OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 24, 2019

न्याय. पि सि घोषः सत्यशपथमकरोत्। 
न्या. पि सि घोषस्य सत्यशपथम्। 
नवदिल्ली >  राष्ट्रस्य प्रथमलोकपालरूपेण सर्वोच्चनीतिपीठस्य भूतपूर्वः  न्यायमूर्तिः पिनाकि चन्द्रघोषः सत्यशपथं कृत्वा पदं स्वीकृतवान्। राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः रामनाथकोविन्दः प्रतिज्ञावाक्यानि प्रतिज्ञापयत्। 
  उपराष्ट्रपतिः वेङ्कय्यनायिडुः, प्रधानमन्त्री नरेन्द्रमोदी , भारतस्य मुख्यन्यायपतिः रञ्जन् गोगोय् इत्यादयः कार्यक्रमे सन्निहिता आसन्। 
  अण्णा हसारे वर्यस्य नेतृत्वे प्रचालितः प्रक्षोभः आसीत् २०१४ तमे वर्षे लोकपाल् नियमस्य आविर्भावः। किन्तु विपक्षनेत्रभावः इति साङ्तिकत्वं सम्भाव्य  नियुक्तिप्रक्रमाः विलम्बन्ते स्म। अन्ते सर्वोच्चन्यायालयस्य शक्तः व्यवहार एव अस्य सर्वकारस्य   काले लोकपालस्य नियुक्तये मार्गः अभवत्।

Saturday, March 23, 2019

यु ए ई राष्ट्रे इदं प्रथमतया वनिता न्यायाधिपे नियुक्ते| 

      दुबाय्> संयुक्त अरब्राष्ट्रस्य न्यायालये द्वे वनिता न्यायाधिपे नियुक्ते। खदीजा खामिस् खलीफ अल् मलास,  सलामा राषिद् सालिं अल् केत्बि च भवति प्रप्रथमे न्यायाधिपे। यू ए ई राष्ट्रपतिना षेय्ख् खलीफ बिन् सायिद् अल् नह्याना नामकेन एतस्याः नियुक्तादेशः  अगमयत्। यू ए ई राष्ट्रेषु  विविधराज्य-न्यायालयेषु वनिता न्यायाधिपाः पूर्वस्मिन् काले एव  नियुक्ताः आसन्। किन्तु संयुक्तन्यायालये इदं प्रथमतया भवति वनिता न्यायाधिपयोः नियुक्तिः ।

Friday, March 22, 2019

पाक् राष्ट्रेण कृते आक्रमणे  भारतसैनिकस्य वीरमृत्युः!
श्रीनगरम् >  जम्मु काश्मीरे रजौरि जनपदे सुन्दर्बनी प्रविश्यायां पाकिस्थानराष्ट्रेण कृते  आक्रमणे भारतसैनिकः वीरमृत्युं प्राप। जम्मौ उधंपुरस्वदेशीयः याष् पोल् नामक एव मृतः।
  एतदाभ्यन्तरे काश्मीर् प्रविश्यायां विभिन्नस्थानेषु सम्पन्ने संघट्टने त्रयः भीकराः व्यापादिताः। पञ्च सैनिकाः व्रणिताः च।
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार मेनन्, 
डीन् , कविकुलगुरु कालिदास विश्वविद्यालयः

नमांसि, भाषितभाषासु एव दृश्यमाना: केचन शब्दा: सन्ति। अद्य तान् शब्दान्  पश्याम:। लूनयवम्-केदारे कर्तनसमय: , खलेयवम्- यस्मिन् काले खले धान्यं भवति स: काल:। खलेबुसम्- खलत: धान्यनयनानन्तरं खले यदा बुसं भवति स: काल:। वहद्गु- कर्षणकाल:(वहन्ति हलं गाव:-बलीवर्दा: यस्मिन् काले स:) तिष्ठद्गु-दुग्धदोहनकाल:(तिष्ठन्ति गाव: दोहनार्थं यस्मिन् काले स:) इत्येवम् एते शब्दा: सामान्यानां जनानां तत्रापि कृषीवलानां परस्परं व्यवहाराय सीमिता:, कृषीवलसंवादमात्रगोचरा: च सन्ति। आयान्ति गावो गृहं यस्मिन् काले स आयती गवं कालविशेष:। अपण्डितेषु एते विलक्षणा: शब्दा: ये प्रसिद्धा: आसन् ते पश्चात् रूढिवशात् शिष्टैरपि परिगृहीता: अभवन्। मित्राणि, एष: विषय: श्व: अनुवर्तेत।  जयतु  संस्कृतम् जयतु भारतम् ।
भारतं विरुद्ध्य भीकराक्रमणानि अनुवर्तिष्यन्ते चेत् कार्याणि जटिलानि भविष्यन्ति - यु एस् राष्ट्रम्।

