OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 18, 2019

राजनैतिकविज्ञप्तिः नियन्त्रितुमुद्दिश्यते- फेस् बुक्। 
    न्युयोर्क्> राजनैतिकविज्ञप्ति प्रकाशनाय कर्कशव्यवस्था निश्चिता मुखपुस्तिकया। अस्मिन् संवत्सरे निर्वाचनं प्रख्यापितेषु  भारतादि राष्ट्रेषु व्यवस्था प्रबला भविष्यति। केषुचित् राष्ट्रेषु निर्वाचनकाले अन्येषां राष्ट्राणां हस्तक्षेपनिवारणम्,  प्रकाशितविज्ञप्तेः पृष्टतः कः इत्यादि विषयेषु सुतार्यताम् च  उद्दिश्य नूतनप्रक्रमः पर्यालोच्यते इति फेस् बुक् अधिकारिणा उक्तम्।
     अमेरिका ब्रिट्टन् ब्रसेल् इत्यादिषु राष्ट्रेषु क्रियमाणस्य सुतार्यताप्रक्रमस्य अनुबन्धतया भवत्ययम्। भारतम् अतिरिच्य ओस्त्रेलिया इस्रयेल् फिलिप्पीन्स् इन्दोनेष्या नैजीरिया राष्ट्रेषु संवत्सरेऽस्मिन् निर्वाचनं प्रचलिष्यति।
'रञ्जि ट्रोफी' क्रिक्कट् - केरलेन उपान्त्यचक्रं प्रविष्टम्। 
 वयनाट् >  अशीतिसंवत्सरात्मिकायाः रञ्जिट्रोफी क्रिक्कट् स्पर्धायाः चरिते इदंप्रथमतया केरलस्य उपान्त्यचक्रप्रवेशः। प्रतियोगिनं गुजरातदलं केरलं कन्दुकक्षेपेण न्यपातयत्।केरलाय ११३ धावनाङ्कानाम् उज्वलविजयः। 
  प्रतियोगितायाः तृतीये दिने १९५ धावनाङ्कानां विजयलक्ष्येण क्रीडाङ्कणं प्राप्तः गुज्रराज्यस्य ताडनव्यूहः ३१.३ क्षेपणचक्रे केवलं ८१ धावनाङ्कैः बहिर्नीतः। गुज्रदलस्य प्रारम्भकावभिव्याप्य ५ द्वारकान् प्राप्तः नायकः बेसिल् तम्पी तथा ४ द्वारकप्राप्तः सन्दीपवारियरः च केरलस्य विजयशिल्पिनौ।

Thursday, January 17, 2019

एकादशराज्येषु त्रयोदश नवीनकेन्द्रीय-विश्वविद्यालयानां निर्माणाय स्वीकृतिः — कैबिनेट्
-साक्षी चौरसिया
     नवदेहली > केन्द्रीयमन्त्रिमण्डलेण विगतेषु त्रिषु दिवसेषु देशे त्रयोदश नवीनकेन्द्रीय-विश्वविद्यालयानां निर्माणाय स्वीकृतिः प्रदत्ता। मंत्रिमण्डलेन एतस्य कार्यस्य कृते षड्शताधिकत्रिसहस्रं (3600) कोटि रूप्यकाण्यापि स्वीकृतिः प्रदत्ता।
      नवीनकेन्द्रीय-विश्वविद्यालयानां स्थापना केन्द्रीयविश्वविद्यालयस्य अधिनियमः, नवाधिकद्विशततमस्य (2009) वर्षस्यानुसारेण भविष्यति। बिहार, गुजरात, हरियाणा, हिमाचलप्रदेशः, झारखण्डः, कर्नाटक, केरल, ओडिशाः, पंजाब, राजस्थान, तथा तमिलनाडु एतेषु प्रत्येकं राज्येषु एकः तथा च जम्मूकाश्मीरराज्ये द्वौ-द्वौ केन्द्रीय-विश्वविद्यालयानां स्थापना भविष्यति।
     केन्द्रमन्त्री पीयूषगोयलेन प्रेसकॉन्फ्रेंस् मध्ये उक्तं यत् त्रयोदश केन्द्रीयविश्वविद्यालयानां आवर्ती व्ययस्य तथा परिसराणां कृते आवश्यक प्रार्थमिक स्वरूपस्य व्ययस्य च कृते मन्त्रीमण्डलेन (कैबिनेट) नवत्रिंशतधिक-षड्शत-त्रिसहस्र-दशमलव-त्रि द्वे (3,639.32) कोटिरूप्यकाय स्वीकृतिः प्रदत्ता। एतत् कार्यं त्रिषु वर्षेषु पूर्णं भविष्यति। 
     तेनोक्तं यत् मन्त्रिमण्ण्डलेन एतेषां केन्द्रीय-विश्वविद्यालयानां कृते पूर्वमेव त्रिसहस्र-कोटिरूप्यकाणि अपेक्षया चतुस्सप्तत्यधिक-चतुर्शतेकसहस्र-दशमलव- षट् पञ्च (1,474.65) कोटिरुप्यकाय स्वीकृतिः प्रदत्ता। एतेन अधिकाधिकाः संख्याः जनाः उच्चशिक्षां प्राप्तुं शक्ष्यन्ति तथा शैक्षणिक सुविधायां क्षेत्रीय-असंतुलनमपि न्यूनं भविष्यतीति।
अन्टार्टिक खण्डः विलीयते, तीरप्रदेशाः समुद्रेण खादिष्यति- 'नासा'।

