OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 20, 2018

जिसाट् -७ भ्रमणपथं प्राप्तः

   विक्षेपणानन्तरं एकोनविंशतितमे निमेषे उपग्रहः भ्रमणपथं प्राप्तः इति इस्रो संस्थया उक्तम्। बुधवासरे सायं ४.१० वादने आसीत् विक्षेपः। ऐ एस् आर् ओ संस्थायाः ३५तमः उपग्रहः भवति जिसाट् -७। भारतव्योमसेनायाः कृते निर्मितः अयम् उपग्रहः स्थलसेनायैः च उपकरिष्यति।
आन्ध्रप्रदेशे  झंझावातस्य कारणेन  २८००० जनान्  १७८ सहायता केन्द्रं  प्रेषितम् ।
-साक्षी चौरसिया
   काकीनाडा > आन्ध्रप्रदेशस्य मन्त्रिरिणा पी॰ नारायणेन उक्तं यत् - फेथई झंझावातस्य कारणेन अष्टाविंशतिसहस्रं जनान् अष्टसप्तत्याधिक-एकशत सहायता-केन्द्रं प्रति प्रेषितम्। हुदहुद, तितली झंझावातस्य अपेक्षया फेथई झंझावातस्य गतिः अधिका नास्ति। तीरदेशघर्षणानन्तरं तस्य ताडनवेगः किञ्चित् मन्दीभूतः इति दृश्यते।  प्रभावितेषु क्षेत्रेषु शीघ्रातिशीघ्रं सहायतां प्रेषयिष्यति इति सर्वकारः  अकथयत्। एकोनविंशति ज्येष्ठाधिकारिणां  दृष्टि: समस्यानाम् उपरि अस्ति । विजयवाड़ा क्षेत्रे भूस्खलनस्य कारणेन एकः जनः मृतः।

नवनवति ग्रामेषु विद्युत् नास्ति।
मन्त्रिणा नारायणेन अवदत् यत् - झंझावातस्य कारणेन काकीनाडा स्थानसहितं आन्ध्रप्रदेशस्य नवनवति ग्रामेषु विद्युत् नास्ति। अधिकारिजनाः विद्युत् समस्यायाः समाधाने संलग्नाः। पञ्चाशताधिक स्थानेषु वृक्षपातस्य सूचना वर्तते। कर्मकराः वाहनगमनागमार्थं मार्गेषु व्यापृताः सन्तः व्यवस्थां कुर्वन्ति।

वंगसमुद्रकुक्षीतः उद्भूतेन फेथईनामक झंझावातेन सोमवासरे पञ्चपञ्चाशत् किमी॰ वेगेन आन्ध्रप्रदेशस्य गोदावर्याः नद्याः तटः  घट्टितः।  यतो हि किञ्चित् समयानन्तरं स:  झंझावात: शांत: अभवत्।  इत्यस्य गति: एकोनविंशति किमी॰ प्रति होरा एवावशिष्टा।  आंध्रप्रदेश, तेलंगाना, तमिलनाडु, ओडिशा, पूर्वी मध्यप्रदेश तथा छत्तीसगढ़े महती वृष्टिः अभवत्। बंगाले तथा झारखंडेऽपि वर्षायाः स्थितिः प्रतीयते। द्वयोः राज्ययोः शैत्ये वृद्धिः अनुभूयते ।


झंझावातस्य कारणेन चतुर्दशसहस्र हेक्टर क्षेत्रेषु सस्यावापाः नष्टाः।  षड्विंशतिसहस्र मेट्रिक् टण् उपधान्यानि अपि नष्टानि अभवन्। सर्वकारेण आन्ध्रप्रदेशे द्वाविंशतिः रेलयानानां स्थगनं कृतम्। विशाखापट्टण स्थानस्य वायुयानस्थाने विमानानां गमनागमनम् अवरुद्धम् अभवत्।  अत्र आगतानि सर्वाणि विमानानि हैदराबादं प्रति प्रेषितानि।

विद्यालयेषु द्वि-दिवसीय अवकाशः -
पूर्वगोदावर्याः जनपदे आपदं दृष्ट्वा विद्यालयानां द्वि-दिवसीय अवकाशः प्रदत्त:। आन्ध्रसर्वकारेण जनानां कृते "पीपुल फर्स्ट सिटीजन मोबाइल एप्लीकेशन" समारब्धम् । 

