OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 11, 2019

भारते निर्वाचनकाहलम् उद्घुष्टम्। 

* सप्त सोपानानि  ** प्रारम्भः एप्रिल् ११ * अन्तिमसोपानं मई १९ ** मतगणना मई २३!
नवदिल्ली  >  भारते जनहितमहायुद्धाय काहलम् उद्घुष्टम्! १७ तमलोकसभानिर्वाचनस्य दिनाङ्काः भारतनिर्वाचनायोगेन प्रख्यापिताः। सप्तसोपानयुक्तं निर्वाचनं एप्रिल् ११, १८, २३, २९ , मई ६, १२, १९दिनाङ्केषु सम्पत्स्यते। मतगणना मई २३ दिनाङ्के भविष्यति।
  आन्ध्रप्रदेशः, ओडीषा, अरुणाचलप्रदेशः, सिक्किम् इत्येतेषु राज्येष्वपि विधानसभानिर्वाचनानि लोकसभानिर्वाचनेन सह प्रचालयिष्यन्ति। ३४ विधानसभामण्डलेषु उपनिर्वाचनान्यपि प्रचालयिष्यन्ति। किन्तु जम्मूकाश्मीरस्य विधानसभानिर्वाचनं अधुना न प्रचालयिष्यति। सुरक्षाविषय एव हेतुः। 
भारते जनतन्त्रस्य महोत्सवः समागच्छति - प्रधानमन्त्री नरेन्द्रमोदी।
       नवदिल्ली >  निर्वाचन प्रख्यापनमधिकृत्य भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वाभिमतं प्रकाशितं यत् भारते जनन्त्रस्य महोत्सवः समागच्छति इति। निर्वाचनायोगेन लोकसभा निर्वाचनतिथीनां प्रख्यापनानन्तरं  ट्विट्टर् माध्यमद्वारा आसीत् मोदिनः मोदप्रकाशनम्। २०१९ तमस्य लोकसभा निर्वाचनं सम्पुष्टीकर्तुं भारतान् अभ्यर्थयामि। समागते निर्वाचने सम्पूर्णमतदानं भविष्यति इति मे विश्वासः। मतदानाय नूतनतया अधिकारं लब्धवन्तः अभिलेखनीयं मतदानं करणीयम्। गत ७० संवत्सरेण विगणिताय आधारसुविधा-विकासाय विगत-पञ्चवर्षाणि यावत् केन्द्रसर्वकारेण प्रयतितानि  इत्यपि  मोदिना टिट्वर् मध्ये लिखितम्। 

Sunday, March 10, 2019

भारते निर्वाचनोत्सवः समारब्धः।
       नवदिल्ली >  भारतस्य १७ तम लोकसभा-निर्वाचनतिथिः विज्ञापिता। सप्तश्रेणिषु आयाेक्ष्यमाणस्य निर्वाचनस्य प्रथम श्रेणिः एप्रिल् मासस्य प्रथमे दिनाङ्के समारप्स्यते। अन्तिमश्रेणिः मेय् मासस्य १९ दिनाङ्के इति निश्चिता।  मेय् मासस्य २३ दिनाङ्के निर्वाचनस्य मतदानानां गणना, फलप्रख्यापनं च भविष्यति। अद्य आरभ्य निर्वाचन-मान्यतानियमः प्रबलः अभवत्।
        निर्वाचनस्प्र थम श्रेणी एप्रिल् ११ , द्वितीया श्रेणी एप्रिल् १८ तृतीया श्रेणी एप्रिल् २३ चतुर्थश्रेणी एप्रिल् २९ पञ्चमश्रेणी  मेय् ६  षष्टाश्रेणी मेय् १२  सप्तमश्रेणी मेय् १९ दिनाङ्केषु  भविष्यति। ९० कोटिजनाः मतदानार्हाः सन्ति इति निर्वाचनायोगस्य मुख्याध्यक्षः सुनिल् अरोर अवदत् ।  १० लक्षं मतदानगृहाणि निर्वाचनाय सज्जीक्रियते इत्यपि तेनोक्तम्। ८.५ कोटि जनाः नूतन-मतदायिनां गणे सन्ति। स्थानाशिनां चित्राणि अपि मतदानयन्त्रे भविष्यन्ति इत्यस्ति अस्य निर्वाचनस्य विशेषता।
नीरव् मोदिनः ब्रिट्टने आडम्बरजीवनं वज्रव्यापारश्च। 