    वाषिङ्टन्> आतङ्कवादान्  विरुद्ध्य फलप्रदमार्गाः स्वीकरणीयाः इति पाकिस्थानं प्रति अमेरिका अवदत्। भारतं विरुद्ध्य पुनरपि भीकराक्रमणानि अनुवर्तिष्यते चेत् कार्याणि जटिलानि भविष्यन्ति इति पाकिस्थानाय अमेरिका पूर्वसूचनाम् अयच्छत्। आतङ्कवाद सङ्घटनां प्रति प्राधान्येन जैष् ए मुहम्मद् , लष्कर् तोयिब दले विरुद्ध्य निशितप्रक्रमाः स्वीकुर्वन्ति इति दृष्टुं वयम् अभिलषामः। अनेन अस्मिन् मण्डले प्रक्षुब्धावस्था शान्ता भविष्यति इति  वैट् हौसस्य वरिष्ठकार्यकारी माध्यमान् प्रति अवदत्I

Thursday, March 21, 2019

भारतस्य बालमरणेषु भूरि निवारयितुं शक्यमासीत् - अध्ययननिरूपणं प्रकाशितम्।
      कोच्ची> भारते पञ्चवयस्कादारभ्य पञ्चदशवयस्क-पर्यन्तं शिशुभ्यः दुरापन्नानां मृत्यूनां मानं न्यूनीकर्तुं शक्यमासीत् इत्यस्ति अध्ययननिरूपणम्। साङ्क्रमिकव्याधयः, जलेनिमज्जयित्वा मृत्युः, अपघातक्षतः, अर्बुदं च  भारतस्य शिशुमरणानां कारणत्वेन आवेदने वदति। लान् सेट् इति स्वास्थ्य मासिकायाम् अध्ययनं प्रकाशितम् अस्ति। कानडा राज्यस्य टोरन्टस्थे सेन्ट् मैकिल् आतुरालयस्य डा. षाह फाडलस्य नेतृत्वे आसीत् अध्ययनम्। पञ्च वयस्कपर्यन्तानां मृत्युमानस्य न्यूनीकरणे सफलता अस्ति। चेदपि ततः उपरिवयस्केभ्यः रक्षायै  प्रयत्नः  कोऽपि नास्ति इति आवेदने अस्ति।  भारतं, चीन, ब्रसील्, मेक्सिक्को राष्ट्रेषु भवति शिशूनां निधनमानेषु  अधिकतमाः।