Wednesday, December 19, 2018

पञ्चशतसंवत्सरात्मकस्य दुराचारस्य आध्यात्मिकाचार्यानुशासनेन अन्त्यः।
कुक्के सुब्रह्मण्यमन्दिरे अनुवर्तितः 'मडे स्नान' आचारः। 
मङ्गुरुरु  >  उडुप्पी पेजावर् मठाधिपतेः विश्वेशतीर्थाचार्यस्य अनुशासनेन  पञ्चशतवर्षात्मकं दुराचारद्वयं स्मृतिपथं गच्छति। कुक्के सुब्रह्मण्यमन्दिरे चतुर्थी पञ्चमी षष्ठी तिथिषु त्वग्रोगनिवारणार्थमिति विश्वासेन  अनुवर्तमानौ  'मडे स्नान' , '‍एडे स्नान' इत्येतौ दुराचारावेव आचार्यकल्पनया नामावशेषौ भवतः।
  ब्राह्मणभुक्तोच्छिष्टेषु नीचजातीयजनैः कुर्वाणं घूर्णनकर्म भवति 'मडे स्नान'। अस्य प्राकृतकर्मणः नवरूपमस्ति 'एडे स्नान'। अर्थात् देवप्रसादनिवेदिते पत्रे अधःस्थितानां घूर्णनम्। कर्मणिद्वे अपि निरो़धयन्नेव पेजावरमठाधिपतेः अनुशासनम्। धर्माचारेभ्यः एतादृशाः कार्यक्रमाः नापेक्षिताः इति तेनोदीरितम्। एतन्निरोधः हैन्दवतां येन केनापि प्रकारेण न बाधते इति च प्रख्यापितम्।
   २०१२ तमे वर्षे परमोन्नतनीतिपीठेन दुराचारो$यं निरुद्धो$पि गूढतया अनुवर्तमानः आसीत्! वनवासिनः 'मलक्कुटिय' विभागाः एव एतदर्थमुत्सहन्ते स्म! २०१७तमे वर्षे उच्छिष्टपत्रलोठनं नीतिपीठेन पूर्णतया निरस्तम्! किन्तु नैवेद्यपत्रलोठनम् अनुवर्तते च! एतदेव विश्वेशतीर्थाचार्यस्य उपदेशेन निरुद्धम्।

Tuesday, December 18, 2018

केरले ३८६१ तत्कालिकाः बस्याननिर्वाहकाः पदविच्युताः। 
 अनन्तपुरी  > उच्चन्यायालयस्य अन्त्यशासनमनुृत्य केरले के. एस् .आर्. टि. सि संस्थायाः एकषष्ट्यधिकाष्टशतोत्तरसहस्रं तत्कालिकरूपेण नियुक्ताः निर्वाहकाः पदविच्युताः भूताः। विच्युत्यादेशः ह्य एव सर्वानपि संस्थाविभागान् प्रति प्रापयितः। 
    तथा च पि.एस्.सि संस्थया नियुक्त्युपदेशं प्राप्तवद्भ्यः ४०५१ उद्योगार्थिभ्यः नियुक्त्यादेशं दातुं के . एस्.आर्.टि.सि संस्थया प्रक्रमः आरभत। किन्तु एते परिशीलनान्तरं सेवां प्रवेष्टुं मासद्वयमावश्यमिति सूच्यते।
 गंगास्वच्छताया: विषये जागरूका: भवेम।
    हरिद्वारः> हरिद्वारस्थे श्री भगवानदास आदर्शसंस्कृतमहाविद्यालयीयैः छात्रैः  दिसम्बरमासस्य १७ सप्तदशे दिनांके सोत्साहं स्पर्शगंगादिवसस्य आचरणं कृतम्। कार्यक्रमस्यास्य आयोजनं प्रतिवर्षमपि राष्ट्रियसेवायोजनाया: सहयोगेन सोत्साहं क्रियते। कार्यक्रमस्यास्य मुख्योद्देश्यं वर्तते यत् समेपि नागरा: गंगास्वच्छताया: विषये जागरूका: भवन्तु इति। हायनेस्मिन् महाविद्यालयीयैः छात्रै: महाविद्यालयपरिसरात् गंगातटं यावत् शोभायात्रामाध्यमेन जना: प्रेरिता:। कार्यक्रमेस्मिन् कार्यक्रमाधिकारिणा डॉ वी के सिंहदेवमहोदयेन तथा च सह कार्यक्रमाधिकारिणा डॉ एस जी मञ्जुनाथ वर्येण छात्रा: गंगास्वच्छताविषये सम्बोधिता:। कार्यक्रमेस्मिन् श्री गरीबदासीयसंस्कृतमहाविद्यालयस्य प्राचार्यचरा: डॉ पद्म प्रसाद सुवेदी वर्या: अन्ये च समस्तमहाविद्यालयीयाः अध्यापका: छात्राश्च उपस्थिता: आसन्।        
-  वार्ताहरः अभिषेक परगाँई

