OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 15, 2018

 संस्कृताभियानम् 
-प्रा. डॉ. विजयकुमार: मेनन्
    नमस्ते, संस्कृतोज्जीवनकार्ये संस्कृतशिक्षकाणां पात्रम् अत्यन्तं निर्णायकम्। विद्यालयेषु शैक्षिकपरिवर्तनं, सामाजिकानां पाठ:, साहित्यनिर्माणम् इत्यादिषु सर्वेषु कार्येषु संस्कृतशिक्षकाणां भूमिका एव महत्वभूता। या हिब्रूभाषा 2300 वर्षाणि यावत् मृता आसीत् तस्या: पुनरुज्जीवनान्दोलनं 1880 तमे वर्षे आरब्धम्, 1925 तमवर्षपर्यन्तं सा हिब्रूभाषा सर्वदृष्टीभिः अपि व्यवहारभाषा,  जीवद्भाषा जाता आसीत्। तद् 45 वर्षात्मकम् आन्दोलनं यशस्वितया हिब्रूशिक्षका:  एव साधितवन्त: आसन्। मित्राणि, एवं संस्कृतान्दोलने अपि संस्कृतशिक्षका: एव सर्वकार्यसाधका:। 
जयतु संस्कृतम् जयतु भारतम्।

Friday, December 14, 2018

अन्ताराष्ट्रचलच्चित्रोत्सवः समाप्तः ; सुवर्णचकोरं इरानियन् चित्राय , रजतचकोरं केरलीयसंविधायकाय। 
अनन्तपुरी  >  त्रयोविंशः अन्ताराष्ट्रचलच्चित्रोत्सवः अनन्तपुर्यां समाप्तः। श्रेष्ठचित्राय दीयमानः सुवर्णचकोरपुरस्कारः 'दि डार्क् रूम्' [अन्धकारप्रकोष्ठः] नामकाय चित्राय लभते। रौहल्ला जहासी नामकः भवति अस्य चित्रस्य संविधायकः। श्रेष्ठसंविधायकरूपेण चितः केरलीयः लिजो जोस् पेल्लिश्शेरी नामकः रजतचकोरपुस्काराय अर्हति। "ई .म. यौ" नामकं कैरलीचित्रमेव तेन कृतम्।

Thursday, December 13, 2018

स्त्रीसुरक्षा- कार् याने शिशुकीलनं न आवश्यकम् - केन्द्रसर्वकारः।
   नवदिल्ली> आगामि वर्षादारभ्य भारते अवतार्यमाणेणु कार् यानेषु  शिशुकीलनं मास्तु इति केन्द्र सर्वकारेण निर्दिष्टाः। स्त्रीविरुद्धाक्रमणेषु सुविधेयं सुलभतया उपयुज्यते इति संवीक्ष्य भवति अयं निर्देशः। शिशुकीलनेन वाहनन्तर्भागात्  आपन्नात् आक्रमणात् स्वरक्षायै स्त्रियः अशक्ताः भवन्ति। राष्ट्रे दुरापन्ने विविधघटनाः संवीक्ष्य भवति सर्वकारस्य निर्देशः।
सामान्यप्रश्नः- स्त्रीसुरक्षा शिशुसुरक्षा च आवश्यकं किल ? 

