OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 14, 2019

हट्टतालात् विमुच्यन्ताम्, अध्ययनाय अनुज्ञायन्ताम् इति सम्प्रार्थ्य छात्राणां पत्रकारसम्नेलनम्। 
  अनन्तपुरी >  'हर्ताल्' नामकात् सर्वबन्धनाह्वानात् आत्मानः वीमुच्यन्ताम् इति अभ्यर्थयन् अनन्तपुरीनगरीस्थानां विभिन्नविद्यालयानां कश्चन छात्रसमूहः पत्रकारितावेदिकायाम् प्राप्तः। यथा हट्टतालात् क्षीरपत्रिकातुरालयाः मुच्यन्ते तथा विद्यालयाः अपि विमुक्तव्या इति छात्रैः निवेदितम्। 
   यत्र २२० साध्यायदिनानि लभ्यानि इतःपर्यन्तं १८५ दिनानि एव लब्धानि। अवशिष्टकालमपि गण्यते चेत् १८५ दिनेभ्यः अधिकं न लभन्ते। अध्ययनभारं तु २२० दिनानाम्। कथमस्माभिः परीक्षा अभिमुखीक्रियते इति ते पृच्छन्ति।
  "राज्यान्तरेषु सर्वबन्धनाह्वानं विरलमस्ति। प्रतिषेधे सत्यपि विद्यालयीयप्रवर्तनाय प्रतिबन्धो नास्ति। अत्र तु प्रथमं छात्रयानान्येव निरुणन्धि। वयं कान् प्रति स्पर्धिष्यामहे?" छात्राः पृच्छन्ति। 
  अनन्तपुरीस्थानां पट्टं सेन्ट् मेरीस्, विष़िञ्ञं सेन्ट् फ्रान्सिस्, कवटियार् क्रैस्ट् नगर्, कष़क्कूट्टं ज्योतिस्, आट्टुकाल् चिन्मया इत्येतेषां विद्यालयानां छात्रप्रतिनिधयः पत्रकारसम्मेrलने भागभाजः अभवन्।
सोष्यल् मीडियाद्वारा संस्कृतप्रचारणम् अभिनन्दनीयम् - बलदेवानन्द सागरः
-साक्षी चौरसिया
    नवदेहली> सोष्यल् मीडियाद्वारा संस्कृतप्रचारणम् अभिनन्दनीयम् इति संस्कृतवार्ताप्रसारकेण  डा. बलदेवानन्द-सागरेण उक्तम्। देहल्याः मिराण्डाहाऊस्  महाविद्यालये आयोजिते “एम॰ एल॰ गुप्ता” स्मृतिव्याख्याने “संस्कृतस्य आधुनिकं स्वरूपम्” इति विषयमधिकृत्य भाषमाणः आसीत् सः। प्रसङ्गेऽस्मिन् विविधवैबसाइट्  विषये तेन बोधितम्I  येन माध्यमेन वर्तमानसमये संस्कृतसाहित्यम् ऑण्लाइन् माध्यमेन प्रस्तुतङ्कृतम्, तथा च केन प्रकारेण अत्यन्तसरलरीत्या संस्कृतं बोध्यते। संस्कृतभारत्या निर्मिता ऑण्लाइन्  शब्दकोशस्य विषयेऽपि उक्तम्, यस्मिन् कमपि शब्दं लिखित्वा तस्य शब्दस्य सम्बन्धितः सर्वं ज्ञातुं शक्नुमः।
    डॉ॰ सागरेण विरचितं “संस्कृतपत्रकारिता” इति वार्तासम्बद्धं  पुस्तकमस्ति, यत् ऑनलाइन् विभिन्नभागेषु दृश्य-श्रव्य रूपेण उपलब्धमस्ति। “सम्प्रतिवार्ता” नामिकायाः ई-पत्रिकायाः विषयेऽपि तेनोक्तं यत् लघुबालकानां कृते अस्याः पत्रिकायाः सम्पादकः हरिकुमारमहाभागस्य नूतनप्रयासोऽस्ति। आकाशवाणी, दूरदर्शन, लघुचलचित्राणां लेखनं-श्रवणञ्चादि विषयेऽपि उक्तम्। तथा च व्याकरणस्य धातुः, कारकं समासः इत्यादीनां विश्लेषणमपि ऑण्लाइन माध्यमेन उपलभ्यते। सर्वेऽस्मिन् माध्यमैः  प्रयासैः संस्कृतं सामान्यवार्तालापस्य भाषापर्यन्तं नेतुं मार्गं प्रशस्तङ्कृतम्। महाविद्यालयस्य छात्र-छात्राभिः उत्थानाय कुर्वतां लघु लघु  प्रयासानां प्रशंसाङ्कृतं तथा च सोष्यल् मीडिया इत्यस्योपरि प्रचलिताः काश्चन संस्थाः तथा तासां संस्थापकानपि प्रशंसाङ्कृतम्। 
     सभायामस्यां विभागाध्यक्षा डॉ॰ रेखाअरोड़ाया, डॉ॰ शशीतिवार्या, संस्कृतभारत्याः गवीशद्विवेदिनः सह विभिन्न महाविद्यालयेषु छात्र-छात्राः अपि उपस्थिताः आसन्।

