OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 19, 2018

गूढशब्दः चोरितः, इन्स्टग्राम् माध्यमे सुरक्षापातःI
            सुरक्षापातेन केचन उपयोक्तॄणां गूढशब्दः बहिः प्रकाशितः इति इन्स्टाग्राम् अधिकारिणः अवदन्। विषयोऽयं  ग्रस्थाः उपभोक्तारः इन्स्टाग्रां माध्यमेन अवेदितः।  विषयोऽयं इन्स्टाग्राम् विभागेन प्रत्यभिज्ञातः लखुसंख्याकान्  एव इयं समस्या ग्रसिता इत्यपि इन्स्टाग्रां माध्यमेन उक्तम्। जि डि पि आर् निर्देशानुसारम् उपभोक्तॄणां विवरणानि अवरोहितमुद्रणं कर्तुं आयोजितायाः नूतनसुविधायाः स्कालित्येन एव विषयोऽयं जातः।
          इन्स्टाग्रां माध्यमे स्वकीय विवरणानि अवरोहितमुद्रणं कर्तुं उद्युक्तानां ब्रौसर् इति अन्वेषके एव गुढपदम् प्रकाशितम्। समस्या इदानीं परिहृदा वर्तते इति माध्यमेन उक्तम्। 

Sunday, November 18, 2018

अमरीकायाः चतुर्विंशतिः रोमियो सीहोक् हेलिकोप्टर् यानानि भारतेन क्रेष्यन्ते।।  
- रम्या पी यू      
     वाषिङ्टण्> अमरीकायाः आन्टी सब्मरैन् उदग्र (हेलिकोप्टर् ) यानानि  स्वायत्तीकर्तुम् भारतम्। माकिं चतुर्दशसहस्रं कोटिः रूप्यकाणि व्ययीकृत्यैव चतुर्विंशतिः मल्टी रोल् एम् एच्-60 रोमियो उदग्रयानानि भारतम् स्वायत्तीकरिष्यति। द्वित्रमासाभ्यन्तरे अमरीकया सह व्यवस्थां स्थापयितुं शक्यते इति प्रतिरोधव्यवसायवृत्तानि व्यजिज्ञपत्। लोकस्यैव सर्वोत्तमं कार्यक्षमं च एम् एच् - 60 रोमियो  नाविकहेलिकोप्टर् यानानि स्वायत्तीकरणीयानीति भारतस्य अभिलाषः। अतिजाग्रतया चतुर्विंशतिः हेलिकोप्टर्यानानि आवश्यकानीति भारतम् अमरीकायै पत्रम् प्रैषयत्। भारतमहासमुद्रे चीनस्य  अन्तर्वाहिनीनां चलनं निरीक्षितुं रोमियो यानानि सहायकानि भवन्तीति प्रतीक्षते।
मालिद्वीपराष्ट्रपतेः शपथसमारोहे नरेन्द्रमोदी विशिष्टातिथिः। 
  माले  >  मालिद्वीपराष्ट्रस्य नूतनराष्ट्रपतेः इब्राहिम मुहम्मद सोलिहस्य शपथसमारोहे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी आतिथ्यं स्वीकृतवान्। शनिवासरे राष्ट्रराजधानीं प्राप्तं मोदिनं विधानसभाध्यक्षः अब्दुल्ला मसीह मुहम्मदः स्वीकृतवान्। 
   मालिद्वपे शान्तेः जनाधिपत्यस्य च सुस्थितिः चिरं भवितव्या इति भारतस्य अभिलाषः इति मोदिना प्रकीर्तितम्। सप्तसंवत्सरानन्तरमेव कश्चन भारतप्रधानमन्त्री मालिद्वीपं प्राप्नोति। मोदिनः प्रथमं मालीसन्दर्शनं भवत्येतत्। सत्यप्रतिज्ञाकार्यक्रमानन्तरं मोदिसोलिहयोर्मेलनमप्यभवत्। 
  श्रीलङ्कायाः भूतपूर्वा प्रधानमन्त्रिणी चन्द्रिका कुमारतुङ्गे अपि कार्यक्रमे अस्मिन् भागभागिनी अभवत्। सेप्टम्बर् मासे सम्पन्ने निर्वाचने भूतपूर्वं राष्ट्रपतिं अब्दुल्ला यमीनमेव सोलिहः पराजितवान्।
भारत-मालद्वीपबन्धम् शक्तं कारयिष्यति इति प्रधानमन्त्री मोदी।
      नवदिल्ली> मालद्वीपस्य नूतनराष्ट्रपतेः स्थानारोहणानन्तरं तस्मै आशंसां समर्प्य ट्विट्टर्मध्ये एवं लिखितं मोदिना। "मालदीपराष्ट्रपतिस्थानम् आरुह्य सत्यापनं कृतवते इब्राहिं मुहम्मद् सोलिह् वर्याय अभिनन्दनानि। तस्मै सर्वविध आशंसाः समर्पये। उभयोः राष्ट्रयोः मिथः बन्धं शक्तं कारयतुं मिलित्वा वर्तिष्यावः इति मन्ये।" सुशक्तः जनतन्त्रराष्ट्रम् भवतु मालिद्वीपः इत्यपि मोदिना ट्विट्टर्मध्ये लिखितम्।
   आधारसुविधायां स्वास्थ्यरङ्गे मानवकर्मकौशलमण्डले च  राष्ट्रस्य पुरोगमनविकासाय साहाय्यमपि करिष्यते इति मोदिना उक्तम्। मालिद्वीपस्य नेतृभिः साकं सः चर्चाम् अकरोत्। भारतप्रधानमन्त्रिपदं स्वीकृत्यानन्तरं मोदिनः प्रथम-मालद्वीपसन्दर्शनमेव भवति इदम्।

