OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 28, 2019

संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, माहाराष्ट्रम्

   नमांसि, सर्व: अपि संस्कृतज्ञ: प्रथमं स्वगृहं संस्कृतगृहं कुर्यात्। परन्तु तदर्थं प्रबला इच्छाशक्ति: अपेक्षिता। पूर्वं कश्चन संस्कृतशिक्षक: अस्माभि: प्रार्थित: आसीत् यत् "स्वगृहं संस्कृतगृहं करोतु" इति। तदा तेन उक्तं-"मम समय: नास्ति"। 
    तन्नाम गृहे सर्वेषां संस्कृतपाठनाय समय: नास्ति इत्यर्थ: । तस्य आशय: आसीत् यत् संस्कृतपाठनाय गृहसदस्या: सर्वे निश्चितसमये पुस्तकं गृहीत्वा पाठश्रवणाय उपविशेयु:  इति। वस्तुत: तदर्थं पुस्तकपाठनस्य आवश्यकता नास्ति। स: गृहे यद् यद् सम्भाषणं करोति तदेव संस्कृतेन करोतु। तावता एव इष्टसिद्धि: भविष्यति। मित्राणि, वयं अस्माकं गृहं संस्कृतगृहं कुर्म:। जयतु  संस्कृतम् जयतु भारतम् । *, प्रान्तमन्त्री, संस्कृतभारती, विदर्भप्रान्त: ।*
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
   नमांसि, स्वगृहं संस्कृतगृहं कर्तुं बहव: उपाया: सन्ति। गृहे सर्वेषां वस्तूनाम् उपरि संस्कृनाम लिखित्वा स्थापनम्, दैनन्दिनव्यवहारोपयोगिनां वाक्यानां भित्तिपत्ररूपेण लिखित्वा स्थापनम्- इति एतेन उपायद्वयेन गृहसदस्यानां सर्वेषामपि स्वल्पै: दिनै: एव तेषां शब्दानां वाक्यानां च अभ्यास: भवति, विना श्रमेण। दिने कश्चन समय: निश्चेतव्य: । यथा- सायङ्काले भोजनसमय:, भोजनोत्तरसमय: वा, प्रात: सप्तवादनत: अष्टवादनपर्यन्तम्- इत्येवम्। तस्मिन् निश्चिते समये संस्कृतेन सम्भाषणाय प्रयत्न: करणीय:। क्रमश: तस्य अवधे: विस्तारणं च करणीयम्। मित्राणि, वयं संस्कृतगृहनिर्माणाय प्रयतामहे। जयतु  संस्कृतम् जयतु भारतम् । 
अत्युष्णः अनावृष्टिश्च  वर्धते ; केरले अतीवजाग्रतानिर्देशः
समाश्वासप्रवर्तनाय समितित्रयं रूपवत्कृतम्। 
अनन्तपुरी >  केरले अत्युष्णस्य शमनं नास्ति। गतदिने उपपञ्चाशत् जनाः तापव्रणिताः , द्वौ सूर्याघातितौ च। एतत्सप्ताहपर्यन्तं अत्युष्णः अनुवर्तिष्यते इति पर्यावरणविभागेन पूर्वसूचना दत्ता। एप्रिल् प्रथमसप्ताहपर्यन्तं दक्षिणभारते अत्युष्णः सामान्यतः द्विचतुर्डिग्री तावत् वर्धिष्यते। 
  अत्युष्णानावृष्टिसम्बन्धानां दुष्प्रभावानां समाश्वासप्रवर्तनाय केरलसर्वकारेण   कर्मसमितित्रयं रूपवत्कृतम्। अनावृष्टिः पानजलदौर्भ्यम् इत्यादीनां समाश्वासप्रवर्तनाय जलविभवविभागस्य तथा राजस्वविभागस्य च मुख्यकार्यदर्शिनोः नेतृत्वे प्रवर्तनानामेकोपनं विधास्यते। जलजन्यसांक्रमिकरोगाणां प्रतिरोधाय स्वास्थ्यविभागस्य नेतृत्वे कर्मसेना प्रवर्तिष्यते। जलदौर्लभ्येन जनावासस्थानम् अतिक्रम्यमाणान् वन्यमृगान् प्रतिरोद्धुं वनविभागश्च वर्तिष्यते।
भारतेन उपग्रहवेध अग्निसायकक्षमता अवाप्ता - प्रधानमन्त्री।
    नवदिल्ली> उपग्रहानपि आक्रमणं कृत्वा पातयितुं क्षमता प्राप्ता, उपग्रहवेध अग्निसायकेन परीक्षा विजिता इत्यपि प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। राष्ट्रं प्रति अभिसंबोधनं कृत्वा एव वार्तेयं प्रधानमन्त्रिणा उद्घोषिता। इमां क्षमताम् प्राप्तेषु चतुर्थं राष्ट्रं भवति भारतम्। मिषन् शक्तिः इति नामाङ्कितम् दौत्यं निमिषत्रयेण लक्ष्यं प्राप्तम्। बाह्याकाशे संस्थितस्य उपग्रहस्य नाशः आसीत् अग्निसायकस्य दौत्यम्। डि आर् डि ओ संस्थया स्वयमेव निर्मितम् आसीत् सायकम्।
    विश्वे अमेरिका, रष्य, चीनाराष्ट्राणां पार्श्वे  एव  एतादृशसायकानि विद्यन्ते। इदानीं भारतम् अपि बाह्याकाशस्य आक्रमणानि प्रतिरोद्धुं शक्तिः सम्पादिता इत्यपि प्रधानमन्त्रिणा उक्तम्।