Sunday, January 13, 2019

 अलोकवर्मा निष्कासितः, अनन्तरं त्यागपत्रं च। 

  नवदिल्ली >  सर्वोच्चन्यायालयस्य आदेशात् सि बि ऐ संस्थायाः निदेशस्थानं प्रतिप्राप्तः अलोकवर्मा दिनद्वयानन्तरं उन्नताधिकारसममितेः निर्णयानुसानं स्थानभ्रष्टः अभवत्तर्हि अन्येद्युः सः त्यागपत्रं समर्पितवान्। अग्निरक्षा सेनाधिपरूपेण नवीननियुक्तिः तेन न स्वीकृता। अस्य मासस्य ३१ तमदिने सेवावृत्तितः विरमितव्ये भवितव्ये आसीत् सि बि ऐ निदेशकस्थानात् तस्य स्थानचलनम्। 
   भ्रष्टाचारविषये बलेन निवृतिं प्रविष्टः अलोकवर्मा सर्वोच्चनीतिपीठस्य आदेशेन स्थानं प्रत्यागतवान्। किन्तु प्रधानमन्त्री ,  सर्वोच्चन्यायाधीशः ए के सिक्री, कोण्ग्रस् नेता मल्लिकार्जुन खार्गे एत्येतैः अन्तर्भूतस्य उन्नताधिकारसमितेः भूरिशनिर्णयेन सः तत्स्थानात् निष्कासितः। मल्लिकार्जुनखार्गे तु वियुक्तवान्।
संस्कृताभियानम् ।
 -प्रा. डॉ. विजयकुमार: मेनन्
गृहस्य नाम श्रीप्रसादम् - 
केरलदेशे कोषिक्कोट् जनपदे बालुशेरि ग्रामे भवति इदं गृहं।
 गृहनाथः सुरेशमहोदयः संस्कृतप्रेमा स्वस्य भवनस्य नाम
देवनागरी लिप्यां दारुफलके श्रीप्रसादम् इति दत्तम्। गृहप्रवेश-समारोहस्य 
निमन्त्रणपत्रमपि संस्कृतभाषया मुद्रितवान्‌ आसीत् एषः महोदयः।
॥ प्रसारयेम संस्कृतम् गृहे गृहे च पुनरपि॥
      नमांसि, संस्कृतज्ञा: वयं भाविनि काले करणीयकार्यसम्बन्धे अद्य कियद् दूरपर्यन्तं द्रष्टुं शक्नुम:, तदर्थम् अद्य का: सज्जता: कुर्म: इति एषा एव दूरगामिदृष्टि: इति कथ्यते। कस्य करणेन किं भविष्यति, कस्य अकरणेन च किं भविष्यति इति परिणामं चिन्तयितुं शक्नुम: चेत् वयं परिणामदर्शिन: भवाम:। संस्कृतस्य विकासाय  आगामिषु दशसु विंशत्यां च वर्षेषु किं किं करणीयं, लक्ष्यं,  मार्ग:, कार्यक्रम: च के,  इति एतेषां स्पष्टचित्रम् एव सा अपेक्षिता दृष्टि:। किं संस्कृतज्ञानां मध्ये एतद्विषये चर्चा भवति? मित्राणि, विविधेषु संस्कृतमञ्चेषु एतद्विषये गभीरं विचारमथनं भवेत्। जयतु संस्कृतम् जयतु भारतम् ।