Wednesday, March 20, 2019

दक्षिणाफ्रिक्कन् राष्ट्रेषु जलोपप्लवः -
मरणसंख्या सार्धसहस्रमतीता।

चिमानिमानि (सिम्बाब्वे) >  मोसाम्बिक् , सिम्बाबवे , मलावी इत्यादिषु दक्षिणाफ्रिक्कन् राष्ट्रेषु 'इडायी' चक्रवातदुष्प्रभावस्य अनन्तरं सञ्जाते जलोपप्लवदुरन्ते मृत्युसंख्या १५०० अतीतेति सूच्यते। केवलं मोसाम्बिक् राष्ट्रे एव सहस्राधिकाः जनाः मृत्युवशं प्राप्ताः इति राष्ट्रपतिः फिलिप् न्यूसि असूचयत्। 
   दक्षिणाफ्रिक्कायां विंशति संवत्सराणामाभ्यन्तरे अनुभूतः महत्तमः जलोपप्लवः भवति इडायिचक्रवातमनुबन्ध्य सञ्जातः। गुरुवासरं यावत् वृष्टिरनुवर्तिष्यत इति पूर्वसूचनाप्यस्ति। किन्तु रक्षाप्रवर्तनाय दुस्साध्यरूपा स्थितिः वर्तते। 
  सिम्बाब्वे राष्ट्रे अपि जलोपप्लवदुष्प्रभावेण अयुताधिकं जनाः दुरितमनुभवन्तीति यू एन् संस्थया निगदितम्।
संस्कृतरक्षायै सैनिकाः समुद्भवेयुः
(आचार्यवाचस्पति-उपाध्यायस्मारकव्याख्यानमाला)
   नवदिल्ली> राजधान्यां  श्रीलालबहादुरशास्त्रि-राष्ट्रियसंस्कृत-विद्यापीठस्य आधुनिकविद्यासङ्कायेन मार्चमासस्य ऊनविंशे दिने आचार्यवाचस्पति-उपाध्याय-स्मारकव्याख्यानमाला समायोजिता। विद्यापीठस्य कुलपतिः प्रो. रमेशकुमारपाण्डेय: कार्यक्रमस्याध्यक्ष्यम् अकरोत्। अत्रावसरे कुलपतिमहोदयेन विद्यापीठस्य संस्थापककुलपते: डॉ.मण्डनमिश्रमहोदयस्य विद्यापीठसंस्थापनायै निहितसंस्कृतसपर्या उपस्थापिता। तदीय: सङ्कल्प: आसीत् यत् संस्कृतरक्षायै सैनिका: विद्यापीठत: समुद्भवेयु:, सैव सङ्कल्पना सम्प्रति मूर्तस्वरूपं सम्प्राप्तास्ति। अनन्तरं कुलपतिमहोदयेन आचार्यवाचस्पत्युपाध्यायस्य विद्यापीठायावदानं शास्त्रपारङ्गतता ज्ञानगाम्भीर्यं च संस्मृतम्। विद्यापीठस्य ज्ञानपताकां सन्नेतुम् आचार्योपाध्ययेण विहितकार्याणि अपि साररूपेणोपस्थापितानि । इन्दिरागाँधी राष्ट्रियमुक्तविश्वविद्यालयस्य आचार्य: प्रो.कपिलकुमार: मुख्यवक्तृत्वम् उपस्थापयत्। स्वीयद्बोधने मुख्यवक्तृणा राष्ट्रवादमुद्दिश्य भारतस्याखण्डस्वरूपमुपस्थापितम् । अन्ताराष्ट्रियपरिदृश्ये प्रतिवेशिराष्ट्राणां व्यवहार: विशदेन वर्णितम्। साम्प्रतिके परिवेशे राष्ट्रवादविषयकम् अस्माकं सैन्यबलानां शौर्यं, राष्ट्रं प्रति  जनसामान्यस्योत्तरदायित्वमुपस्थापितम्, येन भारतस्यैक्यं सर्वदा भवेदिति।   शोधविभागाध्यक्षस्य डॉ. शिवशङ्करमिश्रस्य सफलसंयोजकत्वे व्याख्यानमाला समायोजिता।

