OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 27, 2018

विद्यालयस्यूतस्य भारः न्यूनीकर्तुं निर्णयः स्वीकृतः।
      नवदिल्ली> छात्राणां स्वास्थ्यहानिकरस्य विद्यालयस्यूतस्य भारः न्यूनीकर्तुं केन्द्रसर्वकारेण निश्चितम्। प्रथम द्वितीय कक्ष्ययोः छात्राणां स्यूतभारः सार्धैक'किलो'परिमितः भवेत्। इति मानवसंसाधन-मन्त्रालयेन निर्दिष्टः। अस्यानुबन्धतया चाक्रिकादेशः सर्वेभ्यः राज्येभ्यः केन्द्रशासित-प्रदेशेभ्यः च प्रेषितःI पञ्चमकक्ष्यापर्यन्तेभ्यः स्यूतस्य भारः किलोत्रय परिमितं भवेत्। सप्तमपर्यन्तेभ्यः चत्वारः नवमकक्ष्याछात्रेभ्यः सार्धचत्वारः, दशमकक्ष्या छात्रेभ्यः पञ्च किलोपरिमितं च भवेत् स्यूतस्य भारः इत्यस्ति सर्वकारादेशः। एतत् विहाय प्रथम द्वितीय कक्ष्ययोः भाषाम् अतिरिच्य गणितमेव अध्यापनीयम्। गृहपाठः मा ददातु। तृतीयादारभ्य पञ्चम पर्यन्त कक्ष्यासु परिस्थितिपाठः अपि भवितव्यम्। एन् सि आर् टि सि संस्थया निर्दिष्टानि पुस्तकानि एव अध्यापानीयानि।
जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
        जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता "online संस्कृतशिक्षणम् (https://www.facebook.com/groups/214643672457937/) इति आमुखपटलसमूहे प्रत्येकं रविवासरे आयोज्यते । एषा प्रतियोगिता प्रत्येकं रविवासरे रात्रौ नववादनत: दशवादनपर्यन्तं भवति। अस्यां प्रतियोगितायां संस्कृतस्य दश प्रश्नाः भवन्ति । 
       अस्या: प्रतियोगिताया: आयोजकौ गुजरातत: जगदीश: डाभी, विश्वस्य वृत्तान्तम् च स्त: । सहायका: अमित: ओली, डॉ. नरेन्द्र: राणा च सन्ति । अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजक: नवदेहलीत: मन्त्र साधना ज्योतिष फाउण्डेशनस्य निर्देशक: ज्योतिषाचार्य: डॉ. नवीनशर्मा अस्ति

गतरविवासरे २५/११/२०१८ तमे दिनाङ्के प्रतियोगितायाम् २१० जनाः आहत्य उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम: विजेता पीयूष कान्त शर्मा, हिमाचल प्रदेश, द्वितीय: विजेता ओमप्रकाश पण्डा, पश्चिमबङ्गाल, तृतीय: विजेता आशिष कुमार साहु, ओडिशा च ।

      सर्वेभ्यो: विजेतृभ्यो: नवदेहलीत: मन्त्र साधना ज्योतिष फाउण्डेशनस्य निर्देशक: ज्योतिषाचार्य: डॉ. नवीनशर्मामहोदय: श्रीमद्भगवद्गीता, छः मुखी रुद्राक्ष, सरस्वती यन्त्र च उपहार-स्वरूपेण दास्यते। आगामिनी प्रतियोगिता ०२/१२/२०१८ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।

