OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 23, 2018

हट्टतालं प्रति सहयोगो न भविष्यति - संयुक्तकर्मसमितिः! 
  कोच्ची   >  इतःपरं हट्टतालं नाम आन्दोलनरीतिं प्रति सहयोगस्य आवश्यकता नास्तीति केरलस्य ४२ संस्थानां संयुक्तोपवेशनं - संयुक्तकर्मसमितिः - निर्णयं कृतवत्। केरले पदे पदे जायमानेषु हट्टतालेषु   बह्व्यः कर्मकर-व्यापार-वाणिज्योद्योगसंस्थाः अस्वस्थाः असंतृप्ताश्च आसन्। अत एव 'बट्टर् कोच्चिन् रस्पोण्स् ग्रूप्' इत्याख्यायाः संस्थायाः नेतृत्वे ४२ संस्थाः मिलित्वा ऐककण्ठ्येन एतादृशं निर्णयं स्वीकृतवत्यः। 
  तासां इतरे निर्णयाः निर्देशाश्च -  हट्टतालं विरुध्य जनानां अवबोधाय सामाजिकमाध्यमद्वारा प्रचरणकार्यक्रमाः आयोजयिष्यन्ते। २०१९तमः संवत्सरः हट्टतालरहितः भवितुं सर्वकारप्रयत्नः भवितव्यः। विद्यालयाः कलाशालाश्च प्रवर्तननिरताः भवेयुः। वाहनानि सेवानिरतानि भवितव्यानि।
तिरुवैराणिकुळं महादेवमन्दिरम् आर्द्रामहोत्सवाय समुद्घाटितम्
आद्रामहोत्सवस्य शुभारम्भः अभवत्‌ 

   कोच्ची> सुप्रसिद्धं तिरुवैराणिकुळं महादेवमन्दिरम् आर्द्रामहोत्सवाय समुद्घाटितम् । प्रति संवत्सरम् आद्रा नक्षत्रात्  १२ दिनानि एव भवन्ति पार्वती मन्दिरस्य समुद्घाटनम् इत्यस्ति अत्रत्‍याः विशेषता | केरले एरणाकुलं जनपदे आलुवादेशस्य प्रान्ते पूर्णानद्याः तीरे भवति मन्दिरमिदम्। पार्वती परमेश्वरौ अत्र विपरीमुखौ भूत्वा वर्तेते। गृहस्थाश्रमं प्रवेष्टुं तत्पराः युवत्यः युवानश्च स्वस्य अभीष्टस्य सफलतायै अत्र आगत्य जगदम्बायाः पार्वत्याः पुरतः कैशेयं ताललिः च समर्प्यते चेत्  एक संवत्सराभ्यन्तरेण विवाहः भविष्यति इत्यस्त्ति विश्वासः। राज्यान्तरादपि जनाः आगच्छन्तिl
अतिशैत्येन कम्पते  उत्तरभारतम्,  
काश्मीरे अतिकठिनशीतस्य समयः आरब्ध:। 
-साक्षी चौरसिया
    नवदेहली > देहलीसमवेतं समस्तोत्तरभारतम् अतिकठिनशैत्येन  प्रभावोऽस्ति। देशस्य राजधान्यां देहल्यां न्यूनतमं तापमानं पञ्च डिग्री सेल्सियस् इति अङ्कितमस्ति। यद्यपि काश्मीरे चत्वारिंशत्दिवसाणां अत्यधिक शैत्यस्य ऋतुः "चिल्लईं कलां" आरब्ध:। राष्ट्रियराजधान्यां शुक्रवासरे न्यूनतमतापमाने कञ्चित् वर्धनं भूत्वा ४.७° डिग्री सेल्स्यस् अभवत्। इत: पूर्वं गुरुवासरे चत्वारः डिग्री सेल्सियस् इति तापमानेन सह अस्मिन् ऋतोः सर्वाधिकं शीतदिनमासीत्। वातावरण-विभागाधिकारिणोक्तम् यत् - शुक्रवासरे न्यूनतमं तापमानं ऋत्वानुसारेण त्रयः डिग्री न्यून: अभवत् तथा च प्रातः सार्धाष्ट वादने आर्द्रतायाः स्तरः प्रतिशतं नवाशीति  अङ्कितमभवत् ।
     काश्मीरे स्थानीया भाषायां "चिल्लई कलां" इति नाम्ना चत्वारिंशत् दिनानां सर्वाधिकं भीषणं शैत्यदिने शुक्रवासरे शुष्ककालेन समारब्धम्। सानु प्रदेशे  शैत्यप्रकोपः अधुना प्रचलति एव,  यतो हि राज्ये न्यूनतमं तापमानमत्याधिकं न्यूनमासीत्। वातावरण-विज्ञानविभागस्य अधिकारिभिः उक्तं यत् - "चिल्लई कलां" काले निरन्तरं हिमपातं भविष्यति। तथैव अधिकतमं तापमाने निरन्तरं ह्रास: भवत्येव। शुक्रवासरे चिल्लई कलां इत्यस्य प्रारम्भः जातः। 
   "चिल्लई कलां" इत्यस्यावधि: जनवरीमासस्य एकत्रिंशत् दिनाङ्के समाप्ता भविष्यति। किन्तु तस्मात्पश्चादपि काश्मीरे  अतिशैत्यस्य दुष्प्रभावः प्रचलिष्यन्ति।
२३ वस्तुनां जि.एस्.टि मानं लघूकृतम्। 
  नवदिल्ली >  नववत्सरादारभ्य त्रयोविंशति वस्तूनां पण्यसेवनकरमानं - जि एस् टि - लघूकरिष्यति। वित्तमन्त्रिणः अरुण् जय्ट् ली वर्यस्य आध्यक्षे संवृत्ते जि एस् टि समित्युपवेशने आसीदयं निर्णयः। 
   २८% करदायकानि  सप्त उत्पन्नानि करदायकत्वात् पूर्णतया अपाकृतानि। उच्चतमं २८%करमानं आडम्बरवस्तूनां कृते अवधीकर्तुं निर्णयमभवत्! इदानीं प्रतिशतं पञ्च इति माने करदायकानि शाकानि शीतीकृतशाकानि च करदायित्वात् अपाकृतानि।
कुजग्रहे खनीभूतं जलं दृष्टम्।

