OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 3, 2018

भीकरता  -  पाकिस्थानेन भारतस्य साहाय्यम्  अपेक्षितुं शक्यते इति राजनाथसिंहः।  
  जयपुरम्    >  आतङ्कवादं विरुध्य प्रवर्तयितुं पाकिस्थानेन स्वयं न श्क्यते चेत् भारतस्य साहाय्यम्  अर्थयितुं योग्यमिति केन्द्रगृहमन्त्रिणा प्रस्तुतम्। "जम्मू काश्मीरः न को$पि व्यवहारविषयः , सः भारतस्य अविभाज्यार्थः भवति।" मन्त्रिणा असन्दिग्धमुक्तम्। 
   वस्तुतः आतङ्कवाद एव विषयः , तदधिकृत्य पाकिस्थानः चर्चां करोतु इति राजनाथसिंहेनोक्तम्। अफ्गानिस्थाने भीकरतां तालिबानं च विरुध्य अभियोद्धुं तद्राष्ट्रेण  अमेरिक्कायाः  साहाय्यमपेक्षितम्। तद्वत् भारतं प्रति साहाय्यार्थनाय पाकिस्थानः अपि अर्हति  -  तेन स्पष्टीकृतम्।

Sunday, December 2, 2018

छात्रशिल्पशाला सुसम्पन्ना

  ओमश्शेरि > मुक्कं शैक्षिकोपजनपदस्य छात्रशिल्पशाला लिटिल्फ्लवर यू पि माध्यमिक विद्यालये प्रवृत्तम्।विविधविद्यालयेभ्यः १६० छात्राः भागमवहन्। मुक्कं नगरसभाङ्गः श्रीमति जेसी महाभागा पष़ेडत्त् कार्यक्रमस्य उद्घाटनं कृतवती। विद्यालयप्रबन्धकः आदरणीयपुरोहितः श्री जोण्सण् पाष़ुकुन्नेल् महाभागः अनुग्रहभाषणमकुर्वन्। प्रधानाध्यापकः श्री जोस् ञावल्लि अध्यक्षभाषणमकरोत्। श्री वि श्रीजित् ,श्रीमति बिजिला च भाषणंकुरुतः। छात्राः सोत्साहं कार्यक्रमे भागमवहन्।
यू एस् राष्ट्रस्य भूतपूर्वपतिः जोर्ज् बुष् वरिष्ठः दिवंगतः। 
    वाषिङ्टण्  >  अमेरिक्कायाः भूतपूर्वः राष्ट्रपतिः जोर्ज् एछ् डब्ल्यू बुष् [९४] दिवं गतः। शुक्रवासरे रात्रौ  हूस्टण्स्थस्थे स्वभवने आसीत् तस्यान्त्यम्। 
    १९८९ संवत्सरादारभ्य १९९३ तमं संवत्सरं यावत् जोर्ज् हेर्बर्ट् वोक्कर् बुष् इत्याख्यः जोर्ज् बुष् अमेरिक्कां राष्ट्रपतिरूपेण नीतवान्।  रिप्पब्लिक्कन् दलस्य नेता सः राष्ट्रस्य ४१ तमः राष्ट्रपतिः आसीत्। सोवियट् यूणनियन् राष्ट्रवृन्दस्य विदीर्णनं, इराखराष्ट्रस्य कुवैट् राष्ट्रं प्रति अधिनिवेशः, सद्दाम हुसैनं प्रति कृतः युद्धः , बर्लिन भित्तिकायाः उच्छेदनमित्यादयः घटना जोर्ज् बुष् वरिष्ठस्य शासनकाले एव अभवन्। ४४ तम राष्ट्रपतित्वेन तस्य पुत्रः जोर्ज् बुष् कनिष्ठः शासनमकरोत्।
  संस्कृताभियनम्  
प्रा. डॉ. विजयकुमार: मेनन्,
   नमस्ते, राष्ट्रस्य सर्वाङ्गीण: विकास: अस्माकं कार्यस्य अन्तिमं लक्ष्यम् अस्ति। एतद् अस्माकं राष्ट्रं किञ्चन पुरातनं राष्ट्रम् अस्ति। किञ्चन सबलं चैतन्ययुक्तं सम्पन्नं राष्ट्रजीवनम् अत्र आसीत्। धर्मार्थकाममोक्षेति जीवनस्य चतुर्विधपुरुषार्थानां कल्पनाभि: युक्तस्य समग्रस्य एकात्मजीवनदर्शनस्य आधारेण एतस्मिन् राष्ट्रजीवने श्रेष्ठतमजीवनादर्शानां विकास: अभवत्। संस्कृतभाषा एतस्य राष्ट्रस्य सांस्कृतिकभाषा। कस्यचिदपि राष्ट्रस्य उन्नत्यै तस्य राष्ट्रस्य सांस्कृतिकभाषा अनिवार्या अस्ति। मित्राणि,  तस्माद् वयं संस्कृतसम्भाषणान्दोलनाय आत्मानं समर्पयाम: । जयतु संस्कृतम् जयतु भारतम् । 


