OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 17, 2019

मनोहर परीकरः दिवंगतः।

  पनाजि>  गोवामुख्यमन्त्री मनोहर परीकरः दिवंगतः। राष्ट्रपतिना रामनाथकोविन्देना इयं वार्ता प्रमाणीकृता। ६३ वयस्क: परीकरः विगते संवत्सरे यावत्  अर्बुधरोगमुक्तये चिकित्सायाम् असीत्। विदेशेपि चिकित्सां कृत्वा प्रत्यागतः सः नवदिल्ली ऐम्स् मध्येऽपि चिकित्सां कृतवान्। गोवायाः शक्तः मुख्यमन्त्री आसीत् परीकर् महाभागः। 
आगोलतापनं - छात्रान्दोलनाय सहयोगः वर्धते। 
गतशुक्रवासरे न्यूसिलान्ट् राष्ट्रे संपन्नम् आन्दोलनम्। 
लण्टन् > भूमेः आगामिवंशस्य रक्षायै आविश्वं छात्रसमूहैः क्रियमाणाय अध्ययनविरामान्दोलनाय सहयोगः संवर्धते। आगोलतापनं न्यूनीकर्तुं फलप्रदाः पदक्षेपाः स्वीकर्तव्याः इति विश्वनेतॄन्  प्रति अर्थयन् उपशतं राष्ट्राणां छात्राः गतशुक्रवासरे अध्ययनविरामं कृत्वा नगरवीथिषु आन्दोलनं कृतवन्तः आसन्। 'फ्रैडे फोर् फ्यूचर्' [भविष्यत्कालाय शुक्रवासरः] इति संघटनमाश्रित्य एव प्रतिशुक्रवासरं विद्यार्थिनः पथान्दोलनं कुर्वन्तः सन्ति। 
 "उर्वीस्थाने अन्यन्नास्ति" , भविष्यत्कालो$स्माकं ध्वंसव्यो न युष्माभिः" , "पूर्विकान् अनुवर्तस्व" इत्यादिभिः घोषणावाक्यैः उपशतं राष्ट्राणां नगरेषु गतशुक्रवासरे दशलक्षाधिकाः छात्राः पथसञ्चलनमकुर्वन्निति निर्णीतम्! 
 आन्दोलकाः छात्राः न्यूसिलान्ट् प्रधानमन्त्रिण्या जसिन्डा आर्डेण् महाभागया अभिनन्दिताः! यू एन् संस्थायाः निदेशकमुख्येन अन्टोणियो गुट्टेरस् वर्येण च आन्दोलनाय सहयोगः प्रख्यापितः।

Saturday, March 16, 2019

मानवानाम् अकाले मृत्युः भविष्यति वा ?
       अस्य शताब्दस्य मध्यकाले लक्षषशः जनानाम् अकाल-मृत्युः भविष्यति इति यू एन् आवेदनम्I परिस्थिति संरक्षणाय प्राधान्यं न दीयते चेत् एष्य, पश्चिमेष्य, आफ्रिक्क भूखण्डेषु जनानाम् अकालमृत्युः  भविष्यति इत्यस्ति पूर्वसूचनाI  
    70 संख्याधिकेभ्यः राष्ट्रेभ्यः  250 वैज्ञानिकाः मिलित्वा कृतम् आवेदनं भवति सिक्स्त् ग्लोबल् एन्वयन्मन्टल् औट्लुक् (Sixth Global Environmental Outlook)  इति। पर्यावरण-संबन्धिनीः सकलाः समस्याः  अस्मिन्  विविच्य विचारिताः इत्यनेन आवेदनस्य अतिप्राधान्यं कल्पितम् अस्ति।
      170 राष्ट्रेभ्यः सभाजितानां ऐक्यराष्ट्र-सभामेलने आयोजिते पर्यावरणोपवेशने आवेदनं प्रस्तुतम्। 
शुद्धजलस्रोतसां मलिनीकरणं सूक्ष्मजीविनः नाशहेतुः भविष्यति। अनेनकारणेन मनुष्याणाम् अकालमृत्युः भविष्यति। स्री पुरुष-वन्ध्यता, शिशूनां नाडीविकासे क्षमताराहित्यं च अस्मिन् आवेदने प्राधान्यत्वेन संसूचितम् अस्ति।

