OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Saturday, January 26, 2019
Friday, January 25, 2019
बिहारस्य पुत्री संयुक्त-राष्ट्र-अमेरिकायां सिनेटर घोषिता, श्रीमद्भगवद्गीताया शपथं गृहीतम्, गुञ्जायमाना "जय-हिन्द" इति सूक्तिः —
-साक्षी चौरसिया
पटना> बिहारस्य मुंगेरजनपदस्य निवासी मोनादासः अमेरिकायाः वाशिङ्ग्टन् राज्ये समाजतन्त्रदलस्य सिनेटर इति पदे घोषिता । विशेषवार्ता इदं यत् सा श्रीमद्भगवद्गीतां हस्ते स्थापयित्वा शपथं गृहीतवती, तथा च "जय-हिन्द, भारत माता की जय" इत्ययोः जयजयकारः अपि कृतम्। सा महात्मागान्धिनं, प्रधानमन्त्रिणं-नरेन्द्रमोदिनं च प्रशंसां कृतवती। तया न केवलं शपथग्रहणार्थं मकरसङ्क्रमणस्य पर्वस्य चयनङ्कतम्, अपितु हिन्द्यां नमस्कारः, प्रणामञ्च उक्त्वा मकरसङ्क्रमणस्य शुभाशयाः अपि प्रदत्तः।
संबोधने आगतः बालिकानां शिक्षायाः विषयः —
शपथग्रहणे अमेरिकी-सीनेट-एतेन स्वसंबोधने मोनादास-इत्येतया उदिता बालिकानां शिक्षायाः विषयः। तयोक्तं यत् एकां बालिकां शिक्षितकरणेन संपूर्णपरिवारः तथा भावीपरिवारोऽपि शिक्षितं कर्तुं शक्यते। तयोक्तं यत् सिनेटर इति रूपेण सा बालिकानां शिक्षां वर्धापनाय कार्यं करिष्यति। मोनां सीनेट हाऊसिंग स्टेबिलिटी एंड अफोर्डेबिलिट एंड कमेटी इत्यस्य सह-सभाध्यक्षायाः कार्यभारं प्रदास्यते।
Wednesday, January 23, 2019
उत्तरभारते हिमपात: अतिरूक्षः
- पुरुषोत्तमशर्मा
नवदेहली> जम्मू-कश्मीरे हिमाचलप्रदेशे उत्तराखण्डे च पुन: हिमपात:, येनोत्तरभारते शीतप्रकोप: समेधित:। ऋतुविज्ञानविभागेनोक्तं यत् तीव्रपश्चिमविक्षोभेन वायो: चक्रवातीयगतिकारणेन च पश्चिमहिमालयक्षेत्रं पश्चिमोत्तरभारतस्य समतलक्षेत्राणि च प्रभावितानि। हिमस्खलनेन जम्मूकश्मीरस्य राष्ट्रियराजमार्ग: विगतेह्नि अपि बाधित:। पर्यटकस्थलानि हिमाच्छादिनानि विद्यन्ते। ऋतुविज्ञानविभागेन हिमाचलप्रदेशे उत्तराखण्डे च इतोऽपि वृष्टे: हिमपातस्य च सञ्चेतना प्रसारितास्ति।उत्तराखण्डस्य कतिपयजनपदेषु विद्यालया: पिहितास्सन्ति।
गणतन्त्रदिवसप्रयाणम्
-पुरुषोत्तमशर्मा
नवदेहली> भारतस्य प्रमुखः राष्ट्रियपर्वः गणतन्त्रदिवसः शीघ्रमायोक्ष्यते। मुख्यकार्यक्रमस्य सज्जता त्वरया विधीयते। नवदिल्ल्याम् अद्य गणतन्त्रदिवसप्रयाणस्य गणवेशपूर्ण: पूर्वाभ्यास: भविष्यति। एतदर्थं दिल्ल्यारक्षिबलेन प्रयाणमार्गे यातायातस्य सुचारुतया सञ्चालनस्य व्यापकप्रबन्धा: समुपकस्तिता: वर्तन्ते। आरक्ष्यनुसारेण पूर्वाभ्यास: प्रात: ०९:५० वादने विजयचौकस्थलादारभ्य रक्तदुर्गं (लालकिला) यावत् प्रचलिष्यति।