शिशुदिनानुबन्धतया  स्फोरकपत्रनिर्माण स्पपर्धायां संस्कृत पत्रं प्रथम स्थानं प्राप्ततम्
एरणाकुलं देशीयया आष्ना मरियया निर्मातम् इदं पत्रम्।


केरले दुरापन्नः महाप्रलयः अस्य संवत्सरस्य महादुरन्तः।
     जनीव > २०१८ संवत्सरस्य  विश्वस्य बृहत्तमः  महादुरन्तः केरले दुरापन्नः महाप्रलयः इति अन्ताराष्ट्रावेदनम्। मनुष्यस्य जीवापाय -गणनानुसारं भवति आवेदनम्। साम्पतिक नष्टस्य गणनायां चतुर्थस्थाने भवति अयं दुरन्तः। विश्व वातावरणसंघटनया (WMO) गुरुवासरे प्रकाशिते आवेदने एव एवं परामृष्टम् ।
       प्रलयेन ५४ लक्षं जनाः ग्रसिताः। २२३ जनाः मारिताः । १४ लक्षं जनाः स्वगृहं परित्यज्य गन्तुं निर्बद्धाः। ३०,००० कोटि रूप्यकाणां साम्पतिक नष्टः च अभवत् इति च आवेदने स्पष्टीक्रियते|
जपान्, कोरिय, नैजीरिय इत्यस्मिन्  देशे दुरापन्ने प्रलयः पाकिस्थाने दुरापन्ने उष्णतरङ्गः च मनुष्य-जीवापाय-हेतुगणनायां केरलस्य पृष्टतः सन्ति। सेप्तंबर् मासे यु एस्राष्ट्रे दुरापन्ने फ्लोरन्स् चक्रवातः एव आर्थिक नाशगणनायां पुरतः तिष्टति। ३५००० कोटि रूप्यकाणां नष्टः चक्रवातेन अभवत्। (मातृभूमि दिनपत्रस्य आवेदनम् अवलम्बः)
हिमालये भूकम्पः भविष्यतीति अध्ययनफलम्।
      नवदिल्ली> हिमालयप्रदेशेषु शक्तयारीत्या भूकम्पः भविष्यति इति विशेषाध्ययनस्य  फलम्। रिक्टर् मापिन्यां ८.५ अथवा  इतोप्यधिकं वा शक्तः भूकम्पः भविष्यति  इति वैज्ञानिकाः वदन्ति। नेपाल स्थ मोहनखोल, चोर् गालिय प्रदेशयोः कृतानुसन्धानस्य आवेदनमेव  इदम्। अनुसन्धानानुसारम् उत्तराघण्डादारभ्य पश्चिम नेपाल पर्यन्तेषु प्रदेशेषु भूकम्पस्य अधिकसाध्यता वर्तते। बंगलूरु जवहर् लाल् सेन्टर् फोर् अड्वास्ड् सैन्टिफिक् रिसर्च् संस्थायाः अद्योगी सि पि राजेन्द्रस्य नेतृत्वे आसीत् अध्ययनं कृतम्। हिमालयमण्डलेषु वर्धिता निर्मितिः अपि परिस्थितये  प्रतिकूलतया भवन्ति इति आवेदने वदन्ति।