Photo by Mario Tama/Getty Images) 
       भूखण्डेषु भूमेः बृहत्  परिमाणः भागः समुद्रे निमज्जितो भविष्यति इति नासा संस्थया पूर्वसूचना प्रदत्ता। ४० वर्षेभ्यः पूर्वं  हिमलयवेगः यः आसीत्‌ तस्मात् षट्गुणितवेगेन भवति इदानीम्। समुद्रजलस्य उन्नतिः भूत्वा भूभागाः जलान्तर्भागे भावितुमर्हन्ति इति वैज्ञानिकाः अभिप्रयन्ति। एवं चेत् तीरदेशवासिनां जीवने भीषा भविष्यति।
   कालीफोर्णिय विश्वविद्यालयस्य प्राध्यापकः भौमवैज्ञानिकः एरिक् नोट् इत्यस्य नेतृत्वे कृताध्ययने एव इदं निरीक्षणम्। प्रोसीडिङ्स् ओफ् दि नाषणल् अक्कादमी ओफ् सयन्स् इत्यत्र अध्ययनफलं प्रकाशितम् अस्ति।

Wednesday, January 16, 2019

काश्मीरस्य आतङ्कवादिनः देशस्य पुत्राः - केन्द्रसर्वकारेण भीकरनेतृभिः सह चर्चा करणीया - महबूबा मुफ्ती
-साक्षी चौरसिया
    श्रीनगरम्>  जम्मूकाश्मीरस्य पूर्वमुख्यमन्त्रिरिण्या महबूबामुफ्ततिना स्थानीयातङ्कवादिनः देशस्य पुत्राः इति उक्तम्, तेषां रक्षणाय प्रयत्नः करणीयः। महबूबायोक्तं यत् जम्मूकाश्मीरे उपकरण-संस्कृतेः (गन-कल्चर्) परिष्काराय केन्द्रसर्वकारः स्थानीय-आतङ्कवाद-संघटनैः सह चर्चाङ्करणीया।
  महबूबाया अनंतनागे राजनैतिकदलस्य कार्यक्रमानन्तरं उक्तं यत् अधुना पाकिस्तानं अलगाववादी दलयोर्मध्ये चर्चा करणीया। तथैव आतङ्कवाद-दलस्य नेतृत्वेन सहापि चर्चा भवितव्या, एतेषां हस्ते भुशुण्डयः सन्ति तथा एतैः राज्ये उपकरणसंस्कृतिं परिष्कृतं कर्तुं शक्नुवन्ति। पूर्वमुख्यमन्त्रिणोक्तं यत् ममानुसारेण केषुचन स्थानेषु हुर्रियत् तथा आतङ्कवादिनः सह चर्चा अधुना शीघ्रतया भविष्यति। तयोक्तं यत् स्थानीय आतङ्कवादीन् हिंसां प्रति गमनात् प्रतिनिवर्तनीयः।
दूरदर्शन-वाहिनीभ्यः नूतना मूल्यव्यवस्था निर्णीता - १०० वाहिन्यः १५३.४० रूप्यकाणि।
     मुम्बै> लक्षशानां दूरदर्शनप्रेक्षकाणां तोषं वितीर्य 'ट्राय्' आयोगेन आदेशः प्रख्यापितः। आदेशानुसारं शतं वाहिनीपटलेभ्यः त्रिपञ्चाशतधिकैकशतं रूप्यकाणि इति निश्चितम्। मूल्ययुक्ता वा निर्मूल्या वा शतसंख्यकानां वाहिनीनां कृते १५३.४० रूप्यकाणि एव। उपभोक्तारः जनुवरिमासस्य ३१ दिनाङ्कतः पूर्वं अवश्यकानां १०० वाहिनीनां पट्टिका दातव्या। फेब्रुवरि १ दिनाङ्के सुविधेऽयं प्रबला भविष्यति। अस्यां सुविधायां HD वाहिन्यः न अन्तर्भवन्ति। वाहिनीनां अधिकतमं मूल्यं १९ रूप्यकाणि इति निर्णीतमस्ति। द्वयोः सामान्यवाहिन्याेः स्थाने उच्च परिभाषित (HD/स्पष्ट विस्तृत चित्र) एका वाहिनी दातुं सन्नद्धाः इति काचन वाहिनीनां स्वामिनः उक्तवन्तः सन्ति।