Wednesday, March 27, 2019

 संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्
डीन्, कविकुलगुरु कालिदास- विश्वविद्यालयः, महाराष्ट्रम्
चित्रकारः नवीन् सक्करियः
     नमांसि,  लोके केचन तादृशा: अपि भवन्ति, ये च भाषाविषये प्रमादान् कुर्वन्त: अपि नाधिकं लज्जन्ते। 'मम स्थानप्रभावादिमाहात्म्यं मत्कृतान् प्रमादान् क्षमार्हान् करोति' इति न केनापि चिन्तनीयम्। अस्माभि: कृतानाम् अशुद्धप्रयोगाणां कारणत:भाषा अपि वेदनाम् अनुभवति-' अल्पज्ञ: अयं माम् एवं निर्दयं प्रहरति ननु?' इति। भाषा अस्माकं प्रीतिविषय: स्यात्, आदरविषय: स्यात्, आराधनाविषय: च स्यात् । अस्मत्त: अल्प: अपि अपचार: यथा न घटेत तथा जागरूकता वोढव्या अस्माभि:।मित्राणि,कविवाक्यं स्मराम:।
" सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया। अमृतवणी संस्कृतभाषा नैव क्लिष्टा न च कठिना"।।जयतु  संस्कृतम् जयतु भारतम् ।  ।
अरुणाचलः भारतस्य भागः - भूमानचित्रं चीनेन खण्डनं कृतम्।  
   नवदिल्ली> अरुणाचलप्रदेशं  भारतस्य भागः इति सूचितं विश्व-भूमानचित्रं चीनेन अवखण्डनं कृतम्। ३०,००० संख्यातीतानि चित्राणि चीनेन खण्डितनि। अरुणाचलं भारतस्य भागतया भूमानचित्रे आलेखितम् इत्यासीत् चीनस्य रोषस्य कारणम्। ताय्वानराष्ट्रं चीनस्य भागः इत्यपि भूमनचित्रे न लेखितम्।
भारतस्य पूर्वेत्तरभागेषु वर्तमानः अरुणाचलप्रदेशः त्रिविष्टपस्य (Tibet) भागः इत्यस्ति चीनस्य मतम्। 
      भारतस्य राष्ट्रनेतृणाम् अरुणाचलसन्दर्शनानि यस्मिन् अवसरे स्युः तस्मिन्नेव अवसरे सन्दर्शनं विरुद्ध्य चीनेन तेषाम् विप्रतिपत्तिः प्रकाशिता आसीत्। समीपकाले प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतं सन्दर्शनं विरुद्ध्य चीनेन प्रतिषेधः प्रदर्शितः आसन्। अरुणाचलः भारतस्य अविभाज्यभागः चीनस्य प्रतिषेधः विग्ण्यते इति भारतेन तदा उक्तम्।