  लण्टन् > कुजग्रहे जलमस्ति वा? इति प्रश्नस्य  उत्तरं सन्दृष्टम्I खनीभूतः जलसञ्चयः अस्ति इति। यूरोप् बाह्याकाश संस्थायाः मार् एक्स्प्रस् ओर्बिट् इति संवीक्षणपेटकेन खनीभूतजल सञ्चयस्य चित्रं प्रेषितम्। महागर्ते हिमाच्छादितवत् भवति इदम्। कुजस्य उत्तरध्रुवे वर्तमाने कोरलोव् नाम गर्ते एव भवति  जलम्। ८१.४ कि०मी भवति गर्तस्य उपरितलव्यासः। एतावत् पर्यन्तम् अन्येषाम् उपग्रहाणम् अशक्यमासीत् इदं चित्रग्रहणम्।
   नास इति बाह्याकाशसंस्थया बहुवारं बहूनि चित्राणि प्रकाशितानि चेदपि एतादृशं चित्रं प्रप्रथमतया भवति। डिसम्बर् मासस्य पञ्चविशति तमे दिनाङ्के पञ्चदश संवत्सराणि पूर्णतया सेवाम्   अकरोत् मार् एक्स्प्रस् इति उपग्रहपेटकः।

Saturday, December 22, 2018

सङ्गणकयन्त्रेषु सर्वकारदृष्टिः। 
नवदिल्ली  >  राष्ट्रे यस्य कस्यापि पौरस्य सङ्गणकयन्त्रं, कुशलदूरवाणी , तेषाम् अन्तर्भूतं च निरीक्षितुं दश अन्वेषणसंस्थानां कृते केन्द्र गृहमन्त्रालयेन समन्पूर्णाधिकारः दत्तः। अवश्यं चेत् सङ्गणकयन्त्राणि संग्रहीतुमपि अधिकारः दत्तः। 
  पौरस्य स्वकीयताम् उद्घुष्टस्य सर्वोच्चन्यायालयविधेः प्रख्यापनादचिरादेव कृतं सर्वकारप्रक्रमं विरुध्य विपक्षदलानि एकीभूय प्रतिषेधः कृतः। राष्ट्रे 'आरक्षकशासनस्य' उद्यमः इति विपक्षनेतारः विमर्खितवन्तः। 
   राष्ट्रस्य परमाधिकाराय अखण्डतायै सुरक्षायै विदेशराष्ट्रैः सह  सौहृदाय च विघातभूतः पूर्वोक्तविषयेषु अपराधकृत्यानां कारणभूतः वा भविष्यतीति सर्वकारस्य आशङ्का अस्ति चेत् अयमधिकारः प्रसक्तः भवतीति एतस्य सर्वकारभाष्यम्।
सुस्थिरविकसनलक्ष्यं केरलाय हिमाचलप्रदेशाय च  सर्वश्रेष्ठपुरस्कारः। 
नवदिल्ली >  ऐक्यराष्ट्रसभायाः सहयोगेन भारतस्य 'नीति आयोग्' नामिकया संस्थया प्रकाशितायां सुस्थिरविकाससूचिकायां केरलराज्यं ६९ अङ्कैः प्रथमस्थानं प्राप्तवत्। स्वास्थ्यक्षेमौ, अनशनराहित्यं, लिङ्गसमत्वं, श्रेष्ठा शिक्षा, नूतनः उद्योगाशयः इत्येतेषु विभागेषु प्राप्तः गुणोत्कर्ष एव केरलस्य सर्वश्रेष्ठत्वस्य निदानम्। हिमाचलप्रदेशस्य तु शुद्धजलं शुचित्वं च, असमत्वन्यूनीकरणं, पर्वतीयप्रदेशेषु आवासव्यवस्थायाः संरक्षणम्, इत्येतेषु विभागेषु प्राप्तः गुणोत्कर्षः कारणमभवत्। 