Wednesday, December 12, 2018

विधानसभानिर्वाचनानि - कोण्ग्रस् दलस्य अधिरोहः ; भाजपा दलस्य अवरोहः। 
    > पञ्चसु राज्येषु त्रीणि कोण्ग्रस् दलाय , द्वे प्रादेशिकदलेभ्यः ।
   > छत्तीसगढ , मध्यप्रदेशः , राजस्थानं - भाजपा दलात् कोण्ग्रस् शासनाय। 
  > तेलुङ्काने पुनरपि टि अार् एस् दलम्। 
 > मिसोरामः कोण्ग्रस् दलात् स्रंसितः।
नवदिल्ली  >  आगामिनि  संवत्सरे सम्पद्यमानस्य लोकसभानिर्वाचनस्य प्रवेशद्वारे सम्पन्ने  विधानसभानिर्वाचनरूपे राजनैतिकद्वन्द्वयुद्धे कोण्ग्रस् दलं शक्तिं प्रादर्शयत्। छत्तीसगढ् , राजस्थानं , मध्यप्रदेशः इत्येतेषु राज्येषु राहुलगान्धिनः नेतृत्वे विद्यमानेन कोण्ग्रस् दलेन शासने वर्तमानात् भाजपादलात् शासनं स्वायत्तीकृतम्। किन्तु राजशासने वर्तमाने मिसोरामे कोण्ग्रसे शासनं विनष्टम्। तत्र 'एम् एन् एफ् ' [मिस्सो नाशणल् फ्रण्ट्] नामकदलेन कोण्ग्रस् अप्रतीक्षितेन अभिभूतम्। तेलुङ्कानराज्ये के चन्द्रशेखररावोः नेतृत्वे विराजमानं 'टि आर् एस्' [तेलुङ्काना राष्ट्र समितिः] दलं द्वितीयवारमपि शासनपदं प्राप।
    *राजस्थानं प्रत्यग्रहीत्।* गतवारे स्खलितं शासनम् अधुना बि जे पी दलात् कोण्ग्रस् प्रत्यग्रहीत्। विज्ञापितफलेषु १९९ स्थानेषु ९९ स्थानानि कोण्ग्रसा प्राप्तानि। भाजपेन ७३ मण्डलानि विजितानि।
  *छत्तीसगढे संपरिमार्जयत्।* भाजपायाः १५ संवत्सरात्मकस्य राजशासनस्य कोण्ग्रसः अन्त्योदकम्। नवत्याम् अष्टषष्टिः स्थानानि सम्प्राप्य कोण्ग्रसे अधिकारलब्धिः।
 *मध्यप्रदेशे शासनकोटिं प्राप्तम्।*   स्कन्धास्कन्धं प्रतियोगितायाः साक्षीभूते मध्यप्रदेशे त्रिंशत्यधिकद्विशतेषु चतुर्दशाधिकशतं स्थानानि सम्प्रापयत् कोण्ग्रस् शासनकोटिं प्राप्य तिष्ठति। न्यूनतमोपकण्ठात् द्व्यूनस्थानं कोण्ग्रस् इतरेषां साहाय्यं प्रतीक्ष्य वर्तते।
एस् बि ऐ ऋणस्य शिखावृद्धिः वर्धिता।
      अनन्तपुरी> भारतीय स्टेट् बैंक् द्वारा शिखावृद्धिः वर्धिता। पञ्च आधारबिन्दवः एव वर्धितः। डिसम्बर् मासस्य दशमदिनाङ्कतः वर्धितः शिखावृद्धिधिः प्रबलम् अभवत्। सकलकालीनानाम् ऋणानां शिखावृद्धिः प्रबला भवति। वर्षत्रयाणां प्रत्यर्पण समयपरिध्यां विद्यमानेभ्यः  ऋणस्य ८. ७० इत्यतः ८. ७५ इति भवति शिखावृद्धिः। एतदनुसृत्य भवन-वाहन ऋणानां प्रत्यर्पणभारः अधिकः भविष्यतिI 

