OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 15, 2018

हॉगकांगदेशीयाया मुक्त-बैडमिण्टन-प्रतियोगिता - भारतं प्राप्रागुपान्त्यत्य चक्रे प्रविष्टाः।
     नवदिल्ली> हॉगकांगदेशीयाया मुक्त-बैडमिण्टन-प्रतियोगिताया  पी.वी.सिन्धुः किदाम्‍बी-श्रीकान्तः समीरवर्मा  च  हॉगकांगदेशीयायां मुक्त-बैडमिंटन-प्रतियोगितायां प्रप्रागुपान्त्यचक्रे प्रविष्टाः । महिलैकलवर्गे सिन्धुना प्रथमे चक्रे थाइलैण्डस्य निनचाओनः  21-15, 13-21, 21-17 अङ्कान्तरालेन पराजिता। एकस्याम् अन्‍यस्पर्धायां सायनानेहवालः जापानस्य यामागुची-अकाने इत्यनया पराजिता।
     पुरुषैकलवर्गेपि भारतस्य किदाम्‍बी श्रीकान्तः समीरवर्मा च प्रागुपान्त्यचक्रे प्रविष्टौ । पारुपल्ली कश्यपः बी.साई.प्रणीतश्च प्रथमे चक्रे पराजयं प्राप्तौ।

Wednesday, November 14, 2018

श्रीलङ्का - विधानसभावरोपणं सर्वोच्चन्यायालयेन निरस्तम्। 
  कोलम्बो  >  श्रीलङ्कायाः विधानसभां अवारोपयत् इति राष्ट्रपतेः मैत्रीपालसिरिसेनस्य प्रक्रमः सर्वोच्चन्यायालयेन निरस्तः। जनुवरिमासस्य पञ्चमे दिनाङ्केे प्रचाल्यमानस्य विधानसभानिर्वाचनस्य पदक्षेपाः अपि स्थगयिताः। 
   व्यवहारे अस्मिन् विस्तरः विधिः डिसंबर् सप्तमदिनाङ्के प्रस्तावयिष्यते। विधानसभायाः अवारोपणं विरुध्य 'युणैटड् नेषणल् पार्टी' , 'तमिल् नेषणल् अलयन्स्' , 'जनता विमुक्ति पेरुमुना' इत्यादीनि  दलानि सर्वोच्चनीतिपीठम् उपगतवतः।

Tuesday, November 13, 2018

छत्तीस्गढे प्रथमसोपाने ७०% मतदानम्।
  राय्पुरम्  >  छत्तीस्गढे मावोवादिमण्डलेषु संवृत्तस्य राज्यविधानसभानिर्वाचनस्य प्रथमसोपाने सप्तति प्रतिशतं  मतदानं कृतम्। ह्यः मतदानं सम्पन्नेषु १८ मण्डलेषु द्वादशसु शक्तं मावोयिस्ट्  सान्निध्यमस्ति।  अतः अतितीव्रेण सुरक्षासन्नाहेन आसीत् मतदानप्रक्रिया।
    बिजापुरजनपदे स्थानद्वये मावोवादिनां सि आर् पि एफ् भटानां च मिथः संघट्टनम् अभवत्।  सुक्म जनपदे द्वौ मावोवादिनौ सुरक्षाभटैः व्यापादितौ। अवशिष्टेभ्यः ७२ मण्डलेभ्यः २० तमे निर्वाचनं भविष्यति।
केन्द्रमन्त्री अनन्तकुमारः दिवंगतः।  
  बेङ्गलुरु>  भाजपादलस्य वरिष्ठनेता तथा केन्द्रविधानसभाकार्य - रासोर्वरकममन्त्री एछ् एन् अनन्तकुमारः [५९] दिवंगतः। अर्बुदरोगबाधया बेङ्गलुरुस्थे निजीयातुरालये  प्रविष्टः  सः  सोमवासरस्य उषसि मृत्युमुपगतवान्। विदेशीयचिकित्सानन्तरं मासैकस्मात् पूर्वं स्वदेशमागतः आसीत्। राष्ट्रपतिः  रामनाथ कोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी , कोण्ग्रस् अध्यक्षः राहुल् गान्धी इत्यादयः  श्रद्धाञ्जलिं समर्पितवन्तः। कर्णाटके त्रिदिवसीय दुःखाचरणं प्रख्यापितम्।
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
नमांसि, कोऽपि संस्कृतपठनाय न आगच्छन्ति इति समस्याया: सामान्यीकरणम्  न उचितम्। जनानां संस्कृतपठने अपि कारणानि भवन्ति, अपठने अपि कारणानि भवन्ति। कश्चन पठन् अस्ति चेत् किमर्थं पठति इति जानीम:, तदनुसारं कार्ययोजनां कुर्म:,  संस्कृतकार्यं जनान्दोलनरूपं प्राप्स्यति। कश्चन पठन् नास्ति चेत् किमर्थं न इति अवगच्छाम:,  तदनुसारम् अस्माकं न्यूनता: निवार्य,  योजनां नवीकृत्य,  पठितार: ये सन्ति तेषाम् अावश्यकता: प्रपूर्य वा लक्ष्यं साधयाम:। मित्राणि, वयं  एतस्मिन् विषये जागरूका: भवेम। " रणे धृति: सुकौशलं प्रवर्धतां मनोबलम्। जयस्तवास्ति निश्चित: कुरु स्वधर्मपालनम् " । जयतु संस्कृतम् जयतु भारतम् । 