Monday, December 17, 2018

भूपेशबघेलः छत्तीसगढस्य मुख्यमन्त्रिपदमारूढवान्।
   राय्पुरम्  >  छत्तीसगढ राज्यस्य मुख्यमन्त्रिपदे कोण्ग्रस् दलस्य राज्याध्यक्षः भूपेश् बघेलः अभिषिक्तः। पञ्चदशानां संवत्सराणां विरामानन्तरमेव कोण्ग्रस् दलस्य नेतृत्वे कश्चन सर्वकारः शासनं प्राप्नोति।
पि.वि. सिन्धुवर्यायै पिच्छकन्दुककिरीटम्। 
किरीटेन सह पि.वि.सिन्धू!


    ग्वाङ्षु  >  'वेल्ड् टूर्' नामिकायाः पिच्छकन्दुकक्रीडापरम्परायाः [बाड्ममिन्टण्] अन्तिमचक्रे भारतस्य पि वि सिन्धू सुवर्णकिरीटं प्राप्तवती। अस्याः क्रीडायाः चरिते इदंप्रथमतया एव भारताय प्रथमस्थानं प्राप्तम्। वेल्ड् टूर् क्रीडायां अन्तिमचक्रं विजितवत् प्रथमं भारतीयकायिकतारममभवत् पि.वि. सिन्धू। 
    वनितास्पर्धायाः एकले अष्टमस्थानीयां जापानस्य नोसोमि ओकुहारा नामिकां पराजित्य एव सिन्धोः
किरीटप्राप्तिः। 
निस्तन्त्री तरङ्गौषधालयस्य अन्तर्जालव्यापारः दिल्ली उच्चन्यायालयेन निरुद्धम्
        नवदिल्ली> निस्ततन्त्रीत्रीतरङ्गौषधालयस्य अन्तर्जालव्यापारः दिल्ली उच्चन्यायालयेन निरुद्धः। निरोधः, विना विलम्बं प्रबलं कर्तुं न्यायालयेन ए ए पि सर्वकारः निर्दिष्टः। प्रमुखः त्वग्रोगचिकित्‍सकस्य सहीर् अहम्मदस्य परिदेवने आदेशप्रदानावसरे न्यायाधीशेन राजेन्द्र मेनोनेन न्याय. वि के रावुणा च निरोधः आदिष्टः।  रुग्णानां सुरक्षां प्रबलीकर्तुं न शक्यते सर्वकारेण यतः बहुभिः औषधसंस्थाभिः अनुज्ञापत्रं विना विक्रयः प्रचाल्यन्ते इति न्यायालयेन निरीक्षितम्।

Sunday, December 16, 2018

मिसोरामे सोरामथङ्ग सर्वकारः अधिकारे।
 ऐसोल्  >  मिसोरामराज्ये 'मिसो नेषणनल् फ्रण्ट्' नामकदलस्य नेता सोरामथङ्गः इत्याख्यस्य नेतृत्वे द्वादशाङ्गयुक्तं मन्त्रिमण्डलं ह्यः  सत्यप्रतिज्ञामकरोत्। राज्यपालः कुम्मनं राजशेखरः शपथवाक्यं प्रतिज्ञापयत्। मिसो भाषया एव सर्वे शपथाचरणं कृतवन्तः।
   तृतीयवारमेव सोरामथङ्गः मुख्यमन्त्रिपदमवाप्नोति। पूर्वं १९९८ तमे , २००३ तमे संवत्सरे च सः मिसोरामस्य मुख्यमन्त्री आसीत्।