Monday, November 26, 2018

पादत्राणस्य अनुमार्जनं कृत्वा, पादरक्षां वितीर्य च मध्य प्रदेशस्य स्थानाशिनःI
    भोपालः > सम्मतिदायकान् गोण्यवरोहणं कर्तुं नूतनचेष्टितेन सह स्थानाशिनः। नूतन 'राष्ट्रिय आम् जन् दल'स्य शरत् सिङ् कुमारः भवति एवं सम्मतिदायकान् आकर्षति। तस्य निर्वाचन चिह्नमपि पादत्राणमेव। अक्षिसात् कृतानां पादत्राणम् अनुमार्जनं कृत्वा एव सम्मतिदानाभ्यर्थना। स्वस्य चिह्नं निर्वाचने अनुग्रहमानयिष्यति इति तस्य विश्वासः अस्तीति माध्यमान् प्रति सः अवदत्।
   शरतं विहाय स्वतन्त्रस्थानाशी अकुल हनुमन्तः च नूतन चेष्टितेन विहरन् अस्ति। तस्यापि अन्यतरा पादरक्षा भवति निर्वाचनचिह्नम्। सः सर्वेषां कृते पादराक्षां वितीर्य सम्मतिदानाय समभ्यर्थ्यते।
नवंबर् २८ तमे दिनाङ्के भवति मध्यप्रदेशस्य नियमसभानिर्वाचनम्। डिसम्बर् मासस्य ११ दिनाङ्के निर्वाचनस्य फलं प्रकाशयिष्यति।
संस्कृताभियानम् ।
डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः
      नमांसि, स्वातन्त्र्यानन्तरं अद्यावधि अस्माकं सर्वेषां संस्कृतानुरागिणां अवधानं सर्वकारकेन्द्रितं वर्तते। संस्कृतविकासाय सर्वकारा: किमपि कुर्यु: इति अपेक्षा:, अभियाचना: च कुर्वन्त: स्म:। परं न किमपि महत् साधितम्। कोsपि सर्वकार: सामान्तया द्वयो: परिस्थित्यो: कमपि उपक्रमं कर्तुं प्रवर्तते। प्रथमा तु समाजे सार्वत्रिकरूपेण काचन महती जनयाचना समुत्पन्ना स्यात्, द्वितीया तु तस्य उपक्रमस्य स्वीकरणेन निर्वाचने मतानि लभ्येरन् इति। संस्कृतदृष्ट्या तु एतद्द्वयमपि नास्ति। अत: एव वयं विफला: अभवाम। इदानीं वा वयं सत्यम् अवगत्य जनाभिमुखा: भवेम। मित्राणि, जनमानसपरिवर्तनाय अस्मत्केन्द्रितान् कार्यक्रमान् चिन्तयेम। जयतु संस्कृतम् जयतु भारतम् ।  
कोल्कत्त देशे सार्वजनिकप्रदेशे मालीन्यक्षेपः- दण्डः लक्षं रूप्यकाणि।
      कोल्कत्त> कोल्कत्त नगरे सार्वजनिकप्रदेशेषु मालिन्यविक्षेपणाय लक्षं रूप्यकाणि भवति दण्डः पश्चिमवङ्ग नियमसभया नूतननियमः निर्मितः। एतदर्थं कोल्कत्त नगरपालिकाप्रक्रमे ३३८ तमे विभागे परिष्कारं कृतम्। राज्येषु नूतनतया उद्‌घाटिताः मार्गाः उपरिमार्गाः च अल्पेन्नैव कालेन मलिनीकृताः इत्यनेन मुख्यमिन्त्रिण्याः ममता बानर्जी महाभागायाः असन्तुष्टिः एव अस्य नियम निर्माणस्य कारणम्। नूतननियममनुसृत्य  सार्वजनिक प्रदेशेषु मालिन्यक्षेपणाय पञ्चसहस्र रूप्यकाभिः (५०००) आरभ्य लक्षं रूप्यकाणि पर्यन्तं दण्डशुल्कं निश्चितम्। पूर्वस्मिन् काले पञ्चाशत् आरभ्य पञ्चसहस्रपर्यन्तमासीत्। 