Monday, November 12, 2018

"विमुद्रीकरणं जि एस् टि च भारताभिवृद्धिं  पराङ्मुखमकारयत्" - रघुरां राजः।
   वाषिङ्टण्  >  संवत्सरद्वयात् पूर्वम् आयोजितेन विमुद्रीकरणेन ततः परं कारितेन पण्यवस्तु-सेवाकरेण [जिएस्टि] च गतसंवत्सरे भारतस्य आर्थिकाभिवृद्धिः पराङ्मुखं गता इति रिसर्व बैंकस्य भूतपूर्वराज्यपालः रघुरामराजः अवदत्।  इदानींतन सप्त प्रतिशतस्य अभिवृद्धिः राष्ट्रस्य अवश्यपरिहाराय न पर्याप्ता इति च सः उक्तवान्। 
   गतदिने अमेरिक्कायां कैलिफोर्निया विश्वविद्यालये 'भारतस्य भविष्यत्' इत्यस्मिन् विषये   प्रभाषणं कुर्वन्नासीत् सः। मुद्रानिरासस्य  पण्यवस्तु सेवाशुल्कस्य च प्राक् संवत्सरचतुष्टये भारतस्य वृद्धिः शीघ्रतया आसीदिति र७घुरामेनोक्तम्।

Sunday, November 11, 2018

कुवैट् राष्ट्रे महती वृष्टिः ; एकः मृतः। 
  कुवैट्सिटी  >. कुवैट् राष्ट्रे शुक्रवासरादारभ्य आरब्धा वृष्टिः इदानीमपि अतिशक्त्या अनुवर्तते। वृष्ट्याः  दुष्प्रभावेण अहम्मद् बराक् अल् फदलि [३२] नामको  मृतः। वीथयः  प्रदेशाश्च जलोपप्लवे निमग्नाः। गतागतं  स्तम्भितम्।  आरक्षकाणां निर्देशेन वाहनानि मार्गे त्यक्त्वा  जनाः पलायितवन्तः।
   रविवासरं यावत् वर्षा अनुवर्तिष्यते इति सूचना।  अतः जनाः जागरूकाः भवेयुः इति निर्देशः दत्तः। समुद्रे  मत्स्यबन्धनमपि त्याज्यम्।
   राजवीथयो अपि जले निमग्नाः इत्यतः  तत्रत्यानि निर्माणप्रवर्तनानि विमर्शविधेयानि जातानि। अतः  राष्ट्रस्य. सामान्यनिर्माणमन्त्री 'हुसाम् अल्  रूमी' पदं त्यक्तवान्।
छत्तीसगढे निर्वाचनस्य प्रथमसोपानं श्वः ; घोषप्रचारणं समाप्तम्। 
    राय्पुरम् >  छत्तीसगढ राज्यस्य १८ विधानसभामण्डलेषु सोमवासरे मतदानं भविष्यति। ह्यः अत्रत्यानां घोषप्रचारणं समाप्तम्। ८ मण्डलेषु मावोवादिनां शक्तं सान्निध्यमस्ति। तेभ्यः मतदानबहिष्करणभीषा वर्तमाना अस्ति। अवशिष्टेषु ७२ मण्डलेषु नवं. २० तमे मतदानप्रक्रिया सम्पत्स्यते।
    प्रथमसोपाने जनविधिं प्रतीक्ष्यमाणेषु १९० स्थानाशिषु मुख्यमन्त्री रमण्सिंहः प्रमुखः भवति। भा ज पा दलं कोण्ग्रस् दलं च अत्र प्रमुखौ प्रतिद्वन्दिनौ।