Saturday, December 1, 2018

पुनरपि चैना;कोलम्बोमहानौकास्थाने कोटीनाम् सन्धिपत्राणि चैनायाः निर्माणशालायै। 
                   -रम्या पी यू। 
       कोलम्बो >  राष्ट्रियानिश्चितत्वे स्थीयमाने चीनस्य निर्माणशालाभिः सह मिलित्वा महानौकास्थानकानि नवीकर्तुं श्रीलङ्का। महानौकास्थानद्वयं नवीकर्तुं चीनस्य निर्माणशालाभ्यः अनुमतिं दत्वा सम्मतपत्रे श्रीलङ्का हस्ताक्षरमदात्। समयेस्मिन् सम्मतसन्धिपत्रस्य नियमप्राबल्यमधिकृत्य सन्देहः अनुवर्तते।
राष्ट्रिय-प्रदूषण-नियन्त्रणदिनम् -डिसम्बर् २
विद्यालयेषु समाचरितम्।
    कोच्ची > डिसम्बर् द्वितीय दिनाङ्कः राष्ट्रिय-प्रदूषण-नियन्त्रणदिनत्वेन समाचरितम्। भारते विद्यालयेषु शनिवासरे दिनमिदं स्मारितम्। पद सञ्चलनेन वातावरणप्रदूषणान् विरुद्ध्य चित्ररचना, स्फोरकपत्र-भित्ति पत्र रचनास्पर्धभिः च छात्राणां मनसि स्वच्छावातावरणस्य भावनाम् उद्पादयितुं विद्यालयाधिकारिणा विविधकार्यक्रमाः आयोजिताः आसन्।
स्वास्थ्यं स्वयमेव प्रतिगृह्णातु।
     नवदिल्ली> अवसितकालीनानि औषधानि पुनरपि प्रत्यागच्छन्ति इति भीतिदा घटना एव। घटनेयमघिकृत्य पत्र-दूरदर्शनमाध्यमद्वारा बहुवारं आवेदितम्। तथापि विषयेऽस्मिन् कोऽपि परिहारः न अभवत्। विविध राजनैतिक दलानां सर्वकारेण भारतं पालितम्। किन्तु सामान्य जनानां कृते सफलौषधाय कोऽपि प्रक्रमाः सफलतां न प्राप्ताः। इदानीं तु सार्वजनिकस्वास्थ्ये तत्परस्प एकस्य  न्यायवादिनः निवेदने दिल्ली उच्चन्यायालयः हस्तक्षेपः आदिष्टः। विषयोऽयम् अतीव प्राधान्यमर्हति, अतः परिहाराय किं कर्तुं शक्यते इति वक्तुं केन्द्रस्वास्थ्यविभागः तथा औषधनियन्त्रणविभागः च उच्चन्यायालयेन आदिष्टौ ।  सार्वजनिक स्वास्थ्यसंक्षकप्रवर्तकाः बहुकालात्‌ पूर्वम्  अस्मिन् विषये आशङ्कां प्रकटितवन्तः आसन्।
भारताय अधिकतया तैलेन्धनं दास्यति - सौदि राष्ट्रम् 

