OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 15, 2019

कपिशावरणेषु धनं प्रतिदिनं गृहं प्राप्नोति। अज्ञातं दानशीलम् अन्विष्यते ग्रामीणैः।
     स्पेयिन् राष्ट्रस्य विल्लाऱमियेल् इति ग्रामस्यजनाः सोत्भुतम् अन्विष्यते सः परोपकारी अज्ञातः मनुष्यः कः इति। आवश्यकानां गृहस्य पुरतः निलीय आगत्य धननिभृतं कपिशावरणं (Brown Cover) समर्प्य गच्छन् मनुष्यः कः इति ज्ञातुमेव भवति तेषां जिज्ञासा। मातामह्याः कथायां विद्यमाना रोबिन् हुड् इति कारुणिक कथापात्रमिव कारुण्य शीलम् एनं दृष्टुम् उत्सुकाः ते ग्रामीणाः। 
   विगते बुधवासरात् आरभ्य भवति दरिद्राणां ग्रामवासिनां कृते एवं धननिभृतावरणं लब्धुमारभत। पञ्चदश संख्याकानां गृहाणां पुरतः एवं धनराशिः समागता। आवरणस्य उपरि धनार्हाणां नामानि अपि लिखितानि सन्ति। केषाञ्चनावरणानाम् अन्तः १०० 'यूरो' धनम् अपि आसीत्। लब्धं धनं व्याजं वा इति ज्ञातुं केचन जनाः आरक्षकान् वित्तकोशान् च समुपगम्य धनपत्रस्य परीक्षा अपि कृता। धनपत्रं यथार्थमिति ज्ञात्वा जनाः तम् अज्ञातम् इदानीं नायकत्वेन कल्पितवन्तः।

Thursday, March 14, 2019

बोयिङ् ७३७ माक्स् विमानानां भारतव्योम्नि डयनं निरुद्धम्। 
नवदिल्ली >  यावत् सुरक्षाविषये पूर्णसिद्धतां प्राप्नुवन्ति तावत् बोयिङ् ७३७ माक्स् विमानानि भारतस्य व्योमसीमाभ्यन्तरे डयितुम् अनुमतिः निरुद्धा। भारतस्य 'सिविल् एवियेषन्' संस्थायाः निदेशकमुख्येनैवायं निर्देशः कृतः। राष्ट्रान्तराणामपि अस्मिन् विभागे वर्तमानानि विमानान्यपि भारतव्योमाभ्यन्तरे डयनं न कार्यमिति आदिष्टम्। 
  एत्योप्यायां अस्य श्रेणीविमानस्य दुर्घटनया १५७ जनाः मृताः आसन्निति विषयमाधारीकृत्य एव 'डि जि सि ए' संस्थया एतादृशः निर्देशः कृतः। भारते 'स्पेस् जट्' तथा 'जट् एयर् वेय्स्' संस्थाद्वयेन निर्देशमनुसृत्य २० सेवनानि निरस्तानि। अद्य इतोप्यधिकाः  विमानसेवाः निरस्ताः भविष्यन्ति इति स्पेस् जट्' अधिकृतैः निगदितम्।
द्वे युद्धविमाने नियन्त्रण रेखाम् उपागच्छताम्।             
  नवदिल्ली> मङ्गलवासरे रात्रौ पाकिस्थानस्यय- द्वे युद्धविमाने नियन्त्रण रेखाम् उपागच्छताम् इत्यावेदनम्। घटनायाः पृष्ठभूमौ भारतस्य प्रतिरोधसंविधानानि पूर्ण रूपेण सज्जीकृतानि सन्ति। पाक्अधीनस्य काश्मीरस्य पूञ्च्-मण्डले नियन्त्रण-रेखायाः दशकिलोमिट्टर् समीपे पाक् विमाने  समुपागच्छताम् इति भारतसेनया निरीक्षितम्। अतः प्रतिध्वनिग्राही प्रतिरोधायुधानि च  सज्जीकृत्य सैनिकाः सीमनि एव तिष्ठन्ति।

