OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 18, 2018

 गंगास्वच्छताया: विषये जागरूका: भवेम।
    हरिद्वारः> हरिद्वारस्थे श्री भगवानदास आदर्शसंस्कृतमहाविद्यालयीयैः छात्रैः  दिसम्बरमासस्य १७ सप्तदशे दिनांके सोत्साहं स्पर्शगंगादिवसस्य आचरणं कृतम्। कार्यक्रमस्यास्य आयोजनं प्रतिवर्षमपि राष्ट्रियसेवायोजनाया: सहयोगेन सोत्साहं क्रियते। कार्यक्रमस्यास्य मुख्योद्देश्यं वर्तते यत् समेपि नागरा: गंगास्वच्छताया: विषये जागरूका: भवन्तु इति। हायनेस्मिन् महाविद्यालयीयैः छात्रै: महाविद्यालयपरिसरात् गंगातटं यावत् शोभायात्रामाध्यमेन जना: प्रेरिता:। कार्यक्रमेस्मिन् कार्यक्रमाधिकारिणा डॉ वी के सिंहदेवमहोदयेन तथा च सह कार्यक्रमाधिकारिणा डॉ एस जी मञ्जुनाथ वर्येण छात्रा: गंगास्वच्छताविषये सम्बोधिता:। कार्यक्रमेस्मिन् श्री गरीबदासीयसंस्कृतमहाविद्यालयस्य प्राचार्यचरा: डॉ पद्म प्रसाद सुवेदी वर्या: अन्ये च समस्तमहाविद्यालयीयाः अध्यापका: छात्राश्च उपस्थिता: आसन्।        
-  वार्ताहरः अभिषेक परगाँई

Monday, December 17, 2018

भूपेशबघेलः छत्तीसगढस्य मुख्यमन्त्रिपदमारूढवान्।
   राय्पुरम्  >  छत्तीसगढ राज्यस्य मुख्यमन्त्रिपदे कोण्ग्रस् दलस्य राज्याध्यक्षः भूपेश् बघेलः अभिषिक्तः। पञ्चदशानां संवत्सराणां विरामानन्तरमेव कोण्ग्रस् दलस्य नेतृत्वे कश्चन सर्वकारः शासनं प्राप्नोति।
पि.वि. सिन्धुवर्यायै पिच्छकन्दुककिरीटम्। 
किरीटेन सह पि.वि.सिन्धू!


    ग्वाङ्षु  >  'वेल्ड् टूर्' नामिकायाः पिच्छकन्दुकक्रीडापरम्परायाः [बाड्ममिन्टण्] अन्तिमचक्रे भारतस्य पि वि सिन्धू सुवर्णकिरीटं प्राप्तवती। अस्याः क्रीडायाः चरिते इदंप्रथमतया एव भारताय प्रथमस्थानं प्राप्तम्। वेल्ड् टूर् क्रीडायां अन्तिमचक्रं विजितवत् प्रथमं भारतीयकायिकतारममभवत् पि.वि. सिन्धू। 
    वनितास्पर्धायाः एकले अष्टमस्थानीयां जापानस्य नोसोमि ओकुहारा नामिकां पराजित्य एव सिन्धोः
किरीटप्राप्तिः। 
निस्तन्त्री तरङ्गौषधालयस्य अन्तर्जालव्यापारः दिल्ली उच्चन्यायालयेन निरुद्धम्
        नवदिल्ली> निस्ततन्त्रीत्रीतरङ्गौषधालयस्य अन्तर्जालव्यापारः दिल्ली उच्चन्यायालयेन निरुद्धः। निरोधः, विना विलम्बं प्रबलं कर्तुं न्यायालयेन ए ए पि सर्वकारः निर्दिष्टः। प्रमुखः त्वग्रोगचिकित्‍सकस्य सहीर् अहम्मदस्य परिदेवने आदेशप्रदानावसरे न्यायाधीशेन राजेन्द्र मेनोनेन न्याय. वि के रावुणा च निरोधः आदिष्टः।  रुग्णानां सुरक्षां प्रबलीकर्तुं न शक्यते सर्वकारेण यतः बहुभिः औषधसंस्थाभिः अनुज्ञापत्रं विना विक्रयः प्रचाल्यन्ते इति न्यायालयेन निरीक्षितम्।