नीरवमोदी पूर्वम् 
लण्टन् >  भारते पञ्चाब् नेषणल् वित्तकोशात् १३,५०० कोटिरूप्यकाणि ऋणव्याजेन अपहृत्य देशान्तरं गतः वज्रव्यापारी नीरव् मोदी ब्रिट्टन् देशे  आडम्बरपूर्णं सुखजीवनं नयतीति ब्रिट्टीष् दिनपत्रिकया 'डेय्ली टेलिग्राफ्' इत्यनया प्रस्तुतम्। पश्चिमलण्टन्नगरे अशीति लक्षं पौण्ट् [प्रायः ७३कोटि रूप्यकाणि] मूल्यपरिमिते भवने एव तस्य वासः। समीपे एव तस्य वज्रव्यापारशाला अपि वर्तते। 

नीरवमोदी अद्य 

नीरव् मोदिना आरब्धस्य वज्रव्यापारस्य सूचनाः ब्रिट्टीष् सर्वकारस्य 'कम्पनी कार्यालये' पञ्जीकृताः सन्ति। घटिकानामाभरणानां च स्तूपविक्रयः इत्येव सूचितम्। किन्तु व्यापारसंस्थायाः निदेशकपट्टिकायां नीरवस्य नाम न दृश्यते। 
   नीरवस्य महाराष्ट्रे खिं समुद्रतीरस्थं ३०,००० चतुरश्रपादपरिमितं सौधं स्फोटकवस्तुभिः गतदिने सर्वकारेण भञ्जितम्। तं निगृहीतुं इन्टर्पोल् संस्थया निर्देश अपि कृतः अस्ति।

Saturday, March 9, 2019

जम्मु-काश्मीरे सैनिकः भीकरैरपहृतः।
   श्रीनगरं> जम्मुकाश्मीरे विरामकालमुपयुज्य स्वग्रामं प्राप्तः सैनिकः भीकरैरपहृत इति सूचना। जम्मुकाश्मीर् 'लइट् इन्फन्टरि' विभागे वृत्तिं कुर्वन् मुहम्मद् यासीन भट्ट् नामकः बद्गां जनपदस्थात् गृहात् अपहृतः। गतसप्ताहे एवेयं घटना प्रवृत्ता। विरामेण खाकिपोराग्रामस्थं गृहं प्राप्तः यासीनः कतिपय किलोमीटर् दूरस्थं काननप्रदेशमानीतः इति परिवाराङ्गैः सूचितम्। सैन्येन सविशेषकर्मसंघेन च अपहृताय पर्यवेषणमारब्धम्। गतवर्षे जूण् १४ तमे दिनाङ्के इतरः सैनिकः औरङ्गसीबाख्यः पुल्वामा जनपदस्थात् गृहात् अपहृतः व्यापादितः चासीत्।
मानवान् बाह्याकाशं प्रेषयितुम् अमेरिक्कस्य नूतनपेटकम् सज्जतामेति।

      वाषिङ्टण् > मानवान् बाह्याकाशं प्रति प्रेषयितुम् अमेरिक्कस्य नूतनपेटकम् 'स्पेस् एक्स् ड्रागण् क्रू काप्सूल्' बाह्याकाशनिलयात् भूमिं प्रति प्रस्थितः। चत्वारि *वायूछत्राणि* उपयुज्य अट्लान्टिक् समुद्रे अवतरितम्।  पेटकस्य सुरक्षितावतरणेन स्पेस् एक्स् संस्थया सह नासा संस्थायाः भाविनिकालयोजनायाः शुभारम्भः अभवत्। मानवम् उपावेश्य यात्रायाः  पूर्वं पेटकस्य क्षमतां परीक्षितुम् आसीत् मार्च् मासस्य द्वितीय दिनाङ्के ड्रागण् काप्सूल् इति आकाश पेटकस्य विक्षेपणम्। मङ्गलग्रहे मानवं प्रेषयितुम् आयोजिता योजना स्पेस् एक्सस्य नियन्त्रणे भवति।
* वायूछत्रम् ,  Parachute