   केन्द्रशासनप्रदेॉशेषु चण्डीगढेन प्रथमस्थानमवाप्तम्। सर्वश्रेष्ठत्वे तमिलनाडु राज्येन द्वितीयस्थानं प्राप्तम्।

Friday, December 21, 2018

नीति आयोगस्य परामर्शः - प्रार्थकानां अधिकाधिकायु: सप्तविंशतिः(२७) भवेत्।
-साक्षी चौरस्या
अधुना पौरसेवायां (in civil service) सामान्यवर्गाय अधिकाधिकायु: त्रिंशत्(३०) भवेत्।
आयोगस्य परामर्शः  —  पौरसेवायै केन्द्रकुशल सञ्चयस्य निर्माणं भवेत्।

 नवदेहली  —  केंद्रसर्वकारस्य थिंक टैंक इति नीत्यायोगेन जनसेवनव्यवस्थायां: (प्रशासनिकसेवाया:) परिवर्तनाय महत्तवपूर्णपरामर्शः दत्तः। आयोगस्य समर्थने जनसेवनव्यवस्थायै अधिकाधिकायु: सप्तविंशतीति अकथयत्। अधुना सामान्यवर्गस्य प्रार्थकानां कृते एपः अवधिः त्रिंशत् (३०)  अस्ति। सर्वकारेण उक्तं यत् - सर्वजनसेवनव्यवस्थायै सामान्यपरीक्षा भवेत्।  तथा च केन्द्र सञ्चयस्य (Central Pool )  निर्माणं कृत्वा प्रार्थकाणां कृते तेषां योग्यतानुसारेण निश्चितं दायित्वं देयम्।
छात्रा: जीवने उन्नतिम् इच्छन्ति चेत्  निष्कामरुपेण अध्ययनम् करणीयम् - स्वामी कौशलेन्द्रः।
-अभिषेक परगाँई
     हरियाणा > छात्रा: यदि जीवने उन्नतीम् इच्छन्ति चेत् अस्मिन् वयसि निष्कामरूपेण अध्ययनं  करणीयम्। तस्मात् भाविनिकाले परिश्रमस्य सुस्वादुफलम् आस्वादयितुं शक्यते। आयुर्वेदाचार्यस्वामिना श्रीमता कौशलेन्द्रवर्येण छात्रा: एवं उद्बोधिता:। हरियाणाराज्यस्थ झज्जरजनपदस्य श्री-सच्चा-अाध्यात्मशक्तिपीठ संस्कृतविद्यालये गीताजयन्तीम् उपलक्ष्यीकृत्य आयोजितानां विविधप्रतियोगितानां समापनसत्रे भाषमाणः आसीत् सः। 
     कार्यक्रमस्य अस्य सञ्चालनं व्याकरणप्राध्यापकेन श्रीमता राजेश पोखरिया वर्येण कृतम्। तथा धन्यवादज्ञापनं साहित्य अध्यापकेन श्रीमता गिरीशवर्येण च कृतम्। प्रतियोगितायां प्रथमपुरस्कार: आयुषमिश्रेण द्वितीयपुरस्कार: हर्षित तिवारि तृतीयपुरस्कार: अभिनवमिश्रेण च प्राप्तः।