Saturday, January 12, 2019

नवीनभारतस्य स्वाभिमानोद्धारणम् आर्थिकारक्षणेन शक्यते- प्रधानमन्त्री।
 
भा ज दलस्य राष्ट्रिरियोपवेशने नरेन्द्रमोदी
   नवदिल्ली> दरिद्रेभ्यः  प्रतिशतं दश इति आर्थिकारक्षणेन नवीन भारतस्य स्वाभिमानोद्धारणं शक्यते इति प्राधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। भ्रष्टाचारस्य स्पर्शलेशं विना राष्ट्रशासनं शक्यते इति स्वस्य सर्वकारेण प्रमाणीकृतम् इति तेनोक्तम्I  भा ज दलस्य राष्ट्रिय सम्मेलने भाषमाणः आसीत् सः।  भूतपूर्वसर्वकारः भ्रष्टाचारेण, भ्रष्टाचारारोपेण च निभृतः आसीत्l इदं प्रथमतया अस्ति भ्रष्टाचारारोपरहितः सर्वकारः। राफेल् व्यवहारे भ्रष्टाचारः नास्ति इति बालकाः अपि जानन्ति।
अफगानिस्तानदेशे भारतस्य तात्पर्यः नास्ति ; तालिबानेन सह वार्तालापे भारतं बहिः नास्ति— सेनाप्रमुखः।
-साक्षी चौरसिया
     नवदेहली > सेनायाः प्रमुखेन बिपिनरावतेन देहल्यां वार्षिकसम्मेलने प्रथमवारं अफगानिस्तानस्य विषयोपरि कथितम्। रावतेनोक्तं यत् यदि भारतस्य अफ्गानिस्थानेन सह कोऽपि सम्बन्धः अस्ति, तर्हि तु तालिबानेन सह वार्तालापं कुर्वत्सु देशेषु अस्मासु अपि सहयोगः भवितव्यः।
      गतवर्षे अफगानिस्थाने शांति इति विषये वार्तालापार्थं रूसदेशेन भारतं आमन्त्रितम्। भारतेन एतस्मिन् विषये अनौपचारिकतया  सहयोगः कृतः। एतत् प्रथमवारमासीत् यदा भारतं तालिबानेन सह मञ्चं साक्षात्कृतवत्। यतोहि, अफगानिस्तानस्य स्थित्यां भारतस्य आधिकारिकनीतिः तालिबानेन सह सम्मिलितं भविष्यति इति ज्ञायते। यतोहि, अमेरिका, रूस, ईरान्, तथा पाकिस्तान् इत्येतानि राष्ट्राणि तालिबानेन सह वार्तालापे सम्मिलितानि आसन्।