Wednesday, March 13, 2019

सीमनि पाकिस्थानेन सैनिकविन्यासः क्रियते।


    नवदिल्ली >  सिन्धूध् प्रविश्यायां हैदराबाद् प्रदेशतः स्कर्दु पर्यन्तं विस्तृते पश्चिम-सीमनि पकिस्थानेन महान् सैनिकविन्यासः क्रियते इत्यस्ति नूतनावेदनम्। प्रतिध्वनिग्राह्यादि सुविधा द्वारा भवति सैनिकविन्यासः। एफ् -१६ इति युद्घविमानानि पूर्वसीमा मण्डलेषु विस्तारितं इति द्योतकानि उपग्रह चित्राणि उपलब्धानि सन्ति। भारतात् आक्रमणानि स्युः इति भीत्या भवति पाकिस्थानस्य इदानीन्तन प्रक्रमस्य कारणम्। भारतसैनिकाः अपि नियन्त्रणरेखायां घटीबद्धाः भूत्वा तिष्ठन्तः सन्ति। व्योमाक्रमण-सम्भाव्यता परिगणय्य भवति इयं सज्जता इत्यस्ति विवरणम् ।
    जैष्-ए मुहम्मदादीनां आतङ्क सङ्घटनानाम् आक्रमणानि च स्युः इति बाैद्धिकदलीयाः पूर्वसूचना प्रदत्तवन्तः इति च सैनिकसज्जतायै भारतं प्रेरितम्।
*प्रतिध्वनिग्राही- radar

Tuesday, March 12, 2019

भाससमारोहः समारब्धः

  तिरुवनन्तपुरम्> केरल-राज्ये केरल -विश्वविद्यालयस्य वेदान्ताध्ययन-केन्द्रेण द्विदिवसात्मकः आन्ताराष्ट्रियः भास-समारोहः तिरुवनन्तपुरे आरब्धः। अस्य उद्घाटनाभिभाषणे संस्कृत-सेवकः बलदेवानन्दसागरः भास-नाटकानां समधिक-व्यापकरीत्या प्रयोगावश्यकताः सबलं व्याहृतवान्। सुख्यातः भासनाटकविशेषज्ञः प्रो. उण्णिकृष्णः भासमहाकवेः वैशिष्ट्यं प्रतिपादितवान्। अवसरेऽस्मिन् केरल-विश्वविद्यालयस्य वेदान्ताध्ययन-केन्द्राध्यक्षा डॉ. विजयाकुमारी महाभागा  डॉ. उण्णिकृष्णन् च ऐषमः राष्ट्रपति-पुरस्कार-प्रापकौ आचार्यं  मुरलीमाधवन्-वर्यं बलदेवानन्दसागरं च प्रशस्तिफलकाङ्गवस्त्रप्रदान-पुरस्सरं सभाजितवन्तौ। अस्मिन् आन्ताराष्ट्रिये भास-समारोहे अनेके शोधार्थिनः निज-शोधपत्राणि प्रस्तुवन्ति।

Monday, March 11, 2019

स्थानाशिनः तेषाम् अपराधित्व-पृष्ठवर्ति-कार्याणि ज्ञापनीयम्I  
दृश्यमाध्यमेषु पत्रिकासु च त्रिवारं ज्ञपनीयम्।
    नवदिल्ली> लोकसभा निर्वाचने स्पर्धिष्यमाणाः स्थानाशिनः स्वस्य  अपराधित्व-पृष्ठवर्ति-कार्याणि ज्ञापनीयम्I  दृश्यमाध्यमेषु तथा पत्रिकासु च न्यूनातिन्यूनं त्रिवारं ज्ञपनीयम्। राजनैतिक-दलानि तेषां स्थानाशिनः अपराधित्व-पृष्ठवर्ति-कार्याणि अधिकृत्य प्रचारणं करणीयम्। प्रमुख-पत्रिकासु दृश्यवाहिनिषु च  विविधेषु   तिथिषु राजनैतिक दलैः वा स्थानाशिभिः वा एव त्रिवारं विज्ञप्तिः प्रकाशनीया। अपराधित्व-पृष्ठवर्ति-कार्याणि न सन्ति चेत् तदपि विशेषतया सूचनीयम्। पत्रिकासु दत्तानां विज्ञप्तीनां प्रतिलिप्यः  चित्रमुद्रखण्डाणि च स्थानाशिभिः निर्वाचनायोगस्य पुरतः समर्पणीयानि। प्रति राज्यं कति अपराधित्व-पृष्ठवर्तिनः सन्तीति विवरणानि राजनैतिकदलेन पृथक् पृथक् समर्पणीयानि। निर्वाचनायोगास्य एतादृश निर्देशः इदं प्रथमतया भवति। निर्देशोऽयं सामान्यजनैः सामोदं स्वीकृतः
भारते निर्वाचनकाहलम् उद्घुष्टम्। 