Saturday, November 10, 2018

कर्मराहित्यमानं संवत्सरद्वयस्य उच्चतमस्तरे।
   नवदिल्ली  >  भारते कर्मराहित्यं संवत्सरद्वयस्य उच्चतमस्तरं प्राप्तम्। भारतीय आर्थिकोपदेशकेन्द्रेण   [Center for Monitoring Indian Economy] प्रकाशितम् आवेदनपत्रमनुसृत्य २०१८ ओक्टोबर् मासे भारतस्य कर्मराहित्यमानं प्रतिशतं ६.९ अस्ति। गतवर्षे एतत् ६.७५% आसीत्।
   २०१८ ओक्टोबर् मासस्य गणनामनुसृत्य राष्ट्रे कर्मकराणां संख्या ३९.७ कोटिपरिमितमिति निर्णीतमस्ति। किन्तु गतवर्षस्य अस्मिन्नेव समये एषा संख्या ४०.७ कोटि परिमितम् आसीत्।  प्रतिशतं २.४ परिमितस्य न्यूनता जाता। संवत्सरद्वयपूर्वस्य मुद्रानिरासस्य अनन्तरफलमिति आवेदनपत्रे विशकलनं क्रियते।

Friday, November 9, 2018

'मृत्युः सुनिश्चितः,  किन्तु अन्तिमः सैनिकः अपि पाकिस्थानं प्रति युद्धं करिष्यति।'  प्रथम परमवीरचक्रजेतृणे राष्ट्रस्य प्रणामम् । 
-विशेषावेदनम्
    "पाकिस्थानस्य सेना अस्माकं समीपम् आगच्छति, मृत्युः सुनिश्चितः, किन्तु अस्मकं सैनिकेषु कोऽपि न प्रतिनिवर्तति। अन्तिमः सैनिकः अपि पाकिस्थानं प्रति युद्धं करिष्यति।" वीर मृत्यु स्वीकारात् पूर्वं 'मेजर् (विभाग नायकः) सोमनाथ शर्माणा स्वस्य उन्नताधिकारिणे प्रेषितः सन्देशः भवति अयम्। तस्य दृढनिश्चयस्य पुरतः, शक्तेः पुरतः भारतम् प्रणामम् अर्पयति।
     स्वतन्त्रताप्राप्त्यनन्तरं मासत्रयाभ्यन्तरे श्रीनगरविमाननिलयम् आक्रमितुम् उद्युक्तान् पाक् तीव्रवादिनः निवारणावसरे १९४७ तमे आसीत् तस्य वीरमृत्युःI पाक् सेना, तीव्रवादिनः च मिलित्वा उपसहस्रं युयुत्सवः एव विमाननिलयम् आक्रमितुम् आगताः। श्रीनगर विमान निलयस्य नष्टेन काश्मीरस्य नष्टः भविष्यति इति ज्ञातवान् सः युद्धमुखं प्रविश्य शत्रूणां मध्ये महानाशं वितरितवान्। पाकिस्थानस्य पुरतः स्वस्य राष्ट्रस्य मस्तकं कदापिऽ नम्रं मा भवतु इत्यासीत् तस्य अभिलाषः।  युद्धान्ते शत्रूणां महागोलिकाक्रमणेन सः हतवान् ।
     १९५० तमे भारतेन परमवीर-चक्रपुरस्कारेण सः  समादृतवान्।  तस्य बलिदान-दिनत्वेन नवंबर् मासस्य तृतीयदिनाङ्कः स्मर्यते। भारतसेनया दिनमिदं 'बड्गां' दिन्त्वेन समाचरते। तस्य दीप्तस्मृतौ बृहत्तमा नतिः।

Thursday, November 8, 2018

सैन्यबलेन आतङ्कद्वयं निषूदितम्
जम्‍मू-कश्‍मीरस्य शोपियांजनपदे सफनागरी-जैनापोराक्षेत्रे सुरक्षाबलानाम् आतङ्कवादिनां च मध्ये प्रवर्तिते सङ्घर्षे सुरक्षाबलेन आतङ्किद्वयं व्यापादितम् । सुरक्षासूत्रै: ज्ञापितं यत् घटनास्‍थलात् आयुधानि विस्फोटकानि चाधिगतानि इति। अपि चोक्तं यत् व्यापादितानाम् आतङ्कवादिनाम् अभिज्ञानप्रक्रिया प्रवर्तते, सममेव अन्वेषणाभियानमपि सन्ततं प्रवर्तते।
पाक् अधीन काश्मीरद्वारा चीना-पाक् बस्यानसेवनम् आरब्धम्- प्रतिषेधेन भारतम्।