Sunday, November 25, 2018

प्रधानमन्त्रिणः नरेन्द्रमोदिनः 'मन की बात' ५० तमां सोपानपङ्क्तिं  समारूढम्
     नवदिली > भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिन: प्रतिमास आकाशवाणीकार्यक्रमः पञ्चाशत् (५०) तमं सोपानं सम्प्राप्तम्। सामान्य जनानां हृदयेषु उपस्थातुं कार्यक्रमोऽयम् उपकरोति। भारतस्य सर्वासु भाषासु कार्यक्रमस्य अनुवादस्य प्रक्षेपणम् आकाशवाणि द्वारा कुर्वन्ति। संस्कृत भाषायामपि अस्ति सम्प्रेषणम्। सुज्ञातः संस्कृतवार्ताप्रक्षेपकः डॉ बलदेवानन्द सागरः भवति संस्कृतानुवादकर्ता। सागर महोदयस्य शब्देन सह प्रधानमन्त्रिणः मनोगतम् सम्प्रतिवार्तायाः अन्तर्जालपुटे अन्तर्जाल-सम्प्रेषणमपि क्रियते।
‘मनोगतम्’ – ५०  सोपानस्य संस्कृत भाषिकानुवादः अधः दीयते ।
मन की बात’ (५०-वीं कड़ी)   प्रसारणतिथि: - २५-११-२०१८
भागिककालीनेभ्यः कर्मकरेभ्यः भविष्यनिधि:  अङ्‌गीकृता।
     तिरुवनन्तपुरम्> भागिककालीनेभ्यः कर्मकरेभ्यः भविष्यनिधिः इति कल्पना वित्तलेखाधिकारिणा(AG) अङ्‌गीकृता। अस्याः कृते अवश्यप्रक्रमस्वीकाराय  आदेशः  आर्थिकविभागाय प्रदत्तः। केरलेषु इतः पर्यन्तं भागिककालीनेभ्यः कर्मकरेभ्यः भविष्यनिधिः नासीत्I अस्मिन् गणे अधिकाः संस्कृताध्यापकाः एव। संस्कृताध्यापक फेडरेषन् इति अध्यापकानां स्वतन्त्र-सङ्घटनया वर्षाणियावत् प्रयत्नः कृतः । विभिन्न-राजनैतिकदलीयानां सर्वकारैः शासनं कृतं चेदपि अध्यापकानां निवेदनम् अधिकारं च विगणितम्।  २०१२ तमे संवत्सरे संस्कृताध्यापफेडरेषन्  (KSTF)संघटनया राज्यस्थरीयान्दोलनं-कृत्वानन्तरं पुनरपि निवेदनं समर्पितम्। तन्निवेदने अधुना एव युक्तन्यायनिर्णयाय प्रक्रमः स्वीकृतः। एतदर्थं केरलसर्वकारः भविष्यनिधिनियमेषु अवश्यं व्यत्ययं करणीयम् अस्ति।  तदपि शीघ्रं कृत्वा त्वरितप्रक्रमाः भविष्यन्ति इति विद्यालयीयशिक्षकाणां  विश्वासः भवति इति के एस् टी एफ् संधनेता पी जी अजित् प्रसादः अवदत् ।

Saturday, November 24, 2018

दिल्लीस्थे श्रीलालबहादुरशास्त्रि राष्ट्रियसंस्कृतविद्यापीठे समायोजित: विशिष्टव्याख्यानकार्यक्रम:
-पुरुषोत्तमशर्मा
  नवदेहली> ऐषमो नवम्बरमासस्य द्वाविंशे दिने दिल्लीस्थे श्रीलालबहादुरशास्त्रि राष्ट्रियसंस्कृतविद्यापीठस्य वाचस्पतिसभागारे IGNCA इति इन्दिरागांधीराष्ट्रियकलाकेन्द्रस्य स्थापनादिवसावसरे भारतीयविद्यापरियोजनान्तर्गतं श्रीलालबहादुरशास्त्रि राष्ट्रियसंस्कृतविद्यापीठस्य 
संवर्धनन्यासस्य च संयुक्ततत्वावधाने संस्कृतसाहित्ये चतुरङ्गक्रीडाया: सन्दर्भा: विषयको विशिष्टव्याख्यानकार्यक्रम: समायोजित:। विद्यापीठस्य कुलपति: प्रो.रमेशकुमारपाण्डेय: कार्यक्रमस्य अध्यक्षतां निरवहत्।  संस्कृतसाहित्ये चतुरङ्गक्रीडाया: सन्दर्भा: विषयमालक्ष्य डॉ.चन्द्रगुप्तवर्णेकर: व्याख्यानं प्रास्तौत्। वर्णेकरमहोदयेन प्रक्षेपकयन्त्रसाहाय्येन निजव्याख्याने संस्कृतसाहित्ये विद्यमानानि उदाहरणानि प्रस्तुतानि। डॉ. शिवशङ्करमिश्रेण सम्पूर्णकार्यक्रमस्य सफलसञ्चलनं कृतम्।