Tuesday, January 15, 2019

कृत्रिमश्वासकोशः दिनेनैकेन श्यामः अभवत्। वायूप्रदूषणः रूक्षतरः।

कृत्रिम श्वासकोशः -  छाया -ANI
    लख्नौ> चतुर्विंशति होराभ्यन्तरेण  कृत्रिमः आदर्शश्वासकोशः श्यामवर्णमभवत्। उत्तर प्रदेशस्य  राजधान्यां वायूप्रदूषणस्य काठिन्यं मानितुं संस्थापितः अस्ति कृत्रिमश्वासकोशः। मनुष्याणां श्वासकोशं वायूप्रदूषणेन कियन्मात्रं नाशं याति इति जनान् बोधयितुमुद्दिश्य आसीत् श्वासकोशस्य स्थापनम्।
राष्ट्रे वायूप्रदूषणस्य आधिक्यं दिल्याम् इति अङ्कितम् आसीत्। तत्र दिल्लीनगरे षट् दिनेन आसीत्  कृत्रिमश्वासकोशस्य वर्णपरिवर्तनम्। बंगलूरु नगरे १८ दिनानन्तरमेव  वर्णपरिवर्तनमभवत्। 'क्लैमट् अजन्ट' इति पर्यावरणसंबन्ध- अनुसन्धानं कुर्वन्त्याः संस्थायाः एव प्रमुख नगरेषु कृत्रिम श्वासकोशाः स्थापिताः। केन्द्रसर्वकारस्य वायूप्रदूषण-न्यूनीकरण-योजनाः कर्यक्षमतया न प्रवर्तन्ते इत्यनेन प्रदूषणस्य वर्धनस्य कारणम् इति 'क्लैमट् अजन्ट' इत्यस्य निदेशकः एकताशेखरः अवदत्।