       नवदिल्ली> भारतस्य प्रतिषेधान् विगणय्य पाकिस्थानाधीन काश्मीरद्वारा चना-पाक् बस्यान गतागतम् आरब्धम्I पाकिस्थानस्य लाहोरतः चीनस्य कषगर्यन्तं दूरे एव गतागतः रविवासरे समारब्धः। ३६ होरात्मकं यात्रा भवतीयम्। पाकिस्थानाधीन गिल् जित्-ब्लट्टिस्थान मण्डलयोः मार्गेण भवति गतागतमार्गः। अतः भारतेन शक्तः प्रतिषेधः प्रकाशितः आसीत् विदेश कार्यवक्त्रा रवीष्कुमारेण उक्तम्।
          नवम्बर् मासस्य तृतीयदिनाङ्के निश्चितः असीत् । किन्तु सुरक्षाशङ्कया तिथिः दीर्धीकृता आसीत्। एकस्मिन् पार्श्वस्य यात्रयै १३००० रूप्यकाणि भवति यात्रापत्रस्य मूल्यम्। उभयोः पार्श्वयोः आहत्य २३००० रूप्यकाणि एव।

Wednesday, November 7, 2018

हिमाप्लाविते केदारे सेबफलम् अन्विष्य कृषकाः।
         श्रीनगरम्> बृहदाकारके वृक्षे रक्तवर्णन सेवफलगुच्चाः काश्मीरदेशस्य  विशेषता आसीत्‌ I किन्तु इदानीं तत्रत्यानां दृश्यानि दुःखमयानि एव।अतिकठिनया हिमपातेन कृषिनाशः अभवत्। अकाले आगतः शैत्यकालः कृषकाणं जीवनं दुरिते अपातयत्।
         एकस्मिन् दिनेन एव कृषकाः दुरिते पतिताः। केषाञ्चनानां केदाराः सम्पूर्णातया हिमपातेन लग्नाः। संवत्सराणां परिश्रमेण संवर्धिताः सेवफलवृक्षाः भग्नाः ।   रविवासरे आसीत् सानुप्रदेशे हिमपातः। वार्ताविनिमयसुविधाः गतागतः वैद्युतीबन्धः च स्थगिताः। आधारसुविधाः पुनर्निर्मीय जनाः सामान्यजीवनं प्रति प्रत्यागच्छन्ति। किन्तु तेषां जीवनोपाधिः प्रत्यागन्तुं संवत्सराः प्रतिपालनीयाः। नूतनवृक्षाः रोपयित्वा फलागमाय षोडशवर्षाणि आवश्यकानि इत्येव कष्टतायाः व्याप्तिः संवर्ध्यते। ५०० कोटिरूप्यकेभ्यः उपरि नष्टाः अभवन् इति काश्मीर चेम्बर आफ् कोमेर्स् संस्थया निर्णीता।
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
        नमस्ते, सर्वेभ्य: मित्रेभ्य: दीपावल्या: नैका: शुभकामना:। संस्कृतप्रचारकार्येषु अग्रेसरी, सर्वेषु राज्येषु सर्वेषु जनपदेषु च आरब्धकार्या संस्कृतभारती सर्वेषां संस्कृतानुरागिणाम् अस्माकं प्रतिनिधिभूता। अस्माभि: सर्वै: सम्भूय कार्यं करणीयम् इत्यत: वयं भाविनि काले संस्कृतभारत्या: नाम्ना कार्यं कुर्याम। एकैक: अपि संस्कृतज्ञ: स्वीयाम् एव काञ्चित् संस्कृतप्रचारपरिषदं यदि आरभेत तर्हि प्रतिनगरं दश परिषद: भवेयु:। ता: संस्थाभिनिवेशेन परस्परं कलहायमाना: सत्य: पुन: संस्कृतकार्यं किमपि साधयितुं न शक्नुयु:। अत: संस्कृतभारत्या: नाम्ना कार्यं कुर्याम। तस्या: संस्कृतभारत्या: विविधकार्याणां कृते सर्वेण अपि समय: दातव्य:। मित्राणि, किं भवत: स्थाने संस्कृतभारत्या: कार्यम् अस्ति? नास्ति चेत् किं प्रारम्भ: कर्तुम् इष्यते? कार्ये सहभाग: इष्यते? 'आम्' इति चेत् संस्कृतभारत्या: सम्पर्कं कुर्वन्तु। जयतु संस्कृतम् जयतु भारतम् । 
'चित्रा आट्टविशेषपूजा'  समाप्ता।
शबरीशमन्दिरं पिहितम् ; मण्डलोत्सवाय नवंबर. १६ तमे पुनरुद्घाट्यते। 
  शबरिगिरिः  >  सङ्घर्षभरितानां होराणां मध्ये एकदिनात्मिकां चित्रा आट्टविशेषपूजां समापयित्वा शबरिगिरीशमन्दिरं ह्यः रात्रौ 'हरिवरासन'गानालापनेन पिहितम्। तिरुवितांकूर् देशस्य महाराजत्वेन प्रशोभितस्य 'श्री चित्रा तिरुन्नाल् बालरामवर्मा' नामकस्य जन्मनक्षत्रसम्बन्धी पूजा भवत्येषा। 
   सन्निधानं प्रति युवतीप्रवेशं निरोद्धुं सहस्रशानां विश्वासिजनानां प्रतिषेधनामजपैः मुखरितमासन् पम्पा  सन्निधानादयः मन्दिरपरिसरप्रदेशाः। असाधारणः जनसम्मर्दः अन्वभवत्। सर्वोच्चन्यायालयस्य विधिमनुसृत्य दर्शनार्थम् आगच्छन्तीनां महिलानां संरक्षणाय सुविधाप्रदानाय च २५०० अधिकाः रक्षिपुरुषाश्च एषु प्रदेशेषु विन्यस्यन्ते स्म।  
   अस्य संवत्सरस्य मण्डलोत्सवकालः नवं. २७ [वृश्चिकमासस्य प्रथमं दिनम्] दिनाङ्कादारभ्य डिसं. २७ पर्यन्तमस्ति। तदर्थं मन्दिरं नवं. १६ सायं उद्घाटयिष्यति। नूतनेन चितानां मुख्यार्चकानाम् अवरोधनकार्यक्रमाणि तद्दिने भविष्यन्ति। ते एव परेद्युः आरभ्य  पूजादिकं निर्वक्ष्यन्ति।