      ब्यूणस् ऐरिस्> अत्यावश्यसमये भारताय अधिकतया तैलेन्धनं दास्यते इति सौदिराष्ट्रेण उक्तम्। जि विंशति (२०) उच्चकोट्याः उपवेशनाय समागतः  सौदि राजकुमारः मुहम्मद्  बिन् सल्मानः  भारतस्य प्रधानमन्त्रिणम् नरेन्द्रमोदिनम् अवदत्‌। ब्रूणस् राष्ट्रे  सल्मानस्य निवासगृहे आसीत् उभयोः मेलनम्। सौदी राष्ट्रात् तैलेन्धनं स्वीक्रियमाणेषु प्रमुखपञ्चराष्ट्रेषु अन्यतमं भवति भारतम्।

Friday, November 30, 2018

विक्षेपणे विजयः 'हैसिस्' नाम उपग्रहेण सह पि एस् एल् वि सि ४३ अकाशम् उदगच्छत्।
   चेन्नै> भारतस्य भौमनिरीक्षणोपग्रहः हैसिस् नामकः विक्षिप्तः। श्रीहरिकोट्टा-सतीष् धवान् केन्द्रतः गुरुवासरे प्रभाते ९.५८ वादने आसीत् विक्षेपः। अनेन सह ३० विदेशउपग्रहानपि संवहन् आसीत्  पि एस् एल् वि सि-४३ आकाशबाणस्य उदगमनम्। भूमेः उपरितलम् अधिकृत्य अधिकाध्ययनमेव नूतनोपग्रहस्य लक्ष्यम्।
  कृषि, वनं, कोङ्कणभागनिर्णयः, ग्रामान्तर्गत जलाशयाः, सैनिकावश्यकाः च भवति अस्यनुसन्धानस्य विषयाः। पञ्चवर्षाणि यावत् उपग्रहस्य अनुसन्धानं प्रचलिष्यति।

Thursday, November 29, 2018

छात्राः विमानं न आरूढवन्तः- कक्ष्या विमानवत् निर्मिता।
        जयपुरम् > विमानं प्रवेष्टुं छात्राणाम् अभिलाषस्य सफलतायै कक्ष्या विमानवत् निर्मिता। राजस्थान राज्यस्य  इन्दर् गढ् सर्वकारीयोच्चतर विद्यालये भवति विस्मयावहा एषा कक्षा। विद्यालयेऽस्मिन् ४०६ छात्राः पठन्ति विमाने उपवेशनम् इति छात्राणां स्वप्नमेवI एतत् निधाय सर्वकारीयालयतन्त्रज्ञः मासानां प्रयत्नेन कक्ष्या निर्मितवान्I स्वाध्यायकालः अवसितः चेदपि छात्राः कक्ष्यायाम् उपवेष्टुं तत्पराः वर्तन्ते इति प्राध्यापिका पुष्पमीना वदति। प्रदेशवासिनः छायाग्रहणार्थं मध्येमध्ये विद्यालयम् आगच्छन्ति। राष्ट्रे  ३.५% छात्राः शिक्षा अपूर्णतया स्थगयन्ति। राजस्थाने चतुर्दशवर्षात् ऊनवयस्काः प्रतिशतं पञ्च इति क्रमेण आधारशिक्षायामपि विमुखाः सन्ति। विद्यालयस्य आकर्षकता नास्ति इत्यपि कारणत्वेन वदन्ति। एतस्य परिहाराय सर्वशिक्षा अभियानेन कक्ष्यानिर्माणाय धनं व्ययीकृतम्। अन्तर्जाल सुविधया सहित LED फल कम्, नूतनोद्यानं च अत्र विशेषतया सज्जीकृतम् वर्तते।
विश्वचषकहॉकिशृङ्खलायां भारतेन विजिता प्रथमा स्पर्धा
     भुवनेश्वरम् > पुरुषाणाम् ऐषमो हॉकिविश्वचषकस्य प्रथमेह्नि प्रथमे द्वन्दे भारतेन विजयाभियानं प्रारब्धम्। बुधवासरे भुवनेश्वरस्थे कलिङ्गा कीडाङ्गणे क्रीडितायां प्रथमस्पर्धायां भारतेन दक्षिणाफ्रिकादलं पञ्चशून्यमिति गोलाङ्कान्तरालेन पराजितम्। भारताय सिमरनजीतसिंहेन गोलाङ्कद्वयं मनदीपसिंहेन आकाशदीपसिंहेन ललितोपाध्यायेन च एकैकं गोलाङ्कमर्जितम्।