Monday, January 14, 2019

हट्टतालात् विमुच्यन्ताम्, अध्ययनाय अनुज्ञायन्ताम् इति सम्प्रार्थ्य छात्राणां पत्रकारसम्नेलनम्। 
  अनन्तपुरी >  'हर्ताल्' नामकात् सर्वबन्धनाह्वानात् आत्मानः वीमुच्यन्ताम् इति अभ्यर्थयन् अनन्तपुरीनगरीस्थानां विभिन्नविद्यालयानां कश्चन छात्रसमूहः पत्रकारितावेदिकायाम् प्राप्तः। यथा हट्टतालात् क्षीरपत्रिकातुरालयाः मुच्यन्ते तथा विद्यालयाः अपि विमुक्तव्या इति छात्रैः निवेदितम्। 
   यत्र २२० साध्यायदिनानि लभ्यानि इतःपर्यन्तं १८५ दिनानि एव लब्धानि। अवशिष्टकालमपि गण्यते चेत् १८५ दिनेभ्यः अधिकं न लभन्ते। अध्ययनभारं तु २२० दिनानाम्। कथमस्माभिः परीक्षा अभिमुखीक्रियते इति ते पृच्छन्ति।
  "राज्यान्तरेषु सर्वबन्धनाह्वानं विरलमस्ति। प्रतिषेधे सत्यपि विद्यालयीयप्रवर्तनाय प्रतिबन्धो नास्ति। अत्र तु प्रथमं छात्रयानान्येव निरुणन्धि। वयं कान् प्रति स्पर्धिष्यामहे?" छात्राः पृच्छन्ति। 
  अनन्तपुरीस्थानां पट्टं सेन्ट् मेरीस्, विष़िञ्ञं सेन्ट् फ्रान्सिस्, कवटियार् क्रैस्ट् नगर्, कष़क्कूट्टं ज्योतिस्, आट्टुकाल् चिन्मया इत्येतेषां विद्यालयानां छात्रप्रतिनिधयः पत्रकारसम्मेrलने भागभाजः अभवन्।
सोष्यल् मीडियाद्वारा संस्कृतप्रचारणम् अभिनन्दनीयम् - बलदेवानन्द सागरः
-साक्षी चौरसिया
    नवदेहली> सोष्यल् मीडियाद्वारा संस्कृतप्रचारणम् अभिनन्दनीयम् इति संस्कृतवार्ताप्रसारकेण  डा. बलदेवानन्द-सागरेण उक्तम्। देहल्याः मिराण्डाहाऊस्  महाविद्यालये आयोजिते “एम॰ एल॰ गुप्ता” स्मृतिव्याख्याने “संस्कृतस्य आधुनिकं स्वरूपम्” इति विषयमधिकृत्य भाषमाणः आसीत् सः। प्रसङ्गेऽस्मिन् विविधवैबसाइट्  विषये तेन बोधितम्I  येन माध्यमेन वर्तमानसमये संस्कृतसाहित्यम् ऑण्लाइन् माध्यमेन प्रस्तुतङ्कृतम्, तथा च केन प्रकारेण अत्यन्तसरलरीत्या संस्कृतं बोध्यते। संस्कृतभारत्या निर्मिता ऑण्लाइन्  शब्दकोशस्य विषयेऽपि उक्तम्, यस्मिन् कमपि शब्दं लिखित्वा तस्य शब्दस्य सम्बन्धितः सर्वं ज्ञातुं शक्नुमः।
    डॉ॰ सागरेण विरचितं “संस्कृतपत्रकारिता” इति वार्तासम्बद्धं  पुस्तकमस्ति, यत् ऑनलाइन् विभिन्नभागेषु दृश्य-श्रव्य रूपेण उपलब्धमस्ति। “सम्प्रतिवार्ता” नामिकायाः ई-पत्रिकायाः विषयेऽपि तेनोक्तं यत् लघुबालकानां कृते अस्याः पत्रिकायाः सम्पादकः हरिकुमारमहाभागस्य नूतनप्रयासोऽस्ति। आकाशवाणी, दूरदर्शन, लघुचलचित्राणां लेखनं-श्रवणञ्चादि विषयेऽपि उक्तम्। तथा च व्याकरणस्य धातुः, कारकं समासः इत्यादीनां विश्लेषणमपि ऑण्लाइन माध्यमेन उपलभ्यते। सर्वेऽस्मिन् माध्यमैः  प्रयासैः संस्कृतं सामान्यवार्तालापस्य भाषापर्यन्तं नेतुं मार्गं प्रशस्तङ्कृतम्। महाविद्यालयस्य छात्र-छात्राभिः उत्थानाय कुर्वतां लघु लघु  प्रयासानां प्रशंसाङ्कृतं तथा च सोष्यल् मीडिया इत्यस्योपरि प्रचलिताः काश्चन संस्थाः तथा तासां संस्थापकानपि प्रशंसाङ्कृतम्। 
     सभायामस्यां विभागाध्यक्षा डॉ॰ रेखाअरोड़ाया, डॉ॰ शशीतिवार्या, संस्कृतभारत्याः गवीशद्विवेदिनः सह विभिन्न महाविद्यालयेषु छात्र-छात्राः अपि उपस्थिताः आसन्।