अफ्गान् राष्ट्रे सैनिककेन्द्रः भीकरैः आक्रमितः।
शताधिकाः भटाः मृताः।
उत्तरदायित्वं तालिबानेन स्वीकृतम्।
काबूलः >अफ्गान् राष्ट्रे सैनिककेन्द्रे भीकराक्रमणं, १२६ सैनिकाः मृताः। मरणसंख्या वर्धयेदिति सूचना।काबूलस्य समीपस्थे सैनिककेन्द्रे आक्रमणं अभवत्। अस्य उत्तरदायित्वं तालिबानेन स्वीकृतम्। काबूल्तः चतुश्चतावारिंशत् कि.मी दूरे मैदान शहर्यां वर्तमावे प्रशिक्षणकेन्द्रे आक्रमणम् अभवत्।प्रशिक्षणकेन्द्रे भीकरैः कार्यानेन आक्रमितम्। पूर्वं द्वादश सैनिकाः एव मृताः इति सर्वकारेण उक्ताः आसन्।किन्तु अनन्तरं १२६ हताः इति सैनिकवक्ता अवदत्।
Tuesday, January 22, 2019
नेपाल-भूट्टानदेशयोः सन्दर्शनाय आधारपत्रम् सुविधायतेI
नवदिल्ली> १५ तः अधः ६५ तः उपरि वयस्केभ्यः भूट्टान् - नेपालयात्रिकेभ्यः यात्रायाः प्रमाणपत्रवत् आधारपत्रमपि उपयोक्तुं शक्यते। आभ्यन्तरमन्त्रालयेन इयं विज्ञप्तिः प्रकाशिता। किन्तु १५ तः ६५ पर्यन्तम् एषा सुविधा उपयोक्तुं न शक्यते इति मन्त्रालयेन ख्यापितम् अस्ति इति पि टि ऐ वार्तासंस्थया आवेदितम्। भारतीयानां नेपाल-भूट्टानराष्ट्रसन्दर्शनाय पारपत्रं न आवश्यकम्। पास्पोर्ट्, निर्वाचनायोगस्य प्रत्यभिज्ञानपत्रम्, भारत सर्वकारस्य छायाचित्रसंश्लिष्ट प्रत्यभिज्ञापत्रं वा एतदर्थम् उपयोक्तुं शक्यते। एतत् अतिरिच्य भवति आधारपत्रस्य नूतनोपयोगक्षमता।
Monday, January 21, 2019
कार्त्यायनी अम्मा कोमण्वेल्त् लेर्णिङ् अम्बासिडर् भविष्यति।
तिरुवनन्तपुरम् > षण्नवत्यां वयसि साक्षरता मिषनस्य परीक्षायां प्रथमपदं प्राप्तवती कार्त्यायनियम्मा कोमण्वेल्त् लेर्णिङस्य अम्बासिडर् भविष्यति। कोमण्वेल्त् लेर्णिङस्य उपध्यक्षः बालसुब्रह्मण्यः कार्त्यायनियम्मया सह मेलनानन्तरं तदधिकृत्य प्रख्यापनं कृतवान्।
विदूरशिक्षायाः प्रचारः कोमण्वेल्त् लेर्णिङस्य लक्ष्यम्। विविधराष्ट्रेषु आयुः अतिक्रम्य विजयं प्राप्तवतां चरितानि कोमण्वेल्त् मासिकायां प्रकाशयितुं प्रयत्नाः प्रचलन्ति। सूचिकायां एषा कार्त्यायनियम्मा च अस्ति। साक्षरता परिषदः 'अक्षरलक्षम् इति परीक्षार्थं आगतायाः कार्त्ययनियम्मायाः चित्राणि समूहमाध्यमेषु आगतानि। अस्मिन् वार्धक्येयेपि अस्याः अध्ययनतत्परतां प्रशंस्य अनेके प्रमुखाः अपि समागताः आसन्।कार्त्ययनि अम्मा इदानीं चतुर्थकक्ष्यायाः परीक्षार्थी भवति।
-डा जे अभिलाषः
-डा जे अभिलाषः
Sunday, January 20, 2019
मेक्सिक्को राष्ट्रे तैलनालिकासरणौ स्फोटनम् - ६६ मृताः।
सप्तत्यधिकाः आहताः ; ८५ अप्रत्यक्षाः।