Tuesday, November 6, 2018

हरिप्रसाद्‌ कटम्पूपूर् वर्याय कवितालेखने पुनरपि सम्मानन प्राप्तिः
  त्रिशिवपेरुरः> संस्कृत -दिनाचरणसंबन्धतया केरलस्य शिक्षाविभागेन आयोजितायां कवितारचनास्पर्धायां हरिप्रसाद् कटम्पूपूरः सम्मानितः। एषः तिरुवङ्ङाट् ग्रामस्थ बालिका उच्चविद्यालये संस्कृतशिक्षकः भवति। गतपञ्चवर्षेाणि यावत् कवितारचनायां एषः भागभाक् आसीत्  तस्मिन् चतुर्वारं प्रथमस्थानं प्राप्तवानासित्। 
'अरिहन्ता' प्रवर्तनक्षमः ; अाणवायुधे भारतस्य त्रितलशक्तिः।  
  नवदिल्ली   >  आणवायुधबालिस्टिक् मिसैल् नामकम् आयुधं वोढुं शक्तियुक्ता भारतस्य प्रथमा निमज्जिनिमहानौका 'ऐ एन् एस् अरिहन्त्' नामिका , तस्याः पर्यटनं विजयकरेण पूर्तीकृतवती। दीर्घदूरबालिस्टिक् मिसैल् विक्षिप्तुं शेषियुक्ता भारतस्य प्रथमा  अण्वायुधयुक्ता निमज्जिनीमहानौका भवति 'अरिहन्ता'। 
    पूर्णतया जलान्तर्भागे तिष्ठन् प्रवर्तनक्षमः अरिहन्ता समुद्रे यत्रकुत्रापि स्थित्वा विक्षेपिणीशस्त्रं प्रयोक्तुं तथा  चिरकालं निलीय स्थातुं च  शक्तः च भवति। अरिहन्ता प्रवर्तनक्षमः सन् स्थलजलाकाशेभ्यः अण्वायुधं प्रयोक्तुं भारतस्य त्रितलशेषिः सम्प्राप्तः। 
    अनेन यू  एस् , रष्या, फ्रान्स् ,  चैना , ब्रिटेन् इत्येतेषां राष्ट्राणां पट्टिकायां भारतमपि अन्तर्भविष्यति।  अस्य लक्ष्यप्राप्तेः पूर्वपीठिकायां प्रवर्तितान् सर्वान् प्रधानमन्त्री नरेन्द्रमोदी , रक्षामन्त्रिणी निर्मला सीतारामः  , गृहमन्त्री राजनाथसिंहः इत्यादयः अभिनन्दितवन्तः।