Sunday, January 13, 2019

 अलोकवर्मा निष्कासितः, अनन्तरं त्यागपत्रं च। 

  नवदिल्ली >  सर्वोच्चन्यायालयस्य आदेशात् सि बि ऐ संस्थायाः निदेशस्थानं प्रतिप्राप्तः अलोकवर्मा दिनद्वयानन्तरं उन्नताधिकारसममितेः निर्णयानुसानं स्थानभ्रष्टः अभवत्तर्हि अन्येद्युः सः त्यागपत्रं समर्पितवान्। अग्निरक्षा सेनाधिपरूपेण नवीननियुक्तिः तेन न स्वीकृता। अस्य मासस्य ३१ तमदिने सेवावृत्तितः विरमितव्ये भवितव्ये आसीत् सि बि ऐ निदेशकस्थानात् तस्य स्थानचलनम्। 
   भ्रष्टाचारविषये बलेन निवृतिं प्रविष्टः अलोकवर्मा सर्वोच्चनीतिपीठस्य आदेशेन स्थानं प्रत्यागतवान्। किन्तु प्रधानमन्त्री ,  सर्वोच्चन्यायाधीशः ए के सिक्री, कोण्ग्रस् नेता मल्लिकार्जुन खार्गे एत्येतैः अन्तर्भूतस्य उन्नताधिकारसमितेः भूरिशनिर्णयेन सः तत्स्थानात् निष्कासितः। मल्लिकार्जुनखार्गे तु वियुक्तवान्।
संस्कृताभियानम् ।
 -प्रा. डॉ. विजयकुमार: मेनन्
गृहस्य नाम श्रीप्रसादम् - 
केरलदेशे कोषिक्कोट् जनपदे बालुशेरि ग्रामे भवति इदं गृहं।
 गृहनाथः सुरेशमहोदयः संस्कृतप्रेमा स्वस्य भवनस्य नाम
देवनागरी लिप्यां दारुफलके श्रीप्रसादम् इति दत्तम्। गृहप्रवेश-समारोहस्य 
निमन्त्रणपत्रमपि संस्कृतभाषया मुद्रितवान्‌ आसीत् एषः महोदयः।
॥ प्रसारयेम संस्कृतम् गृहे गृहे च पुनरपि॥
      नमांसि, संस्कृतज्ञा: वयं भाविनि काले करणीयकार्यसम्बन्धे अद्य कियद् दूरपर्यन्तं द्रष्टुं शक्नुम:, तदर्थम् अद्य का: सज्जता: कुर्म: इति एषा एव दूरगामिदृष्टि: इति कथ्यते। कस्य करणेन किं भविष्यति, कस्य अकरणेन च किं भविष्यति इति परिणामं चिन्तयितुं शक्नुम: चेत् वयं परिणामदर्शिन: भवाम:। संस्कृतस्य विकासाय  आगामिषु दशसु विंशत्यां च वर्षेषु किं किं करणीयं, लक्ष्यं,  मार्ग:, कार्यक्रम: च के,  इति एतेषां स्पष्टचित्रम् एव सा अपेक्षिता दृष्टि:। किं संस्कृतज्ञानां मध्ये एतद्विषये चर्चा भवति? मित्राणि, विविधेषु संस्कृतमञ्चेषु एतद्विषये गभीरं विचारमथनं भवेत्। जयतु संस्कृतम् जयतु भारतम् ।