मेक्सिको सिटी> मेक्सिको राष्ट्रे तैलनिर्गमन-नालिकासरणौ प्रवृत्तेन स्फोटनेन ततः सञ्जातया अग्निबाधया च ६६ जनाः मृताः। सप्तत्यधिकाः जनाः दाहव्रणिताः जाताः। तथा च ८५ जनाः अप्रत्यक्षाः अभवन्निति अधिकृतैरुक्तम्।
हिडाल्गो नामके राज्ये 'लाह्यूवेलिन् पान्' नगरे आसीदियं दुर्घटना। तैलचोराणां नियमविरुद्धव्यवहारा एव दुर्घटनायाः भूमिकायाममिति प्राथमिकनिगमनम्। चौर्यवृत्या नालिकासरणौ स्फोटिते तैलसङ्कलनाय जनानां यत्न एव दुर्घटनाव्याप्तिवर्धनाय कारणमिति पेमेक्स् नामकतैलसंस्थायाः अधिकृतैरुक्तम्।
तैलचोरणं तथा दुर्घटना च मेक्सिको राष्ट्रे सर्वसाधारणं भवति।
वैज्ञानिकपदानां स्थानात् संस्कृतं परित्यज्य कैरलीपदानि प्रयोक्तव्यायानि- केरलस्य मुख्यमन्त्री।
तिरुवनन्तपुरम्> कैरलीभाषायां उपयुज्यमानानि वैज्ञानिकपदानि संस्कृतपदानि एव भवन्ति। संस्कृत-वैज्ञानिकपदानां स्थाने कैरलीभाषया निर्मितानि पदनानि प्रयोक्तव्यानि। अनेन एव कैरल्याः विकासः साध्यः इति केरलस्य-मुख्यमन्त्रिणा पिणरायि विजयेनोक्तम्। सर्वविज्ञानकोशस्य सप्तदशतमस्य खण्डस्य प्रकाशनं कृत्वा भाणमाणः असीत् सः। सर्वेषाम् आङ्गलेयपदानां समानपदानि तमिल् भाषायां सन्ति। एतत् एव भवति तमिल् भाषाविकासस्य आधारकारणम्। Boiling point इति साङ्केतिकपदस्य Tila nilai इत्यस्ति तमिल्, किन्तु कैरल्यां (Malayalam) क्वथनाङ्कम् इति संस्कृतपदमेव उपयुज्यते इति तेन उक्तम्।
समीपकालात् आरभ्य छात्राणां अध्ययनपुस्तकात् संस्कृतपदानि परित्यज्य नूतन कैरलीपद-सन्निवेशनाय प्रयत्नः अस्ति। शौचालयम् (Toilet) इत्यस्य 'शुचि मुरि' इति परिवर्तितम्। किन्तु 'शुचि' इति पदं संस्कृतभाषातः एव भवति। Boiling Point इत्यस्य கொதிநிலை Kotinilai इति संस्कृतस्य तत्भवरूपमेव इदानीमपि तमिल् भाषायाम् उपयुज्यन्ते|
वार्ता, छाया - अवलम्बः> http://www.deshabhimani.com/news/kerala/news-kerala-18-01-2019/776624समीपकालात् आरभ्य छात्राणां अध्ययनपुस्तकात् संस्कृतपदानि परित्यज्य नूतन कैरलीपद-सन्निवेशनाय प्रयत्नः अस्ति। शौचालयम् (Toilet) इत्यस्य 'शुचि मुरि' इति परिवर्तितम्। किन्तु 'शुचि' इति पदं संस्कृतभाषातः एव भवति। Boiling Point इत्यस्य கொதிநிலை Kotinilai इति संस्कृतस्य तत्भवरूपमेव इदानीमपि तमिल् भाषायाम् उपयुज्यन्ते|
लोकसभा निर्वाचनं मार्च् प्रथमे सप्ताहे उद्घोषितुं सन्नद्धः निर्वाचनायोगः।