Saturday, November 17, 2018

सङ्घर्षपूरितायाम् अवस्थायां  शबरिगिरौ  मण्डलकालः आरब्धः।  
   शबरिगिरिः >   वयोभेदं  विना  महिलानामपि  शबरिगिरीशदर्शनं  साध्यमिति सर्वोच्चन्यायालयविधिं  विरुध्य गिरीशभक्तानां  प्रतिषेधे  वर्तमाने अस्य संवत्सरस्य मण्डलव्रतकालः  सन्निधानं  पुलकितवन्तैः शरणमन्त्रघोषैः समारब्धः।
   सर्वोच्चनीतिपीठस्य विधिं  विरुध्य समर्पिताः पुनःपरिशोधनायाचिकाः  वादश्रवणाय जनुवरि २३ दिनाङ्कं प्रति परिवर्तिताः ,  किं  च युवतीप्रवेशविधौ निरासोद्घोषणा च नास्ति  इत्यतः आचारसंरक्षणोत्सुकानां  भक्तानाम् उपरोधः पूर्वाधिकशक्त्या सन्निधाने परिसरप्रदेशेषु  च प्रचलिष्यति इति बुध्या कर्कशं नियन्त्रणमेव सर्वकारेण आयोजितम्।  १५,०००अधिकम्  आरक्षणबलं सर्वसन्नाहेन  विन्यस्तमस्ति।  अत एव शबरिगिरौ  संघर्षावस्था  जायते।
'गज' चक्रवातः तमिळ् नाट् राज्ये । १३ जनाः निहताः।
     चेन्नै> तमिळ् नाट् राज्ये अतिशक्तेन चक्रवातेन त्रयोदश जनाः निहताः। निहतेषु दशपुरुषाः तिस्रः स्त्रियः च भवन्ति।  विंशत्यधिकशतं  किलोमीट्टर् आसीत् वातस्य वेगमानः। वातस्य शक्त्या वृक्षाः पतिताः विद्युत् स्थम्भाः मार्गेषुपतिताः।  नागपट्टणे अतिवृष्‌ट्या जलाेपप्लवः अभवत् द्विसहस्रं भवनानि सम्पूर्णतया भन्गानि च। ४७१ दुरिताश्वासशिबिरेषु ८१९४८ जनाः पालयन्त सन्ति इति अधिकारिणः वदन्ति। मृतानां कुटुम्बेभ्यः व्रणितेभ्यः च तमिल् नाट् सर्व कारेण साहाय्यधनं प्रख्यापितम्। केन्द्रसर्व कारेणाऽपि अवश्मं साह्यं करिष्यति इति प्रधानमन्त्री नरेन्द्रमोदी तमिल् नाट् राज्यस्य मुख्यमन्त्रिणम् एडप्पाटि पळनिस्वामिनम्  अवदत्। दूरवाणी द्वारा आसीत्  प्रधानमन्त्रिणः भाषणम्।