Saturday, January 12, 2019

नवीनभारतस्य स्वाभिमानोद्धारणम् आर्थिकारक्षणेन शक्यते- प्रधानमन्त्री।
 
भा ज दलस्य राष्ट्रिरियोपवेशने नरेन्द्रमोदी
   नवदिल्ली> दरिद्रेभ्यः  प्रतिशतं दश इति आर्थिकारक्षणेन नवीन भारतस्य स्वाभिमानोद्धारणं शक्यते इति प्राधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। भ्रष्टाचारस्य स्पर्शलेशं विना राष्ट्रशासनं शक्यते इति स्वस्य सर्वकारेण प्रमाणीकृतम् इति तेनोक्तम्I  भा ज दलस्य राष्ट्रिय सम्मेलने भाषमाणः आसीत् सः।  भूतपूर्वसर्वकारः भ्रष्टाचारेण, भ्रष्टाचारारोपेण च निभृतः आसीत्l इदं प्रथमतया अस्ति भ्रष्टाचारारोपरहितः सर्वकारः। राफेल् व्यवहारे भ्रष्टाचारः नास्ति इति बालकाः अपि जानन्ति।
अफगानिस्तानदेशे भारतस्य तात्पर्यः नास्ति ; तालिबानेन सह वार्तालापे भारतं बहिः नास्ति— सेनाप्रमुखः।
-साक्षी चौरसिया
     नवदेहली > सेनायाः प्रमुखेन बिपिनरावतेन देहल्यां वार्षिकसम्मेलने प्रथमवारं अफगानिस्तानस्य विषयोपरि कथितम्। रावतेनोक्तं यत् यदि भारतस्य अफ्गानिस्थानेन सह कोऽपि सम्बन्धः अस्ति, तर्हि तु तालिबानेन सह वार्तालापं कुर्वत्सु देशेषु अस्मासु अपि सहयोगः भवितव्यः।
      गतवर्षे अफगानिस्थाने शांति इति विषये वार्तालापार्थं रूसदेशेन भारतं आमन्त्रितम्। भारतेन एतस्मिन् विषये अनौपचारिकतया  सहयोगः कृतः। एतत् प्रथमवारमासीत् यदा भारतं तालिबानेन सह मञ्चं साक्षात्कृतवत्। यतोहि, अफगानिस्तानस्य स्थित्यां भारतस्य आधिकारिकनीतिः तालिबानेन सह सम्मिलितं भविष्यति इति ज्ञायते। यतोहि, अमेरिका, रूस, ईरान्, तथा पाकिस्तान् इत्येतानि राष्ट्राणि तालिबानेन सह वार्तालापे सम्मिलितानि आसन्।

Friday, January 11, 2019

अयोध्या याचिकायाम् उपलब्धानां सर्वेषां प्रमाणपत्राणाम् अनुवादाः अपि परीक्ष्यन्ते।
      नवदिल्ली> अयोध्या विवादानुबन्ध-याचिकायाम् उपलब्धानां सर्वेषां प्रमाणपत्राणाम् अनुवादाः अपि सर्वोच्चन्यायालयेन आवेक्ष्यन्ते। संस्कृतं, हिन्दी, उर्दु, अरबिक्, पेर्स्यन्, गुरुमुखी भाषाभ्यः प्रमाणपत्राणाम् अनुवादः करणीयः। याचिकायां प्रमाणानि अधिकृत्य विवादः अस्ति इति कारणेन अनुवादकरणाय भाषानुवादकानां साहाय्यं प्रार्थयितुं  न्यायालयेन निश्चितम्।
     अवसरेऽस्मिन् न्यायवादश्रवणकर्तव्यात् न्यायाधीशः यु यु ललितः प्रतिनिवृत्तवान्। अतः वादश्रवणतिथिः जनुवरि २९ इति परिवर्तिता। मुख्यन्यायाधीशस्य आध्यक्ष्ये २९ दिनाङ्के वादश्रवणः समारभ्यते।