Thursday, December 20, 2018

जिसाट् -७ भ्रमणपथं प्राप्तः

   विक्षेपणानन्तरं एकोनविंशतितमे निमेषे उपग्रहः भ्रमणपथं प्राप्तः इति इस्रो संस्थया उक्तम्। बुधवासरे सायं ४.१० वादने आसीत् विक्षेपः। ऐ एस् आर् ओ संस्थायाः ३५तमः उपग्रहः भवति जिसाट् -७। भारतव्योमसेनायाः कृते निर्मितः अयम् उपग्रहः स्थलसेनायैः च उपकरिष्यति।
आन्ध्रप्रदेशे  झंझावातस्य कारणेन  २८००० जनान्  १७८ सहायता केन्द्रं  प्रेषितम् ।
-साक्षी चौरसिया
   काकीनाडा > आन्ध्रप्रदेशस्य मन्त्रिरिणा पी॰ नारायणेन उक्तं यत् - फेथई झंझावातस्य कारणेन अष्टाविंशतिसहस्रं जनान् अष्टसप्तत्याधिक-एकशत सहायता-केन्द्रं प्रति प्रेषितम्। हुदहुद, तितली झंझावातस्य अपेक्षया फेथई झंझावातस्य गतिः अधिका नास्ति। तीरदेशघर्षणानन्तरं तस्य ताडनवेगः किञ्चित् मन्दीभूतः इति दृश्यते।  प्रभावितेषु क्षेत्रेषु शीघ्रातिशीघ्रं सहायतां प्रेषयिष्यति इति सर्वकारः  अकथयत्। एकोनविंशति ज्येष्ठाधिकारिणां  दृष्टि: समस्यानाम् उपरि अस्ति । विजयवाड़ा क्षेत्रे भूस्खलनस्य कारणेन एकः जनः मृतः।

नवनवति ग्रामेषु विद्युत् नास्ति।
मन्त्रिणा नारायणेन अवदत् यत् - झंझावातस्य कारणेन काकीनाडा स्थानसहितं आन्ध्रप्रदेशस्य नवनवति ग्रामेषु विद्युत् नास्ति। अधिकारिजनाः विद्युत् समस्यायाः समाधाने संलग्नाः। पञ्चाशताधिक स्थानेषु वृक्षपातस्य सूचना वर्तते। कर्मकराः वाहनगमनागमार्थं मार्गेषु व्यापृताः सन्तः व्यवस्थां कुर्वन्ति।

वंगसमुद्रकुक्षीतः उद्भूतेन फेथईनामक झंझावातेन सोमवासरे पञ्चपञ्चाशत् किमी॰ वेगेन आन्ध्रप्रदेशस्य गोदावर्याः नद्याः तटः  घट्टितः।  यतो हि किञ्चित् समयानन्तरं स:  झंझावात: शांत: अभवत्।  इत्यस्य गति: एकोनविंशति किमी॰ प्रति होरा एवावशिष्टा।  आंध्रप्रदेश, तेलंगाना, तमिलनाडु, ओडिशा, पूर्वी मध्यप्रदेश तथा छत्तीसगढ़े महती वृष्टिः अभवत्। बंगाले तथा झारखंडेऽपि वर्षायाः स्थितिः प्रतीयते। द्वयोः राज्ययोः शैत्ये वृद्धिः अनुभूयते ।


झंझावातस्य कारणेन चतुर्दशसहस्र हेक्टर क्षेत्रेषु सस्यावापाः नष्टाः।  षड्विंशतिसहस्र मेट्रिक् टण् उपधान्यानि अपि नष्टानि अभवन्। सर्वकारेण आन्ध्रप्रदेशे द्वाविंशतिः रेलयानानां स्थगनं कृतम्। विशाखापट्टण स्थानस्य वायुयानस्थाने विमानानां गमनागमनम् अवरुद्धम् अभवत्।  अत्र आगतानि सर्वाणि विमानानि हैदराबादं प्रति प्रेषितानि।