Tuesday, December 11, 2018

ऊर्जितपट्टेलः त्यागपत्रं समर्पितवान् 
      नवदिल्ली> भारतीय रिज़र्व बैंक पालः ऊर्जित पट्टेलः त्यागपत्रं समर्पितवान् वैय्यक्तिक कारणेन एव स्थान त्यागः इति सः अवदत्। २०१६ सेप्तंबर् मासे उच्चतर वित्तकोशपाल रूपेण एषः नियुक्तः आसीत्। वित्तकोशस्य २४तमः अधिपः आसीत् सः। वर्षत्रयस्य नियुक्तिकालः २०१९ तमे सेप्तंबर् मासपर्यन्तमासीत्। १९९० तम संवत्सारानन्तरं निवृत्तकालात् पूर्वं परित्यक्तस्थानीयः वित्तकोशपालः भवति एषः। विविधेषु समस्यासु केन्द्रसर्वकारेण सह विप्रतिपत्तिः एव स्थानत्यागस्य कारणत्वेन उच्यते।
सौहृदमानेतुं सैनिकपरिशीलनम्
-बिजिलाकिषोरः
    नवदिल्ली > भारत-चीनयोः संयुक्तसैनिकाभ्यासः दिसंबर् ११ तः २३ पर्यन्तं प्रचलति। एकवर्षीयविरामानन्तरं उभयदेशयोः सप्ततमसैनिकाभ्यासः समारभ्यते। उभयतः शतं सैनिकाः कार्यक्रमेस्मिन् भागंवहन्ति। आतङ्गवादनिर्माजनाय हान्ट् इन् हान्ट् इति अभ्यासः सेनयोरुभयोर्मध्ये आयोचितः ।
       दोक् ला इति विषयेविद्यमान अनिष्टेन एकवर्षंयावत् सैनिकाभ्यासः  उपेक्षितः आसीत्। २०१७ तमे वर्षे ७३ दिनानि दोक् ला संघर्षविषये अनिष्टः प्रवृत्तः।

Monday, December 10, 2018

सार्वजनिक गतागतः सम्पूर्णतया शुल्करहितं कर्तुं लक्संबर्ग् राष्ट्रम् । 
    लक्संबर्ग्‌ सिट्टि> सार्वजनिक गतागतः सम्पूर्णतया शुल्करहितं क्रियमाणः विश्वस्य प्रप्रथमं राष्ट्रम् इति ख्यातिः    लक्संबर्ग् राष्ट्राय लभते। आगामि  ग्रीष्मकालादारभ्य रेल् बस् प्रभृतीनि लोकयानानि लक्संबर् जनेभ्यः निशुल्कम् उपयोक्तुम् शक्यते। कतिपयदिनात् पूर्वं  सावियर् बेट्टलस्य नेतृत्वे शासकपदम् आरूढः सर्वकारः एवं विशेषनिर्णयं  स्वीचकार। यूरोप् भूखण्डान्तर्गतस्य लघुराष्ट्रस्य गतागतसम्मर्दस्य परिहारं लक्ष्यीकृत्य भवति सर्वकारस्य नूतन परिष्कारःI
     फ्रान्स् जर्मनि, बेल्जियं इत्येतानि राष्ट्राणि आस्य सीमनि वर्तन्ते। लक्संबर नगरे १.१०लक्षं जनाः निवसन्ति। अस्मिन् नगरे कर्मचारि रूपेण ४ लक्षं जनाः प्रतिदिनम् आगमिष्यन्ति।
पलास्तिककूपीजलं त्यजामः, आरोग्यं संरक्षामः
-बिजिलिकिषोरः

 तिरुवनन्तपुरम् > जनुवरि प्रथमदिनाङ्कतः आरभ्य पलास्तिक कूप्यां विद्यमानजलं निरुद्ध्यते। काचकूप्यां जलं दातुं मलिनीकरणनियन्त्रणायोगेन  निर्दिष्टम्। नियमलंघकानाम् अनुज्ञापत्रस्य  निष्कासनं करिष्यतीति तैरुक्तं वर्तते। कूपीजल स्वीकरणाय  आर् ओ प्लान्ट्, रिवेय्स् ओफ् मोसिस् प्लान्ट्  एवं जलशू्द्धीकरणार्थं  संस्थां निर्मातुं च  निर्द्दिष्टम्।
        विनोदसञ्चारकेन्द्रेष्वपि पलास्तिकोत्पन्नानां निष्कासनं कर्तुं निर्दिश्यते। एवमेव आतुरालयेषु ५०० तः अधिकं मञ्जाः विद्यते चेत् पलास्तिकवस्तूनां नियन्त्रणमनिवार्यमिति तैरुक्तं वर्तते। भोजनशालास्वपि मलिनीकरण नियन्त्रणायोगेन व्यवस्था कल्पिता।