Thursday, January 10, 2019

हिस्बुल् मुजाहिद्दीन् दलाय शस्त्रवितरणाय गतवन्तौ गृहीतौ।
- डा अभिलाष् जे
   कत्वा> हिस्बुल् मुजाहिद्दीन् भीकरदलायै शस्त्रवितरणाय प्रयत्नं कृतवन्तौ द्वौ आरक्षकैः गृहीतौ। शस्त्रसञ्चयं तथा एकं बृहद्यानं च गृहीतम्।निस्सार अहम्मदः, आखिब् च गृहीतौ। तयोः पार्श्वतः ८१००० रूप्यकाणि गृहीतानि।  गुप्तसूचनाम् अनुसृत्य तौ द्वौ गृहीतौ इति कत्वा एस् पी श्रीधर् पाट्टीलेन उक्तम्।पञ्जाब् राज्यात् यानं आगतं तथा गृहीतौ द्वौ पुल्वामा देशवासिनौ आस्तामिति तेन उक्तम्।
आयोध्याव्यवहारः पञ्चाङ्गपीठेन श्रूयते ; विषयः अद्य परिगण्यते। 
 नवदिल्ली  >  अयोध्याभूमितर्कव्यवहारं श्रोतुं पञ्चाङ्गात्मकः  शासनसंविधानपीठः रूपवत्कृतः। मुख्यन्यायाधीशः रञ्जन् गोगोय्, न्यायाधीशाः एस् ए बोब् डे , एन् वि रमणः , यू यू ललितः , डि वै चन्द्रचूडः इत्येतैः अन्तर्गणितः शासनविधानात्ममकः नीतिपीठः अद्य 'रामजन्ममभूमि - बाबरि मस्जिद् भूमितर्कविषयं' परिगणयति। 
   २०१० तमे संवत्सरे अलहबाद् उच्चन्यायालयेन विज्ञापितं विधिप्रस्तावं विरुध्य १४ पुनर्विचारप्रार्थनाः सर्वोच्चन्यायालये समर्पिताः। तर्कस्थाने राममन्दिरनिर्माणं शीघ्रमेव आरब्धुं निदेशः प्रस्ताव्यः इत्यावश्यमुद्घोषयन्तः विविधाः हैन्दवसंघटनाः मञ्चं प्रविष्टवन्तः अपि न्यायालय निर्णयस्याधारे एव अस्मिन् विषये निर्णयः स्वीकरिष्यते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तमासीत्।

Wednesday, January 9, 2019

द्विदिनस्य राष्ट्रियकर्मन्यासप्रतिषेधे जनाः कष्टम् अनुभूतवन्तः

 कोच्ची> विपक्षिदलानां द्विदिनस्य -कर्मन्यास प्रतिषेधे जनाः कष्टम् अनुभूतवन्तः। रेल् रोट्  मार्गाः विपक्षिदलीयैः उपरोधिताः। केरले विपण्यः बलेन पिधातुं श्रमः असीत् चेदपि वणिजः विपणीम् उद्घाटितवन्तः। दिल्ली मुम्बै चेन्नै बंगलूरु गुरुग्रां इत्येतेषु ग्रामेषु भङ्गं विना जनाः विचरन्ति। पूर्वोत्तर राज्येषु पश्चिमवंगे ओडीषायां च आक्रमणानि अभवन् इति आवेदनानि सन्ति। केन्द्रसर्वकारस्य कर्मकार विरुद्घप्रक्रमान् विरुद्ध्य भवति अयं समरः।  मेट्रो रेल्यानसेवा विनाविघ्नं प्रचलति।
सौहृदभवनम् छात्रैः निर्मितम्।
-बिजिला किषोरः
  पालक्काड्> गन्धवर्तिका, फेनकं च विक्रीय स्नेहभवनं निर्मान्ति चिट्टिलञ्चेरि एम्.एन्.के.एस् सर्वोच्चविद्यालयस्य विद्यार्थिनः। वर्षद्वयाभ्यन्तरे पञ्चस्नेहभवनानि निर्मीय मित्रेभ्यः दत्तवन्तः।छात्राणांकर्मफलस्यमुल्यम् अस्ति एतस्य पृष्ठतः। एन्.एस्.एस् योजना अपि   छात्रैः सह योगेनेदं कृतवती इति अभिमानस्यविषयः।
   सहपाठिनां दुरितपूर्णजीवनं दृष्ट्वा छात्राः साहाय्यं कर्त़ुम् उद्युक्ताः। मानवसेवायै छात्राणां उत्साहं समर्पणमनोभावं च दृष्ट्वा अध्यापकाः तद्देशीयाः च साहायं दत्तवन्तः। तेन निर्माणप्रक्रिया शीघ्रमभवत्।पञ्चमगृहस्य निर्माणप्रक्रिया परिसमाप्त्यां भवति  षष्ट्यधिकानां छात्राणां प्रयत्नसाफल्यं भवत्येतत्।