Sunday, December 16, 2018

मिसोरामे सोरामथङ्ग सर्वकारः अधिकारे।
 ऐसोल्  >  मिसोरामराज्ये 'मिसो नेषणनल् फ्रण्ट्' नामकदलस्य नेता सोरामथङ्गः इत्याख्यस्य नेतृत्वे द्वादशाङ्गयुक्तं मन्त्रिमण्डलं ह्यः  सत्यप्रतिज्ञामकरोत्। राज्यपालः कुम्मनं राजशेखरः शपथवाक्यं प्रतिज्ञापयत्। मिसो भाषया एव सर्वे शपथाचरणं कृतवन्तः।
   तृतीयवारमेव सोरामथङ्गः मुख्यमन्त्रिपदमवाप्नोति। पूर्वं १९९८ तमे , २००३ तमे संवत्सरे च सः मिसोरामस्य मुख्यमन्त्री आसीत्।

Saturday, December 15, 2018

बालकान् प्रति अपराधकृत्यानि वर्धन्ते - केन्द्रसर्वकारः।
  नवदिल्ली> राष्ट्रे सर्वत्र बालकान् विरुध्य अतिक्रमाः अपराधाश्च वर्धयन्तः सन्त इति केन्द्रसर्वकारेण राज्यसभायामुक्तम्। एम् पि वीरेन्द्रकुमारस्य प्रश्नस्य प्रत्युत्तररूपेण केन्द्रवनिता-शिशुक्षेमसहमन्त्री डो. वीरेन्द्रकुमारः राज्यसभायामेवं प्रास्तौत्। 
  आराष्ट्रं २०१६ तमे वर्षे १,०६,९५८ व्यवहारैः १,०१,३६० अपराधिऩः ग्रहीताः। किन्तु २०१४ तमे वर्षे ८९,४२३व्यवहारेषु ९३,४६० जनाः अपराधित्वेन निग्रहीताः। लैङ्गिकातिक्रमेभ्यः बालकान् संरक्षितुं नूतननियमनिर्माणस्य आवश्यकता नास्तीति सर्वकारेणोक्तम्। इदानींतनदण्डनीतिव्यवस्थायामेव यथाशक्ताः नियमास्सन्तीति मन्त्रिणा उक्तम्।
मध्यप्रदेशे कमल् नाथः , राजस्थाने अशोक् गह्लोत् - कोण्ग्रस् मुख्यमन्त्रिणौ सगढ़े निर्णयः न अभवत्। 
    नवदिल्ली >  भाजपादलात् प्रत्यग्रहीतेषु त्रिषु राज्येषु द्वयोः कोण्ग्रस् मुख्यमन्त्रिणौ निर्णीतौ। मध्यप्रदेशे कोण्ग्रसः राज्याध्यक्षः कमलनाथः , राजस्थाने भूतपूर्वः मुख्यमन्त्री अशोक् गह्लोतः च मुख्यमन्त्रिपदे नियुक्तौ। राज्याध्यक्षाय सच्चिन् पैलट् वर्याय उपमुख्यमन्त्रिपदं दीयते च। 
  तीव्रानां वादप्रतिवादानां प्रतिषेधानामन्ते आसीत् एतादृशः निर्णयः कृतः। मुख्यमन्त्रिपदं लक्ष्यीकृत्य बहवः 'भैमीकामुकाः' राज्यद्वयस्यापि राजनैतिकक्षेत्रे आसन्। के सि वेणुगोपालः, ए के आन्टणी, मल्लिकार्जुन खार्गे इत्येतेषाम्  ए ऐ सि  सि निरीक्षकाणां  सान्निध्ये कोण्ग्रस् दलाध्यक्षस्य राहुलगान्धिनः भवने राहुल् गान्धी , सोणियागान्धी , प्रियङ्कागान्धी इत्येतैः सह होराभिः कृतायां चर्चायामेव अन्तिमनिर्णयः जातः। 
   किन्तु छत्तीसगढस्य मुख्यमन्त्रिपदं कस्मै इति अद्यैव उद्घोषणं भविष्यति। तत्र दलस्य राज्याध्यक्षः भूपेष् भागेल्, विपक्षनेता टि एस् सिंहदेवः , वरिष्ठनेता तामरध्वज साहुः इत्येते मुख्यमन्त्रिपदकांक्षिणः वर्तन्ते इति निर्णये सङ्कीर्णतां जनयति।
                                                 मध्यप्रदेशमुख्यमन्त्रिपदे नियुक्तः कमलनाथः।

