमासीत्। एताः प्रतिदिनं कार्याणि समाप्य ग्रामं ग्रामं गत्वा वनरक्षायाः लाभान् सम्बोधयन्ति। वनतः काष्ठानि नेतुं दिनमेकं सुनिश्चितं कुर्युः, एवं वनस्यापि रक्षणं भविष्यति पुनश्चास्माकं समयोऽपि अधिकं नागमिष्यति।
वनविशेषज्ञा रहीमा बीबी कथयति यत्— मैंग्रोव वने कसूरियाना नाम्ना वृक्षोऽस्ति यः मृदां संरक्षति तथा च वायोः आर्द्रतां नष्टं भवितुं रक्षति। एतेन सम्पूर्ण-जैव-विविधता प्रभाविता भवति। 
     महिलाभि: गत-वर्षेषु ये वृक्षाणां अवैधरूपेण हननं कुर्वन्ति ते निगडने अधिग्रहीता:। महिलाभिः अपराधिनः दण्डिताः अपि। आवश्यकतायै अधुना समूहस्य महिलानां पार्श्वे दूरभाषमपि वर्तते। प्रश्नेऽस्मिन् यत् महिलाः वने भयं नानुभवन्ति किल ?, बिस्वालः वदति यत् वनं तु अस्माकं गृहसदृशम् अस्ति। वृक्षाः अस्माकं बालाः। कोऽपि अस्माकं बालानां हननं करिष्यति, कथं द्रष्टुं शक्नुमः वयम्। वृक्षैः सह अस्माकं सम्बन्धः माता-पुत्रवत् अस्ति।
संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, माहाराष्ट्रम्

   नमांसि, सर्व: अपि संस्कृतज्ञ: प्रथमं स्वगृहं संस्कृतगृहं कुर्यात्। परन्तु तदर्थं प्रबला इच्छाशक्ति: अपेक्षिता। पूर्वं कश्चन संस्कृतशिक्षक: अस्माभि: प्रार्थित: आसीत् यत् "स्वगृहं संस्कृतगृहं करोतु" इति। तदा तेन उक्तं-"मम समय: नास्ति"। 
    तन्नाम गृहे सर्वेषां संस्कृतपाठनाय समय: नास्ति इत्यर्थ: । तस्य आशय: आसीत् यत् संस्कृतपाठनाय गृहसदस्या: सर्वे निश्चितसमये पुस्तकं गृहीत्वा पाठश्रवणाय उपविशेयु:  इति। वस्तुत: तदर्थं पुस्तकपाठनस्य आवश्यकता नास्ति। स: गृहे यद् यद् सम्भाषणं करोति तदेव संस्कृतेन करोतु। तावता एव इष्टसिद्धि: भविष्यति। मित्राणि, वयं अस्माकं गृहं संस्कृतगृहं कुर्म:। जयतु  संस्कृतम् जयतु भारतम् । *, प्रान्तमन्त्री, संस्कृतभारती, विदर्भप्रान्त: ।*
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
   नमांसि, स्वगृहं संस्कृतगृहं कर्तुं बहव: उपाया: सन्ति। गृहे सर्वेषां वस्तूनाम् उपरि संस्कृनाम लिखित्वा स्थापनम्, दैनन्दिनव्यवहारोपयोगिनां वाक्यानां भित्तिपत्ररूपेण लिखित्वा स्थापनम्- इति एतेन उपायद्वयेन गृहसदस्यानां सर्वेषामपि स्वल्पै: दिनै: एव तेषां शब्दानां वाक्यानां च अभ्यास: भवति, विना श्रमेण। दिने कश्चन समय: निश्चेतव्य: । यथा- सायङ्काले भोजनसमय:, भोजनोत्तरसमय: वा, प्रात: सप्तवादनत: अष्टवादनपर्यन्तम्- इत्येवम्। तस्मिन् निश्चिते समये संस्कृतेन सम्भाषणाय प्रयत्न: करणीय:। क्रमश: तस्य अवधे: विस्तारणं च करणीयम्। मित्राणि, वयं संस्कृतगृहनिर्माणाय प्रयतामहे। जयतु  संस्कृतम् जयतु भारतम् । 
अत्युष्णः अनावृष्टिश्च  वर्धते ; केरले अतीवजाग्रतानिर्देशः
समाश्वासप्रवर्तनाय समितित्रयं रूपवत्कृतम्। 
अनन्तपुरी >  केरले अत्युष्णस्य शमनं नास्ति। गतदिने उपपञ्चाशत् जनाः तापव्रणिताः , द्वौ सूर्याघातितौ च। एतत्सप्ताहपर्यन्तं अत्युष्णः अनुवर्तिष्यते इति पर्यावरणविभागेन पूर्वसूचना दत्ता। एप्रिल् प्रथमसप्ताहपर्यन्तं दक्षिणभारते अत्युष्णः सामान्यतः द्विचतुर्डिग्री तावत् वर्धिष्यते। 
  अत्युष्णानावृष्टिसम्बन्धानां दुष्प्रभावानां समाश्वासप्रवर्तनाय केरलसर्वकारेण   कर्मसमितित्रयं रूपवत्कृतम्। अनावृष्टिः पानजलदौर्भ्यम् इत्यादीनां समाश्वासप्रवर्तनाय जलविभवविभागस्य तथा राजस्वविभागस्य च मुख्यकार्यदर्शिनोः नेतृत्वे प्रवर्तनानामेकोपनं विधास्यते। जलजन्यसांक्रमिकरोगाणां प्रतिरोधाय स्वास्थ्यविभागस्य नेतृत्वे कर्मसेना प्रवर्तिष्यते। जलदौर्लभ्येन जनावासस्थानम् अतिक्रम्यमाणान् वन्यमृगान् प्रतिरोद्धुं वनविभागश्च वर्तिष्यते।