Friday, November 23, 2018

संस्कृतशिक्षकाणां मध्ये ज्ञानेन प्रभुः, चन्द्रशेखरप्रभुः।
     कोच्ची > केरलेषु विद्यालयाध्यापकानां मध्ये चन्द्रशेखर प्रभु इत्याख्यः शिक्षकः अस्ति। अस्य वर्षस्य शर्मा जी पुरस्काराय एषः चितः आस्ति। संस्कृतभारत्या उत्तम संस्कृतशिक्षकाय दीयमानः पुरस्कारः भवति अयम्।

    कोच्ची मण्डले मट्टाञ्चेरी टी डी उच्चविद्यालये संस्कृतशिक्षकः भवति एषः। संस्कृताध्यापकवृन्देषु ज्ञाने प्रभुत्वं प्रदर्शयति च। विनायान्वितः सः सहाध्यापकानां छात्राणां मनांसि सदा प्रभावयति।

   अस्य धर्मपत्नी पुष्पलता भवति। सा अपि केरलसर्वकारविद्यालये संस्कृतशिक्षकी भवति। दम्पती संस्कृतस्य प्रचारणप्रसारणकर्मसु व्यापृतौ वर्तेते।  - सम्प्रतिवार्ता कोच्ची।
अमृतसरसि आक्रमणकारिभिः उपयुक्तः विस्फोटकः पाकिस्थाने निर्मितम्। 
अत्याचारस्य पृष्टतः ऐ एस् ऐ - मुख्यमन्त्री अमरीन्द्रसिंहः।

चित्रग्रहणं ANI
   चण्डीगढः > अमृतसरसः प्रार्थनालये दुरापन्नस्य विस्फोटकाक्रमणस्य पृष्टतः पाकिस्थानस्य चारसंघटना ऐ एस् ऐ इति पञ्चाबस्य मुख्यमन्त्री अमरीन्द्रसिंहः अवदत्I आक्रमणाय उपयुक्तं विस्फोटकं पाकिस्थाने निर्मितम् अस्ति। घटनानुबन्धतयः एकः गृहीतः अस्ति इति तेन भणितम्। विस्फोटकाक्रमणेन त्रयः हताः विंशतिजनाः क्षताः च आसन्। मुखमाच्छाद्य द्विचक्रिकायाने आगतौ प्रार्थनालयं प्रति विस्फोटकं प्राक्षिपन्तौआस्ताम् । 

Thursday, November 22, 2018

राष्ट्रे ५०% ए टि एम्‌ उपकरणानि मार्च् मासे पिधास्यन्ते इति पूर्व सूचना।
    मुम्बै> राष्ट्रे विद्यमानेषु धनादानयन्त्रेषु  प्रतिशतं पञ्चाशत् संख्याकानि पिधास्यन्ते। इयं पूर्वसूचना 'कोण्फेडरेषन् ओफ् ए टि एम् इन्टस्ट्री' द्वारा प्रकाशिता। २.३८ लक्षं धनादानयन्त्राणि इदानीं सेवननिरतानि वर्तन्ते। एतस्मात् १.१३ लक्षं धनादानयन्त्राणि पिधानं कर्तुं निर्बद्धाः स्युः । धनादानयन्त्राणि 'सोफ्ट्वेर्' आदिवस्तूनां नवीकरणाय रिज़र्व बैंक् संस्थया कृतनिर्देशाः पालियितुं क्लेशाः अधिकाः सन्ति इति सेवनदातारः वदन्ति। समागतवर्षस्य फेब्रुवरि मासात् पूर्वं  नुतन निर्देशानुसारं  नवीकरणीयम् इत्यस्ति रिज़र्व बैंकस्य आदेशः। एतदर्थम् अधिकं धनं व्ययीकरणीयम् इत्यपि सेवनदातारः वदन्ति।
धन्याता           चित्रव्यायाख्या
-बाला चिर्वावूरी