राजस्थानस्य नियुक्तमुख्यमन्त्री अशोक गह्लोत् [वामपार्शे] उपमुख्यमन्त्री सच्चिन् पैलट् च कोण्ग्रस् अध्यक्षेण राहुल् गान्धिना सह। 
अस्य वर्षस्य ज्ञानपीठपुरस्कारः अमिताव् घोष् वर्याय लभते। 
     नवदिल्ली> कथाकाराय अमिताव् घोष् वर्याय  अस्यवर्षस्य ज्ञानपीठपुरस्कारः लभते।  ११ लक्षं रुप्यकाणि तथा प्रशस्तिपत्रं  शिल्पं च पुरस्कारे अन्तर्भवतः। ५४तम ज्ञानपीठपुरस्कारः भवत्ययम् । राष्ट्रस्य श्रेष्ठतमः साहित्यपुरस्कारः भवति अयम्।
       १९५६ तमे वर्षे वंगेदेशे लब्धजन्मः अयम् अमिताव् घोषः आङ्गलेय साहित्यद्वारा जनानां हृदयेषु लब्धस्थानीयः अभवत्। स्वस्य जन्मस्य अतिमहत्वतमं दिनं भवति इदम् इति पुरस्कारप्राप्तिमधिकृत्य वार्तां श्रुत्वा सः अवदत्।
 संस्कृताभियानम् 
-प्रा. डॉ. विजयकुमार: मेनन्
    नमस्ते, संस्कृतोज्जीवनकार्ये संस्कृतशिक्षकाणां पात्रम् अत्यन्तं निर्णायकम्। विद्यालयेषु शैक्षिकपरिवर्तनं, सामाजिकानां पाठ:, साहित्यनिर्माणम् इत्यादिषु सर्वेषु कार्येषु संस्कृतशिक्षकाणां भूमिका एव महत्वभूता। या हिब्रूभाषा 2300 वर्षाणि यावत् मृता आसीत् तस्या: पुनरुज्जीवनान्दोलनं 1880 तमे वर्षे आरब्धम्, 1925 तमवर्षपर्यन्तं सा हिब्रूभाषा सर्वदृष्टीभिः अपि व्यवहारभाषा,  जीवद्भाषा जाता आसीत्। तद् 45 वर्षात्मकम् आन्दोलनं यशस्वितया हिब्रूशिक्षका:  एव साधितवन्त: आसन्। मित्राणि, एवं संस्कृतान्दोलने अपि संस्कृतशिक्षका: एव सर्वकार्यसाधका:। 
जयतु संस्कृतम् जयतु भारतम्।

Friday, December 14, 2018

अन्ताराष्ट्रचलच्चित्रोत्सवः समाप्तः ; सुवर्णचकोरं इरानियन् चित्राय , रजतचकोरं केरलीयसंविधायकाय। 
अनन्तपुरी  >  त्रयोविंशः अन्ताराष्ट्रचलच्चित्रोत्सवः अनन्तपुर्यां समाप्तः। श्रेष्ठचित्राय दीयमानः सुवर्णचकोरपुरस्कारः 'दि डार्क् रूम्' [अन्धकारप्रकोष्ठः] नामकाय चित्राय लभते। रौहल्ला जहासी नामकः भवति अस्य चित्रस्य संविधायकः। श्रेष्ठसंविधायकरूपेण चितः केरलीयः लिजो जोस् पेल्लिश्शेरी नामकः रजतचकोरपुस्काराय अर्हति। "ई .म. यौ" नामकं कैरलीचित्रमेव तेन कृतम्।

