OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 30, 2018

भारतेन विजिता तृतीया क्रिकेटनिकषस्पर्धा
-पुरुषोत्तमशर्मा

    भारत-ऑस्ट्रेलियादलयो: मध्ये मेलबर्न नगरे सञ्जाता तृतीया क्रिकेटनिकषस्पर्धा भारतेन विजिता। स्पर्धाया: अन्तिमे दिने नवनवत्युत्तरचतुश्शतं धावनाङ्कलक्ष्यमनुसरता ऑस्ट्रिलियादलेन द्वितीये पर्याये केवलम् एकषष्ट्युत्तरद्विशत-धावनाङ्का: विनिर्मिता:।भारतीयदलेन अस्यां स्पर्धायां सप्तत्रिंशदुत्तरैकशतं धावनाङ्कै: विजयो लब्ध:। अनेनैव भारतीयदलं स्पर्धाचतुष्टयान्वितायां शृङ्खलायां २-१ स्पर्धान्तरालेन अग्रेसरं वर्तते। भारतस्य जसप्रीतबूमराह: स्पर्धायां भव्यप्रदर्शनबलेन स्पर्धापुरुषत्वने प्रचित:।

Saturday, December 29, 2018

कृष्णद्वीपाय देशीयसौरभ्यपूरितानि नामानि
-लेफ्टनन्ट्. लिषा सी.आर्
    नवदिल्ली> भारतस्य स्वातन्त्र्यसमरचरित्रे अविस्मरणीयपदे स्थितस्य कृष्णद्वीपसमूहस्य नामानि एव केन्द्रसर्वकारेण विपरिणम्यन्ते। स्वातन्त्रान्दोलनस्य स्मृतिपूरितानि नामानि दीयन्ते। हाव्लोक् द्वीपस्य नाम 'स्वराज्' इति च परिवर्त्यत्यते। नील् द्वीपः 'षहीद्'(बलिदानि), रोस् द्वीपः'सुभाष् चन्द्र बोस् इति च परिवर्त्येयेते। दिसम्बर् मासस्य त्रिशत् दिनाङ्के प्रधानमन्त्रिरिणः नरेन्द्रमोदिनः कृष्णद्वीपस्य राजधानी पोर्ट्ब्लयर् सन्दर्शनसमये नवीननामानि दास्यन्ति। नेताजिवर्यस्य द्वीपसन्दर्शनस्य ७५ तमे वार्षिकोत्सवसमये एव मोदिनः सन्दर्शनम्। 1943 दिसम्बर् मासे एव नेताजी प्राचीन जिं खान क्रीडाक्षेत्रे राष्ट्रियद्वजारोहणं कृतम्। अस्मिन्नवसरे अन्टमान् द्वीपसमूहः स्वातन्त्रतां प्राप्तवान् इति च तेन महोदयेन प्रख्यापितः। तस्मिन्नवसरे नेताजिवर्येण  षगीद् , स्वराज् इति द्वयोः द्वीपयोः नामकरणं कृतम् आसीत्। पशिचिमबंगस्य भा.ज.पा उपाध्यक्षः चन्द्रकुमारबोसः  पुनर्नामकरण-विषयमधिकृत्य प्रधानमन्त्रिणे  पत्रं प्रेषितवानासीत् ।
२०२२ तमे संवत्सरे त्रयः भारतीयाः बहिराकाशं प्राप्स्यन्ति।
भारतस्य स्वप्नपद्धतिः - गगनयानम्। 
      नवदिल्ली >  चतुर्वषाभ्यन्तरे स्वकीये क्षेपणयाने बहिराकाशं प्रति पुरुषं नेतुं ऐ एस् आर् ओ संस्था सिद्धोन्मुखं तिष्ठति। २०२२ वर्षे त्रीन् भारतीयान् बहिराकाशं प्रापयितुमेव भारतीयबहिराकाशानुसन्धानव्यवस्थापनेन [ऐ एस् आर् ओ] लक्ष्यीक्रियते। सप्ताहं यावत् सञ्चारिणः बहिराकाशे भविष्यन्ति। गगनयानमिति कृतनामधेयायै अस्यै परियोजनायै दशसहस्रं कोटि रूप्यकाणि अनुज्ञितानि। 
     लक्ष्यप्राप्तिः भविष्यति चेत् मानवं बहिराकाशं प्रापयितं चतुर्थं राष्ट्रं भविष्यति भारतम् इति केन्द्रमन्त्रिणा रविशङ्करप्रसादेन निगदितम्।  गगनयानपरियोजनया ये बहिराकाशं प्राप्नुवन्ति ते 'व्योम्नोट्स्' [व्योमकीर्तिः] इति कथयिष्यन्ते। 
  भारतस्य स्वतन्त्रतादिनसन्देशे प्रधानमन्त्रिणा नरेन्द्रमोदिना परियोजनेयं प्रख्यापिता आसीत्। पूर्वं बहिराकाशं प्रति मानवसञ्चारं साधितानि राष्ट्राणि यू एस्, रूस् , चीना  च भवन्ति।
तलाखत्रितयविधेयकं लोकसभामतीतम्। 
  नवदिल्ली  >  इस्लामपुरुषैः तलाखवचनं युगपदेव त्रिवारमुच्चार्य वैवाहिकबन्धनिरासः  ‍दण्ड्यापराधं कर्तुमुद्दिश्य केन्द्रसर्वकारेण समर्पितं विधेयकं लोकसभायाम् उत्ततार। नियममुल्लंङ्ख्यमाणस्य पुरुषस्य संवत्सरत्रयाणां कारागारदण्डनमेव विधायके अपराधकत्वव्यवस्था। एकादशं विरुध्य २४५ मतदानानि स्वीकृत्य एव विधेयकं विजयपदं प्राप्तम्।