Friday, March 15, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्,  
    नमांसि, पूर्वं संस्कृतं कदापि व्यवहारभाषा न आसीत् इति कथयितार:, तत्र तत्र विरलतया केचन लभ्यन्ते। पक्षे विपक्षे च समर्थनाय बहव: अंशा: स्यु:। वयं तु संस्कृतं व्यवहारभाषा आसीत् इत्येव मन्यामहे। । न केवलम् अभिमानेन तथा अपि तदेव सत्यं प्रमाणयति।व्याकरणमहाभाष्ये प्रथमाह्निके पतञ्जलि:" संस्कृतं सर्वेषु प्रदेशेषु अपि व्यवहारे आसीत्" इति वदन् केचन शब्दा: तावत् तत्तत्प्रदेशे एव आधिक्येन प्रचारे आसन् इति स्पष्टं निर्दिशति-'एतस्मिन्श्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दा: तत्र तत्र नियतविषया: दृश्यन्ते' इति । मित्राणि, एष: विषय: श्व: अनुवर्तेत।
 जयतु  संस्कृतम् जयतु भारतम् ।
कपिशावरणेषु धनं प्रतिदिनं गृहं प्राप्नोति। अज्ञातं दानशीलम् अन्विष्यते ग्रामीणैः।
     स्पेयिन् राष्ट्रस्य विल्लाऱमियेल् इति ग्रामस्यजनाः सोत्भुतम् अन्विष्यते सः परोपकारी अज्ञातः मनुष्यः कः इति। आवश्यकानां गृहस्य पुरतः निलीय आगत्य धननिभृतं कपिशावरणं (Brown Cover) समर्प्य गच्छन् मनुष्यः कः इति ज्ञातुमेव भवति तेषां जिज्ञासा। मातामह्याः कथायां विद्यमाना रोबिन् हुड् इति कारुणिक कथापात्रमिव कारुण्य शीलम् एनं दृष्टुम् उत्सुकाः ते ग्रामीणाः। 
   विगते बुधवासरात् आरभ्य भवति दरिद्राणां ग्रामवासिनां कृते एवं धननिभृतावरणं लब्धुमारभत। पञ्चदश संख्याकानां गृहाणां पुरतः एवं धनराशिः समागता। आवरणस्य उपरि धनार्हाणां नामानि अपि लिखितानि सन्ति। केषाञ्चनावरणानाम् अन्तः १०० 'यूरो' धनम् अपि आसीत्। लब्धं धनं व्याजं वा इति ज्ञातुं केचन जनाः आरक्षकान् वित्तकोशान् च समुपगम्य धनपत्रस्य परीक्षा अपि कृता। धनपत्रं यथार्थमिति ज्ञात्वा जनाः तम् अज्ञातम् इदानीं नायकत्वेन कल्पितवन्तः।

Thursday, March 14, 2019

बोयिङ् ७३७ माक्स् विमानानां भारतव्योम्नि डयनं निरुद्धम्। 
नवदिल्ली >  यावत् सुरक्षाविषये पूर्णसिद्धतां प्राप्नुवन्ति तावत् बोयिङ् ७३७ माक्स् विमानानि भारतस्य व्योमसीमाभ्यन्तरे डयितुम् अनुमतिः निरुद्धा। भारतस्य 'सिविल् एवियेषन्' संस्थायाः निदेशकमुख्येनैवायं निर्देशः कृतः। राष्ट्रान्तराणामपि अस्मिन् विभागे वर्तमानानि विमानान्यपि भारतव्योमाभ्यन्तरे डयनं न कार्यमिति आदिष्टम्। 
  एत्योप्यायां अस्य श्रेणीविमानस्य दुर्घटनया १५७ जनाः मृताः आसन्निति विषयमाधारीकृत्य एव 'डि जि सि ए' संस्थया एतादृशः निर्देशः कृतः। भारते 'स्पेस् जट्' तथा 'जट् एयर् वेय्स्' संस्थाद्वयेन निर्देशमनुसृत्य २० सेवनानि निरस्तानि। अद्य इतोप्यधिकाः  विमानसेवाः निरस्ताः भविष्यन्ति इति स्पेस् जट्' अधिकृतैः निगदितम्।
द्वे युद्धविमाने नियन्त्रण रेखाम् उपागच्छताम्।             
  नवदिल्ली> मङ्गलवासरे रात्रौ पाकिस्थानस्यय- द्वे युद्धविमाने नियन्त्रण रेखाम् उपागच्छताम् इत्यावेदनम्। घटनायाः पृष्ठभूमौ भारतस्य प्रतिरोधसंविधानानि पूर्ण रूपेण सज्जीकृतानि सन्ति। पाक्अधीनस्य काश्मीरस्य पूञ्च्-मण्डले नियन्त्रण-रेखायाः दशकिलोमिट्टर् समीपे पाक् विमाने  समुपागच्छताम् इति भारतसेनया निरीक्षितम्। अतः प्रतिध्वनिग्राही प्रतिरोधायुधानि च  सज्जीकृत्य सैनिकाः सीमनि एव तिष्ठन्ति।