Thursday, December 13, 2018

स्त्रीसुरक्षा- कार् याने शिशुकीलनं न आवश्यकम् - केन्द्रसर्वकारः।
   नवदिल्ली> आगामि वर्षादारभ्य भारते अवतार्यमाणेणु कार् यानेषु  शिशुकीलनं मास्तु इति केन्द्र सर्वकारेण निर्दिष्टाः। स्त्रीविरुद्धाक्रमणेषु सुविधेयं सुलभतया उपयुज्यते इति संवीक्ष्य भवति अयं निर्देशः। शिशुकीलनेन वाहनन्तर्भागात्  आपन्नात् आक्रमणात् स्वरक्षायै स्त्रियः अशक्ताः भवन्ति। राष्ट्रे दुरापन्ने विविधघटनाः संवीक्ष्य भवति सर्वकारस्य निर्देशः।
सामान्यप्रश्नः- स्त्रीसुरक्षा शिशुसुरक्षा च आवश्यकं किल ? 

Wednesday, December 12, 2018

विधानसभानिर्वाचनानि - कोण्ग्रस् दलस्य अधिरोहः ; भाजपा दलस्य अवरोहः। 
    > पञ्चसु राज्येषु त्रीणि कोण्ग्रस् दलाय , द्वे प्रादेशिकदलेभ्यः ।
   > छत्तीसगढ , मध्यप्रदेशः , राजस्थानं - भाजपा दलात् कोण्ग्रस् शासनाय। 
  > तेलुङ्काने पुनरपि टि अार् एस् दलम्। 
 > मिसोरामः कोण्ग्रस् दलात् स्रंसितः।
नवदिल्ली  >  आगामिनि  संवत्सरे सम्पद्यमानस्य लोकसभानिर्वाचनस्य प्रवेशद्वारे सम्पन्ने  विधानसभानिर्वाचनरूपे राजनैतिकद्वन्द्वयुद्धे कोण्ग्रस् दलं शक्तिं प्रादर्शयत्। छत्तीसगढ् , राजस्थानं , मध्यप्रदेशः इत्येतेषु राज्येषु राहुलगान्धिनः नेतृत्वे विद्यमानेन कोण्ग्रस् दलेन शासने वर्तमानात् भाजपादलात् शासनं स्वायत्तीकृतम्। किन्तु राजशासने वर्तमाने मिसोरामे कोण्ग्रसे शासनं विनष्टम्। तत्र 'एम् एन् एफ् ' [मिस्सो नाशणल् फ्रण्ट्] नामकदलेन कोण्ग्रस् अप्रतीक्षितेन अभिभूतम्। तेलुङ्कानराज्ये के चन्द्रशेखररावोः नेतृत्वे विराजमानं 'टि आर् एस्' [तेलुङ्काना राष्ट्र समितिः] दलं द्वितीयवारमपि शासनपदं प्राप।
    *राजस्थानं प्रत्यग्रहीत्।* गतवारे स्खलितं शासनम् अधुना बि जे पी दलात् कोण्ग्रस् प्रत्यग्रहीत्। विज्ञापितफलेषु १९९ स्थानेषु ९९ स्थानानि कोण्ग्रसा प्राप्तानि। भाजपेन ७३ मण्डलानि विजितानि।
  *छत्तीसगढे संपरिमार्जयत्।* भाजपायाः १५ संवत्सरात्मकस्य राजशासनस्य कोण्ग्रसः अन्त्योदकम्। नवत्याम् अष्टषष्टिः स्थानानि सम्प्राप्य कोण्ग्रसे अधिकारलब्धिः।
 *मध्यप्रदेशे शासनकोटिं प्राप्तम्।*   स्कन्धास्कन्धं प्रतियोगितायाः साक्षीभूते मध्यप्रदेशे त्रिंशत्यधिकद्विशतेषु चतुर्दशाधिकशतं स्थानानि सम्प्रापयत् कोण्ग्रस् शासनकोटिं प्राप्य तिष्ठति। न्यूनतमोपकण्ठात् द्व्यूनस्थानं कोण्ग्रस् इतरेषां साहाय्यं प्रतीक्ष्य वर्तते।
एस् बि ऐ ऋणस्य शिखावृद्धिः वर्धिता।
      अनन्तपुरी> भारतीय स्टेट् बैंक् द्वारा शिखावृद्धिः वर्धिता। पञ्च आधारबिन्दवः एव वर्धितः। डिसम्बर् मासस्य दशमदिनाङ्कतः वर्धितः शिखावृद्धिधिः प्रबलम् अभवत्। सकलकालीनानाम् ऋणानां शिखावृद्धिः प्रबला भवति। वर्षत्रयाणां प्रत्यर्पण समयपरिध्यां विद्यमानेभ्यः  ऋणस्य ८. ७० इत्यतः ८. ७५ इति भवति शिखावृद्धिः। एतदनुसृत्य भवन-वाहन ऋणानां प्रत्यर्पणभारः अधिकः भविष्यतिI 