   जीवकारुण्यमेतद्धि बालासु प्रतिभाति वै।
   बोद्धारो तैव नूनं तु ज्येष्ठानां मार्गदर्शकाः।।

   जीवेन जीविताःसर्वे इति ज्ञानं विना अपि।
   दानानां सात्त्विकं श्रेष्ठं इति ज्ञानं विना अपि।।

   गवामपि च श्रेष्ठत्वं नैव जानन्ति साम्प्रते।
   धन्याता हि निश्चयेन पितरावपि कुलेषु च।।




दिष्ट्या वर्धस्व गोवत्स! तव जन्म तु सार्थकम्।
जलेन जीवेम सर्वेsपि जानामि सततं भवे।।

मनःसरस्युदकपाने गुणाधिकशतं भवेत्।
हरिपद्मपदाम्भोजाज्जाता मन्दाकिनीति च।।

पुराणवचनादेव ज्ञायते न तु लोकते।
हन्त दर्शनमात्रेण त्वय्यक्षान्तिर्हि मे मनः।।

अहमपि एलितुमिच्छामि क्षणमात्रेsपि त्वद्दृशा।
तावन्मात्रेण श्रीकृष्णचरणतीर्थे पुनामि हि।।
   

Wednesday, November 21, 2018

सी बी ऐ दण्डव्यवस्थायाः विशदांशाः अपाहृताः,
 क्षुभितो भूत्वा मुख्यन्यायाधीशः।
   रम्या पी यू।              
      नवदिल्ली> अत्याचारदण्डनव्यवस्थायां केन्द्र-सूक्ष्मनिरीक्षणसमित्या ( केन्द्र विजिलन्स् कमिशन्) दत्तम् आवेदनपत्रम्, भूतपूर्व केन्द्रदोषान्वेषणसमित्याः (सी बी ऐ) निदेशकेन दत्तम् प्रत्युत्तरं च अपाहृतमित्यत्र अतृप्तिम् प्रकटय्य परमोन्नतनीतिपीठस्य  मुख्यन्यायाधीशः रञ्जन गोगोयः। प्रत्युत्तरं दातुम् अलोकवर्मणः न्यायवादी अधिकसमयम् पृष्टवान् इत्यत्रापि सः अतृप्तिम् प्राकटयत्। वादप्रतिवादे वादाय अर्हतापि न्यायवादिभ्यः नास्ति इत्यपि सः उक्तवान्। अलोकवर्माणं प्रति विद्यमानं सी वी सी आवेदनम्. तस्योपरि तेन समर्पितम् प्रत्युत्तरमपि न्यायालयेन परीक्षितम्। सी बी ऐ निदेशकस्य उत्तरदायित्वात् अलोकवर्माणं निष्कासितघटनायां न्यायवादपरिगणना नवविंशति दिनाङ्कं  प्रति पर्यवर्तयत्। अनधिकृतरीत्या विशदांशाः अपहृताः इति अलोकवर्मणः न्यायवादी फालि एस् नरिमान् न्यायालयम् बोधितवान्।
ट्रम्पस्य विरुद्धपरामर्शे पाक्किस्थानस्य विप्रतिपत्तिः।