Friday, January 11, 2019

अयोध्या याचिकायाम् उपलब्धानां सर्वेषां प्रमाणपत्राणाम् अनुवादाः अपि परीक्ष्यन्ते।
      नवदिल्ली> अयोध्या विवादानुबन्ध-याचिकायाम् उपलब्धानां सर्वेषां प्रमाणपत्राणाम् अनुवादाः अपि सर्वोच्चन्यायालयेन आवेक्ष्यन्ते। संस्कृतं, हिन्दी, उर्दु, अरबिक्, पेर्स्यन्, गुरुमुखी भाषाभ्यः प्रमाणपत्राणाम् अनुवादः करणीयः। याचिकायां प्रमाणानि अधिकृत्य विवादः अस्ति इति कारणेन अनुवादकरणाय भाषानुवादकानां साहाय्यं प्रार्थयितुं  न्यायालयेन निश्चितम्।
     अवसरेऽस्मिन् न्यायवादश्रवणकर्तव्यात् न्यायाधीशः यु यु ललितः प्रतिनिवृत्तवान्। अतः वादश्रवणतिथिः जनुवरि २९ इति परिवर्तिता। मुख्यन्यायाधीशस्य आध्यक्ष्ये २९ दिनाङ्के वादश्रवणः समारभ्यते।

Thursday, January 10, 2019

हिस्बुल् मुजाहिद्दीन् दलाय शस्त्रवितरणाय गतवन्तौ गृहीतौ।
- डा अभिलाष् जे
   कत्वा> हिस्बुल् मुजाहिद्दीन् भीकरदलायै शस्त्रवितरणाय प्रयत्नं कृतवन्तौ द्वौ आरक्षकैः गृहीतौ। शस्त्रसञ्चयं तथा एकं बृहद्यानं च गृहीतम्।निस्सार अहम्मदः, आखिब् च गृहीतौ। तयोः पार्श्वतः ८१००० रूप्यकाणि गृहीतानि।  गुप्तसूचनाम् अनुसृत्य तौ द्वौ गृहीतौ इति कत्वा एस् पी श्रीधर् पाट्टीलेन उक्तम्।पञ्जाब् राज्यात् यानं आगतं तथा गृहीतौ द्वौ पुल्वामा देशवासिनौ आस्तामिति तेन उक्तम्।
आयोध्याव्यवहारः पञ्चाङ्गपीठेन श्रूयते ; विषयः अद्य परिगण्यते। 
 नवदिल्ली  >  अयोध्याभूमितर्कव्यवहारं श्रोतुं पञ्चाङ्गात्मकः  शासनसंविधानपीठः रूपवत्कृतः। मुख्यन्यायाधीशः रञ्जन् गोगोय्, न्यायाधीशाः एस् ए बोब् डे , एन् वि रमणः , यू यू ललितः , डि वै चन्द्रचूडः इत्येतैः अन्तर्गणितः शासनविधानात्ममकः नीतिपीठः अद्य 'रामजन्ममभूमि - बाबरि मस्जिद् भूमितर्कविषयं' परिगणयति। 
   २०१० तमे संवत्सरे अलहबाद् उच्चन्यायालयेन विज्ञापितं विधिप्रस्तावं विरुध्य १४ पुनर्विचारप्रार्थनाः सर्वोच्चन्यायालये समर्पिताः। तर्कस्थाने राममन्दिरनिर्माणं शीघ्रमेव आरब्धुं निदेशः प्रस्ताव्यः इत्यावश्यमुद्घोषयन्तः विविधाः हैन्दवसंघटनाः मञ्चं प्रविष्टवन्तः अपि न्यायालय निर्णयस्याधारे एव अस्मिन् विषये निर्णयः स्वीकरिष्यते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तमासीत्।