* सप्त सोपानानि  ** प्रारम्भः एप्रिल् ११ * अन्तिमसोपानं मई १९ ** मतगणना मई २३!
नवदिल्ली  >  भारते जनहितमहायुद्धाय काहलम् उद्घुष्टम्! १७ तमलोकसभानिर्वाचनस्य दिनाङ्काः भारतनिर्वाचनायोगेन प्रख्यापिताः। सप्तसोपानयुक्तं निर्वाचनं एप्रिल् ११, १८, २३, २९ , मई ६, १२, १९दिनाङ्केषु सम्पत्स्यते। मतगणना मई २३ दिनाङ्के भविष्यति।
  आन्ध्रप्रदेशः, ओडीषा, अरुणाचलप्रदेशः, सिक्किम् इत्येतेषु राज्येष्वपि विधानसभानिर्वाचनानि लोकसभानिर्वाचनेन सह प्रचालयिष्यन्ति। ३४ विधानसभामण्डलेषु उपनिर्वाचनान्यपि प्रचालयिष्यन्ति। किन्तु जम्मूकाश्मीरस्य विधानसभानिर्वाचनं अधुना न प्रचालयिष्यति। सुरक्षाविषय एव हेतुः। 
भारते जनतन्त्रस्य महोत्सवः समागच्छति - प्रधानमन्त्री नरेन्द्रमोदी।
       नवदिल्ली >  निर्वाचन प्रख्यापनमधिकृत्य भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वाभिमतं प्रकाशितं यत् भारते जनन्त्रस्य महोत्सवः समागच्छति इति। निर्वाचनायोगेन लोकसभा निर्वाचनतिथीनां प्रख्यापनानन्तरं  ट्विट्टर् माध्यमद्वारा आसीत् मोदिनः मोदप्रकाशनम्। २०१९ तमस्य लोकसभा निर्वाचनं सम्पुष्टीकर्तुं भारतान् अभ्यर्थयामि। समागते निर्वाचने सम्पूर्णमतदानं भविष्यति इति मे विश्वासः। मतदानाय नूतनतया अधिकारं लब्धवन्तः अभिलेखनीयं मतदानं करणीयम्। गत ७० संवत्सरेण विगणिताय आधारसुविधा-विकासाय विगत-पञ्चवर्षाणि यावत् केन्द्रसर्वकारेण प्रयतितानि  इत्यपि  मोदिना टिट्वर् मध्ये लिखितम्। 

Sunday, March 10, 2019

भारते निर्वाचनोत्सवः समारब्धः।
       नवदिल्ली >  भारतस्य १७ तम लोकसभा-निर्वाचनतिथिः विज्ञापिता। सप्तश्रेणिषु आयाेक्ष्यमाणस्य निर्वाचनस्य प्रथम श्रेणिः एप्रिल् मासस्य प्रथमे दिनाङ्के समारप्स्यते। अन्तिमश्रेणिः मेय् मासस्य १९ दिनाङ्के इति निश्चिता।  मेय् मासस्य २३ दिनाङ्के निर्वाचनस्य मतदानानां गणना, फलप्रख्यापनं च भविष्यति। अद्य आरभ्य निर्वाचन-मान्यतानियमः प्रबलः अभवत्।
        निर्वाचनस्प्र थम श्रेणी एप्रिल् ११ , द्वितीया श्रेणी एप्रिल् १८ तृतीया श्रेणी एप्रिल् २३ चतुर्थश्रेणी एप्रिल् २९ पञ्चमश्रेणी  मेय् ६  षष्टाश्रेणी मेय् १२  सप्तमश्रेणी मेय् १९ दिनाङ्केषु  भविष्यति। ९० कोटिजनाः मतदानार्हाः सन्ति इति निर्वाचनायोगस्य मुख्याध्यक्षः सुनिल् अरोर अवदत् ।  १० लक्षं मतदानगृहाणि निर्वाचनाय सज्जीक्रियते इत्यपि तेनोक्तम्। ८.५ कोटि जनाः नूतन-मतदायिनां गणे सन्ति। स्थानाशिनां चित्राणि अपि मतदानयन्त्रे भविष्यन्ति इत्यस्ति अस्य निर्वाचनस्य विशेषता।
नीरव् मोदिनः ब्रिट्टने आडम्बरजीवनं वज्रव्यापारश्च। 