Friday, November 16, 2018

कोटित्रयाणां सम्पदः- अलीकव्यवहारे न्यायाधिपः गृहीतः।
       हैदराबाद् > अनियमेन धनार्जनं कृतवान् न्यायाधीशः गृहीतःI  अलीकारोपणेन 'आन्टीकरप्षन् ब्यूरो संस्थया कृतान्वेषणानन्तरमेव आसीत् तस्य बन्धनम्। गणनाधीताः कोटित्रयाणां रूप्यकाणां सम्पदः अन्वेषणे प्रत्यभिज्ञातम्। रङ्गरढ्ढि जनपदस्य न्ययालयस्य न्यायाधीशः वि वरप्रसादः एव एषः दोषी। तं १४ दिनानि यावत् निरीक्षणाय पालयितुं न्यायालयेन आदिष्टम् । बुधवासरे प्रभाते आरब्धम् अन्वेषणं गुरुवासरे प्रभातपर्यन्तम् आसीत्। तेलङ्कान महाराष्ट्र राज्ययोः विद्यमानेषु गृहेषु संस्थासु च  युगपदेव आसीत्  अन्वेषणम्। बन्धुगृहेषु अप्यासीत् अन्वेषणम्। वरप्रसादं विरुद्ध्य आरोपणानि अजायत इत्यनेनेव अन्वेषणाय न्यायालयेन आदिष्टम्।