Wednesday, January 9, 2019

द्विदिनस्य राष्ट्रियकर्मन्यासप्रतिषेधे जनाः कष्टम् अनुभूतवन्तः

 कोच्ची> विपक्षिदलानां द्विदिनस्य -कर्मन्यास प्रतिषेधे जनाः कष्टम् अनुभूतवन्तः। रेल् रोट्  मार्गाः विपक्षिदलीयैः उपरोधिताः। केरले विपण्यः बलेन पिधातुं श्रमः असीत् चेदपि वणिजः विपणीम् उद्घाटितवन्तः। दिल्ली मुम्बै चेन्नै बंगलूरु गुरुग्रां इत्येतेषु ग्रामेषु भङ्गं विना जनाः विचरन्ति। पूर्वोत्तर राज्येषु पश्चिमवंगे ओडीषायां च आक्रमणानि अभवन् इति आवेदनानि सन्ति। केन्द्रसर्वकारस्य कर्मकार विरुद्घप्रक्रमान् विरुद्ध्य भवति अयं समरः।  मेट्रो रेल्यानसेवा विनाविघ्नं प्रचलति।
सौहृदभवनम् छात्रैः निर्मितम्।
-बिजिला किषोरः
  पालक्काड्> गन्धवर्तिका, फेनकं च विक्रीय स्नेहभवनं निर्मान्ति चिट्टिलञ्चेरि एम्.एन्.के.एस् सर्वोच्चविद्यालयस्य विद्यार्थिनः। वर्षद्वयाभ्यन्तरे पञ्चस्नेहभवनानि निर्मीय मित्रेभ्यः दत्तवन्तः।छात्राणांकर्मफलस्यमुल्यम् अस्ति एतस्य पृष्ठतः। एन्.एस्.एस् योजना अपि   छात्रैः सह योगेनेदं कृतवती इति अभिमानस्यविषयः।
   सहपाठिनां दुरितपूर्णजीवनं दृष्ट्वा छात्राः साहाय्यं कर्त़ुम् उद्युक्ताः। मानवसेवायै छात्राणां उत्साहं समर्पणमनोभावं च दृष्ट्वा अध्यापकाः तद्देशीयाः च साहायं दत्तवन्तः। तेन निर्माणप्रक्रिया शीघ्रमभवत्।पञ्चमगृहस्य निर्माणप्रक्रिया परिसमाप्त्यां भवति  षष्ट्यधिकानां छात्राणां प्रयत्नसाफल्यं भवत्येतत्।

Tuesday, January 8, 2019

अकल्पितकर्मनिरासाय निरोधः। 
 कोच्ची  >  केरले आकस्मिकः हर्ताल् नामकः  कर्मनिरासः उच्चन्यायालयेन निरुद्धः। कर्मनिरासाय आह्वानं कुर्वद्भिः राजनैतिकदलैः व्यक्तिभिश्च  सप्तवासरात् पूर्वमेव सामान्यविज्ञापनं समर्पणीयमिति उच्चनीतिपीठेन आदिष्टम्। 
  कर्मनिरासाह्वयिताराणं प्रतिषेधाधिकारः अन्येषां जनानां मौलिकाधिकारनिषेधेन मा भूदिति उच्चन्यायालयेन निर्दिष्टम्। परीक्षामभिव्याप्य छात्रसमूहानाम् अधिकारः अपि संरक्षणीयः इति च मुख्यन्यायाधीशः हृषिकेश रोय् , न्या. ए के जयशङ्करन् नम्प्यारः इत्येतयोः खण्डपीठः आदिशत्।

Monday, January 7, 2019

विमाननिलयस्य नियमानुसारेण भविष्यति 
२०२ रेलस्थानकस्य सुरक्षा, 
विंशतिः निमेषात्‌ पूर्वमेव यात्रिकाः आगन्तव्याः।