Friday, December 28, 2018

स्फोटनपरम्परां लक्ष्यीकृत्यस्फोटनपरम्परां लक्ष्यीकृत्य प्राप्ताः दश भीकराः गृहीताः।
नवदिल्ली  >  भारतस्य प्रमुखान् हन्तुं विविधस्थानेषु स्फोटनं कर्तुं च निगूढं प्रयतितवन्तः दश भीकराः 'एन् ऐ ए' संस्थया गृहीताः। आगोलभीकरसंस्थातः ऐ एस् नामिकातः प्रचोदनेन रूपवत्कृतायां 'हर्कत् उल् हर्ब् ई इस्लाम्' इत्यस्यां संस्थायां अङ्गाः भवन्ति निगृहीताः। राष्ट्रिय  स्वयं सेवकसंघस्य कार्यालयं दिल्ली आरक्षकास्थानं च  आक्रमितुं ते उत्सहन्ते स्म इति सूच्यते। एतेभ्यः २५ किलोपरिमितः स्फोटकवस्तुसञ्चयः सप्त भुशुण्डयः, प्रादेशकनिर्मितं 'रोक्कट् लोञ्चर्', शताधिकाः जङ्गमदूरवाण्यः , नालिकाबोम्बनिर्माणसामग्र्यः इत्यादयः अपि गृहीताः।
   गृहीताः भीकराः विशदान्वेषणाय देशीयान्वीक्षणसंस्थायाः [एन् ऐ ए] सकाशं नीताः। प्राप्ताः दश भीकराः गृहीताः।

TRAI एतेन दूरदर्शनस्य नवकेबल योजना प्रतिबन्धिता।
-साक्षी चौरसिया
    नवदेहली (टेक डेस्क) > TRAI (Telecom Regulatory Authority of India) एतेन नवकेबलदूरदर्शनस्य नियमान्  अनवरतकालपर्यन्तं स्थगितम्। एतस्मात् पूर्वं,  नवनियमानां व्यवस्थितस्यावधि: दिसम्बरमासस्य एकोनत्रिंशत्तम: दिनाङ्क: आसीत्। इत्यस्यार्थः केबल टीवी (दूरदर्शने) मानके पञ्चाशत्-षष्टि: प्रतिशतस्य (५०-६०℅) लाभः आसीत्। किंतु इतःपरं एवं न भविष्यति।। TRAI एतेन सर्वे केबल ऑपरेटर्स, ब्रॉडकास्टर्स तथा च उपभोक्तारः सूचिताः, यत् - नवकेबल दूरदर्शनस्य नियमा: स्थगिताः। इदं स्थगनं कदा समापयिष्यति अधुना सूचना नास्ति। इत्यस्य अर्थः अस्ति यत् नवनियमानां व्यवस्थापनस्य योजना अनिश्चितकालावधिः पर्यन्तं वर्धितम्।