Wednesday, March 13, 2019

सीमनि पाकिस्थानेन सैनिकविन्यासः क्रियते।


    नवदिल्ली >  सिन्धूध् प्रविश्यायां हैदराबाद् प्रदेशतः स्कर्दु पर्यन्तं विस्तृते पश्चिम-सीमनि पकिस्थानेन महान् सैनिकविन्यासः क्रियते इत्यस्ति नूतनावेदनम्। प्रतिध्वनिग्राह्यादि सुविधा द्वारा भवति सैनिकविन्यासः। एफ् -१६ इति युद्घविमानानि पूर्वसीमा मण्डलेषु विस्तारितं इति द्योतकानि उपग्रह चित्राणि उपलब्धानि सन्ति। भारतात् आक्रमणानि स्युः इति भीत्या भवति पाकिस्थानस्य इदानीन्तन प्रक्रमस्य कारणम्। भारतसैनिकाः अपि नियन्त्रणरेखायां घटीबद्धाः भूत्वा तिष्ठन्तः सन्ति। व्योमाक्रमण-सम्भाव्यता परिगणय्य भवति इयं सज्जता इत्यस्ति विवरणम् ।
    जैष्-ए मुहम्मदादीनां आतङ्क सङ्घटनानाम् आक्रमणानि च स्युः इति बाैद्धिकदलीयाः पूर्वसूचना प्रदत्तवन्तः इति च सैनिकसज्जतायै भारतं प्रेरितम्।
*प्रतिध्वनिग्राही- radar

Tuesday, March 12, 2019

भाससमारोहः समारब्धः

  तिरुवनन्तपुरम्> केरल-राज्ये केरल -विश्वविद्यालयस्य वेदान्ताध्ययन-केन्द्रेण द्विदिवसात्मकः आन्ताराष्ट्रियः भास-समारोहः तिरुवनन्तपुरे आरब्धः। अस्य उद्घाटनाभिभाषणे संस्कृत-सेवकः बलदेवानन्दसागरः भास-नाटकानां समधिक-व्यापकरीत्या प्रयोगावश्यकताः सबलं व्याहृतवान्। सुख्यातः भासनाटकविशेषज्ञः प्रो. उण्णिकृष्णः भासमहाकवेः वैशिष्ट्यं प्रतिपादितवान्। अवसरेऽस्मिन् केरल-विश्वविद्यालयस्य वेदान्ताध्ययन-केन्द्राध्यक्षा डॉ. विजयाकुमारी महाभागा  डॉ. उण्णिकृष्णन् च ऐषमः राष्ट्रपति-पुरस्कार-प्रापकौ आचार्यं  मुरलीमाधवन्-वर्यं बलदेवानन्दसागरं च प्रशस्तिफलकाङ्गवस्त्रप्रदान-पुरस्सरं सभाजितवन्तौ। अस्मिन् आन्ताराष्ट्रिये भास-समारोहे अनेके शोधार्थिनः निज-शोधपत्राणि प्रस्तुवन्ति।