-साक्षी चौरसिया
   नवदेहली> रेलस्थानकस्य सुरक्षा विमाननिलयस्य नियमेन तुल्यं भविष्यति इति योजनास्ति। तेेन यात्रिकाणां  विशेष-सुरक्षायाः कृते सुरक्षाबलानां रक्षाशोधनं (checking) भविष्यति। एतस्याः प्रक्रियायाः मध्ये  रेल् पर्यन्तं गमने विलम्बः न भवेत्। तदर्थं यात्रिकाः  प्रायशः विंशतिः निमेषात् पूर्वमेव रेलस्थानकं प्रति आगन्तव्याः। आरम्भे तु एषा व्यवस्था प्रयागस्य तथा कर्णाकस्य हुबली इति  स्थानयोः यथावत् व्यवस्थिता। रेलप्रबन्धनेन द्वयाधिकद्विशतं स्थानकेषु एतादृश्याः सुरक्षायाः कृते योजना कृता। रेलप्रबन्धनसुरक्षणकर्मणः महानिदेशकः अरुणकुमारस्य कथनमस्ति यत् एतेषु सर्वेषु स्थानकेषु प्रयागस्य तथा हुबली इति स्थानस्य यथावत् सुरक्षायाः आवृत्ते कार्यं करिष्यति। एतस्मिन्, रेलस्थानकं पूर्णरूपेण प्रतिरोधितं भविष्यति। रेलप्रबन्धनानां निश्चयः  अस्ति यत् स्थानकं प्रत्यागमनस्य सर्वान् मार्गान् चिह्नितं कृत्वा प्रतिबन्धितं करणीयम् इति।
एष्यन् चषकः - भारतस्य स्वप्नतुल्यप्रारम्भः। 
  अबुदाबी  >  अत्र  प्रारब्धायाम्  एष्यन् चषकपादकन्दुकस्पर्धापरम्परायां भारतस्य प्रथमे प्रतिद्वन्दे भारताय उज्वलविजयः। ताय्लान्ट् राष्ट्रं एकं विरुध्य चतुर्भिः लक्ष्यकन्दुकैः पराजित्य  एव भारतेन स्वप्नतुल्यः प्रारम्भः विरचितः। 
  नायकः सुनिल् छेत्री लक्ष्यकन्दुकयुगलं प्राप्तवान्। अनिरुद्ध थाप्पः, जे जे लाल् पेखुलः इत्येतौ अन्यौ लक्ष्यकन्दुकौ सम्पादितवन्तौ। एष्यन् चषकचरित्रे भारतस्य महत्तमः विजयो भवत्येषः।
द्वितीय लक्ष्यकन्दुकप्राप्त्यनन्तरं भारतनायकःसुनिल् छेत्री प्रोक्षकान् अभिवादयति।

Sunday, January 6, 2019

 राष्ट्रपतिना जिन् पिंङेन चीनसेना युद्ध-सज्जतायै आदिष्टा।
-साक्षी चौरसिया
  ब्रीजिंग्> चीनदेशस्य राष्ट्रपतिना षी-जिन् पिंङेन सैन्यबलस्य परिवर्तनाय विषयेऽस्मिन् विशेष वार्ताङ्कृतम्। शुक्रवासरे तेनोक्तं यत् निजपरिवर्तित वैश्विकसम्पत् कारणेन युद्धसज्जतायाः सर्वावश्यकता पूर्णतया करणीया इति। दक्षिणचीनसागरे अमेरिक्कीयसेनायाः हस्तक्षेपः तथा च ताय्वानेन सह उद्भूते कार्यविषये च चिन्तां अवर्धयत् ।
   वार्ता एजेंसी शिन्हु आनुसारेण, जिन् पिंङेन सेनायाः समक्षं वर्धितावरोधान्, सुरक्षायाः समस्याः तथा तथा सैन्यनिवेशनस्य वर्धनाय चर्चा कृता। तेनोक्तं यत् सेनाः नवयुगाय रणनीतिविषये कार्यङ्करणीयम्। तथा च युद्धस्य सज्जतायाः दायित्वमपि स्वीकरणीयम्। चीनदेशस्य "सेंट्रल मिलिट्री कम्मीषन्" इत्यस्य अध्यक्षः अपि राष्ट्रपति जिनपिंग् भवति।
वार्ता प्रदत्ता। 
विजय मल्ल्यः कान्दिशीकः आर्थिकापराधी - मुम्बई नीतिपीठः। 
   मुम्बई >  वित्तकोशेभ्यः कोटिशः रूप्यकाणि ऋणरूपेणापहृत्य विदेशं गतः मदिराराजः विजय मल्लः काम्दिशीकः आर्थिकापराधी इति मुम्बईस्थेन सविशेषन्यायालयेन प्रख्यापितः। केन्द्रसर्वकारेण गतसंवत्सरे आविष्कृतम् आर्थिकदण्ड-नीतिनियममनुसृत्य अग्रहितापराधिरूपेण प्रख्यापितः प्रथमो भवति विजयमल्लः। 
   आर्थिकापराधान्वेषणसंस्थायाः [Enforcement Directorate - ई डि] अपेक्षामङ्गीकृत्य मुम्बईस्थेन सविशेषनीतिपीठेनैव एतादृशः आदेशः कृतः। अनेनादेशेन  भारते विदेशे च वर्तमानं  मल्लस्य सर्वस्वमादिशतुं तस्य विक्रणयेन ऋणबाध्यतां परिहर्तुं च 'ई डि' संस्थायै अधिकारः लभते। 
   मल्लस्य सर्वस्वहरणविषये न्यायपीठे फेब्रवरी पञ्चमदिने न्यायवादः कारयिष्यते।