Saturday, December 15, 2018

बालकान् प्रति अपराधकृत्यानि वर्धन्ते - केन्द्रसर्वकारः।
  नवदिल्ली> राष्ट्रे सर्वत्र बालकान् विरुध्य अतिक्रमाः अपराधाश्च वर्धयन्तः सन्त इति केन्द्रसर्वकारेण राज्यसभायामुक्तम्। एम् पि वीरेन्द्रकुमारस्य प्रश्नस्य प्रत्युत्तररूपेण केन्द्रवनिता-शिशुक्षेमसहमन्त्री डो. वीरेन्द्रकुमारः राज्यसभायामेवं प्रास्तौत्। 
  आराष्ट्रं २०१६ तमे वर्षे १,०६,९५८ व्यवहारैः १,०१,३६० अपराधिऩः ग्रहीताः। किन्तु २०१४ तमे वर्षे ८९,४२३व्यवहारेषु ९३,४६० जनाः अपराधित्वेन निग्रहीताः। लैङ्गिकातिक्रमेभ्यः बालकान् संरक्षितुं नूतननियमनिर्माणस्य आवश्यकता नास्तीति सर्वकारेणोक्तम्। इदानींतनदण्डनीतिव्यवस्थायामेव यथाशक्ताः नियमास्सन्तीति मन्त्रिणा उक्तम्।
मध्यप्रदेशे कमल् नाथः , राजस्थाने अशोक् गह्लोत् - कोण्ग्रस् मुख्यमन्त्रिणौ सगढ़े निर्णयः न अभवत्। 
    नवदिल्ली >  भाजपादलात् प्रत्यग्रहीतेषु त्रिषु राज्येषु द्वयोः कोण्ग्रस् मुख्यमन्त्रिणौ निर्णीतौ। मध्यप्रदेशे कोण्ग्रसः राज्याध्यक्षः कमलनाथः , राजस्थाने भूतपूर्वः मुख्यमन्त्री अशोक् गह्लोतः च मुख्यमन्त्रिपदे नियुक्तौ। राज्याध्यक्षाय सच्चिन् पैलट् वर्याय उपमुख्यमन्त्रिपदं दीयते च। 
  तीव्रानां वादप्रतिवादानां प्रतिषेधानामन्ते आसीत् एतादृशः निर्णयः कृतः। मुख्यमन्त्रिपदं लक्ष्यीकृत्य बहवः 'भैमीकामुकाः' राज्यद्वयस्यापि राजनैतिकक्षेत्रे आसन्। के सि वेणुगोपालः, ए के आन्टणी, मल्लिकार्जुन खार्गे इत्येतेषाम्  ए ऐ सि  सि निरीक्षकाणां  सान्निध्ये कोण्ग्रस् दलाध्यक्षस्य राहुलगान्धिनः भवने राहुल् गान्धी , सोणियागान्धी , प्रियङ्कागान्धी इत्येतैः सह होराभिः कृतायां चर्चायामेव अन्तिमनिर्णयः जातः। 
   किन्तु छत्तीसगढस्य मुख्यमन्त्रिपदं कस्मै इति अद्यैव उद्घोषणं भविष्यति। तत्र दलस्य राज्याध्यक्षः भूपेष् भागेल्, विपक्षनेता टि एस् सिंहदेवः , वरिष्ठनेता तामरध्वज साहुः इत्येते मुख्यमन्त्रिपदकांक्षिणः वर्तन्ते इति निर्णये सङ्कीर्णतां जनयति।
                                                 मध्यप्रदेशमुख्यमन्त्रिपदे नियुक्तः कमलनाथः।