Thursday, November 15, 2018

          गाजा चक्रवातः- अतीवजाग्रता निर्देशः ख्यापितः।
          चेन्नै> तमिल्नाट् राज्ये आन्ध्र राज्यस्य समुद्रतटप्रदेशे  गज चक्रवातः वातिI होरायां शताधिक किलोमीट्टर् वेगः आसीत् ।
       गुरुवासरे अर्धस्त्रौ आसीत्  वातस्य तीरप्राप्तिः। वृष्ट्या साकं  वातः भविष्यति इति केन्द्र-वातावरण-निरीक्षण-केन्द्रस्य पूर्वसूचना। 
आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्
        बेड्गलूरु> बेङ्गलूरुनगरस्थे सुश्रुत-आयुर्वेद-वैद्यकीय - महाविद्यालये संस्कृतसंवर्धनप्रतिष्ठानेन "आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्" इति विषयिणी विचारसङ्गोष्ठी आयोजिता। एस् व्यास विश्वविद्यालयस्य कुलाधिपतिः डा. नागेन्द्रवर्यः पुस्तकानां लोकार्पणं कृत्वा आयुर्वेदाय संस्कृतस्य महत्त्वं कीदृशं वर्तते इति वदन् “आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्” इति परियोजनान्तर्गतेषु पुस्तकेषु विद्यमानविषयाः अत्यन्तं रुचिपूर्णाः, छात्रेभ्यः शिक्षकेभ्यः च अत्यन्तं साहाय्यमाचरन्ति इमानि पुस्तकानि, अतः अवश्यम् आयुर्वेदच्छात्राः अध्यापकाश्च संस्कृतमाध्यमेन पठेयुः पाठयेयुः च इति अकथयत् । संस्कृतसंवर्धनप्रतिष्ठानं संस्कृतभारतीं च अश्लाघयत्।
       संस्कृतसंवर्धनप्रतिष्ठानस्य निर्देशकः प्रो.चान्दकिरणसलूजा महोदयः पुस्तकनिर्माणस्य पृष्ठभूमिकाम् अवदत् । तथैव गणितस्य, जीवशास्त्रस्य, भौतसास्त्रस्य, रसायनशास्त्रस्य च पुस्तकानि संस्कृतभाषया रचितानि, इतः परम् एतादृशान् विषयान् अपि संस्कृतमाध्यमेन छात्राः पठिष्यन्ति इत्यपि अवदत् ।
CCIM उपाध्यक्षः डा.बि.आर्. रामकृष्णवर्यः संस्कृतभाषायाः महिमानं वर्णयन् आयुर्वेदस्य आत्मा संस्कृतम्, यतः चरकसंहिता, सुश्रुतसंहिता, भेलसंहितादयः मूलग्रन्थाः सर्वे संस्कृतभाषायामेव सन्ति।  अतः अचिरादेव सर्वत्र आयुर्वेदमहाविद्यालयेषु संस्कृत-उपन्यासकाः पूर्णकालिकत्वेन नियुक्ताः भविष्यन्ति तदर्थं स्वयं प्रयत्नं करोमि इत्यपि अभाषत ।
हॉगकांगदेशीयाया मुक्त-बैडमिण्टन-प्रतियोगिता - भारतं प्राप्रागुपान्त्यत्य चक्रे प्रविष्टाः।
     नवदिल्ली> हॉगकांगदेशीयाया मुक्त-बैडमिण्टन-प्रतियोगिताया  पी.वी.सिन्धुः किदाम्‍बी-श्रीकान्तः समीरवर्मा  च  हॉगकांगदेशीयायां मुक्त-बैडमिंटन-प्रतियोगितायां प्रप्रागुपान्त्यचक्रे प्रविष्टाः । महिलैकलवर्गे सिन्धुना प्रथमे चक्रे थाइलैण्डस्य निनचाओनः  21-15, 13-21, 21-17 अङ्कान्तरालेन पराजिता। एकस्याम् अन्‍यस्पर्धायां सायनानेहवालः जापानस्य यामागुची-अकाने इत्यनया पराजिता।
     पुरुषैकलवर्गेपि भारतस्य किदाम्‍बी श्रीकान्तः समीरवर्मा च प्रागुपान्त्यचक्रे प्रविष्टौ । पारुपल्ली कश्यपः बी.साई.प्रणीतश्च प्रथमे चक्रे पराजयं प्राप्तौ।

Wednesday, November 14, 2018

श्रीलङ्का - विधानसभावरोपणं सर्वोच्चन्यायालयेन निरस्तम्। 
  कोलम्बो  >  श्रीलङ्कायाः विधानसभां अवारोपयत् इति राष्ट्रपतेः मैत्रीपालसिरिसेनस्य प्रक्रमः सर्वोच्चन्यायालयेन निरस्तः। जनुवरिमासस्य पञ्चमे दिनाङ्केे प्रचाल्यमानस्य विधानसभानिर्वाचनस्य पदक्षेपाः अपि स्थगयिताः। 
   व्यवहारे अस्मिन् विस्तरः विधिः डिसंबर् सप्तमदिनाङ्के प्रस्तावयिष्यते। विधानसभायाः अवारोपणं विरुध्य 'युणैटड् नेषणल् पार्टी' , 'तमिल् नेषणल् अलयन्स्' , 'जनता विमुक्ति पेरुमुना' इत्यादीनि  दलानि सर्वोच्चनीतिपीठम् उपगतवतः।