नीरवमोदी पूर्वम् 
लण्टन् >  भारते पञ्चाब् नेषणल् वित्तकोशात् १३,५०० कोटिरूप्यकाणि ऋणव्याजेन अपहृत्य देशान्तरं गतः वज्रव्यापारी नीरव् मोदी ब्रिट्टन् देशे  आडम्बरपूर्णं सुखजीवनं नयतीति ब्रिट्टीष् दिनपत्रिकया 'डेय्ली टेलिग्राफ्' इत्यनया प्रस्तुतम्। पश्चिमलण्टन्नगरे अशीति लक्षं पौण्ट् [प्रायः ७३कोटि रूप्यकाणि] मूल्यपरिमिते भवने एव तस्य वासः। समीपे एव तस्य वज्रव्यापारशाला अपि वर्तते। 

नीरवमोदी अद्य 

नीरव् मोदिना आरब्धस्य वज्रव्यापारस्य सूचनाः ब्रिट्टीष् सर्वकारस्य 'कम्पनी कार्यालये' पञ्जीकृताः सन्ति। घटिकानामाभरणानां च स्तूपविक्रयः इत्येव सूचितम्। किन्तु व्यापारसंस्थायाः निदेशकपट्टिकायां नीरवस्य नाम न दृश्यते। 
   नीरवस्य महाराष्ट्रे खिं समुद्रतीरस्थं ३०,००० चतुरश्रपादपरिमितं सौधं स्फोटकवस्तुभिः गतदिने सर्वकारेण भञ्जितम्। तं निगृहीतुं इन्टर्पोल् संस्थया निर्देश अपि कृतः अस्ति।

Saturday, March 9, 2019

जम्मु-काश्मीरे सैनिकः भीकरैरपहृतः।
   श्रीनगरं> जम्मुकाश्मीरे विरामकालमुपयुज्य स्वग्रामं प्राप्तः सैनिकः भीकरैरपहृत इति सूचना। जम्मुकाश्मीर् 'लइट् इन्फन्टरि' विभागे वृत्तिं कुर्वन् मुहम्मद् यासीन भट्ट् नामकः बद्गां जनपदस्थात् गृहात् अपहृतः। गतसप्ताहे एवेयं घटना प्रवृत्ता। विरामेण खाकिपोराग्रामस्थं गृहं प्राप्तः यासीनः कतिपय किलोमीटर् दूरस्थं काननप्रदेशमानीतः इति परिवाराङ्गैः सूचितम्। सैन्येन सविशेषकर्मसंघेन च अपहृताय पर्यवेषणमारब्धम्। गतवर्षे जूण् १४ तमे दिनाङ्के इतरः सैनिकः औरङ्गसीबाख्यः पुल्वामा जनपदस्थात् गृहात् अपहृतः व्यापादितः चासीत्।
मानवान् बाह्याकाशं प्रेषयितुम् अमेरिक्कस्य नूतनपेटकम् सज्जतामेति।