    TRAI, एतेनोक्तं यत् नव "माइग्रेशन प्लान" आनेष्यत्। येन केबल टीवी ऑपरेटर्स्, ब्रॉडकास्टर्स् तथा च उपभोक्‌तॄणां  कृते परिवर्तने सरलता भविष्यति।  TRAI एतेनोक्तं यत् अस्याः योजनायाः कार्यान्वयस्य समये दूरदर्शनसेवायां कापि बाधा नागमिष्यति। अयं कार्यान्वयनं समीचीनतया भवेत् एतदर्थं "डिटेल माइग्रेशन प्लान" इत्यस्योपरि कार्यं प्रचलति ।
२० दिवसीया संस्कृतसम्भाषणकक्ष्या समायोजिता।
 -पुरुषोत्तमशर्मा
     नवदेहली> राजधान्यां नवदिल्ल्याम् अशोकविहार फेस-II इत्यत्र राजकीयोच्चतर-माध्यमिक-बालविद्यालये संस्कृत क्लब इत्यनया परिषदा २० दिवसीया संस्कृतसम्भाषणकक्ष्ष्या समायोजिता। अस्यां कक्षायां विद्यालयस्य छात्रै: व्यावहारिकसंस्कृतसम्भाषणाभ्यास: प्राप्त:। संस्कृतसम्भाषणे प्रशिक्षकाभ्यां नितेशझा अतुलशुक्लाभ्यां च छात्रेभ्य: सम्भाषणाभ्यास: कारित:। विगतेह्नि सम्भाषणकक्षाया: समारोपकार्यक्रम: समायोजित:। समापनसमारोहे छात्रै: संस्कृतभाषायां विविधकार्यक्रमा: प्रस्तुता:। अत्रावसरे विद्यालयप्रमुखेण प्रतिभागिभ्यो छात्रेभ्य: उपायनानि प्रमाणपत्राणि च वितरितानि। विभागीयै: शिक्षकै: पदक्षेपोयं प्रतिवर्षमायोजयितुं सङ्कल्पितम्। प्रतिभागिभि: संस्कृतभाषायां नृत्याभिनयगीतसङ्गीतपरा: कार्यक्रमा: प्रस्तुता:।

Thursday, December 27, 2018

संस्कृतभारत्याः आवास सम्मेलनस्य उद्घाटनं केन्द्रीय-पर्यावरण-प्रौद्योगिकीमंत्री डॉ. हर्षवर्धन: करिष्यति
     दिल्ली> संस्कृतभारत्याः त्रिदिवसीय आवास सम्मेलनस्य उद्घाटनं केन्द्रीय-पर्यावरण-प्रौद्योगिकीमंत्री डॉ. हर्षवर्धन: करिष्यति। दक्षिणीदेहल्या: श्रीलालबहादुरशास्त्री राष्ट्रिय-संस्कृतविद्यापीठे कटवारियासराय -नामकस्थाने त्रिदिवसीय-आवासीय-संस्कृतसम्मेलनस्य आयोजनं भविष्यतिI आवासीय प्रान्त-सम्मेलने संस्कृतभारती देहल्या: 500 कार्यकर्तार:, संस्कृतविद्वान्सः संस्कृतानुरागिणश्च भागग्रहणं करिष्यन्ति। 
    दिसम्बरमासस्य 28 तमे दिनांके शुक्रवासरे सायंकाले 05:00 वादने संस्कृतप्रदर्शिन्या: उद्घाटनं कार्यक्रमः भविष्यति यस्मिन् संस्थानस्य कुलपतिः प्रो.पी.एन.शास्त्री,विद्यापीठस्य कुलपतिः प्रो.रमेशपाण्डेयः,यूजीसी संस्थानस्य निदेशकः डॉ. डी. पी. सिंहश्च करिष्यन्ति।
आन्ध्रप्रदेशाय उच्चन्यायालयः स्थापितः। 
 हैदराबाद्  >  आन्ध्रप्रदेशाय नूतनम्  उच्चन्यायालयं स्थापयितुं राष्ट्रपतिना विज्ञापनं घोषितम्। २०१९ जनुवरि प्रथमे दिनाङ्के उच्चन्यायालयस्य प्रवर्तनम् आरप्स्यते। न्यायमूर्तिः रमेश् रङ्गनाथः भविष्यति आन्ध्रस्य प्रथमः मुख्यन्यायाधिपः। अनेन आन्ध्रस्य तेलुङ्कानस्य च पृथक् पृथक् उच्चन्यायालयः संस्थापितः।
आचारसंरक्षणाय अय्यप्पज्योतिः