Monday, March 11, 2019

स्थानाशिनः तेषाम् अपराधित्व-पृष्ठवर्ति-कार्याणि ज्ञापनीयम्I  
दृश्यमाध्यमेषु पत्रिकासु च त्रिवारं ज्ञपनीयम्।
    नवदिल्ली> लोकसभा निर्वाचने स्पर्धिष्यमाणाः स्थानाशिनः स्वस्य  अपराधित्व-पृष्ठवर्ति-कार्याणि ज्ञापनीयम्I  दृश्यमाध्यमेषु तथा पत्रिकासु च न्यूनातिन्यूनं त्रिवारं ज्ञपनीयम्। राजनैतिक-दलानि तेषां स्थानाशिनः अपराधित्व-पृष्ठवर्ति-कार्याणि अधिकृत्य प्रचारणं करणीयम्। प्रमुख-पत्रिकासु दृश्यवाहिनिषु च  विविधेषु   तिथिषु राजनैतिक दलैः वा स्थानाशिभिः वा एव त्रिवारं विज्ञप्तिः प्रकाशनीया। अपराधित्व-पृष्ठवर्ति-कार्याणि न सन्ति चेत् तदपि विशेषतया सूचनीयम्। पत्रिकासु दत्तानां विज्ञप्तीनां प्रतिलिप्यः  चित्रमुद्रखण्डाणि च स्थानाशिभिः निर्वाचनायोगस्य पुरतः समर्पणीयानि। प्रति राज्यं कति अपराधित्व-पृष्ठवर्तिनः सन्तीति विवरणानि राजनैतिकदलेन पृथक् पृथक् समर्पणीयानि। निर्वाचनायोगास्य एतादृश निर्देशः इदं प्रथमतया भवति। निर्देशोऽयं सामान्यजनैः सामोदं स्वीकृतः
भारते निर्वाचनकाहलम् उद्घुष्टम्। 

* सप्त सोपानानि  ** प्रारम्भः एप्रिल् ११ * अन्तिमसोपानं मई १९ ** मतगणना मई २३!
नवदिल्ली  >  भारते जनहितमहायुद्धाय काहलम् उद्घुष्टम्! १७ तमलोकसभानिर्वाचनस्य दिनाङ्काः भारतनिर्वाचनायोगेन प्रख्यापिताः। सप्तसोपानयुक्तं निर्वाचनं एप्रिल् ११, १८, २३, २९ , मई ६, १२, १९दिनाङ्केषु सम्पत्स्यते। मतगणना मई २३ दिनाङ्के भविष्यति।
  आन्ध्रप्रदेशः, ओडीषा, अरुणाचलप्रदेशः, सिक्किम् इत्येतेषु राज्येष्वपि विधानसभानिर्वाचनानि लोकसभानिर्वाचनेन सह प्रचालयिष्यन्ति। ३४ विधानसभामण्डलेषु उपनिर्वाचनान्यपि प्रचालयिष्यन्ति। किन्तु जम्मूकाश्मीरस्य विधानसभानिर्वाचनं अधुना न प्रचालयिष्यति। सुरक्षाविषय एव हेतुः। 
भारते जनतन्त्रस्य महोत्सवः समागच्छति - प्रधानमन्त्री नरेन्द्रमोदी।
       नवदिल्ली >  निर्वाचन प्रख्यापनमधिकृत्य भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वाभिमतं प्रकाशितं यत् भारते जनन्त्रस्य महोत्सवः समागच्छति इति। निर्वाचनायोगेन लोकसभा निर्वाचनतिथीनां प्रख्यापनानन्तरं  ट्विट्टर् माध्यमद्वारा आसीत् मोदिनः मोदप्रकाशनम्। २०१९ तमस्य लोकसभा निर्वाचनं सम्पुष्टीकर्तुं भारतान् अभ्यर्थयामि। समागते निर्वाचने सम्पूर्णमतदानं भविष्यति इति मे विश्वासः। मतदानाय नूतनतया अधिकारं लब्धवन्तः अभिलेखनीयं मतदानं करणीयम्। गत ७० संवत्सरेण विगणिताय आधारसुविधा-विकासाय विगत-पञ्चवर्षाणि यावत् केन्द्रसर्वकारेण प्रयतितानि  इत्यपि  मोदिना टिट्वर् मध्ये लिखितम्। 