नवदेहली> निर्वाचनायोगेन मार्च् प्रथमसप्ताहे लोकसभा निर्वाचन तिथिः उद्घोषिष्यति इति संस्तुतयः।जूण् तृतीये दिनाङ्गे इदानीन्तन-लोकसभायाः नियमिततिधिः समापयिष्यति। केन प्रकारेण कियदवधिः कदा निर्वचनं प्रचालनीयम् इत्यादि विषयेषु निर्णयं स्वीकृत्यनन्तरं स्यात् तदीयदिनाङ्गस्योद्घोषणम्। सुरक्षा कार्यकतॄणां संख्या, तेषां विन्यासः निर्वाचनयन्त्राणि इत्यादिविषयेषु व्यक्तता आगन्तव्या। तानधिकृत्य संगोष्ठ्यः निर्वाचनायोगेन प्रारब्धाः इति प्रतिवेदनानि। विषयेषु तेषु निर्णयं भविष्यति चेत् मार्च् प्रथमे वारे एव निर्वाचन तिथिः उद्घोषिष्यति।
Saturday, January 19, 2019
मेल्बण् > आस्ट्रेलियां विरुध्य निकषपरमम्पराप्राप्तिम् अनुगमयन् एकदिनपरम्परा अपि भारतेन प्राप्ता। तृतीये एकदिने सप्तभिः द्वारकैः आस्ट्रेलियां पराजित्य २-१ क्रमे परम्परा भारतेन प्राप्ता। आस्ट्रेलियां विरुध्य द्वन्द्वप्रतियोगितायां प्रप्रथमतया एव तद्राष्ट्रे भारतस्य परम्पराप्राप्तिः। प्राप्ताङ्कः - आस्ट्रेलिया ४८.४ क्षेपणचक्रे २३०धावनाङ्कैः सर्वे बहिःप्राप्ताः। भारतं तु ४९.३ क्षेपणचक्रे त्रयाणां ताडकानां विनष्टे २३४ धावनाङ्काः।
षट् द्वारकान् निपात्य आस्ट्रेलियन् ताडनस्य कशेरुकाभञ्जकः चक्रगेन्दकः युस्वेन्द्र चाहलः भवति क्रीडाश्रेष्ठः।
Friday, January 18, 2019
राजनैतिकविज्ञप्तिः नियन्त्रितुमुद्दिश्यते- फेस् बुक्।
न्युयोर्क्> राजनैतिकविज्ञप्ति प्रकाशनाय कर्कशव्यवस्था निश्चिता मुखपुस्तिकया। अस्मिन् संवत्सरे निर्वाचनं प्रख्यापितेषु भारतादि राष्ट्रेषु व्यवस्था प्रबला भविष्यति। केषुचित् राष्ट्रेषु निर्वाचनकाले अन्येषां राष्ट्राणां हस्तक्षेपनिवारणम्, प्रकाशितविज्ञप्तेः पृष्टतः कः इत्यादि विषयेषु सुतार्यताम् च उद्दिश्य नूतनप्रक्रमः पर्यालोच्यते इति फेस् बुक् अधिकारिणा उक्तम्।
अमेरिका ब्रिट्टन् ब्रसेल् इत्यादिषु राष्ट्रेषु क्रियमाणस्य सुतार्यताप्रक्रमस्य अनुबन्धतया भवत्ययम्। भारतम् अतिरिच्य ओस्त्रेलिया इस्रयेल् फिलिप्पीन्स् इन्दोनेष्या नैजीरिया राष्ट्रेषु संवत्सरेऽस्मिन् निर्वाचनं प्रचलिष्यति।
'रञ्जि ट्रोफी' क्रिक्कट् - केरलेन उपान्त्यचक्रं प्रविष्टम्।
वयनाट् > अशीतिसंवत्सरात्मिकायाः रञ्जिट्रोफी क्रिक्कट् स्पर्धायाः चरिते इदंप्रथमतया केरलस्य उपान्त्यचक्रप्रवेशः। प्रतियोगिनं गुजरातदलं केरलं कन्दुकक्षेपेण न्यपातयत्।केरलाय ११३ धावनाङ्कानाम् उज्वलविजयः।
प्रतियोगितायाः तृतीये दिने १९५ धावनाङ्कानां विजयलक्ष्येण क्रीडाङ्कणं प्राप्तः गुज्रराज्यस्य ताडनव्यूहः ३१.३ क्षेपणचक्रे केवलं ८१ धावनाङ्कैः बहिर्नीतः। गुज्रदलस्य प्रारम्भकावभिव्याप्य ५ द्वारकान् प्राप्तः नायकः बेसिल् तम्पी तथा ४ द्वारकप्राप्तः सन्दीपवारियरः च केरलस्य विजयशिल्पिनौ।
Thursday, January 17, 2019
एकादशराज्येषु त्रयोदश नवीनकेन्द्रीय-विश्वविद्यालयानां निर्माणाय स्वीकृतिः — कैबिनेट्