राजस्थानस्य नियुक्तमुख्यमन्त्री अशोक गह्लोत् [वामपार्शे] उपमुख्यमन्त्री सच्चिन् पैलट् च कोण्ग्रस् अध्यक्षेण राहुल् गान्धिना सह। 
अस्य वर्षस्य ज्ञानपीठपुरस्कारः अमिताव् घोष् वर्याय लभते। 
     नवदिल्ली> कथाकाराय अमिताव् घोष् वर्याय  अस्यवर्षस्य ज्ञानपीठपुरस्कारः लभते।  ११ लक्षं रुप्यकाणि तथा प्रशस्तिपत्रं  शिल्पं च पुरस्कारे अन्तर्भवतः। ५४तम ज्ञानपीठपुरस्कारः भवत्ययम् । राष्ट्रस्य श्रेष्ठतमः साहित्यपुरस्कारः भवति अयम्।
       १९५६ तमे वर्षे वंगेदेशे लब्धजन्मः अयम् अमिताव् घोषः आङ्गलेय साहित्यद्वारा जनानां हृदयेषु लब्धस्थानीयः अभवत्। स्वस्य जन्मस्य अतिमहत्वतमं दिनं भवति इदम् इति पुरस्कारप्राप्तिमधिकृत्य वार्तां श्रुत्वा सः अवदत्।
 संस्कृताभियानम् 
-प्रा. डॉ. विजयकुमार: मेनन्
    नमस्ते, संस्कृतोज्जीवनकार्ये संस्कृतशिक्षकाणां पात्रम् अत्यन्तं निर्णायकम्। विद्यालयेषु शैक्षिकपरिवर्तनं, सामाजिकानां पाठ:, साहित्यनिर्माणम् इत्यादिषु सर्वेषु कार्येषु संस्कृतशिक्षकाणां भूमिका एव महत्वभूता। या हिब्रूभाषा 2300 वर्षाणि यावत् मृता आसीत् तस्या: पुनरुज्जीवनान्दोलनं 1880 तमे वर्षे आरब्धम्, 1925 तमवर्षपर्यन्तं सा हिब्रूभाषा सर्वदृष्टीभिः अपि व्यवहारभाषा,  जीवद्भाषा जाता आसीत्। तद् 45 वर्षात्मकम् आन्दोलनं यशस्वितया हिब्रूशिक्षका:  एव साधितवन्त: आसन्। मित्राणि, एवं संस्कृतान्दोलने अपि संस्कृतशिक्षका: एव सर्वकार्यसाधका:। 
जयतु संस्कृतम् जयतु भारतम्।

Friday, December 14, 2018

अन्ताराष्ट्रचलच्चित्रोत्सवः समाप्तः ; सुवर्णचकोरं इरानियन् चित्राय , रजतचकोरं केरलीयसंविधायकाय। 
अनन्तपुरी  >  त्रयोविंशः अन्ताराष्ट्रचलच्चित्रोत्सवः अनन्तपुर्यां समाप्तः। श्रेष्ठचित्राय दीयमानः सुवर्णचकोरपुरस्कारः 'दि डार्क् रूम्' [अन्धकारप्रकोष्ठः] नामकाय चित्राय लभते। रौहल्ला जहासी नामकः भवति अस्य चित्रस्य संविधायकः। श्रेष्ठसंविधायकरूपेण चितः केरलीयः लिजो जोस् पेल्लिश्शेरी नामकः रजतचकोरपुस्काराय अर्हति। "ई .म. यौ" नामकं कैरलीचित्रमेव तेन कृतम्।

Thursday, December 13, 2018

स्त्रीसुरक्षा- कार् याने शिशुकीलनं न आवश्यकम् - केन्द्रसर्वकारः।
   नवदिल्ली> आगामि वर्षादारभ्य भारते अवतार्यमाणेणु कार् यानेषु  शिशुकीलनं मास्तु इति केन्द्र सर्वकारेण निर्दिष्टाः। स्त्रीविरुद्धाक्रमणेषु सुविधेयं सुलभतया उपयुज्यते इति संवीक्ष्य भवति अयं निर्देशः। शिशुकीलनेन वाहनन्तर्भागात्  आपन्नात् आक्रमणात् स्वरक्षायै स्त्रियः अशक्ताः भवन्ति। राष्ट्रे दुरापन्ने विविधघटनाः संवीक्ष्य भवति सर्वकारस्य निर्देशः।
सामान्यप्रश्नः- स्त्रीसुरक्षा शिशुसुरक्षा च आवश्यकं किल ? 