      वाषिङ्टण् > मानवान् बाह्याकाशं प्रति प्रेषयितुम् अमेरिक्कस्य नूतनपेटकम् 'स्पेस् एक्स् ड्रागण् क्रू काप्सूल्' बाह्याकाशनिलयात् भूमिं प्रति प्रस्थितः। चत्वारि *वायूछत्राणि* उपयुज्य अट्लान्टिक् समुद्रे अवतरितम्।  पेटकस्य सुरक्षितावतरणेन स्पेस् एक्स् संस्थया सह नासा संस्थायाः भाविनिकालयोजनायाः शुभारम्भः अभवत्। मानवम् उपावेश्य यात्रायाः  पूर्वं पेटकस्य क्षमतां परीक्षितुम् आसीत् मार्च् मासस्य द्वितीय दिनाङ्के ड्रागण् काप्सूल् इति आकाश पेटकस्य विक्षेपणम्। मङ्गलग्रहे मानवं प्रेषयितुम् आयोजिता योजना स्पेस् एक्सस्य नियन्त्रणे भवति।
* वायूछत्रम् ,  Parachute

Friday, March 8, 2019

'पुल्वाम' अनुवर्तिष्यते - पूर्वसूचना ।
    श्रीनगरम् > पुल्वाम-समानः आत्मघाद्याक्रमणानि पुनरपि अनुवर्तिष्यते इति प्रणिधि विभागस्य आवेदनम्। त्रिचत्वारि दिनाभ्यन्तरे जम्मुकाश्मीरे आक्रमणं कर्तुं प्रयतते जैश् ए मुहम्मदेन इत्यस्ति आवेदनम्। पाकिस्थानस्य बालाकोटे भारतेन कृतं व्योमाक्रमणं विरुद्ध्य  अचिरादेव प्रत्याक्रमणं कर्तुं जैष् ए मुहम्मदः सज्जतां कुर्वन्तीति सूचना अस्ति। सुरक्षादलीयाः जाग्रतायां भवन्तु इति प्रणिधिवर्गैः निरदिशत्I
विश्वसंस्कृतपुरस्कारसमारोह: - सुषमास्वराजमहाभागया  स्वीय भाषणं संस्कृतेन कृतम्।
-पुरुषोत्तम शर्मा
   नवदेहली> जगति संस्कृतस्य प्रचाराय विशिष्टयोगदानार्थं भारतीयसांस्कृतिकसम्बन्धपरिषदा २०१५ तमख्रीस्ताब्दादारभ्य प्रतिवर्षं विश्वसंस्कृतपुरस्कार: प्रदीयते। अस्मिन् क्रमे गतवर्षीयो विश्वसंस्कृतपुरस्कारसमारोह: गुरुवासरे नवदिल्लयां समायोजित:। समारोहे विदेशमन्त्रिण्या सुषमास्वराजेन प्रो.अशोकनरहर अक्लुजकर: पुरस्कारेणानेन सभाजित:। तस्मिन्नवसरे संस्कृतजगति गणमान्यजना: शोधार्धिन: संस्कृतसेविनश्चोपस्थिता: अवर्तन्त। 
   कार्यक्रमे विदेशमन्त्रिण्या स्वीयसम्बोधनं संस्कृतभाषायाम् उपस्थापितम्। तयोक्तं यत्