-साक्षी चौरसिया
नवदेहली > केन्द्रीयमन्त्रिमण्डलेण विगतेषु त्रिषु दिवसेषु देशे त्रयोदश नवीनकेन्द्रीय-विश्वविद्यालयानां निर्माणाय स्वीकृतिः प्रदत्ता। मंत्रिमण्डलेन एतस्य कार्यस्य कृते षड्शताधिकत्रिसहस्रं (3600) कोटि रूप्यकाण्यापि स्वीकृतिः प्रदत्ता।
नवीनकेन्द्रीय-विश्वविद्यालयानां स्थापना केन्द्रीयविश्वविद्यालयस्य अधिनियमः, नवाधिकद्विशततमस्य (2009) वर्षस्यानुसारेण भविष्यति। बिहार, गुजरात, हरियाणा, हिमाचलप्रदेशः, झारखण्डः, कर्नाटक, केरल, ओडिशाः, पंजाब, राजस्थान, तथा तमिलनाडु एतेषु प्रत्येकं राज्येषु एकः तथा च जम्मूकाश्मीरराज्ये द्वौ-द्वौ केन्द्रीय-विश्वविद्यालयानां स्थापना भविष्यति।
केन्द्रमन्त्री पीयूषगोयलेन प्रेसकॉन्फ्रेंस् मध्ये उक्तं यत् त्रयोदश केन्द्रीयविश्वविद्यालयानां आवर्ती व्ययस्य तथा परिसराणां कृते आवश्यक प्रार्थमिक स्वरूपस्य व्ययस्य च कृते मन्त्रीमण्डलेन (कैबिनेट) नवत्रिंशतधिक-षड्शत-त्रिसहस्र-दशमलव-त्रि द्वे (3,639.32) कोटिरूप्यकाय स्वीकृतिः प्रदत्ता। एतत् कार्यं त्रिषु वर्षेषु पूर्णं भविष्यति।
तेनोक्तं यत् मन्त्रिमण्ण्डलेन एतेषां केन्द्रीय-विश्वविद्यालयानां कृते पूर्वमेव त्रिसहस्र-कोटिरूप्यकाणि अपेक्षया चतुस्सप्तत्यधिक-चतुर्शतेकसहस्र-दशमलव- षट् पञ्च (1,474.65) कोटिरुप्यकाय स्वीकृतिः प्रदत्ता। एतेन अधिकाधिकाः संख्याः जनाः उच्चशिक्षां प्राप्तुं शक्ष्यन्ति तथा शैक्षणिक सुविधायां क्षेत्रीय-असंतुलनमपि न्यूनं भविष्यतीति।
अन्टार्टिक खण्डः विलीयते, तीरप्रदेशाः समुद्रेण खादिष्यति- 'नासा'।
![]() |
Photo by Mario Tama/Getty Images) |
भूखण्डेषु भूमेः बृहत् परिमाणः भागः समुद्रे निमज्जितो भविष्यति इति नासा संस्थया पूर्वसूचना प्रदत्ता। ४० वर्षेभ्यः पूर्वं हिमलयवेगः यः आसीत् तस्मात् षट्गुणितवेगेन भवति इदानीम्। समुद्रजलस्य उन्नतिः भूत्वा भूभागाः जलान्तर्भागे भावितुमर्हन्ति इति वैज्ञानिकाः अभिप्रयन्ति। एवं चेत् तीरदेशवासिनां जीवने भीषा भविष्यति।
कालीफोर्णिय विश्वविद्यालयस्य प्राध्यापकः भौमवैज्ञानिकः एरिक् नोट् इत्यस्य नेतृत्वे कृताध्ययने एव इदं निरीक्षणम्। प्रोसीडिङ्स् ओफ् दि नाषणल् अक्कादमी ओफ् सयन्स् इत्यत्र अध्ययनफलं प्रकाशितम् अस्ति।
Wednesday, January 16, 2019
काश्मीरस्य आतङ्कवादिनः देशस्य पुत्राः - केन्द्रसर्वकारेण भीकरनेतृभिः सह चर्चा करणीया - महबूबा मुफ्ती
-साक्षी चौरसिया
श्रीनगरम्> जम्मूकाश्मीरस्य पूर्वमुख्यमन्त्रिरिण्या महबूबामुफ्ततिना स्थानीयातङ्कवादिनः देशस्य पुत्राः इति उक्तम्, तेषां रक्षणाय प्रयत्नः करणीयः। महबूबायोक्तं यत् जम्मूकाश्मीरे उपकरण-संस्कृतेः (गन-कल्चर्) परिष्काराय केन्द्रसर्वकारः स्थानीय-आतङ्कवाद-संघटनैः सह चर्चाङ्करणीया।