      अङ्कमाली > आचार-धर्मानुष्ठान संरक्षणाय शबरिगिरि कर्मसमितेः नेतृत्वे आकेरलम् अय्यप्पज्योतिः प्राकाशयत्I केरलस्य उत्तरभागतः होसङ्कटि श्रीधर्मशास्तृ मन्दिरात् दक्षिणजनपदम् कन्याकुमारी त्रिवेणीसङ्गमपर्यन्तम् राजमार्गेण तथा एम् सि मार्गेण च आसीत् ज्योतिर्ज्वालनम्। अपि च राष्ट्रान्तरेषु राज्यान्तरेषु ३००० केन्द्रेषु ज्योतिज्वालनम् अभवत्।

 शरणमन्त्रजपेन शसहस्रशः भक्ताः भागभाजः अभवन्I मार्गपार्श्वेवेषु षट्वादनतः सार्धषट्वावादनपर्यन्तमासीत्‌ ज्योति-प्रोज्वलनम्। 
अटलसंस्कृतसामान्यज्ञानप्रतियोगिता सम्पन्ना
     दिल्ली>आदरणीयस्य अटलबिहारीबाजपेई महोदयस्य जन्मदिवसस्योपलक्ष्ये संस्कृतरसास्वाद-संस्थायाः पक्षतः दिसम्बरमासस्य पञ्चविंशतितमे दिनाङ्के आमुखपटले "अटलसंस्कृत-सामान्यज्ञानप्रतियोगिताया:" विशालायोजनम् जातम्।
     प्रतियोगितायामस्यां प्रायशः पञ्चाशतधिकेकशतं जनानां प्रतिभागं जातम्। प्रथमे स्थाने गोरखपुरत: पंकज पाण्डेयः, द्वितीयस्थाने अहमदाबादतः सुमनलता शर्मा बधेका, तथा च तृतीयस्थाने चेन्नैतः आबु नुराईन् च आसन्।
    सर्वे प्रतिभागिनां कृते आदरणीय: डॉ॰ मदनमोहन  उपहारस्वरूपेण पुस्तकानि प्रेषयिष्यन्ति इति आयोजकैः उच्यते। अस्यां प्रतियोगितायां आयोजिकाया: भूमिकायां साक्षी चौरसिया, निर्णायकरूपेण निरुपमा प्रधान, आंचल गर्गः तथा च जगदीश डाभी आसन्। संस्कृतरसास्वाद-संस्थाया: संस्थापकः अमित ओली महोदयेन सर्वेषां प्रतिभागिनां कृते शुभाशया: प्रदत्ताःताः၊