Saturday, January 5, 2019

शिशुभ्यः दुबाय् देशः मार्गसुरक्षा शक्तीकृता।
   दुबाय्> दुबाय् मार्गगतागत आयोगेन  मार्गसुरक्षाविधयः शक्तीकृताः। विद्यालय-यानान्‌ विगणय्य यानचालनं कृतवतां दण्डशुल्केन सह यान-चालनानुज्ञापत्रे दश-श्यामबिन्दून् अपि मुद्रणं  करिष्यति।  विद्यालययाने छात्राणाम् आरोहणावरोहणकाले स्थगनफलकं प्रकाश्यते। तस्मिन् समये पृष्टतः आगन्तुकानि यानानि स्थगनीयानि। तदपि पञ्च मीट्टर् पूर्वं भवितव्यानि। नियम-लङ्घकेभ्यः १००० दिर्हं धनं दण्डं प्रदास्यते इति गतागतायोगस्य  निरीक्षणाध्यक्षः मुहम्मद् नब्हानः अवदत्।


Friday, January 4, 2019

मग्गि नूडिल्स् विषलिप्तम् - याचना सर्वेच्चन्यायालयेन परिगण्यते
    नवदिल्ली> अन्ताराष्ट्र खाद्योत्पन्ननिर्माण- व्यवसायभीमं 'नेस्ले इन्द्या' इति संस्थां विरुध्य केन्द्रसर्वकारेण याचिका समर्पिता आसीत्। याचिकेयं सर्वोच्च न्यायालयेन पुनरपि परिगण्यते। नेस्ले संस्थायाः मग्गि नूडिल्स् इति बालकानां प्रियभोज्ये  स्वास्थ्यहानिकरः 'अजिनो मोट्टो' Lead लोहः' च दृश्येते इति कारणतः रोधितः आसीत्। अस्यानुबन्धतया आसीना याचिका परिगणयितुं  सर्वोच्चन्यायालयेन पुनरपि निश्चितम्। मग्गि नूडिल्सस्य 'परिशिष्टांशः' (sample) मैसूरस्थायां केन्द्रीय खाद्यवस्तु-आवेक्षणशालायां परीक्षितम् आसीत्। आवेक्षणशालायाः परीक्षणावेदनस्याधारेण भवति प्रक्रमः इति सर्वोच्चन्यायालयेन उक्तम्।  केन्द्र-भक्ष्यसुरक्षा आयोगेन इदं नूडिल्स् निरुद्धम् आसीत्।

    असत्य-विज्ञापनानि, अधार्मिक विक्रयतन्त्राणि च विरुद्ध्य २०१५ तमे केन्द्रसर्वकारेण उपभोक्तृन्यायालये प्रदत्ता याचिका सर्वेच्चन्यायालयेन निवारिता। किन्तु अधुना लब्धस्य नूतन-परीक्षणावेषणमनुसृत्य भवति भवति न्यायालयस्य नूतनप्रक्रमः।