Tuesday, March 26, 2019

केरले उष्णः अतितीव्रः ; सूर्यातपेन चत्वारि
मरणानि। 
कोच्ची >  केरले ग्रीष्मकालीनः आतपः अतितीव्रः जायमानः अस्ति। विविधप्रदेशेषु चत्वारः  जनाः सूर्यातपेन मृताः। अस्मिन् मासे एतावत्पर्यन्तं ११८ जनाः दाहव्रणिताः अभवन्। आगामिदिनेषु उष्णः त्रिचतुरडिग्री परिमितं वर्धिष्यते इति देशीयदुरन्तनिवारणसंस्थया पूर्वसूचना दत्ता। 
  कण्णूर्, एरणाकुलम्, अनन्तपुरी, पत्तनंतिट्टा जनपदेषु एकैकः मृत्युमुपगतः। सुर्यातपात् रक्षां प्राप्तुं दिनकाले एकादशवादनादारभ्य त्रिवादनपर्यन्तं सूर्यरश्मीणां साक्षात्पतनम् अपाकरणीयमिति विज्ञैः निगदितम्। उष्णः अतितीव्रः ; सूर्यातपेन चत्वारि मरणानि। 
कोच्ची >  केरले ग्रीष्मकालीनः आतपः अतितीव्रः जायमानः अस्ति। विविधप्रदेशेषु चत्वारः  जनाः सूर्यातपेन मृताः। अस्मिन् मासे एतावत्पर्यन्तं ११८ जनाः दाहव्रणिताः अभवन्। आगामिदिनेषु उष्णः त्रिचतुरडिग्री परिमितं वर्धिष्यते इति देशीयदुरन्तनिवारणसंस्थया पूर्वसूचना दत्ता। 
  कण्णूर्, एरणाकुलम्, अनन्तपुरी, पत्तनंतिट्टा जनपदेषु एकैकः मृत्युमुपगतः। सुर्यातपात् रक्षां प्राप्तुं दिनकाले एकादशवादनादारभ्य त्रिवादनपर्यन्तं सूर्यरश्मीणां साक्षात्पतनम् अपाकरणीयमिति विज्ञैः निगदितम्।
संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
 
नमांसि, वयं संस्कृतज्ञा: - छात्रा:,शिक्षका:, प्राध्यापका:, संस्कृतानुरागिण: च - सर्वे अपि संस्कृतस्य कार्यकर्तार:। वयं यावत् अधिकं प्रभाविरुपेण कार्यं करिष्याम: तावता अधिकप्रमाणेन संस्कृतस्य विकास: अपि भविष्यति। वयं सामान्यरूपेण उत्तमा: जना: , सज्जना: , विद्वांस:, च भवाम: चेत् न पर्याप्तम्, अपेक्षितस्य परिणामस्य फलस्य च साधयितार: भवेम। वयं समर्था (Efficient)कार्यकर्तार:स्म: चेत् न पर्याप्तम्, अस्माभि: प्रभावि(Effective)कार्यकर्तृभि: अपि भवितव्यम्। मित्राणि, स्मरतु-
"कार्यगौरवं स्मरन् 
विघ्नवारिधिं तरन्
लक्ष्यसिद्धिमक्षिसात् करोति सोद्यम: स्वयम्"। जयतु  संस्कृतम् जयतु भारतम् । 
भारतस्य जूतकेन्द्रान् प्रति भीकराक्रमणसूचना।
     नवदिल्ली> रहस्यान्वेषकाणां प्रतिवेदने इस्लामिक् स्टेट् अल् ख्वयिदा इत्येते भीकरसंघटने आक्रमण पद्धतिः सज्जीकरुतः इत्यस्ति। अतीव श्रद्धा देयेति नवदेहली मुंबई गोवा इत्यादि राज्येषु आरक्षकान्  प्रति रहस्यान्वेषकविभागेन निर्देशः दत्तः। इस्रायेल् ऐंबसी कृते सुरक्षा वर्धिता। राष्ट्रे स्थितानां सिनगोग तथा स्मृतिमण्डपानां च सुरक्षा अपि वर्धयितुं निर्देशः अस्ति। मार्च् मासे विंशति दिनाङ्के प्रथमा सूचना आगता।ऐ एस् भीकरेण अबु हसनेन दत्ता सूचना रहस्यान्वेषकैः स्वीकृता अभवत्। पुनः मार्च् त्रयोविंशति दिनाङ्के समाना  सूचना आगता। तेषां सूच्यां गोवाराज्यस्य जूतानां कानिचन क्षेत्राणि अपि वर्तन्ते। तत्रापि निरीक्षणं सुरक्षा च सशक्तमकरोत्।
वि वि पाट्ट् -अधिकानां पत्रखण्डानां गणना अनिवार्यतया कार्या -निर्वाचनायोगं प्रति उच्चतरन्यायालयः।
    नवदेहली>  मतदानयन्त्रैः साकं घटितेषु वि वि पाट्ट् इति यन्त्रेषु आगतानां पत्रखण्डानां गणना केेन काारणेन न वर्धनीया इति निर्वाचनायोगं प्रति उच्चतरन्यायालयः अवोचत्। दिनत्रयाभ्यन्तरे   अस्मिन्  सत्यप्रस्तावना दातव्या इति न्यायालयेन उक्ता। मतदान यन्त्रस्य संख्यया साकं वि वि पाट्टस्य पञ्चाशत् प्रतिशतं गणनाीयमिति निर्दिश्य एकविंशति प्रतिपक्षदलैः दत्तं निवेदनं परिगणयन्नासीत् न्यायालयः। 