Tuesday, March 19, 2019

नीरव मोदिनं विरुद्ध्य लन्टन् न्यायालयस्य ग्रहण-समादेशः।
     नवदिल्ली> पञ्चाब् राष्ट्रिय-वित्तकोश-व्याज -प्रबन्धेन राष्ट्रं परित्यक्ताय  विवादवणिजे नीरव् मोदिने ग्रहणसमादेशः ख्यापितः। लण्डनस्थः न्यायालयेन एव  ग्रहणसमादेशः ख्यापितः। अस्मिन् मासस्य २५ दिनाङ्के एनं  बन्दिनं सनिर्बन्धं उपस्थातव्यम् इति न्यायालयेन आदिष्टम्। नीरवं हस्तान्तरं करणीयमिति एन् फोर्स्मेन्ट् निर्देशकालयस्य प्रार्थनानुसारं भवति एषः प्रक्रमः। पञ्चाब् राष्ट्रिय  वित्तकोशात् ११३४६ कोटि रूप्यकाणां  दुर्वृत्तिं कृत्वा एव नीरवः भारतात् निलीय पलायनं कृतवान्
३५अङ्गपरिमिते गोवाराज्ये  उपमुख्यमन्त्रिणौ द्वौ!
पनजी >  निर्यातस्य मुख्यमन्त्रिणः मनोहरपरीक्करस्य स्थाने मख्यमन्त्रिपदम् अलंकुर्वतः  प्रमोदसावन्तस्य मन्त्रिसभायाम् उपमुख्यमन्त्रिणौ द्वौ!  । अद्य उषसि द्विवादने आसीत् शपथक्रिया। भाजपादलस्य मित्रदलाभ्यां एकैकम् उपमुख्यमन्त्रिपदमपि अधिकारसुस्थित्यर्थं दत्त्वा एव निशानिशं शपथसमारोहः कृतः।  चत्वारिंशदङ्गसंख्यायुक्तं लघुराज्यमस्ति गोवा। त्रयस्त्रयसामाजिकैरुपेताभ्यां 'गोवा फोर्वेड् पार्टी' तथा 'महाराष्ट्रवादी गोमन्तक् पार्टी' इत्येताभ्यां दलाभ्यामेव उपमुख्यमन्त्रिस्थाने दत्ते। ४० अङ्गयुक्तायां विधानसभायां इदानीं ३५ सामाजिकाः विद्यन्ते।  वस्तुतः भजपादलस्य अङ्गबलम्  इदानीं १२एव। विपक्षदलस्य कोण्ग्रसः १४ सामाजिकास्सन्ति। कथञ्चिदपि शासनसुस्थितिव्यग्रता एव दृष्टा! 
  अधिकारप्रतिग्रहणाय कोण्ग्रस्दलेनापि अधमानि राजनैतिकतन्त्राणि प्रयुक्ष्यन्ते इति नात्र सन्देहः!
गोवस्य मुख्यमन्त्रिरूपेण प्रमोद-सावान्तः सत्यापनं कृतवान्।
     पनाजि> गोवस्य मुख्यमन्त्रिरूपेण प्रमोद सावन्तः सत्यापनं कृतवान्। ह्यः अधरात्रिपर्यन्तं दीर्घिताः  चर्चायाः अन्ते आसीत् सावन्तस्य सत्यापनम्। गोवस्य नियमसभायाः अध्यक्षः आसीत् एषः।
  मुख्यमन्त्रिणा सह ११ मन्त्रिणः च सत्यापनं कृतवन्तः। उपस्थितमुख्यमन्त्रिणः मनोहर परीकरस्य निधनेन एव तत्स्थाने नूतन मुख्यमन्त्रिरूपेण प्रमोद सावन्तः चितः। गोव फोर्वेड् दल नेता विजय् सर् देशायि, , महाराष्ट्रवादि गोमन्तक् दलस्य नियमसभा सामाजिकः सुदिन् धावालिकर् च उपमुख्यमन्त्री रूपेण सत्यापनं कृतवन्तौ। रात्रो १२ वादने राज्यपालस्य सन्निधौ भा ज पा नेतारः चर्चाम् अकुर्वन्।
मसूदः आगोलभीकरः - अन्ताराष्ट्रिय सम्मर्देन चीनस्य मृदुत्वम् I
    नवदिल्ली> जैष्-ए- मोहम्मद् इति भीकरदलस्य नेतारं मसूद् असरम् आगोल भीकरः इति प्रख्यापयितुं ऐक्यराष्ट्रसभया कृतः प्रक्रमः चीनेन निरोधितः।  अत एव  चीनं विरुद्ध्य विश्वराष्ट्राणां प्रतिषेधः शक्तः अभवत्|  
     सन्दर्भेस्मिन् चीनस्य राजदूतः लुवो षावोहुई  रोषं शमयितुम् अनुरञ्जन-भाषणेन सह समागतवान्।  "मां विश्वसतु" असरस्य विषयं शीघ्रमेव परिहर्तुं  शक्यते। तस्य विषयस्य स्थगनम् अल्पकालाय भवति। असरम् अधिकृत्य जायमान-सस्या-परिहाराय अधिकः समयः आवश्यकः इति कारणेन आसीत् प्रक्रमस्य निवारणम् इति राजदूतेनोक्तम्।  भीकारानुकूलं भवति इतःपर्यन्तं चीनस्य प्रवर्तनानि इति राष्ट्रान्तरसमूहस्य अभिमतानि परिगणय्य आसीत् राजदूतस्य भाषणम्। गतदिने चीनस्य विदेशकार्य मन्त्रालयवक्ता लु काङ् च विषयमिदं मृदुलं कर्तुं उद्युक्तवान्।  विषयं समीचीनतया अध्ययनं कृत्वा शीघ्रमेव परिहरिष्ये इति तेनोक्तम्।

Monday, March 18, 2019

संस्कृताभियानम्
प्रा. डा. सि. जि. विजयकुमारः, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्।