इस्लामबाद्> ओसाम बिन् लादं सम्बन्ध्य डोणाल्ड् ट्रम्पस्य परामर्शे पाक्किस्थानस्य प्रतिषेधः प्रकाशितःI अमेरिकीयदूतावासस्य प्रौढं उद्योगिनम् आहूय आसीत् प्रतिषेधप्रकाशनम्। पाकिस्थानाय यू एस् राष्ट्रेण दत्तपूर्वं आर्थिकसाहाय्यं इतःपरं स्थगयितुं कृतं निश्चयं साधूकुर्वन्  ट्रम्पेण कृतं भाषणं पाकिस्थानं प्रकोपितम्। आतङ्कवादान् निवारयितुमुद्दिश्य पाकिस्थानेन किमपि  न कृतम्। अल् ख्वैद संख नेतृणे बिन् लादाय निलीयवासगृहं पाकिस्थानेन दत्तम् इत्यपि ट्रम्पेण उक्तमासीत्। प्रति संवत्सरं १.३ बिल्यण् डोलर् धनम् अमेरिकेन पाकिस्थानाय दत्तं आसीत् इति फोक्स् वार्ताहरं प्रति अवदत् । बिन् लादाय निलीनवासाय सुविधा अपि पाकिस्थानः अदात् इत्यपि सह अवदत्। अतः इतः परम् आर्थिकसाहाय्यं दातुं न शक्यते इत्यपि तेनोक्तम्। ट्रम्पस्य उक्तिः  पाकिस्थानस्य रोषकारणमभववत् । अतः अमेरिकीयदूतावासस्य प्रौढं उद्योगिनं निमन्त्र्य प्रतिषेधः प्राकाशयत्। 
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
नमस्ते, स्वीकृतस्य ध्येयस्य पूर्त्यै क्रियाशीलता भवेत्। परन्तु सामान्या क्रियाशीलता न, अपि तु महान् परिश्रम:। लक्ष्यप्राप्तिपर्यन्तं यत्र परिश्रमस्य अखण्डता भवति तत् एव परिश्रमसातत्यम् इत्युच्यते। सफलतायां नवनवति: प्रतिशतं परिश्रम: कारणं, केवलम् एकं प्रतिशतं प्रेरणा कारणम् इति आङ्गलभाषाया: काचित् उक्ति: अस्ति। महत: लक्ष्यस्य प्राप्त्यर्थं तदनुगुणम् एव परिश्रम: करणीय: भवेत्। बहुपरिश्रमशुल्कानि हि महाकार्याणि। मित्राणि, वयं संस्कृतसम्भाषणान्दोलनं नाम महत: लक्ष्यस्य  प्राप्त्यर्थं बहुपरिश्रमशीला: ,स्वयंप्रेरिता: च भवाम:।" क्रियासिद्धि: सत्वे भवति महतां नोपकरणे" जयतु संस्कृतम् जयतु भारतम् । 

Tuesday, November 20, 2018

भुवनप्रचोदिकासु शतं महिलासु तिस्रः भारतीयाः। 
पि. विजी

   लण्टन्   >   ‍आगोलवृत्तान्तमाध्यमनियोजकेन 'बि बि सी' नामकेन चितासु  लोकोत्तरप्रतिभाधनासु विश्वमार्गप्रदीपिकासु  महिलासु  तिस्रः  भारतीयवनिताः अन्तर्भूताः। 'मी टू' आन्दोलनादारभ्य  उत्तरायर्लान्ट् देशे गर्भच्छिद्रान्दोलनपर्यन्तं कार्यकर्तृत्वम् ऊढ्वा आविश्वम् आदर्शभूताः अन्येभ्यः अपि प्रचोददायिकाः शतं वनिताः बि बि  सि संस्थया निर्णीतायामस्यां पट्टिकायां  सन्ति।