Sunday, March 10, 2019

भारते निर्वाचनोत्सवः समारब्धः।
       नवदिल्ली >  भारतस्य १७ तम लोकसभा-निर्वाचनतिथिः विज्ञापिता। सप्तश्रेणिषु आयाेक्ष्यमाणस्य निर्वाचनस्य प्रथम श्रेणिः एप्रिल् मासस्य प्रथमे दिनाङ्के समारप्स्यते। अन्तिमश्रेणिः मेय् मासस्य १९ दिनाङ्के इति निश्चिता।  मेय् मासस्य २३ दिनाङ्के निर्वाचनस्य मतदानानां गणना, फलप्रख्यापनं च भविष्यति। अद्य आरभ्य निर्वाचन-मान्यतानियमः प्रबलः अभवत्।
        निर्वाचनस्प्र थम श्रेणी एप्रिल् ११ , द्वितीया श्रेणी एप्रिल् १८ तृतीया श्रेणी एप्रिल् २३ चतुर्थश्रेणी एप्रिल् २९ पञ्चमश्रेणी  मेय् ६  षष्टाश्रेणी मेय् १२  सप्तमश्रेणी मेय् १९ दिनाङ्केषु  भविष्यति। ९० कोटिजनाः मतदानार्हाः सन्ति इति निर्वाचनायोगस्य मुख्याध्यक्षः सुनिल् अरोर अवदत् ।  १० लक्षं मतदानगृहाणि निर्वाचनाय सज्जीक्रियते इत्यपि तेनोक्तम्। ८.५ कोटि जनाः नूतन-मतदायिनां गणे सन्ति। स्थानाशिनां चित्राणि अपि मतदानयन्त्रे भविष्यन्ति इत्यस्ति अस्य निर्वाचनस्य विशेषता।
नीरव् मोदिनः ब्रिट्टने आडम्बरजीवनं वज्रव्यापारश्च। 

नीरवमोदी पूर्वम् 
लण्टन् >  भारते पञ्चाब् नेषणल् वित्तकोशात् १३,५०० कोटिरूप्यकाणि ऋणव्याजेन अपहृत्य देशान्तरं गतः वज्रव्यापारी नीरव् मोदी ब्रिट्टन् देशे  आडम्बरपूर्णं सुखजीवनं नयतीति ब्रिट्टीष् दिनपत्रिकया 'डेय्ली टेलिग्राफ्' इत्यनया प्रस्तुतम्। पश्चिमलण्टन्नगरे अशीति लक्षं पौण्ट् [प्रायः ७३कोटि रूप्यकाणि] मूल्यपरिमिते भवने एव तस्य वासः। समीपे एव तस्य वज्रव्यापारशाला अपि वर्तते। 

नीरवमोदी अद्य 

नीरव् मोदिना आरब्धस्य वज्रव्यापारस्य सूचनाः ब्रिट्टीष् सर्वकारस्य 'कम्पनी कार्यालये' पञ्जीकृताः सन्ति। घटिकानामाभरणानां च स्तूपविक्रयः इत्येव सूचितम्। किन्तु व्यापारसंस्थायाः निदेशकपट्टिकायां नीरवस्य नाम न दृश्यते। 
   नीरवस्य महाराष्ट्रे खिं समुद्रतीरस्थं ३०,००० चतुरश्रपादपरिमितं सौधं स्फोटकवस्तुभिः गतदिने सर्वकारेण भञ्जितम्। तं निगृहीतुं इन्टर्पोल् संस्थया निर्देश अपि कृतः अस्ति।