Sunday, December 9, 2018

मुख्यमन्त्री पिणरायी विजयः केन्द्रमन्त्री सुरेष्प्रभुश्च विमानाय उड्डयनानुमतिं ददतः।
कण्णूर्  अन्ताराट्रविमानपत्तनं राष्ट्राय समर्पितम्। 
कण्णूर्  >   केरलराज्यस्य चतुर्थम् अन्ताराष्ट्रविमानपत्तनं अद्य प्रभाते दशवादने राष्ट्राय समर्पितम्। अबुदाबीं प्रति सेवासन्नद्धं  'एयर् इन्डिया एक्स्प्रेस्' विमानं यदा आकाशम् उड्डयते स्म तदा उत्तरकेरलस्य विकासप्रतीक्षाः अपि  गगनपर्यन्तम् उड्डयते स्म। मुख्यमन्त्री पिणरायि विजयः तथा केन्द्र व्योमयानमन्त्री सुरेष् प्रभुश्च मिलित्वा डयनानुमतिं [फ्लाग् आफ्] दत्तवन्तौ। 
   २३००एकर् परिमिता अस्ति विमानपत्तनस्य आहत्य विस्तृतिः। ९७,०००चतु.मीटर् विस्तृतौ व्यापिते 'टेर्मिनल्' भवनसमुच्चये २४ परिशोधप्रवेशकद्वाराणि [check in counters] , यानि आवश्यानुसारं ४८ संख्यकानि कर्तुं शक्यानि विद्यन्ते। विमानानां धावनमार्गस्तु इदानीं ३०५० मीटर् दीर्घयुक्तः भवति । स तु ४,००० मी. पर्यन्तं वर्धयितुं शक्यते। अपि च आधुनिकसुविधायुक्तानि यन्त्रोपकरणानि प्रकोष्ठानि अग्निसुरक्षासुविधाः वाहनानि च अस्य विमानपत्तनस्य विशेषानि सन्ति।
एडिलेड्किक्रेटनिकषस्पर्धा
-पुरुषोत्तमशर्मा
     एडिलेड् > एडिलेड्स्थे क्रीडाङ्गणे ऑस्‍ट्रेलियाभारतयो: प्रथमनिकषस्पर्धायां तृतीयदिवसीयक्रीडावसानं यावत् भारतेन द्वितीये पर्याये क्रीडकत्रयस्य हानौ एकपञ्चाशदुत्तरैकशतं धावनाङ्का: समर्जिता:। इदानीं यावत् भारतं १६६ धावनाङ्कै: अग्रेसरं वर्तते। वृष्टिकारणेन क्रीडा विलम्बेन प्रारब्धा। ऑस्ट्रेलियादलेन प्रथमपाल्यां २३५ धावनाङ्का: समार्जिताः।
अतिवेगेन वर्धमानेषु २० नगरेषु १७ नगराणि भारते एव।
      नवदिल्ली> विश्वे  अतिवेगेन वर्धमानेषु विंशति नगरेषु सप्तदश नगराणि भारते इति आवेदनम्। २०१९ -२०३५ संवत्सरयोः मध्ये वर्धिष्यमाणानां नगराणां पट्टिका ओक्स्फोड् एक्णोमिक्स् नाम संस्थया प्रकाशिता। बंगलूरु, हैदराबाद्, चेन्नै नगराणां वर्धमानमापने इदानीमेव पुरतः भवति इति आवेदने निगदितम्। सूरत् नगरः भवति २०१९-२०३५ संवत्सरयोः मध्ये संवर्धमानेषु प्रथम स्थाने। आग्र, बंगलूरु, हैदराबाद नगराणि सूरत् नगरस्य पृष्टतः एव सन्ति। नागपुर् तिरुपुर् राजकोट् तिरुच्चिरप्पल्ली, चेन्नै विजयवाड नगराणि अपि पट्टिकायां स्थानमावहन्ति। रत्नव्यवसायमण्डलम् ऐ टि मण्डलं च  सूरत् नगरस्य त्वरितवर्धनाय हेतुः भविष्यति। 
        इदानीं विश्वनगरेषु प्रथमस्थाने न्यूयोर्क् एव भवति। टोकियो, लोस् आञ्चलीस्, षाङ्हायि च पथम श्रेण्यां तिष्टन्ति।