  नमांसि, व्याकरणमहाभाष्ये प्रथमाह्निके पतञ्जलि:" संस्कृतं सर्वेषु प्रदेशेषु अपि व्यवहारे आसीत्" इति वदन् केचन शब्दा: तावत् तत्तत्प्रदेशे एव आधिक्येन प्रचारे आसन् इति स्पष्टं निर्दिशति-'एतस्मिन्श्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दा: तत्र तत्र नियतविषया: दृश्यन्ते' इति। तद्यथा - शवतिर्गतिकर्मा काम्बोजेष्वेव भषितो भवति, विकार एनामार्या भाषन्ते शव इति। हम्मति: सुराष्ट्रेषु, रंहति: प्राच्यमध्येषु, गमिमेव तु आर्या: प्रयुञ्जते।  दातिर्लवनार्थे प्राच्येषु, दात्रम् उदीच्येषु।' गच्छति' इति वक्तुं कम्बोजा: 'शवति' इति वदन्ति स्म सौराष्ट्रा:' हम्मति' इति प्राच्यमध्या: ' रंहति' इति च प्रयोगं कुर्वन्ति स्म। केवलं भाषितभाषासु पर्यायशब्दा: तत्तत्प्रदेशे रूढा: भवन्ति, न तु ग्रान्थिकभाषायाम्। किञ्च ' काम्बोजेष्वेव भाषितो भवति' इति वाक्ये पतञ्जलि: 'भाषितो भवति' इति प्रयुक्तवान् (भाष् - व्यक्तायां वाचि) न तु पठितो भवति, लिखितो भवतीति वा। मित्राणि, एतस्मात् वयम् अवगन्तुं शक्नुम: यत् संस्कृतं बहुत्र व्यवहारभाषा आसीत् इति। 

संभाषणचित्रं- अभिनव पिल्लै - सेन्ट् मेरीस् यू पि विद्यालयः - कोच्ची।
    भाषितभाषासु एव दृश्यमाना: केचन शब्दा: सन्ति। अद्य तान् शब्दान्  पश्याम:। लूनयवम्-केदारे कर्तनसमय: , खलेयवम्- यस्मिन् काले खले धान्यं भवति स: काल:। खलेबुसम्- खलत: धान्यनयनानन्तरं खले यदा बुसं भवति स: काल:। वहद्गु- कर्षणकाल:(वहन्ति हलं गाव:-बलीवर्दा: यस्मिन् काले स:) तिष्ठद्गु-दुग्धदोहनकाल:(तिष्ठन्ति गाव: दोहनार्थं यस्मिन् काले स:) इत्येवम् एते शब्दा: सामान्यानां जनानां तत्रापि कृषीवलानां परस्परं व्यवहाराय सीमिता:, कृषीवलसंवादमात्रगोचरा: च सन्ति। आयान्ति गावो गृहं यस्मिन् काले स आयती गवं कालविशेष:। अपण्डितेषु एते विलक्षणा: शब्दा: ये प्रसिद्धा: आसन् ते पश्चात् रूढिवशात् शिष्टैरपि परिगृहीता: अभवन्। मित्राणि, एष: विषय: श्व: अनुवर्तेत। 
न्याया. पि सि घोष् प्रथमः लोकपालः भवेत्। 

नवदिल्ली >  सर्वोच्चन्यायालयस्य भूतपूर्वः न्यायाधिपः न्याय. पिनाकी चन्द्र घोषः भारतस्य प्रथमः लोकपालः भविष्यतीति सूचना। पि सि घोषस्य नाम प्रधानमन्त्रिणः आध्यक्ष्ये वर्तमानस्य निर्वाचनसमितेः सजीवपरिगणनायामस्तीति अधिकृतैरुक्तम्। किन्तु अस्मिन् विषये सर्वकारस्य प्रख्यापनं नागतम्। इदानीं राष्ट्रिय मानवाधिकारायोगे अङ्गेषु अन्यतमः पि सि घोषः २०१७ मईमासे सर्वोच्चनीतिपीठात् निवृत्तः अभवत्।