   वि वि पाट्ट् पत्राणां गणनसंख्या वर्धनीया इति अस्माकं निर्देशः। युष्माकं निर्णयेन एव इदानीं गणना प्रचलति। सा वर्धनीया।  प्रति मण्डलानां वि वि पाट्ट् पत्रखण्डानां गणना प्रचलति। निर्वाचन संविधानं समीचीनतया प्रचलति इति विश्वसितुं हेतवः नः सविधे वर्तन्ते। पुनरपि तत् संवर्धयिष्यामः इति आयोगेन न्यायालये अवदत्।
      न्यायविभागेन सह कापि संस्था निर्देशेभ्यः दूरं न गन्तव्यमिति समस्यायाः समाधानरूपेण मुख्यन्यायाधिपेन रञ्जन् गोगोई महोदयेन उक्तम्। भवतां अधिकं विश्वासं अस्ति चेत् किमर्थं वि वि पाट्टस्य आनयनं कृतम्? वि वि पाट्ट् सुविधा केनापि प्रतिषिद्धं वा इति न्यायालयेन आयोगः पृष्टः। ऐप्रिल् प्रथमे दिनाङ्के याचिकायाः परिगणनान्दर्भे न्यायालयस्य साहाय्यं कर्तुं कञ्चन प्रौढकार्यकर्तारम् उपस्थापनीयमिति निर्वाचनायोगः  न्यायालयेन आदिष्टः।
भारतेन निर्मितानि  तेजस् युद्धविमानानि साभिमानं मलेष्याराष्ट्रे।
-बिजिलाकिषोरः
   क्वालालंपुर्> भारतेन निर्मितानि तेजस् नाम लघुयुद्धविमानानि  मलेष्याराष्ट्रे प्रदर्शनाय सज्जीकृतानि।लड्कावि अन्ताराष्ट्र मारिटैं आन्ट् एय्रोस्पेस्  इति प्रदर्शने  लोकश्रद्धामावेक्ष्यन्ते इति प्रतीक्षा। कदाचित् मलेष्यासर्वकारेणेदं स्वायत्तीक्रियेत इति विश्वासः। विमानद्वयस्य प्रदर्शनार्थं पञ्चाशत् कुशलाः वैमानिकाः गतवन्तः।
  पाकिस्थान-चीनयोः जे एफ्‌ १७, दक्षिण-कोरियेन निर्मितम् एफ्/ ए ५० विमानेनसाकं तेजस् अपि मलेष्याराष्ट्रेण  क्रेष्यन्ते। भारतात् ३५० अङ्गयुक्तातानि संघानि एल् ऐ एं एप्रदर्शनार्थं गतवन्तः।