Tuesday, December 11, 2018

ऊर्जितपट्टेलः त्यागपत्रं समर्पितवान् 
      नवदिल्ली> भारतीय रिज़र्व बैंक पालः ऊर्जित पट्टेलः त्यागपत्रं समर्पितवान् वैय्यक्तिक कारणेन एव स्थान त्यागः इति सः अवदत्। २०१६ सेप्तंबर् मासे उच्चतर वित्तकोशपाल रूपेण एषः नियुक्तः आसीत्। वित्तकोशस्य २४तमः अधिपः आसीत् सः। वर्षत्रयस्य नियुक्तिकालः २०१९ तमे सेप्तंबर् मासपर्यन्तमासीत्। १९९० तम संवत्सारानन्तरं निवृत्तकालात् पूर्वं परित्यक्तस्थानीयः वित्तकोशपालः भवति एषः। विविधेषु समस्यासु केन्द्रसर्वकारेण सह विप्रतिपत्तिः एव स्थानत्यागस्य कारणत्वेन उच्यते।
सौहृदमानेतुं सैनिकपरिशीलनम्
-बिजिलाकिषोरः
    नवदिल्ली > भारत-चीनयोः संयुक्तसैनिकाभ्यासः दिसंबर् ११ तः २३ पर्यन्तं प्रचलति। एकवर्षीयविरामानन्तरं उभयदेशयोः सप्ततमसैनिकाभ्यासः समारभ्यते। उभयतः शतं सैनिकाः कार्यक्रमेस्मिन् भागंवहन्ति। आतङ्गवादनिर्माजनाय हान्ट् इन् हान्ट् इति अभ्यासः सेनयोरुभयोर्मध्ये आयोचितः ।
       दोक् ला इति विषयेविद्यमान अनिष्टेन एकवर्षंयावत् सैनिकाभ्यासः  उपेक्षितः आसीत्। २०१७ तमे वर्षे ७३ दिनानि दोक् ला संघर्षविषये अनिष्टः प्रवृत्तः।