Friday, March 8, 2019

'पुल्वाम' अनुवर्तिष्यते - पूर्वसूचना ।
    श्रीनगरम् > पुल्वाम-समानः आत्मघाद्याक्रमणानि पुनरपि अनुवर्तिष्यते इति प्रणिधि विभागस्य आवेदनम्। त्रिचत्वारि दिनाभ्यन्तरे जम्मुकाश्मीरे आक्रमणं कर्तुं प्रयतते जैश् ए मुहम्मदेन इत्यस्ति आवेदनम्। पाकिस्थानस्य बालाकोटे भारतेन कृतं व्योमाक्रमणं विरुद्ध्य  अचिरादेव प्रत्याक्रमणं कर्तुं जैष् ए मुहम्मदः सज्जतां कुर्वन्तीति सूचना अस्ति। सुरक्षादलीयाः जाग्रतायां भवन्तु इति प्रणिधिवर्गैः निरदिशत्I
विश्वसंस्कृतपुरस्कारसमारोह: - सुषमास्वराजमहाभागया  स्वीय भाषणं संस्कृतेन कृतम्।
-पुरुषोत्तम शर्मा
   नवदेहली> जगति संस्कृतस्य प्रचाराय विशिष्टयोगदानार्थं भारतीयसांस्कृतिकसम्बन्धपरिषदा २०१५ तमख्रीस्ताब्दादारभ्य प्रतिवर्षं विश्वसंस्कृतपुरस्कार: प्रदीयते। अस्मिन् क्रमे गतवर्षीयो विश्वसंस्कृतपुरस्कारसमारोह: गुरुवासरे नवदिल्लयां समायोजित:। समारोहे विदेशमन्त्रिण्या सुषमास्वराजेन प्रो.अशोकनरहर अक्लुजकर: पुरस्कारेणानेन सभाजित:। तस्मिन्नवसरे संस्कृतजगति गणमान्यजना: शोधार्धिन: संस्कृतसेविनश्चोपस्थिता: अवर्तन्त। 
   कार्यक्रमे विदेशमन्त्रिण्या स्वीयसम्बोधनं संस्कृतभाषायाम् उपस्थापितम्। तयोक्तं यत्

Thursday, March 7, 2019

बस् निस्थाने विस्फोटः एकः हतः अनेके व्रणिताः। 

  श्रीनगरम्> जम्मुकाश्मीरे श्रीनगरे बस् निस्थाने विस्फोटः | एकः निहतः अनेके व्रणिताश्च। बस्निस्थानस्य अतिसम्मर्दभागे एव 'ग्रेनेड्' उपयुज्य विस्फोटनमकरोत्|   धावित्वा आगतः एकः आपणं प्रति ग्रनेड विस्फोटकं प्राक्षिपत्। तदनन्तरम् अपासरत् च|  व्रणितान् अनुरालयं प्राविशत् । दोषीं प्रत्यभिज्ञातुम् आरक्षकाः पर्यटनं कुर्वन्तः सन्तिः।
आरक्षक-मावोवादि दलयोः मध्ये जाते गोलिकाप्रहारे मावोनेता हतः। 
    कोच्ची> वयनाड् जनपदे लक्किटि देशे आरक्षक मावोवादि दलयोः मध्ये जाते गोलिकाप्रहारे मावो  नेता हतः। बुधवासरे रात्रौ आरब्धः गोलिकाप्रहरः गुरुवासरे प्रभातात् पूर्वं चतुर्वादनपर्यन्तं आनुवर्तितः।  मावोवादि दलनेता सि पि जलील् इत्यख्यः इति सूच्यते आरक्षकवृन्तैः।
   तद्देशीये निजीय-शय्यागृहस्य समीपे आसीत् घटना। शय्यागृहे विद्यमानानां जनानां पार्श्वतः धनम् आहर्तुम् आगताः आसन् मावोवादिनः । 'तण्डर् बाल्ट्' इति आरक्षक-सुरक्षा सेनानिन्यः मावोवादिनः आक्रमणान् प्रतिरोद्धुं कृते गोलिका प्रहारे एव मृतः मावोवादिनेता अन्ये दलस्थाः वनान्तर्भागे विस्फोटक गोलिकाशस्त्रादिभिः सह निलीनाः सन्ति।
श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे समायोजिता  एकदिवसीया राष्ट्रिया सङ्गोष्ठी
      नवदेहली> श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य आधुनिकविद्यासंकायेन मार्चमासस्य षष्ठे दिने परम्परागत-संस्थानानां परिप्रेक्ष्ये आधुनिकविषयाणामध्ययनाध्यापनसमाह्वानानि विषयमधिकृत्य एकदिवसीया राष्ट्रिया सङ्गोष्ठी समायोजिता। अस्यां सङ्गोष्ठ्यां विद्यापीठस्य कुलपति: प्रो.रमेशकुमारपाण्डेय: औद्घाटनिकसत्रस्य आध्यक्ष्यं निरवहत्। स्वीयोद्बोधने कुलपतिमहोेदयेन विद्यापीठे आधुनिकविद्यासंकायस्य स्थापनाया: उद्देश्यानि वर्तमानसमये पारम्परिकशास्त्राध्ययनस्य च वैशिष्ट्यम् उपस्थापितम्। मुख्यातिथित्वेन समागत: इन्दिरागान्धिराष्ट्रियमुक्तविश्वविद्यालयस्य पूर्वाचार्य: प्रो. वी.आर.जगन्नाथन: विशेषवक्तव्यं प्रास्तौत्। कार्यक्रमस्य सञ्चालनं विद्यापीठस्य मानविकीविभागाध्यक्षा आचार्या प्रो.सविता कृतवती। सङ्गोष्ठ्यां द्वितीये सत्रे प्रो.वी.आर.जगन्नाथन: भाषाध्ययनस्य महत्त्वं विशदेन उपस्थापयत्। श्रीमत्या मीनूकश्यपेन धन्यवादज्ञापनं कृतम्। सङ्गोष्ठ्यां तृतीये सत्रे इन्दिरागान्धिराष्ट्रियमुक्तविश्वविद्यालयस्य पूर्वाचार्येण प्रो. अमियाभूषणशर्मणा साम्प्रतिके काले भारतीयपरिदृश्ये आङ्गलसाहित्यस्याध्ययनाध्यापनविषये निजवक्तव्यं सम्प्रस्तुतम्। डॉ. अभिषेणतिवारिणा च सत्रस्यास्य साफल्येनसञ्चालनं कृतम्।