Monday, March 25, 2019

इदाई प्रचण्डवातः साहाय्येन प्रथमं भारतमागतम्।
-डा. अभिलाष् जे
    नवदेहली> आफ्रिक्क राष्ट्रेषु नाशं कृत्वा सप्तशत जनानां मृत्युहेतुभूतायां इदाई प्रचण्डवाभूमौ साहाय्यार्थं प्रथमतया भारतीयनाविकसेना आगता। जलप्लवात् १९२ जनान् अरक्षत् एवम् स्वास्थ्य शिबिरे १३८१ जनान् वैद्यसाहाय्यम् अयच्छन् इति नाविकसेनया उक्तम्।
   मोसांबिक्कात् साहाय्याभ्यर्थनात् परं भारतीय नाविकसेनायाः तिस्रः युद्धनौकाः तत्र अगच्छन्। ऐ एन् एस् सुजाता, ऐ सी सी एस् सारथी,  ऐ एन् एस् सारथी इति नौकाः तत्र रक्षाप्रवर्तनेषु भागभाजः अभजन्। भारतस्य चेतक् हेलिकोप्टर् तत्र निरीक्षणं करोति। तद्वारा भोजनवितरणं औषधवितरणं च प्रचलति।अधिकसाहाय्यार्थम् ऐ एन् एस् मगर् इति नौका अपि विना विलम्बं गमिष्यति। इदानीमपि प्रचण्डवातस्य बाधा वर्तते इत्यतः मरणसंख्या वक्तुं न शक्यते।

Sunday, March 24, 2019

न्याय. पि सि घोषः सत्यशपथमकरोत्। 
न्या. पि सि घोषस्य सत्यशपथम्। 
नवदिल्ली >  राष्ट्रस्य प्रथमलोकपालरूपेण सर्वोच्चनीतिपीठस्य भूतपूर्वः  न्यायमूर्तिः पिनाकि चन्द्रघोषः सत्यशपथं कृत्वा पदं स्वीकृतवान्। राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः रामनाथकोविन्दः प्रतिज्ञावाक्यानि प्रतिज्ञापयत्। 
  उपराष्ट्रपतिः वेङ्कय्यनायिडुः, प्रधानमन्त्री नरेन्द्रमोदी , भारतस्य मुख्यन्यायपतिः रञ्जन् गोगोय् इत्यादयः कार्यक्रमे सन्निहिता आसन्। 
  अण्णा हसारे वर्यस्य नेतृत्वे प्रचालितः प्रक्षोभः आसीत् २०१४ तमे वर्षे लोकपाल् नियमस्य आविर्भावः। किन्तु विपक्षनेत्रभावः इति साङ्तिकत्वं सम्भाव्य  नियुक्तिप्रक्रमाः विलम्बन्ते स्म। अन्ते सर्वोच्चन्यायालयस्य शक्तः व्यवहार एव अस्य सर्वकारस्य   काले लोकपालस्य नियुक्तये मार्गः अभवत्।

Saturday, March 23, 2019

यु ए ई राष्ट्रे इदं प्रथमतया वनिता न्यायाधिपे नियुक्ते| 

      दुबाय्> संयुक्त अरब्राष्ट्रस्य न्यायालये द्वे वनिता न्यायाधिपे नियुक्ते। खदीजा खामिस् खलीफ अल् मलास,  सलामा राषिद् सालिं अल् केत्बि च भवति प्रप्रथमे न्यायाधिपे। यू ए ई राष्ट्रपतिना षेय्ख् खलीफ बिन् सायिद् अल् नह्याना नामकेन एतस्याः नियुक्तादेशः  अगमयत्। यू ए ई राष्ट्रेषु  विविधराज्य-न्यायालयेषु वनिता न्यायाधिपाः पूर्वस्मिन् काले एव  नियुक्ताः आसन्। किन्तु संयुक्तन्यायालये इदं प्रथमतया भवति वनिता न्यायाधिपयोः नियुक्तिः ।

Friday, March 22, 2019

पाक् राष्ट्रेण कृते आक्रमणे  भारतसैनिकस्य वीरमृत्युः!
श्रीनगरम् >  जम्मु काश्मीरे रजौरि जनपदे सुन्दर्बनी प्रविश्यायां पाकिस्थानराष्ट्रेण कृते  आक्रमणे भारतसैनिकः वीरमृत्युं प्राप। जम्मौ उधंपुरस्वदेशीयः याष् पोल् नामक एव मृतः।
  एतदाभ्यन्तरे काश्मीर् प्रविश्यायां विभिन्नस्थानेषु सम्पन्ने संघट्टने त्रयः भीकराः व्यापादिताः। पञ्च सैनिकाः व्रणिताः च।
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार मेनन्, 
डीन् , कविकुलगुरु कालिदास विश्वविद्यालयः