Thursday, March 7, 2019

बस् निस्थाने विस्फोटः एकः हतः अनेके व्रणिताः। 

  श्रीनगरम्> जम्मुकाश्मीरे श्रीनगरे बस् निस्थाने विस्फोटः | एकः निहतः अनेके व्रणिताश्च। बस्निस्थानस्य अतिसम्मर्दभागे एव 'ग्रेनेड्' उपयुज्य विस्फोटनमकरोत्|   धावित्वा आगतः एकः आपणं प्रति ग्रनेड विस्फोटकं प्राक्षिपत्। तदनन्तरम् अपासरत् च|  व्रणितान् अनुरालयं प्राविशत् । दोषीं प्रत्यभिज्ञातुम् आरक्षकाः पर्यटनं कुर्वन्तः सन्तिः।
आरक्षक-मावोवादि दलयोः मध्ये जाते गोलिकाप्रहारे मावोनेता हतः। 
    कोच्ची> वयनाड् जनपदे लक्किटि देशे आरक्षक मावोवादि दलयोः मध्ये जाते गोलिकाप्रहारे मावो  नेता हतः। बुधवासरे रात्रौ आरब्धः गोलिकाप्रहरः गुरुवासरे प्रभातात् पूर्वं चतुर्वादनपर्यन्तं आनुवर्तितः।  मावोवादि दलनेता सि पि जलील् इत्यख्यः इति सूच्यते आरक्षकवृन्तैः।
   तद्देशीये निजीय-शय्यागृहस्य समीपे आसीत् घटना। शय्यागृहे विद्यमानानां जनानां पार्श्वतः धनम् आहर्तुम् आगताः आसन् मावोवादिनः । 'तण्डर् बाल्ट्' इति आरक्षक-सुरक्षा सेनानिन्यः मावोवादिनः आक्रमणान् प्रतिरोद्धुं कृते गोलिका प्रहारे एव मृतः मावोवादिनेता अन्ये दलस्थाः वनान्तर्भागे विस्फोटक गोलिकाशस्त्रादिभिः सह निलीनाः सन्ति।
श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे समायोजिता  एकदिवसीया राष्ट्रिया सङ्गोष्ठी
      नवदेहली> श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य आधुनिकविद्यासंकायेन मार्चमासस्य षष्ठे दिने परम्परागत-संस्थानानां परिप्रेक्ष्ये आधुनिकविषयाणामध्ययनाध्यापनसमाह्वानानि विषयमधिकृत्य एकदिवसीया राष्ट्रिया सङ्गोष्ठी समायोजिता। अस्यां सङ्गोष्ठ्यां विद्यापीठस्य कुलपति: प्रो.रमेशकुमारपाण्डेय: औद्घाटनिकसत्रस्य आध्यक्ष्यं निरवहत्। स्वीयोद्बोधने कुलपतिमहोेदयेन विद्यापीठे आधुनिकविद्यासंकायस्य स्थापनाया: उद्देश्यानि वर्तमानसमये पारम्परिकशास्त्राध्ययनस्य च वैशिष्ट्यम् उपस्थापितम्। मुख्यातिथित्वेन समागत: इन्दिरागान्धिराष्ट्रियमुक्तविश्वविद्यालयस्य पूर्वाचार्य: प्रो. वी.आर.जगन्नाथन: विशेषवक्तव्यं प्रास्तौत्। कार्यक्रमस्य सञ्चालनं विद्यापीठस्य मानविकीविभागाध्यक्षा आचार्या प्रो.सविता कृतवती। सङ्गोष्ठ्यां द्वितीये सत्रे प्रो.वी.आर.जगन्नाथन: भाषाध्ययनस्य महत्त्वं विशदेन उपस्थापयत्। श्रीमत्या मीनूकश्यपेन धन्यवादज्ञापनं कृतम्। सङ्गोष्ठ्यां तृतीये सत्रे इन्दिरागान्धिराष्ट्रियमुक्तविश्वविद्यालयस्य पूर्वाचार्येण प्रो. अमियाभूषणशर्मणा साम्प्रतिके काले भारतीयपरिदृश्ये आङ्गलसाहित्यस्याध्ययनाध्यापनविषये निजवक्तव्यं सम्प्रस्तुतम्। डॉ. अभिषेणतिवारिणा च सत्रस्यास्य साफल्येनसञ्चालनं कृतम्।

Wednesday, March 6, 2019

भारतस्य व्यापार-अधिमानता अमेरिक्केन अवसीयते|
       वाषिङ्टन् > व्यापार मण्डलेषु भारताय दीयमाना व्यापार-अधिमानता स्थगितुम् अमेरिक्काराष्ट्रेण निश्चिता। तदर्थं निर्देशः अमेरिक्कराष्ट्रस्य राष्ट्रपतिना डोणाल्ड् ट्रम्पेण दत्तः। अवतारण-सेवनकरः न्यूनीकरणीयः इति निर्देशः भारतेन न पालितः इत्यनेन कारणेन एव भवति ट्रम्पस्य निश्चयः इति सूचना अस्ति। भारत अमेरिक्कयोः कठिनव्यापार संघट्टनानन्तरमेव निर्णयोऽयं स्वीकृतम् इति ट्रम्पेण उक्तम्।             भारतस्य व्यापारमण्डले अमेरिक्क-राष्ट्राय योग्याः  अवसराः निर्णीय दातुं भारताय न शक्यते इति यु एस् प्रतिनिधिसभायाः नेतृभ्यः प्रेषिते पत्रे ट्रपेण लिखितम् अस्ति।