विद्यालयेषु द्वि-दिवसीय अवकाशः -
पूर्वगोदावर्याः जनपदे आपदं दृष्ट्वा विद्यालयानां द्वि-दिवसीय अवकाशः प्रदत्त:। आन्ध्रसर्वकारेण जनानां कृते "पीपुल फर्स्ट सिटीजन मोबाइल एप्लीकेशन" समारब्धम् । 

Wednesday, December 19, 2018

पञ्चशतसंवत्सरात्मकस्य दुराचारस्य आध्यात्मिकाचार्यानुशासनेन अन्त्यः।
कुक्के सुब्रह्मण्यमन्दिरे अनुवर्तितः 'मडे स्नान' आचारः। 
मङ्गुरुरु  >  उडुप्पी पेजावर् मठाधिपतेः विश्वेशतीर्थाचार्यस्य अनुशासनेन  पञ्चशतवर्षात्मकं दुराचारद्वयं स्मृतिपथं गच्छति। कुक्के सुब्रह्मण्यमन्दिरे चतुर्थी पञ्चमी षष्ठी तिथिषु त्वग्रोगनिवारणार्थमिति विश्वासेन  अनुवर्तमानौ  'मडे स्नान' , '‍एडे स्नान' इत्येतौ दुराचारावेव आचार्यकल्पनया नामावशेषौ भवतः।
  ब्राह्मणभुक्तोच्छिष्टेषु नीचजातीयजनैः कुर्वाणं घूर्णनकर्म भवति 'मडे स्नान'। अस्य प्राकृतकर्मणः नवरूपमस्ति 'एडे स्नान'। अर्थात् देवप्रसादनिवेदिते पत्रे अधःस्थितानां घूर्णनम्। कर्मणिद्वे अपि निरो़धयन्नेव पेजावरमठाधिपतेः अनुशासनम्। धर्माचारेभ्यः एतादृशाः कार्यक्रमाः नापेक्षिताः इति तेनोदीरितम्। एतन्निरोधः हैन्दवतां येन केनापि प्रकारेण न बाधते इति च प्रख्यापितम्।
   २०१२ तमे वर्षे परमोन्नतनीतिपीठेन दुराचारो$यं निरुद्धो$पि गूढतया अनुवर्तमानः आसीत्! वनवासिनः 'मलक्कुटिय' विभागाः एव एतदर्थमुत्सहन्ते स्म! २०१७तमे वर्षे उच्छिष्टपत्रलोठनं नीतिपीठेन पूर्णतया निरस्तम्! किन्तु नैवेद्यपत्रलोठनम् अनुवर्तते च! एतदेव विश्वेशतीर्थाचार्यस्य उपदेशेन निरुद्धम्।

Tuesday, December 18, 2018

केरले ३८६१ तत्कालिकाः बस्याननिर्वाहकाः पदविच्युताः। 
 अनन्तपुरी  > उच्चन्यायालयस्य अन्त्यशासनमनुृत्य केरले के. एस् .आर्. टि. सि संस्थायाः एकषष्ट्यधिकाष्टशतोत्तरसहस्रं तत्कालिकरूपेण नियुक्ताः निर्वाहकाः पदविच्युताः भूताः। विच्युत्यादेशः ह्य एव सर्वानपि संस्थाविभागान् प्रति प्रापयितः। 
    तथा च पि.एस्.सि संस्थया नियुक्त्युपदेशं प्राप्तवद्भ्यः ४०५१ उद्योगार्थिभ्यः नियुक्त्यादेशं दातुं के . एस्.आर्.टि.सि संस्थया प्रक्रमः आरभत। किन्तु एते परिशीलनान्तरं सेवां प्रवेष्टुं मासद्वयमावश्यमिति सूच्यते।
 गंगास्वच्छताया: विषये जागरूका: भवेम।
    हरिद्वारः> हरिद्वारस्थे श्री भगवानदास आदर्शसंस्कृतमहाविद्यालयीयैः छात्रैः  दिसम्बरमासस्य १७ सप्तदशे दिनांके सोत्साहं स्पर्शगंगादिवसस्य आचरणं कृतम्। कार्यक्रमस्यास्य आयोजनं प्रतिवर्षमपि राष्ट्रियसेवायोजनाया: सहयोगेन सोत्साहं क्रियते। कार्यक्रमस्यास्य मुख्योद्देश्यं वर्तते यत् समेपि नागरा: गंगास्वच्छताया: विषये जागरूका: भवन्तु इति। हायनेस्मिन् महाविद्यालयीयैः छात्रै: महाविद्यालयपरिसरात् गंगातटं यावत् शोभायात्रामाध्यमेन जना: प्रेरिता:। कार्यक्रमेस्मिन् कार्यक्रमाधिकारिणा डॉ वी के सिंहदेवमहोदयेन तथा च सह कार्यक्रमाधिकारिणा डॉ एस जी मञ्जुनाथ वर्येण छात्रा: गंगास्वच्छताविषये सम्बोधिता:। कार्यक्रमेस्मिन् श्री गरीबदासीयसंस्कृतमहाविद्यालयस्य प्राचार्यचरा: डॉ पद्म प्रसाद सुवेदी वर्या: अन्ये च समस्तमहाविद्यालयीयाः अध्यापका: छात्राश्च उपस्थिता: आसन्।        
-  वार्ताहरः अभिषेक परगाँई