Wednesday, November 28, 2018

चालकरहितस्य यानस्य उपज्ञाता गूगिलः तेषां वोय् मो यानम्  आगामि मासे बहिर्नेष्यति। 
     दशसंवत्सरेषु कृतगवेषणैः निरीक्षणचालनैः च अन्ते विजयं प्राप्य उत्तमोत्तमम् इति प्रमाणीकृत्यानन्तरमेव 'वोय्मो' कार् यानेन  'टाक्सि' सेवनं क्रियते। अमेरिक्क राष्ट्रस्य फीनिक्स् देशे १०० किलोमीट्टर् वृत्तपरिधौ एव प्रथम सञ्चारः। सामान्य जनानां कृते चालकरहितस्य यानस्य सुविधा प्रदास्यमानः विश्वस्य प्रप्रथम समारम्भः भवति वोय् मो कार् यानम्। विश्वस्य विविधेषु कोणेषु अपि इदृशपरीक्षणानि प्रचलितानि सन्ति।

Tuesday, November 27, 2018

विद्यालयस्यूतस्य भारः न्यूनीकर्तुं निर्णयः स्वीकृतः।
      नवदिल्ली> छात्राणां स्वास्थ्यहानिकरस्य विद्यालयस्यूतस्य भारः न्यूनीकर्तुं केन्द्रसर्वकारेण निश्चितम्। प्रथम द्वितीय कक्ष्ययोः छात्राणां स्यूतभारः सार्धैक'किलो'परिमितः भवेत्। इति मानवसंसाधन-मन्त्रालयेन निर्दिष्टः। अस्यानुबन्धतया चाक्रिकादेशः सर्वेभ्यः राज्येभ्यः केन्द्रशासित-प्रदेशेभ्यः च प्रेषितःI पञ्चमकक्ष्यापर्यन्तेभ्यः स्यूतस्य भारः किलोत्रय परिमितं भवेत्। सप्तमपर्यन्तेभ्यः चत्वारः नवमकक्ष्याछात्रेभ्यः सार्धचत्वारः, दशमकक्ष्या छात्रेभ्यः पञ्च किलोपरिमितं च भवेत् स्यूतस्य भारः इत्यस्ति सर्वकारादेशः। एतत् विहाय प्रथम द्वितीय कक्ष्ययोः भाषाम् अतिरिच्य गणितमेव अध्यापनीयम्। गृहपाठः मा ददातु। तृतीयादारभ्य पञ्चम पर्यन्त कक्ष्यासु परिस्थितिपाठः अपि भवितव्यम्। एन् सि आर् टि सि संस्थया निर्दिष्टानि पुस्तकानि एव अध्यापानीयानि।
जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
        जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता "online संस्कृतशिक्षणम् (https://www.facebook.com/groups/214643672457937/) इति आमुखपटलसमूहे प्रत्येकं रविवासरे आयोज्यते । एषा प्रतियोगिता प्रत्येकं रविवासरे रात्रौ नववादनत: दशवादनपर्यन्तं भवति। अस्यां प्रतियोगितायां संस्कृतस्य दश प्रश्नाः भवन्ति । 
       अस्या: प्रतियोगिताया: आयोजकौ गुजरातत: जगदीश: डाभी, विश्वस्य वृत्तान्तम् च स्त: । सहायका: अमित: ओली, डॉ. नरेन्द्र: राणा च सन्ति । अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजक: नवदेहलीत: मन्त्र साधना ज्योतिष फाउण्डेशनस्य निर्देशक: ज्योतिषाचार्य: डॉ. नवीनशर्मा अस्ति