Friday, December 7, 2018

वायुप्रदूषणेन २०१७ तमे भारते १२.४ लक्षं जनाः मारिताः।  
वायुप्रदूषिता दिल्ली
    नवदिल्ली> वायुप्रदूषणानुबन्धरोगेण २०१७ तमे संवत्सरे भारते १२.४ लक्षं जनाः मारिताः इति अध्ययनावेदनम्। लान्सेट् प्लानटरि हेल्त् जेर्णल् इति पत्रिकायां प्रकाशिते अध्ययनावेदने एव एवं व्यक्ततया लिखितम्।  १०१७ भारतेषु आपन्ने मृत्युषु अष्टेषु एकः वायु प्रदूषणस्य कारणेनेव भवति इति आवेदने व्यक्तं कृतम्। धूमपानेन जातात् रोगदपि अधिकतया वायुप्रदूषणेन भविष्यति इति गणना सूचयति। आवेदनानुसारं राष्ट्रेषु अत्यन्तप्रदूषितेषु राज्येषु दिल्ली एव प्रथम स्थाने तिष्टतिI उत्तरप्रदेशः हरियाणा च द्वितीय तृतीय स्थानयोः तिष्टतः।
        वायुप्रदूषणोन २०१७ तमे उत्तरप्रदेशे २,६०,०२८ जनाः मृताः महाराष्ट्रे १,०८,०३८. बिहारे ९६९६७ जनाः मृताः । ४. ८ लक्षं जनाः गृहादुत्पन्ना प्रदूषणेन ६.७ लक्षं जनाः बाह्यप्रदेशस्य वायु श्वसनेन चमृताः इति च आवेदने स्पष्टीकृतम्।

Thursday, December 6, 2018

 राष्ट्रस्य दीर्घतमः  रेल् रोड् उपरिमार्गः  डिसंबर् २५ दिनाङ्के उद्‌घाटयिष्यति।
     नवदिल्ली > ५ किलोमीट्टर् दीर्घितः राष्ट्रस्य दीर्घतमः  रेल् रोड् उपरिमार्गः  डिसंबर् पञ्चविंशति दिनाङ्के  प्रधानमन्त्री नरेन्द्रमोदी उद्‌घाटयिष्यति।  असम् राज्ये नदी बह्मपुत्रस्य (भारते एकः पुरुषनदी ब्रह्मपुत्रः) उपरि तिरश्चीनतया रेल् रोड् मार्गाः संयोज्य एव 'बोगी बील्' उपरिमार्गः निर्मितः। भूतपूर्व प्रधानमन्त्रिणः अटल् बिहारि वाजपेयिनः जन्मदिने एव उद्घाटनम् निश्चितम्। तस्मिन्नेव दिने गतागतः समारभ्यते। 
    देमाजी-दिब्रुगढ् जनपदयोः बन्धितः अयम् उपरिमार्गः अरुणाचलप्रदेशतः आसम् राज्यं प्रति गम्यमानेभ्यः  सुकरः भविष्यति। इदानीं ५०० किलोमीट्टर् दूरं रेल् यानेन यात्रां क्रियामाणे सन्दर्भे नूतन सुविधया दूरः १०० कि.मी  इति न्यूनः भविष्यति। तथा अरुणाचलतः चीनस्य सीमापर्यन्तं सैनिकानां यात्राऽपि सुकरी भविष्यति। ४,८५७ कोटि रूप्यकाणि भवति उपरिमार्गस्य  निर्माणव्ययः ।
बंगलूरू ऐ ऐ एस् सि मध्ये विस्फोटः, गवेषकः मारितः