Tuesday, November 13, 2018

छत्तीस्गढे प्रथमसोपाने ७०% मतदानम्।
  राय्पुरम्  >  छत्तीस्गढे मावोवादिमण्डलेषु संवृत्तस्य राज्यविधानसभानिर्वाचनस्य प्रथमसोपाने सप्तति प्रतिशतं  मतदानं कृतम्। ह्यः मतदानं सम्पन्नेषु १८ मण्डलेषु द्वादशसु शक्तं मावोयिस्ट्  सान्निध्यमस्ति।  अतः अतितीव्रेण सुरक्षासन्नाहेन आसीत् मतदानप्रक्रिया।
    बिजापुरजनपदे स्थानद्वये मावोवादिनां सि आर् पि एफ् भटानां च मिथः संघट्टनम् अभवत्।  सुक्म जनपदे द्वौ मावोवादिनौ सुरक्षाभटैः व्यापादितौ। अवशिष्टेभ्यः ७२ मण्डलेभ्यः २० तमे निर्वाचनं भविष्यति।
केन्द्रमन्त्री अनन्तकुमारः दिवंगतः।  
  बेङ्गलुरु>  भाजपादलस्य वरिष्ठनेता तथा केन्द्रविधानसभाकार्य - रासोर्वरकममन्त्री एछ् एन् अनन्तकुमारः [५९] दिवंगतः। अर्बुदरोगबाधया बेङ्गलुरुस्थे निजीयातुरालये  प्रविष्टः  सः  सोमवासरस्य उषसि मृत्युमुपगतवान्। विदेशीयचिकित्सानन्तरं मासैकस्मात् पूर्वं स्वदेशमागतः आसीत्। राष्ट्रपतिः  रामनाथ कोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी , कोण्ग्रस् अध्यक्षः राहुल् गान्धी इत्यादयः  श्रद्धाञ्जलिं समर्पितवन्तः। कर्णाटके त्रिदिवसीय दुःखाचरणं प्रख्यापितम्।
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
नमांसि, कोऽपि संस्कृतपठनाय न आगच्छन्ति इति समस्याया: सामान्यीकरणम्  न उचितम्। जनानां संस्कृतपठने अपि कारणानि भवन्ति, अपठने अपि कारणानि भवन्ति। कश्चन पठन् अस्ति चेत् किमर्थं पठति इति जानीम:, तदनुसारं कार्ययोजनां कुर्म:,  संस्कृतकार्यं जनान्दोलनरूपं प्राप्स्यति। कश्चन पठन् नास्ति चेत् किमर्थं न इति अवगच्छाम:,  तदनुसारम् अस्माकं न्यूनता: निवार्य,  योजनां नवीकृत्य,  पठितार: ये सन्ति तेषाम् अावश्यकता: प्रपूर्य वा लक्ष्यं साधयाम:। मित्राणि, वयं  एतस्मिन् विषये जागरूका: भवेम। " रणे धृति: सुकौशलं प्रवर्धतां मनोबलम्। जयस्तवास्ति निश्चित: कुरु स्वधर्मपालनम् " । जयतु संस्कृतम् जयतु भारतम् । 

Monday, November 12, 2018

"विमुद्रीकरणं जि एस् टि च भारताभिवृद्धिं  पराङ्मुखमकारयत्" - रघुरां राजः।
   वाषिङ्टण्  >  संवत्सरद्वयात् पूर्वम् आयोजितेन विमुद्रीकरणेन ततः परं कारितेन पण्यवस्तु-सेवाकरेण [जिएस्टि] च गतसंवत्सरे भारतस्य आर्थिकाभिवृद्धिः पराङ्मुखं गता इति रिसर्व बैंकस्य भूतपूर्वराज्यपालः रघुरामराजः अवदत्।  इदानींतन सप्त प्रतिशतस्य अभिवृद्धिः राष्ट्रस्य अवश्यपरिहाराय न पर्याप्ता इति च सः उक्तवान्। 
   गतदिने अमेरिक्कायां कैलिफोर्निया विश्वविद्यालये 'भारतस्य भविष्यत्' इत्यस्मिन् विषये   प्रभाषणं कुर्वन्नासीत् सः। मुद्रानिरासस्य  पण्यवस्तु सेवाशुल्कस्य च प्राक् संवत्सरचतुष्टये भारतस्य वृद्धिः शीघ्रतया आसीदिति र७घुरामेनोक्तम्।