Sunday, March 17, 2019

मनोहर परीकरः दिवंगतः।

  पनाजि>  गोवामुख्यमन्त्री मनोहर परीकरः दिवंगतः। राष्ट्रपतिना रामनाथकोविन्देना इयं वार्ता प्रमाणीकृता। ६३ वयस्क: परीकरः विगते संवत्सरे यावत्  अर्बुधरोगमुक्तये चिकित्सायाम् असीत्। विदेशेपि चिकित्सां कृत्वा प्रत्यागतः सः नवदिल्ली ऐम्स् मध्येऽपि चिकित्सां कृतवान्। गोवायाः शक्तः मुख्यमन्त्री आसीत् परीकर् महाभागः। 
आगोलतापनं - छात्रान्दोलनाय सहयोगः वर्धते। 
गतशुक्रवासरे न्यूसिलान्ट् राष्ट्रे संपन्नम् आन्दोलनम्। 
लण्टन् > भूमेः आगामिवंशस्य रक्षायै आविश्वं छात्रसमूहैः क्रियमाणाय अध्ययनविरामान्दोलनाय सहयोगः संवर्धते। आगोलतापनं न्यूनीकर्तुं फलप्रदाः पदक्षेपाः स्वीकर्तव्याः इति विश्वनेतॄन्  प्रति अर्थयन् उपशतं राष्ट्राणां छात्राः गतशुक्रवासरे अध्ययनविरामं कृत्वा नगरवीथिषु आन्दोलनं कृतवन्तः आसन्। 'फ्रैडे फोर् फ्यूचर्' [भविष्यत्कालाय शुक्रवासरः] इति संघटनमाश्रित्य एव प्रतिशुक्रवासरं विद्यार्थिनः पथान्दोलनं कुर्वन्तः सन्ति। 
 "उर्वीस्थाने अन्यन्नास्ति" , भविष्यत्कालो$स्माकं ध्वंसव्यो न युष्माभिः" , "पूर्विकान् अनुवर्तस्व" इत्यादिभिः घोषणावाक्यैः उपशतं राष्ट्राणां नगरेषु गतशुक्रवासरे दशलक्षाधिकाः छात्राः पथसञ्चलनमकुर्वन्निति निर्णीतम्! 
 आन्दोलकाः छात्राः न्यूसिलान्ट् प्रधानमन्त्रिण्या जसिन्डा आर्डेण् महाभागया अभिनन्दिताः! यू एन् संस्थायाः निदेशकमुख्येन अन्टोणियो गुट्टेरस् वर्येण च आन्दोलनाय सहयोगः प्रख्यापितः।

Saturday, March 16, 2019

मानवानाम् अकाले मृत्युः भविष्यति वा ?
       अस्य शताब्दस्य मध्यकाले लक्षषशः जनानाम् अकाल-मृत्युः भविष्यति इति यू एन् आवेदनम्I परिस्थिति संरक्षणाय प्राधान्यं न दीयते चेत् एष्य, पश्चिमेष्य, आफ्रिक्क भूखण्डेषु जनानाम् अकालमृत्युः  भविष्यति इत्यस्ति पूर्वसूचनाI  
    70 संख्याधिकेभ्यः राष्ट्रेभ्यः  250 वैज्ञानिकाः मिलित्वा कृतम् आवेदनं भवति सिक्स्त् ग्लोबल् एन्वयन्मन्टल् औट्लुक् (Sixth Global Environmental Outlook)  इति। पर्यावरण-संबन्धिनीः सकलाः समस्याः  अस्मिन्  विविच्य विचारिताः इत्यनेन आवेदनस्य अतिप्राधान्यं कल्पितम् अस्ति।
      170 राष्ट्रेभ्यः सभाजितानां ऐक्यराष्ट्र-सभामेलने आयोजिते पर्यावरणोपवेशने आवेदनं प्रस्तुतम्। 
शुद्धजलस्रोतसां मलिनीकरणं सूक्ष्मजीविनः नाशहेतुः भविष्यति। अनेनकारणेन मनुष्याणाम् अकालमृत्युः भविष्यति। स्री पुरुष-वन्ध्यता, शिशूनां नाडीविकासे क्षमताराहित्यं च अस्मिन् आवेदने प्राधान्यत्वेन संसूचितम् अस्ति।

Friday, March 15, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्,  
    नमांसि, पूर्वं संस्कृतं कदापि व्यवहारभाषा न आसीत् इति कथयितार:, तत्र तत्र विरलतया केचन लभ्यन्ते। पक्षे विपक्षे च समर्थनाय बहव: अंशा: स्यु:। वयं तु संस्कृतं व्यवहारभाषा आसीत् इत्येव मन्यामहे। । न केवलम् अभिमानेन तथा अपि तदेव सत्यं प्रमाणयति।व्याकरणमहाभाष्ये प्रथमाह्निके पतञ्जलि:" संस्कृतं सर्वेषु प्रदेशेषु अपि व्यवहारे आसीत्" इति वदन् केचन शब्दा: तावत् तत्तत्प्रदेशे एव आधिक्येन प्रचारे आसन् इति स्पष्टं निर्दिशति-'एतस्मिन्श्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दा: तत्र तत्र नियतविषया: दृश्यन्ते' इति । मित्राणि, एष: विषय: श्व: अनुवर्तेत।
 जयतु  संस्कृतम् जयतु भारतम् ।