Monday, December 17, 2018

भूपेशबघेलः छत्तीसगढस्य मुख्यमन्त्रिपदमारूढवान्।
   राय्पुरम्  >  छत्तीसगढ राज्यस्य मुख्यमन्त्रिपदे कोण्ग्रस् दलस्य राज्याध्यक्षः भूपेश् बघेलः अभिषिक्तः। पञ्चदशानां संवत्सराणां विरामानन्तरमेव कोण्ग्रस् दलस्य नेतृत्वे कश्चन सर्वकारः शासनं प्राप्नोति।
पि.वि. सिन्धुवर्यायै पिच्छकन्दुककिरीटम्। 
किरीटेन सह पि.वि.सिन्धू!


    ग्वाङ्षु  >  'वेल्ड् टूर्' नामिकायाः पिच्छकन्दुकक्रीडापरम्परायाः [बाड्ममिन्टण्] अन्तिमचक्रे भारतस्य पि वि सिन्धू सुवर्णकिरीटं प्राप्तवती। अस्याः क्रीडायाः चरिते इदंप्रथमतया एव भारताय प्रथमस्थानं प्राप्तम्। वेल्ड् टूर् क्रीडायां अन्तिमचक्रं विजितवत् प्रथमं भारतीयकायिकतारममभवत् पि.वि. सिन्धू। 
    वनितास्पर्धायाः एकले अष्टमस्थानीयां जापानस्य नोसोमि ओकुहारा नामिकां पराजित्य एव सिन्धोः
किरीटप्राप्तिः। 
निस्तन्त्री तरङ्गौषधालयस्य अन्तर्जालव्यापारः दिल्ली उच्चन्यायालयेन निरुद्धम्
        नवदिल्ली> निस्ततन्त्रीत्रीतरङ्गौषधालयस्य अन्तर्जालव्यापारः दिल्ली उच्चन्यायालयेन निरुद्धः। निरोधः, विना विलम्बं प्रबलं कर्तुं न्यायालयेन ए ए पि सर्वकारः निर्दिष्टः। प्रमुखः त्वग्रोगचिकित्‍सकस्य सहीर् अहम्मदस्य परिदेवने आदेशप्रदानावसरे न्यायाधीशेन राजेन्द्र मेनोनेन न्याय. वि के रावुणा च निरोधः आदिष्टः।  रुग्णानां सुरक्षां प्रबलीकर्तुं न शक्यते सर्वकारेण यतः बहुभिः औषधसंस्थाभिः अनुज्ञापत्रं विना विक्रयः प्रचाल्यन्ते इति न्यायालयेन निरीक्षितम्।

Sunday, December 16, 2018

मिसोरामे सोरामथङ्ग सर्वकारः अधिकारे।
 ऐसोल्  >  मिसोरामराज्ये 'मिसो नेषणनल् फ्रण्ट्' नामकदलस्य नेता सोरामथङ्गः इत्याख्यस्य नेतृत्वे द्वादशाङ्गयुक्तं मन्त्रिमण्डलं ह्यः  सत्यप्रतिज्ञामकरोत्। राज्यपालः कुम्मनं राजशेखरः शपथवाक्यं प्रतिज्ञापयत्। मिसो भाषया एव सर्वे शपथाचरणं कृतवन्तः।
   तृतीयवारमेव सोरामथङ्गः मुख्यमन्त्रिपदमवाप्नोति। पूर्वं १९९८ तमे , २००३ तमे संवत्सरे च सः मिसोरामस्य मुख्यमन्त्री आसीत्।