Sunday, November 11, 2018

कुवैट् राष्ट्रे महती वृष्टिः ; एकः मृतः। 
  कुवैट्सिटी  >. कुवैट् राष्ट्रे शुक्रवासरादारभ्य आरब्धा वृष्टिः इदानीमपि अतिशक्त्या अनुवर्तते। वृष्ट्याः  दुष्प्रभावेण अहम्मद् बराक् अल् फदलि [३२] नामको  मृतः। वीथयः  प्रदेशाश्च जलोपप्लवे निमग्नाः। गतागतं  स्तम्भितम्।  आरक्षकाणां निर्देशेन वाहनानि मार्गे त्यक्त्वा  जनाः पलायितवन्तः।
   रविवासरं यावत् वर्षा अनुवर्तिष्यते इति सूचना।  अतः जनाः जागरूकाः भवेयुः इति निर्देशः दत्तः। समुद्रे  मत्स्यबन्धनमपि त्याज्यम्।
   राजवीथयो अपि जले निमग्नाः इत्यतः  तत्रत्यानि निर्माणप्रवर्तनानि विमर्शविधेयानि जातानि। अतः  राष्ट्रस्य. सामान्यनिर्माणमन्त्री 'हुसाम् अल्  रूमी' पदं त्यक्तवान्।
छत्तीसगढे निर्वाचनस्य प्रथमसोपानं श्वः ; घोषप्रचारणं समाप्तम्। 
    राय्पुरम् >  छत्तीसगढ राज्यस्य १८ विधानसभामण्डलेषु सोमवासरे मतदानं भविष्यति। ह्यः अत्रत्यानां घोषप्रचारणं समाप्तम्। ८ मण्डलेषु मावोवादिनां शक्तं सान्निध्यमस्ति। तेभ्यः मतदानबहिष्करणभीषा वर्तमाना अस्ति। अवशिष्टेषु ७२ मण्डलेषु नवं. २० तमे मतदानप्रक्रिया सम्पत्स्यते।
    प्रथमसोपाने जनविधिं प्रतीक्ष्यमाणेषु १९० स्थानाशिषु मुख्यमन्त्री रमण्सिंहः प्रमुखः भवति। भा ज पा दलं कोण्ग्रस् दलं च अत्र प्रमुखौ प्रतिद्वन्दिनौ।

Saturday, November 10, 2018

कर्मराहित्यमानं संवत्सरद्वयस्य उच्चतमस्तरे।
   नवदिल्ली  >  भारते कर्मराहित्यं संवत्सरद्वयस्य उच्चतमस्तरं प्राप्तम्। भारतीय आर्थिकोपदेशकेन्द्रेण   [Center for Monitoring Indian Economy] प्रकाशितम् आवेदनपत्रमनुसृत्य २०१८ ओक्टोबर् मासे भारतस्य कर्मराहित्यमानं प्रतिशतं ६.९ अस्ति। गतवर्षे एतत् ६.७५% आसीत्।
   २०१८ ओक्टोबर् मासस्य गणनामनुसृत्य राष्ट्रे कर्मकराणां संख्या ३९.७ कोटिपरिमितमिति निर्णीतमस्ति। किन्तु गतवर्षस्य अस्मिन्नेव समये एषा संख्या ४०.७ कोटि परिमितम् आसीत्।  प्रतिशतं २.४ परिमितस्य न्यूनता जाता। संवत्सरद्वयपूर्वस्य मुद्रानिरासस्य अनन्तरफलमिति आवेदनपत्रे विशकलनं क्रियते।