महबूबाया अनंतनागे राजनैतिकदलस्य कार्यक्रमानन्तरं उक्तं यत् अधुना पाकिस्तानं अलगाववादी दलयोर्मध्ये चर्चा करणीया। तथैव आतङ्कवाद-दलस्य नेतृत्वेन सहापि चर्चा भवितव्या, एतेषां हस्ते भुशुण्डयः सन्ति तथा एतैः राज्ये उपकरणसंस्कृतिं परिष्कृतं कर्तुं शक्नुवन्ति। पूर्वमुख्यमन्त्रिणोक्तं यत् ममानुसारेण केषुचन स्थानेषु हुर्रियत् तथा आतङ्कवादिनः सह चर्चा अधुना शीघ्रतया भविष्यति। तयोक्तं यत् स्थानीय आतङ्कवादीन् हिंसां प्रति गमनात् प्रतिनिवर्तनीयः।
दूरदर्शन-वाहिनीभ्यः नूतना मूल्यव्यवस्था निर्णीता - १०० वाहिन्यः १५३.४० रूप्यकाणि।
मुम्बै> लक्षशानां दूरदर्शनप्रेक्षकाणां तोषं वितीर्य 'ट्राय्' आयोगेन आदेशः प्रख्यापितः। आदेशानुसारं शतं वाहिनीपटलेभ्यः त्रिपञ्चाशतधिकैकशतं रूप्यकाणि इति निश्चितम्। मूल्ययुक्ता वा निर्मूल्या वा शतसंख्यकानां वाहिनीनां कृते १५३.४० रूप्यकाणि एव। उपभोक्तारः जनुवरिमासस्य ३१ दिनाङ्कतः पूर्वं अवश्यकानां १०० वाहिनीनां पट्टिका दातव्या। फेब्रुवरि १ दिनाङ्के सुविधेऽयं प्रबला भविष्यति। अस्यां सुविधायां HD वाहिन्यः न अन्तर्भवन्ति। वाहिनीनां अधिकतमं मूल्यं १९ रूप्यकाणि इति निर्णीतमस्ति। द्वयोः सामान्यवाहिन्याेः स्थाने उच्च परिभाषित (HD/स्पष्ट विस्तृत चित्र) एका वाहिनी दातुं सन्नद्धाः इति काचन वाहिनीनां स्वामिनः उक्तवन्तः सन्ति।
Tuesday, January 15, 2019
कृत्रिमश्वासकोशः दिनेनैकेन श्यामः अभवत्। वायूप्रदूषणः रूक्षतरः।
![]() |
कृत्रिम श्वासकोशः - छाया -ANI |
लख्नौ> चतुर्विंशति होराभ्यन्तरेण कृत्रिमः आदर्शश्वासकोशः श्यामवर्णमभवत्। उत्तर प्रदेशस्य राजधान्यां वायूप्रदूषणस्य काठिन्यं मानितुं संस्थापितः अस्ति कृत्रिमश्वासकोशः। मनुष्याणां श्वासकोशं वायूप्रदूषणेन कियन्मात्रं नाशं याति इति जनान् बोधयितुमुद्दिश्य आसीत् श्वासकोशस्य स्थापनम्।
राष्ट्रे वायूप्रदूषणस्य आधिक्यं दिल्याम् इति अङ्कितम् आसीत्। तत्र दिल्लीनगरे षट् दिनेन आसीत् कृत्रिमश्वासकोशस्य वर्णपरिवर्तनम्। बंगलूरु नगरे १८ दिनानन्तरमेव वर्णपरिवर्तनमभवत्। 'क्लैमट् अजन्ट' इति पर्यावरणसंबन्ध- अनुसन्धानं कुर्वन्त्याः संस्थायाः एव प्रमुख नगरेषु कृत्रिम श्वासकोशाः स्थापिताः। केन्द्रसर्वकारस्य वायूप्रदूषण-न्यूनीकरण-योजनाः कर्यक्षमतया न प्रवर्तन्ते इत्यनेन प्रदूषणस्य वर्धनस्य कारणम् इति 'क्लैमट् अजन्ट' इत्यस्य निदेशकः एकताशेखरः अवदत्।
Subscribe to:
Posts (Atom)