Wednesday, March 6, 2019

भारतस्य व्यापार-अधिमानता अमेरिक्केन अवसीयते|
       वाषिङ्टन् > व्यापार मण्डलेषु भारताय दीयमाना व्यापार-अधिमानता स्थगितुम् अमेरिक्काराष्ट्रेण निश्चिता। तदर्थं निर्देशः अमेरिक्कराष्ट्रस्य राष्ट्रपतिना डोणाल्ड् ट्रम्पेण दत्तः। अवतारण-सेवनकरः न्यूनीकरणीयः इति निर्देशः भारतेन न पालितः इत्यनेन कारणेन एव भवति ट्रम्पस्य निश्चयः इति सूचना अस्ति। भारत अमेरिक्कयोः कठिनव्यापार संघट्टनानन्तरमेव निर्णयोऽयं स्वीकृतम् इति ट्रम्पेण उक्तम्।             भारतस्य व्यापारमण्डले अमेरिक्क-राष्ट्राय योग्याः  अवसराः निर्णीय दातुं भारताय न शक्यते इति यु एस् प्रतिनिधिसभायाः नेतृभ्यः प्रेषिते पत्रे ट्रपेण लिखितम् अस्ति।  

Tuesday, March 5, 2019

मसूदस्य वैश्विकातङ्किघोषणा सम्बद्धे प्रस्तावे पाकिस्तानं स्वविरोधं प्रत्यावर्तिष्यतीति सम्भाव्यते I
-साक्षी चौरसिया
    इस्लामाबादः > पाकिस्थानेन प्रतिबन्धितानां संगठनानां विरूद्धे अंतिमनिर्णयङ्कर्तुं चिन्तयति। पाक जनसंचारस्य सूत्रानुसारेण, सर्वकारः जैश-ए-मोहम्मदं विहाय अन्येषां प्रतिबन्धितसंगठनानां विरूद्धे निर्णयं कर्तुं चिन्तयति। इत्यस्यारिक्तं पाकसर्वकारः संयुक्त-राष्ट्र-सुरक्षा-समित्यां प्रस्तुतं प्रस्तावे स्वविरोधं खण्डितुं शक्नोति, यस्मिन् अजहर-मसूदं वैश्विक-आतंकी घोषणाय याचनाऽस्ति इत्यस्यातिरिक्तम्। 