Wednesday, December 26, 2018

केन्द्रीयमाध्यमिकशिक्षाभिकरणेन वार्षिकपरीक्षाय विवरणमुद्घोषितम्
-पुरुषोत्तमशर्मा
   नवदेहली > सी.बी.एस.ई इति केन्द्रीयमाध्यमिकशिक्षाभिकरणेन दशम द्वादश कक्षयो: वार्षिकपरीक्षाया: विवरणम् उद्घोषितम्। एकमासात्मके काले परीक्षा: भविष्यन्ति। द्वादश कक्षाया: प्रथमा परीक्षा मार्चमासस्य द्वितीये दिने प्रारभ्य अप्रैलमासस्य द्वितीयदिनं यावत् प्रचलिष्यति। अपरत्र दशम कक्षाया: परीक्षा: चलेगी मार्चमासस्य सप्तमदिनाङ्कात् सप्तविंशति: दिनाङ्कंयावत् भविष्यन्ति। अस्मिन् वर्षे विषयद्वस्य कृते नाधिकावकाशो विद्यते।
प्रधानमन्त्रिणा नरेन्द्रमोदिना  राष्ट्रस्य सर्वप्रथमस्य बृहद् रेल-लोह-मार्ग-सेतु-बोगीबीलः राष्ट्राय समर्पितम्।
 -साक्षी चैरसिया
  नवदेहली, गुवाहाटी > प्रधानमंत्रिणा नरेन्द्रमोदिना मङ्गलवासरे देशस्य सर्वाधिक बृहद् रेल-लौह-मार्ग-सेतु-बोगीबील इत्यस्य उद्घाटनं कृतम्।  तेन सह असम राज्यस्य मुख्यमंत्री सर्वानन्द सोनोवाल: अपि उपस्थितः आसीत्। अस्य सेतोः निर्माणं असमराज्यस्य डिब्रूगढ़ क्षेत्रे जातम्। तथा च ब्रह्मपुत्र-नद्या: उत्तरी तथा दक्षिणी तटयोः योजनं भवति । सेतोः अयतिः (length) चतुर्दशमलव चतुर्नवति (4.49) किमी॰ अस्ति।  दिसम्बरमासस्य पञ्चविंशति तमे दिनाङ्के सर्वकारः "सुप्रशासन दिवसः" (Good governence day) इति आचरति। अस्मिन्नेवावसरे पूर्वप्रधानमंत्रिणा "एचडी देवगौड़ा" महोदयेन सेतोः शिलान्यासः कृतः आसीत्।  द्वयाधिकद्विसहस्रतमे वर्षे अटलबिहारीबाजपेई सर्वकारेण  सेतोः निर्माणमारम्भ: अभवत्।  सेतोः निर्माणकार्ये विंशत्यधिक-नवशतोत्तर-पञ्चसहस्रम् (5920) कोटि रुप्यकाणि व्ययमभवत्। गत षोडशवर्षेषु सेतोः निर्माणस्य पूर्णता बहुवारं निर्णीय पुनर्निर्णीता। तथा अस्मिन् सेतौ प्रथमभारवाहनं दिसम्बरमासस्य तृतीयदिनाङ्के प्राचलत्। बोगीबील  अरुणाचलप्रदेशत: सटीचीन-सीमा पर्यन्तं  विकासपरियोजनां उद्दिश्य सेतुः निर्मितः वर्तते
संस्कृताभियानम्

     नमस्ते, माध्यमिकविद्यालयेषु ये छात्रा: संस्कृतं स्वीकुर्वन्ति ते अङ्कप्राप्त्यर्थं संस्कृतं स्वीकुर्वन्ति इति वयं संस्कृतज्ञा: एव प्रचारं कुर्वन्त: स्म: एव। किञ्च, विंशते: अङ्कानां पञ्चाशत: अङ्कानां वा संस्कृतं पठ्यते चेत्, 'कुञ्चिका'पुस्तकस्य आधारेण परीक्षार्थं लिख्यते चेत्, अन्यविषयशिक्षकै: संस्कृतं पाठ्यते चेच्च, तया रीत्या पठितवतां छात्राणां किं वा संस्कृतज्ञानं भवेत्? परं विद्यालये पदरक्षणाय छात्रसंख्या तु आवश्यकी एव!  पञ्चाशतधिकवर्षेभ्य: एषा स्थिति: अनुवर्तते स्म इति कारणात् तया रीत्या पठितवन्त: एव अद्य बहव: शिक्षका: सन्ति देशे सर्वत्र! मित्राणि, शिक्षकाणामेव स्तर: एवम् अस्ति चेत् किं पुन: छात्राणाम्!! "संस्कृतभारतं समर्थभारतम् " । जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः ।