Wednesday, December 12, 2018

विधानसभानिर्वाचनानि - कोण्ग्रस् दलस्य अधिरोहः ; भाजपा दलस्य अवरोहः। 
    > पञ्चसु राज्येषु त्रीणि कोण्ग्रस् दलाय , द्वे प्रादेशिकदलेभ्यः ।
   > छत्तीसगढ , मध्यप्रदेशः , राजस्थानं - भाजपा दलात् कोण्ग्रस् शासनाय। 
  > तेलुङ्काने पुनरपि टि अार् एस् दलम्। 
 > मिसोरामः कोण्ग्रस् दलात् स्रंसितः।
नवदिल्ली  >  आगामिनि  संवत्सरे सम्पद्यमानस्य लोकसभानिर्वाचनस्य प्रवेशद्वारे सम्पन्ने  विधानसभानिर्वाचनरूपे राजनैतिकद्वन्द्वयुद्धे कोण्ग्रस् दलं शक्तिं प्रादर्शयत्। छत्तीसगढ् , राजस्थानं , मध्यप्रदेशः इत्येतेषु राज्येषु राहुलगान्धिनः नेतृत्वे विद्यमानेन कोण्ग्रस् दलेन शासने वर्तमानात् भाजपादलात् शासनं स्वायत्तीकृतम्। किन्तु राजशासने वर्तमाने मिसोरामे कोण्ग्रसे शासनं विनष्टम्। तत्र 'एम् एन् एफ् ' [मिस्सो नाशणल् फ्रण्ट्] नामकदलेन कोण्ग्रस् अप्रतीक्षितेन अभिभूतम्। तेलुङ्कानराज्ये के चन्द्रशेखररावोः नेतृत्वे विराजमानं 'टि आर् एस्' [तेलुङ्काना राष्ट्र समितिः] दलं द्वितीयवारमपि शासनपदं प्राप।
    *राजस्थानं प्रत्यग्रहीत्।* गतवारे स्खलितं शासनम् अधुना बि जे पी दलात् कोण्ग्रस् प्रत्यग्रहीत्। विज्ञापितफलेषु १९९ स्थानेषु ९९ स्थानानि कोण्ग्रसा प्राप्तानि। भाजपेन ७३ मण्डलानि विजितानि।
  *छत्तीसगढे संपरिमार्जयत्।* भाजपायाः १५ संवत्सरात्मकस्य राजशासनस्य कोण्ग्रसः अन्त्योदकम्। नवत्याम् अष्टषष्टिः स्थानानि सम्प्राप्य कोण्ग्रसे अधिकारलब्धिः।
 *मध्यप्रदेशे शासनकोटिं प्राप्तम्।*   स्कन्धास्कन्धं प्रतियोगितायाः साक्षीभूते मध्यप्रदेशे त्रिंशत्यधिकद्विशतेषु चतुर्दशाधिकशतं स्थानानि सम्प्रापयत् कोण्ग्रस् शासनकोटिं प्राप्य तिष्ठति। न्यूनतमोपकण्ठात् द्व्यूनस्थानं कोण्ग्रस् इतरेषां साहाय्यं प्रतीक्ष्य वर्तते।
एस् बि ऐ ऋणस्य शिखावृद्धिः वर्धिता।
      अनन्तपुरी> भारतीय स्टेट् बैंक् द्वारा शिखावृद्धिः वर्धिता। पञ्च आधारबिन्दवः एव वर्धितः। डिसम्बर् मासस्य दशमदिनाङ्कतः वर्धितः शिखावृद्धिधिः प्रबलम् अभवत्। सकलकालीनानाम् ऋणानां शिखावृद्धिः प्रबला भवति। वर्षत्रयाणां प्रत्यर्पण समयपरिध्यां विद्यमानेभ्यः  ऋणस्य ८. ७० इत्यतः ८. ७५ इति भवति शिखावृद्धिः। एतदनुसृत्य भवन-वाहन ऋणानां प्रत्यर्पणभारः अधिकः भविष्यतिI 

Tuesday, December 11, 2018

ऊर्जितपट्टेलः त्यागपत्रं समर्पितवान् 
      नवदिल्ली> भारतीय रिज़र्व बैंक पालः ऊर्जित पट्टेलः त्यागपत्रं समर्पितवान् वैय्यक्तिक कारणेन एव स्थान त्यागः इति सः अवदत्। २०१६ सेप्तंबर् मासे उच्चतर वित्तकोशपाल रूपेण एषः नियुक्तः आसीत्। वित्तकोशस्य २४तमः अधिपः आसीत् सः। वर्षत्रयस्य नियुक्तिकालः २०१९ तमे सेप्तंबर् मासपर्यन्तमासीत्। १९९० तम संवत्सारानन्तरं निवृत्तकालात् पूर्वं परित्यक्तस्थानीयः वित्तकोशपालः भवति एषः। विविधेषु समस्यासु केन्द्रसर्वकारेण सह विप्रतिपत्तिः एव स्थानत्यागस्य कारणत्वेन उच्यते।