मसूद अजहरे प्रतिबन्धितुं संयुक्त राष्ट्रस्य सुरक्षा परिषदे अमेरिका, फ्रांस अपि च ब्रिटेन्, एतैः देशैः प्रस्तावाः परिषदि। मसूदं प्रतिबन्धङ्कर्तुं संयुक्तराष्ट्रे (यूएन) प्रस्तुते प्रस्तावे चीनदेशेन कापि प्रतिक्रिया न कृता। फ्रांस, अमेरिका वा ब्रिटेनेन स्वप्रस्तावे मसूदस्य वैश्विक-यात्रासु प्रतिबन्धितुं व तस्य सर्वाः सम्पत्तिः संरक्षणाय याचनां कृता । 

सर्वकारेण निर्धारणं भविष्यति यत् कश्चन जनस्य महत्ता अधिका, वा देशस्य, सुरक्षा अधिकारी पाकिस्थानस्य एक्सप्रेस ट्रिब्यूनिति समाचारपत्रस्य एकस्मिन् वार्तायां कथितं यतेकं बृहद् नीतिगतनिर्णयानुसारेण पाकिस्थान अजहरमसूदस्य विरूद्धे अंतिमनिर्णयं कर्तुं शक्ष्यति। यदेकं वरिष्ठसुरक्षाधिकारिणः पक्षतः समाचारपत्र-माध्यमेनोक्तं यतधुनैतत् स्पष्टं नास्ति यत् कीदृशं निर्णयं कर्तुं चिन्तनं प्रचलति। अधिकारिणोक्तं यत् सर्वकारेण निर्णयः करणीयः यत् कश्चन जनस्य महत्ता अधिकमस्ति वा देशस्य !
जैषे सङ्घटनं विरुद्ध्य प्रक्रमाः भविष्यन्ति- पाकिस्थानः।
     इस्लामाबाद्>  जैष्-ए-मुहम्मद् इति भीकर सङ्घटनं विरुद्ध्य प्रक्रमाः स्वीकरिष्यन्ते इति पाकिस्थानेन निगदितम्। पुलवाम आक्रमणस्य आधारेण पाकिस्थानं विरुद्ध्य राष्ट्रान्तरात् सम्मर्दः जयते इत्यनेन एव नूतनप्रक्रमः। पाकिस्थानस्य वार्तावितरणमन्त्रिणा एव इयं वार्ता प्रकाशिता। राष्ट्रेविद्यमानान् सर्वान् भीकरसंघटनान् विरुद्ध्य  प्रक्रमाः भविष्यन्ति। किन्तु भारतेन निर्दिष्टः समयः न स्वीकार्यः इत्यपि तेनोक्तम्। एतस्मिन्नन्तरे जैषे नेता मुहम्मद्‌असर् इत्याख्यः मृतः इति वार्ता बहिरागता। किन्तु वार्ता त्रुटिता इति उक्त्वा जैषे दलीयानाम् उक्तिः तैः बहिः प्रेषिता।