Tuesday, December 25, 2018

अर्द्रामहोत्सवदर्शनाय नूतनाः सुविधाः आयोजिताः। भक्तजनप्रवाहः अत्यभूतपूर्वः

  कालटी> तिरुवैराणिक्कुलं महादेव मन्दिरे अर्द्रामहोत्सवदर्शनाय नूतनाः सुविधाः आयोजिताः। भक्तजन प्रवाहः अत्यभूतपूर्वः तथापि विना विलम्बम् ईश्वरदर्शनाय अवसरः अस्ति। 'वेर्च्वल् क्यू', उपरितलपथं च यथार्हं योजयित्वा  आदर्शरूपेण सम्मर्दान् नियन्त्रितुं सक्षमा अभवत् देवालयसमितिःl  पङ्क्तिषु स्थीयमानान् भक्तान् आतपात् त्रातुं पर्णैः आतपत्राणं निर्मितम् अस्ति। भक्तानां सुरक्षायै निरीक्षणछायाग्राहिण्यः स्थापिताः सन्ति। सर्वेषां कृते  घृतयवागू, शुद्धजलं लघु भोजनं च  विना शुल्कं दीयन्ते। उष्‌ण रक्षायैः पर्णत्राणे विद्युत् व्यजनानि च संस्थापितानि। अतः सर्वेषां क्लेशं विना मन्दिरं प्राप्तुं शक्यते इति मन्दिर समितेः अध्यक्षः अकबूर् कुञ्ञनियन् नम्पूतिरिप्पाट् महोदयेन उक्तम्। सुगमदर्शनाय नूतन सुविधाः अत्युपकारकाः भवन्ति इति समितेः  सचिवः रातुल् रां महोदयेन च उक्तम्।
चलचित्र-वार्ता:
राकेश शर्मामहोदयस्य बायॉपिक-चलचित्रे कार्यं  करिष्यति शाहरुख खान:
-वार्ताहर: जगदीश: डाभी
   मुम्बई> प्राप्तनूतनावार्तानुसारम् इदानीं बॉलीवुड-तारक: शाहरुख खान: अंतरिक्ष-यात्री राकेश शर्मामहोदयस्य बायॉपिक-चलचित्रे कार्यं  करिष्यति। गतदिने शाहरुख खानस्य 'जीरो' चलचित्रं प्रेक्षागृहेषु प्रसारितं जातम् । यदा नूतनावार्तानुसारं शाहरूख: अधुना  ‘सारे जहां से अच्छा’ चलचित्रस्य निर्माणं करिष्यति। इदं चलचित्रं भारतस्य प्रथमस्य अन्तरिक्ष-यात्रिकस्य राकेशशर्मामहोदयस्य जीवनम्  आधारीकृत्य अस्ति। ‘सारे जहां से अच्छा’ इति चलचित्रस्य निर्देशनं महेश मत्ताई करिष्यति ।
आलोकम् अद्य क्रिस्तुमस् आघुष्यते ; देवालयेषु सविशेषाः प्रार्थनाकार्यक्रमाः। 
 कोच्ची  >  प्रेमस्य शान्तेः च सन्देशं प्रवदन्  लोके सर्वत्र क्रिस्तुमस् आघुष्यते। लोकशान्तिदूतस्य  येशुदेवस्य  जन्मदिने अस्मिन्दिने क्रिस्तीयदेवालयेषु सविशेषाः आराधनाकार्यक्रमाः प्रार्थनाश्च आयोज्यन्ते। 
  वत्तिक्काने 'सेन्ट् पीटेर्स् बसलिक्का' देवालये सम्पन्ने प्रार्थना कार्यक्रमे फ्रान्सिस् मार्पाप्पावर्यः मुख्यकार्मिकत्वमवहत्। ललितजीवनं नेतुं सर्वे प्रयतितव्याः अशरणाः अनशननाः आर्ताश्च न विस्मर्तव्याः इति क्रिस्मस् सन्देशे तेनोक्तम्।
नवाज़ शरीफाय भ्रष्टाचारस्य आरोपे सप्तवर्षस्य कारावासः I
-साक्षी चौरसिया
       इस्लामाबाद्> पाकिस्तानस्य भ्रष्टाचारविरुद्ध-न्यायालयेन (एंटी करप्शन कोर्ट) भूतपूर्व प्रधानमन्त्रिणं नवाजशरीफं भ्रष्टाचारस्य आरोपे सप्तवर्षस्य कारावासः दण्डितः। अपि च सः पञ्चविंशतिलक्षं डॉलर् (प्राय: पञ्चसप्ताधिकेकशत कोटि रुप्यकाणि) धनेन  च दण्डितः। सोमवासरे एतद्दण्डं "अल अजीजिया स्टील मिल्स" आरोपे दत्तम्। "फ्लैगशिप इन्वेस्टमेंट्स्" एतेन समन्वितः एकस्मिनारोपे सः मुक्तीकृतः। एतस्मात् पूर्वस्मिन्नैव वर्षे जुलाईमासे लन्दनदेशस्य अवेनफील्ड स्थितं चतुर्भवनैः समन्वितायां समस्यायां नवाजशरीफं दशवर्षस्यः दण्डः निर्धारितः आसीत्। अस्मिन्नपराधे इस्लामाबादस्य उच्चन्यायालयेन सितम्बरमासे एव तं दण्डान्मुक्तं कृतं तथा च तस्य दण्डः अपसारितः।