नमांसि, भाषितभाषासु एव दृश्यमाना: केचन शब्दा: सन्ति। अद्य तान् शब्दान्  पश्याम:। लूनयवम्-केदारे कर्तनसमय: , खलेयवम्- यस्मिन् काले खले धान्यं भवति स: काल:। खलेबुसम्- खलत: धान्यनयनानन्तरं खले यदा बुसं भवति स: काल:। वहद्गु- कर्षणकाल:(वहन्ति हलं गाव:-बलीवर्दा: यस्मिन् काले स:) तिष्ठद्गु-दुग्धदोहनकाल:(तिष्ठन्ति गाव: दोहनार्थं यस्मिन् काले स:) इत्येवम् एते शब्दा: सामान्यानां जनानां तत्रापि कृषीवलानां परस्परं व्यवहाराय सीमिता:, कृषीवलसंवादमात्रगोचरा: च सन्ति। आयान्ति गावो गृहं यस्मिन् काले स आयती गवं कालविशेष:। अपण्डितेषु एते विलक्षणा: शब्दा: ये प्रसिद्धा: आसन् ते पश्चात् रूढिवशात् शिष्टैरपि परिगृहीता: अभवन्। मित्राणि, एष: विषय: श्व: अनुवर्तेत।  जयतु  संस्कृतम् जयतु भारतम् ।
भारतं विरुद्ध्य भीकराक्रमणानि अनुवर्तिष्यन्ते चेत् कार्याणि जटिलानि भविष्यन्ति - यु एस् राष्ट्रम्।

    वाषिङ्टन्> आतङ्कवादान्  विरुद्ध्य फलप्रदमार्गाः स्वीकरणीयाः इति पाकिस्थानं प्रति अमेरिका अवदत्। भारतं विरुद्ध्य पुनरपि भीकराक्रमणानि अनुवर्तिष्यते चेत् कार्याणि जटिलानि भविष्यन्ति इति पाकिस्थानाय अमेरिका पूर्वसूचनाम् अयच्छत्। आतङ्कवाद सङ्घटनां प्रति प्राधान्येन जैष् ए मुहम्मद् , लष्कर् तोयिब दले विरुद्ध्य निशितप्रक्रमाः स्वीकुर्वन्ति इति दृष्टुं वयम् अभिलषामः। अनेन अस्मिन् मण्डले प्रक्षुब्धावस्था शान्ता भविष्यति इति  वैट् हौसस्य वरिष्ठकार्यकारी माध्यमान् प्रति अवदत्I

Thursday, March 21, 2019

भारतस्य बालमरणेषु भूरि निवारयितुं शक्यमासीत् - अध्ययननिरूपणं प्रकाशितम्।
      कोच्ची> भारते पञ्चवयस्कादारभ्य पञ्चदशवयस्क-पर्यन्तं शिशुभ्यः दुरापन्नानां मृत्यूनां मानं न्यूनीकर्तुं शक्यमासीत् इत्यस्ति अध्ययननिरूपणम्। साङ्क्रमिकव्याधयः, जलेनिमज्जयित्वा मृत्युः, अपघातक्षतः, अर्बुदं च  भारतस्य शिशुमरणानां कारणत्वेन आवेदने वदति। लान् सेट् इति स्वास्थ्य मासिकायाम् अध्ययनं प्रकाशितम् अस्ति। कानडा राज्यस्य टोरन्टस्थे सेन्ट् मैकिल् आतुरालयस्य डा. षाह फाडलस्य नेतृत्वे आसीत् अध्ययनम्। पञ्च वयस्कपर्यन्तानां मृत्युमानस्य न्यूनीकरणे सफलता अस्ति। चेदपि ततः उपरिवयस्केभ्यः रक्षायै  प्रयत्नः  कोऽपि नास्ति इति आवेदने अस्ति।  भारतं, चीन, ब्रसील्, मेक्सिक्को राष्ट्रेषु भवति शिशूनां निधनमानेषु  अधिकतमाः।