    तासु भारतस्य मुखश्रियः तिस्रः - महाराष्ट्रस्य 'बीजमाता' इति प्रसिद्धा राहिबायी  सोमा पोपेरा  ,  वंगस्य उद्योगिनी मीना  गायेन्  ,  उपवेशनान्दोलनस्य नेत्री केरलीया पि . विजी [विजी पेण्कूट्ट्] -  भारतवीरवनिताः भवन्ति। 
  ६० राष्ट्राणां राजनैतिक - कला - उद्योगमण्डलेषु व्यक्तिमुद्राम् आलेखितवत्येभ्यः वनिताप्रतिभेभ्यः एव बि बि सी संस्थया एताः  चिताः।  १५ वयः आरभ्य ९४ वयः पर्यन्तं वर्तमानाः अस्यां पट्टिकायां विद्यन्ते।  पट्टिकायां ३३तम नामिका मीना गायेन् वंगराज्ये सुन्दरबन् प्रदेशेषु १० किमी दीर्घात्मकं मार्गं निरमयत्। प्रकृतिक्षोभान् प्रतिरोद्धुं शक्तिमन्तः आसन्  एते  मार्गाः।  एभिः स्वग्रामं प्रति अधिकाः सुविधाः आनेतुं कारणमभवत्।  
  ५५ वयस्का राहीबायी महाराष्ट्रस्य अहम्मदनगर् स्वदेशिनी तथा कृषका च भवति। भारते 'बीजबैंक्' [बीजागारः] इति अभियोजनायाः स्थापका च भवति। तद्देशीयबीजाधिकरणानां संरक्षणाय कार्षिकमण्डलस्य च अभिवृद्धये स्वजीवनं समर्पितवती एषा। केरलीया पि. विजी नामिका स्त्रीभ्यः बहूनाम्  अधिकारान्दोलनानां सूत्रधारिणी अस्ति।  वस्त्रशालासु  महिलानाम्  उपवेशसुविधायै 'पेण्कूट्ट्' [स्त्रीसुहृत्संघः] इति संघटनस्य नेतृत्वे अनया कृतम्  आन्दोलनं प्रधान्यमर्हति। तत्फलेन केरलराज्ये नूतनः नियमः अपि आविष्कृतः।
शबरिगिरि युवतीप्रवेशः  -  देवस्वं संस्थया कालविलम्बयाचिका समर्पिता। 
  नवदिल्ली  >  शबरिगिरीशमन्दिरे वयोभेदं विना स्त्रीप्रवेशं विधातुम् अधिकं कालमभियाच्य 'तिरुवितांकूर् देवस्वं बोर्ड्' संस्थया सर्वोच्चन्यायालये अभियाचिका समर्पिता। विधिं विधातुं यावच्छक्यं प्रयतते तथापि केचित् प्रायोगिकक्लेशाः अभिमुखीक्रियन्ते इति याचिकायां संसूच्यते। 
   प्रलयेन पम्पातीरं नाशितम् इत्यतः तीर्थाटकेभ्यः आधारसुविधानाम् अभावं, सामाजिकशान्तिकार्ये वर्तमानां अस्वस्थतां च सूचयित्वा एव देवस्वं बोर्ड् संस्था सर्वोच्चनीतिपीठम् उपागच्छत्।

Monday, November 19, 2018

अमृतसरसि स्फोटकवस्त्वाक्रमणं - त्रयः मृताः। 
  अमृतसरः>   पञ्चाबराज्यस्य राजधानीसमीपं अदलिवाल् ग्रामे निरन्कारी भवने 'ग्रनेड्' नामकेन स्फोटकायुधाक्रमणेन त्रयः जनाः मृत्युमुपगताः। अनेके व्रणिताश्च। रविवासरे प्रभाते द्विचक्रिकया प्राप्तवन्तौ द्वावज्ञातौ निरन्कारिभवने सम्मिलितान् जनान् लक्षीकृत्य ग्रनेडविक्षेपणं कृतवन्तौ। एतौ ग्रहीतुं यत्नः पुरोगच्छति। 
   अनया घटनया पञ्चाबराज्ये सर्वत्र तथा दिल्ल्यां  च अतीव जाग्रता प्रख्यापिता। राज्ये भीकराक्रमणस्य साध्यता दक्षसंस्थया निवेदिता आसीत्।