Monday, March 4, 2019

तीक्ष्णो ग्रीष्मः अभिमुखीक्रियते। 

अनन्तपुरी >  केरलम् अचिरेण तीक्ष्णं ग्रीष्मकालम् अभिमुखीकरिष्यतीति राज्यदुरन्तनिवारणसंस्थया पूर्वसूचना दत्ता। द्वाभ्यामारभ्य चत्वारिडिग्री परिमाणपर्यन्तं तापः वर्धिष्यत इति सूचना। 
  कैन्द्रपर्यावरणविभागस्य अवलोकनानि उद्धृत्य एवायं निर्णयः। अधोदत्ताः निर्देशाः पालनीयाः इति दुरन्तनिवारणसंस्थया निर्दिष्टम्। *
* प्रभाते ११ वादनादारभ्य अपराह्ने त्रिवादनपर्यन्तं सूर्य प्रकाशस्य साक्षादनुभवः निवारणीयः!
* निर्जलीकरणनिवारणाय सदा पानजलं संकलय!
* यावच्छक्यं शुद्धजलमेव पीयताम्! 
* परीक्षाकाल इत्यतः छात्राणां विषये सविशेषश्रद्धा दातव्या!
    पाक्सैन्येन मानसिकं पीडनमभवदिति अभिनन्दन वर्तमः।
 नवदिल्ली > पाकिस्थान् सैन्येन बद्धः भारतीयवैमानिकः अभिनन्दन् वर्तमः निगदितवान् यत् सः त्रीणि दिनानि सैन्येन मानसिकं पीडनम् अनुभूतवान्। किन्तु शारीरिकपीडनं न अनुभूतम्। 
  दिल्लीस्थे व्योमसैनायाः मुख्ये स्वास्थ्यकेन्द्रे 'डी ब्रीफिङ्' नामकस्य परिशोधनस्य मध्ये आसीत् अभिनन्दनस्य निवेदनम्। फेब्रुवरी २७ तमे दिनाङ्के आसीत् भारतस्य मिग् २१ बैसण् नामकविमानस्य सारथिः अभिनन्दन् वर्तमानः पाक् अधीनकाश्मीरस्य भीम् बेर् जनपदे होरा ग्रामवासिभिः बद्धः। ततः पाक्सेनया निग्रहीतः सः भारतस्य आवेदनस्य आधारेण दिनत्रयानन्तरं विमोचितः।

Sunday, March 3, 2019

अध्ययनासमर्थता निराकर्तुं शक्यते इति नूतनं अध्ययनफलम्।

    कोच्ची> अध्ययनासमर्थता इदानीं  छात्राणां समस्या एव। शैक्षणिक-विमर्शकानां विचिन्तने इयं समस्या आसीत्।  इदानीं कैश्चन विद्वद्भिः ताः समस्याः परिहृताः।  मस्तिष्के समागतान् विवरणान् विशेषसमयक्रमेषु विविच्य क्रोडीक्रियते चेत् ह्रस्वकालीनान् स्मृतिशकलान् दीर्घकालीना स्मृतिः इति परिणमयितुं शक्यते। नूतनम् अध्ययनफलं भवति इदम्। सिंगपूर राष्ट्रियविश्व-विद्यालयस्य नाडिकावैज्ञानिकस्य डा. सजिकुमार श्रीधरस्य नेतृत्वे सम्पन्ने अध्ययने भवति इदं फलम्। अमेरिक्क-राष्ट्रस्य Proceedings of National Academy of Science इत्यस्य नूतनपुस्तके अध्ययनफलं प्रकाशितम् अस्ति। 
     मस्तिष्के समागतानां विवरणानाम् तीव्रताम् अनुसृत्य भवति, तानि दीर्घकालीनं वा ह्रस्वकालीनं वा इत्यस्य आधारः इति डा सजिकुमारः उक्ततवान् ।

Saturday, March 2, 2019

सीमाक्षेत्रे इदानीमपि कूटसंग्रामः प्रवर्तते। चत्वारः सुरक्षाभटाः वीरमृत्युमुपगताः
      श्रीनगरम्> जम्मु काश्मीरस्थे कुप्वार क्षेत्रे भीकरेण सह संवृत्ते कूटसंग्रामे चत्वारः भारतसुरक्षासैनिकाः वीरमृत्युमुपगताः। अन्येषु एकः सीमारक्षिदलाधिकारी आसीत्। अन्येषु एकः सैनिकः द्वौ आरक्षकौ च अभवताम्। नव व्रणिताः तेषु एकः CRPF आदेशकः अभवत्।  जम्मू काश्मीरस्य आरक्षकाः सीमारक्षिदलीयाः च मिलित्वा कृते अन्वेषणे आसीत् घटना। तत्र विद्यमानस्य भग्नगृहस्य अन्ते निलीय आसीनाः आतङ्किनः एव गोलिकाप्रहरं कृतवन्तः।
      भारतवीरसैनिकम् अभिनन्दन वर्तमानं भारताय प्रत्यर्पणवेलायां  पाकिस्थानस्य सीमायां पाक् सैनिकाः गोलिकाप्रहरनिरोधव्यवस्था उल्लङ्घिता। रजौरी-नौषेराक्षेत्रे मेन्धार् , बालकोट्, कृष्णघट्टी क्षेत्रेषु अपि अतिरूक्ष-गोलिका प्रहाराः समारब्धाः। षेल् इति शस्त्रमुपयुज्य आक्रमणे काश्मीरे एका माता अपत्यद्वयेन साकं निहता।