गतरविवासरे २५/११/२०१८ तमे दिनाङ्के प्रतियोगितायाम् २१० जनाः आहत्य उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम: विजेता पीयूष कान्त शर्मा, हिमाचल प्रदेश, द्वितीय: विजेता ओमप्रकाश पण्डा, पश्चिमबङ्गाल, तृतीय: विजेता आशिष कुमार साहु, ओडिशा च ।

      सर्वेभ्यो: विजेतृभ्यो: नवदेहलीत: मन्त्र साधना ज्योतिष फाउण्डेशनस्य निर्देशक: ज्योतिषाचार्य: डॉ. नवीनशर्मामहोदय: श्रीमद्भगवद्गीता, छः मुखी रुद्राक्ष, सरस्वती यन्त्र च उपहार-स्वरूपेण दास्यते। आगामिनी प्रतियोगिता ०२/१२/२०१८ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।

Monday, November 26, 2018

पादत्राणस्य अनुमार्जनं कृत्वा, पादरक्षां वितीर्य च मध्य प्रदेशस्य स्थानाशिनःI
    भोपालः > सम्मतिदायकान् गोण्यवरोहणं कर्तुं नूतनचेष्टितेन सह स्थानाशिनः। नूतन 'राष्ट्रिय आम् जन् दल'स्य शरत् सिङ् कुमारः भवति एवं सम्मतिदायकान् आकर्षति। तस्य निर्वाचन चिह्नमपि पादत्राणमेव। अक्षिसात् कृतानां पादत्राणम् अनुमार्जनं कृत्वा एव सम्मतिदानाभ्यर्थना। स्वस्य चिह्नं निर्वाचने अनुग्रहमानयिष्यति इति तस्य विश्वासः अस्तीति माध्यमान् प्रति सः अवदत्।
   शरतं विहाय स्वतन्त्रस्थानाशी अकुल हनुमन्तः च नूतन चेष्टितेन विहरन् अस्ति। तस्यापि अन्यतरा पादरक्षा भवति निर्वाचनचिह्नम्। सः सर्वेषां कृते पादराक्षां वितीर्य सम्मतिदानाय समभ्यर्थ्यते।
नवंबर् २८ तमे दिनाङ्के भवति मध्यप्रदेशस्य नियमसभानिर्वाचनम्। डिसम्बर् मासस्य ११ दिनाङ्के निर्वाचनस्य फलं प्रकाशयिष्यति।
संस्कृताभियानम् ।
डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः
      नमांसि, स्वातन्त्र्यानन्तरं अद्यावधि अस्माकं सर्वेषां संस्कृतानुरागिणां अवधानं सर्वकारकेन्द्रितं वर्तते। संस्कृतविकासाय सर्वकारा: किमपि कुर्यु: इति अपेक्षा:, अभियाचना: च कुर्वन्त: स्म:। परं न किमपि महत् साधितम्। कोsपि सर्वकार: सामान्तया द्वयो: परिस्थित्यो: कमपि उपक्रमं कर्तुं प्रवर्तते। प्रथमा तु समाजे सार्वत्रिकरूपेण काचन महती जनयाचना समुत्पन्ना स्यात्, द्वितीया तु तस्य उपक्रमस्य स्वीकरणेन निर्वाचने मतानि लभ्येरन् इति। संस्कृतदृष्ट्या तु एतद्द्वयमपि नास्ति। अत: एव वयं विफला: अभवाम। इदानीं वा वयं सत्यम् अवगत्य जनाभिमुखा: भवेम। मित्राणि, जनमानसपरिवर्तनाय अस्मत्केन्द्रितान् कार्यक्रमान् चिन्तयेम। जयतु संस्कृतम् जयतु भारतम् ।