Saturday, March 9, 2019

जम्मु-काश्मीरे सैनिकः भीकरैरपहृतः।
   श्रीनगरं> जम्मुकाश्मीरे विरामकालमुपयुज्य स्वग्रामं प्राप्तः सैनिकः भीकरैरपहृत इति सूचना। जम्मुकाश्मीर् 'लइट् इन्फन्टरि' विभागे वृत्तिं कुर्वन् मुहम्मद् यासीन भट्ट् नामकः बद्गां जनपदस्थात् गृहात् अपहृतः। गतसप्ताहे एवेयं घटना प्रवृत्ता। विरामेण खाकिपोराग्रामस्थं गृहं प्राप्तः यासीनः कतिपय किलोमीटर् दूरस्थं काननप्रदेशमानीतः इति परिवाराङ्गैः सूचितम्। सैन्येन सविशेषकर्मसंघेन च अपहृताय पर्यवेषणमारब्धम्। गतवर्षे जूण् १४ तमे दिनाङ्के इतरः सैनिकः औरङ्गसीबाख्यः पुल्वामा जनपदस्थात् गृहात् अपहृतः व्यापादितः चासीत्।
मानवान् बाह्याकाशं प्रेषयितुम् अमेरिक्कस्य नूतनपेटकम् सज्जतामेति।

      वाषिङ्टण् > मानवान् बाह्याकाशं प्रति प्रेषयितुम् अमेरिक्कस्य नूतनपेटकम् 'स्पेस् एक्स् ड्रागण् क्रू काप्सूल्' बाह्याकाशनिलयात् भूमिं प्रति प्रस्थितः। चत्वारि *वायूछत्राणि* उपयुज्य अट्लान्टिक् समुद्रे अवतरितम्।  पेटकस्य सुरक्षितावतरणेन स्पेस् एक्स् संस्थया सह नासा संस्थायाः भाविनिकालयोजनायाः शुभारम्भः अभवत्। मानवम् उपावेश्य यात्रायाः  पूर्वं पेटकस्य क्षमतां परीक्षितुम् आसीत् मार्च् मासस्य द्वितीय दिनाङ्के ड्रागण् काप्सूल् इति आकाश पेटकस्य विक्षेपणम्। मङ्गलग्रहे मानवं प्रेषयितुम् आयोजिता योजना स्पेस् एक्सस्य नियन्त्रणे भवति।
* वायूछत्रम् ,  Parachute

Friday, March 8, 2019

'पुल्वाम' अनुवर्तिष्यते - पूर्वसूचना ।
    श्रीनगरम् > पुल्वाम-समानः आत्मघाद्याक्रमणानि पुनरपि अनुवर्तिष्यते इति प्रणिधि विभागस्य आवेदनम्। त्रिचत्वारि दिनाभ्यन्तरे जम्मुकाश्मीरे आक्रमणं कर्तुं प्रयतते जैश् ए मुहम्मदेन इत्यस्ति आवेदनम्। पाकिस्थानस्य बालाकोटे भारतेन कृतं व्योमाक्रमणं विरुद्ध्य  अचिरादेव प्रत्याक्रमणं कर्तुं जैष् ए मुहम्मदः सज्जतां कुर्वन्तीति सूचना अस्ति। सुरक्षादलीयाः जाग्रतायां भवन्तु इति प्रणिधिवर्गैः निरदिशत्I
विश्वसंस्कृतपुरस्कारसमारोह: - सुषमास्वराजमहाभागया  स्वीय भाषणं संस्कृतेन कृतम्।
-पुरुषोत्तम शर्मा
   नवदेहली> जगति संस्कृतस्य प्रचाराय विशिष्टयोगदानार्थं भारतीयसांस्कृतिकसम्बन्धपरिषदा २०१५ तमख्रीस्ताब्दादारभ्य प्रतिवर्षं विश्वसंस्कृतपुरस्कार: प्रदीयते। अस्मिन् क्रमे गतवर्षीयो विश्वसंस्कृतपुरस्कारसमारोह: गुरुवासरे नवदिल्लयां समायोजित:। समारोहे विदेशमन्त्रिण्या सुषमास्वराजेन प्रो.अशोकनरहर अक्लुजकर: पुरस्कारेणानेन सभाजित:। तस्मिन्नवसरे संस्कृतजगति गणमान्यजना: शोधार्धिन: संस्कृतसेविनश्चोपस्थिता: अवर्तन्त। 
   कार्यक्रमे विदेशमन्त्रिण्या स्वीयसम्बोधनं संस्कृतभाषायाम् उपस्थापितम्। तयोक्तं यत्