Monday, December 10, 2018

सार्वजनिक गतागतः सम्पूर्णतया शुल्करहितं कर्तुं लक्संबर्ग् राष्ट्रम् । 
    लक्संबर्ग्‌ सिट्टि> सार्वजनिक गतागतः सम्पूर्णतया शुल्करहितं क्रियमाणः विश्वस्य प्रप्रथमं राष्ट्रम् इति ख्यातिः    लक्संबर्ग् राष्ट्राय लभते। आगामि  ग्रीष्मकालादारभ्य रेल् बस् प्रभृतीनि लोकयानानि लक्संबर् जनेभ्यः निशुल्कम् उपयोक्तुम् शक्यते। कतिपयदिनात् पूर्वं  सावियर् बेट्टलस्य नेतृत्वे शासकपदम् आरूढः सर्वकारः एवं विशेषनिर्णयं  स्वीचकार। यूरोप् भूखण्डान्तर्गतस्य लघुराष्ट्रस्य गतागतसम्मर्दस्य परिहारं लक्ष्यीकृत्य भवति सर्वकारस्य नूतन परिष्कारःI
     फ्रान्स् जर्मनि, बेल्जियं इत्येतानि राष्ट्राणि आस्य सीमनि वर्तन्ते। लक्संबर नगरे १.१०लक्षं जनाः निवसन्ति। अस्मिन् नगरे कर्मचारि रूपेण ४ लक्षं जनाः प्रतिदिनम् आगमिष्यन्ति।
पलास्तिककूपीजलं त्यजामः, आरोग्यं संरक्षामः
-बिजिलिकिषोरः

 तिरुवनन्तपुरम् > जनुवरि प्रथमदिनाङ्कतः आरभ्य पलास्तिक कूप्यां विद्यमानजलं निरुद्ध्यते। काचकूप्यां जलं दातुं मलिनीकरणनियन्त्रणायोगेन  निर्दिष्टम्। नियमलंघकानाम् अनुज्ञापत्रस्य  निष्कासनं करिष्यतीति तैरुक्तं वर्तते। कूपीजल स्वीकरणाय  आर् ओ प्लान्ट्, रिवेय्स् ओफ् मोसिस् प्लान्ट्  एवं जलशू्द्धीकरणार्थं  संस्थां निर्मातुं च  निर्द्दिष्टम्।
        विनोदसञ्चारकेन्द्रेष्वपि पलास्तिकोत्पन्नानां निष्कासनं कर्तुं निर्दिश्यते। एवमेव आतुरालयेषु ५०० तः अधिकं मञ्जाः विद्यते चेत् पलास्तिकवस्तूनां नियन्त्रणमनिवार्यमिति तैरुक्तं वर्तते। भोजनशालास्वपि मलिनीकरण नियन्त्रणायोगेन व्यवस्था कल्पिता।

Sunday, December 9, 2018

मुख्यमन्त्री पिणरायी विजयः केन्द्रमन्त्री सुरेष्प्रभुश्च विमानाय उड्डयनानुमतिं ददतः।
कण्णूर्  अन्ताराट्रविमानपत्तनं राष्ट्राय समर्पितम्। 
कण्णूर्  >   केरलराज्यस्य चतुर्थम् अन्ताराष्ट्रविमानपत्तनं अद्य प्रभाते दशवादने राष्ट्राय समर्पितम्। अबुदाबीं प्रति सेवासन्नद्धं  'एयर् इन्डिया एक्स्प्रेस्' विमानं यदा आकाशम् उड्डयते स्म तदा उत्तरकेरलस्य विकासप्रतीक्षाः अपि  गगनपर्यन्तम् उड्डयते स्म। मुख्यमन्त्री पिणरायि विजयः तथा केन्द्र व्योमयानमन्त्री सुरेष् प्रभुश्च मिलित्वा डयनानुमतिं [फ्लाग् आफ्] दत्तवन्तौ। 
   २३००एकर् परिमिता अस्ति विमानपत्तनस्य आहत्य विस्तृतिः। ९७,०००चतु.मीटर् विस्तृतौ व्यापिते 'टेर्मिनल्' भवनसमुच्चये २४ परिशोधप्रवेशकद्वाराणि [check in counters] , यानि आवश्यानुसारं ४८ संख्यकानि कर्तुं शक्यानि विद्यन्ते। विमानानां धावनमार्गस्तु इदानीं ३०५० मीटर् दीर्घयुक्तः भवति । स तु ४,००० मी. पर्यन्तं वर्धयितुं शक्यते। अपि च आधुनिकसुविधायुक्तानि यन्त्रोपकरणानि प्रकोष्ठानि अग्निसुरक्षासुविधाः वाहनानि च अस्य विमानपत्तनस्य विशेषानि सन्ति।