   बंगलूरु> भारत वैज्ञानिक संस्थायां दुरापन्ने विस्फोटे गवेषकः मारितः त्रयः गुरुतरया व्रणिताः। 'एय्रो स्पेस् लाब्' स्थानस्य हैड्रजन् वातकसंभरण्याः विस्फोटनेन घटना जाता इति अनुमन्यते। बुधवासरे २.२० वादने आसीत्  विस्फोटः। मौसूरु देशीयः मनोजः एव मारितः। स्फोटनस्य  शक्त्या मृतस्य शरीरः विंशति पादमितं दूरं विक्षिप्तः आसीत्  इति सुरक्षाकर्मचारिणा उक्तम्।

Wednesday, December 5, 2018

गोतमगम्भीरेण अन्ताराष्ट्रियक्रिकेटक्रीडात: सन्न्यासोद्घोषणा
-पुरुषोत्तम शर्मा
   नवदिल्ली:- प्रसिद्धेन भारतीयक्रिकेटक्रीडकेन गोतमगम्भीरेण अन्ताराष्ट्रियक्रिकेटक्रीडात: सन्न्यासोद्घोषणा कृता। गम्भीरेण निगदितं यत् क्रीडात: विरामसमय: सम्प्राप्त:। वयसा सप्तत्रिंशाब्दं यावत् गम्भीरेण अष्टपञ्चाशत् निकषस्पर्धासु चतुस्सहस्राधिकधावनाङ्का: निर्मिता:। गोतमेन सप्तचत्वारिंशदुत्तरैकशतम् एकदिवसीयस्पर्धा: सप्तत्रिंशत् विंशतिर्विंशति: अन्ताराष्ट्रियस्पर्धा: क्रीडिता: आसन्।
काश्मीरस्य समस्या परिहाराय युद्धं न चर्चा एव आवश्यकी - इम्रान् खानः 
      इस्लामबादः> युद्धं न परिहारः समवाय चर्चया एव काश्मीरस्य समस्यापरिहाराय आवश्यकी इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन उक्तम्। माध्यमप्रवर्तकानां कृते अनुमतायां प्रस्तुत्यां   भाषमाणः असीत् सः। उभयोः समुपवेशने समस्या परिहाराय द्वित्राः मार्गाः निर्देष्टुं शक्यते। २००४ संवत्सरस्य निर्वाचने पराजयः नासीत् तर्हि काश्मीरस्य समस्या परिहारः स्यात् इति भूतपूर्व प्रधानमन्त्री अटल् बिहारि वाजपेयी तथा विदेशकार्य मन्त्री नट्वर् सिंहः च माम् अवदताम् इति तेन प्रकाशितम्। अतः चर्चा प्रचल्यते तर्हि परिहारः नूनं भविष्यति इति मे मति इत्यपि तेनोक्तम्। उभयोः पार्श्वे आणवायुधाः सन्ति इत्यनेन युद्धः मा भविष्यति इति तेन स्वस्य अभिमतः प्रकाशितः।

Tuesday, December 4, 2018

परीक्षणे विजयः- यन्त्ररहितं 'रेल्'यानम् अति शीघ्रम् अधावत्। 
   नवदिल्ली> १८० किलो मीट्टर् इति वेगमानम् अतिक्रम्य यन्त्ररहितं 'रेल'यानम् अति शीघ्रम् अधावत्। सूचनासंविधानानि सुसज्जानि चेत् २०० कि.मी इति वेगमानेन यानं धावयितुं शक्यते। कोट्ट-सवायि मधोप्पूर् भागेषु रेल् वीथ्यामासीत् परीक्षणधावनम्l भारतस्य गरीयनिमेषः  इति मन्त्री पियूष् गोयलः ट्वीट् कृतवान्।